अथ पञ्चत्रिशः सर्गः ।। ३५ ।।
रामसेनारणभेरीशङ्खरवश्रवणखिन्नेनरावणेन सभायांमन्त्रिणःप्रति तदानीमपितेषा मौदासीन्यस्यानौचित्योक्त्यागर्हणम् ॥ १ ॥ माल्यवतारावणंप्रति शास्त्रोदितनीतिप्रदर्शनपूर्वकं विपत्सूचकापशकुननिवेदनेन रामेणसंधानविधानम् ॥ २ ॥
तेन शङ्खविमिश्रेण भेरीशब्देन राघवः ।
उपयाति महाबाहू रामः परपुरञ्जयः ।। १ ।।
अथ माल्यवदुपदेशः पञ्चत्रिंशे–तेनेति ॥ शङ्खविमिश्रेण शङ्खशब्दविमिश्रेण । उपयाति उपाययौ ।। १ ॥
तं निनादं निशम्याथ रावणो राक्षसेश्वरः ।
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ।। २ ।।
ध्यानमास्थाय किं मयेदानीं कर्तव्यमिति ध्यानं कृत्वेत्यर्थः ॥ २ ॥
अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः ।
सभां संनादयन्सर्वामित्युवाच महाबलः ।
जगत्संतापनः क्रूरो गर्हयन्राक्षसेश्वरः ।। ३ ।।
आभाष्य संबोध्य । सभां आस्थानमण्डपं । उदीक्षणाशयमुद्घाटयति गर्हयन्निति । गर्हयनुवाच गर्हात्मिकांवाचमुवाचेत्यर्थः ॥ ३ ॥
तरणं सागरस्यापि विक्रमं बलसञ्चयम् ।
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ।। ४ ।।
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान् ।
तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ।। ५ ।।
गर्हाप्रकारमाह श्लोकद्वयेन – तरणमिति ॥ तूष्णीकान् तूष्णींशीलान् । शीले को मलोपश्च इति कप्रत्ययोमलोपश्च । तूष्णींशीलस्तु तूष्णीक: इत्यमरः । निरुत्साहानित्यर्थः ॥ ४ – ५ ॥
ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः ।
रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ।। ६ ।।
पितामहस्य पुत्रः पैतामहः पितृव्य इत्यर्थः । कैकसी सुमालिपुत्रीत्युत्तररामायणे -भिधानान्माल्यवतस्तद्भातृत्वाच्च पितामहशब्दस्य नियतसापेक्षत्वान्नासामर्थ्यदोषः । पितेत्यर्थइत्येके । वृद्धो मातामहोऽब्रवीदिति कचित्पाठः ॥ ६ ॥
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः ।
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ।। ७ ।।
नीतिमार्गपर्यालोचनायां बलवता रामेण संधि: करणीय इत्यभिप्रायेण प्रथमं नयस्य श्रेयोहेतुत्वं दर्शयति — विद्येति ॥ विद्यासु आन्वीक्षिकीत्रयीवार्तादण्डनीत्याख्यासु चतसृषु विद्यासु । अभिविनीतः अभितः शिक्षितः । अतएव नयानुगः नीतिशास्त्रानुसारी योराजा सः चिरं ऐश्वर्यं ईश्वरत्वं । शास्ति अधितिष्ठति । तमिममर्थं विशदमुक्तवान्कामन्दक: – आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः । तद्विद्भिस्तत्क्रियोपेतैश्चिन्तयोद्विनयान्वितः ॥ आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥ विद्याश्चतस्र एवैता योगक्षेमाय देहिनाम् । विद्याविनीतो नृपतिर्न । कृच्छ्रेष्ववसीदति इति ।। ७ ॥
सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह ।
स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते ।। ८ ।।
नयानुग इत्युक्तं तत्र नयस्वरूपमाह – संदधान इति ॥ कालेन स्वबलक्षयकालेन । संदधानः संधानं कुर्वन् । स्वबलवृद्धिकालेन विगृहन् । विग्रहं कुर्वन् । ऐश्वर्येच्छुना कालानुरूपं संधिविग्रहौ कार्यावित्यर्थः । एवं कुर्वतः फलमाह – स्वपक्षेति ॥ ८ ॥
हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च ।
न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम् ।। ९ ।।
संधेर्विग्रहस्य च कालं विविच्य दर्शयति–हीयमानेनेति ॥ हीयमानेन हीयमानबलेन । समेन समबलेन च राज्ञा स्वशत्रुणा सह संधि : कर्तव्यः । ज्यायान् अधिकबलस्तु । शत्रुं नावमन्येत नोपेक्षेत । किंतु तेन सह विग्रहं कुर्वीत । हीयमानः समः संधिं कुर्यात् । अधिको विग्रहं कुर्यादित्यर्थः ॥ ९ ॥
तन्मह्यं रोचते सन्धिः सह रामेण रावण ।
यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम् ।। १० ।।
अस्त्वेवं प्रस्तुते किमुपन्यस्तं तत्राह – तदिति ॥ तत् तस्मात् । एवं नीतिशास्त्रस्थिते: हीयमानस्य तव बलवता रामेण संधिर्मह्यं रोचत इत्यर्थः । बलवता संधिर्दानेन विना न फलति । तच्च सीताप्रत्यर्पणादेव सेत्स्यतीत्याह – यदर्थमिति । यदर्थं अभियुक्ताः स्म विरुद्धाः स्म । सा सीता तस्मै रामाय प्रदीयतां ॥ १० ॥
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः ।
विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् ।। ११ ।।
कथं रामस्य बलवत्त्वं तत्राह – यस्येति ॥ देवाश्च ऋषयश्च देवर्षयः । ते तुभ्यं । रामस्य देवबलवत्त्वात् बलवत्वमित्यर्थः ॥ ११ ॥
असृजद्भगवान्पक्षौ द्वावेव हि पितामहः ।
सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ।। १२ ।।
देवादीनां रामजयकाङ्क्षित्वे को हेतुरित्याशय देवादीनां धर्मपक्षपातित्वाद्धर्मस्य रामाश्रयत्वादित्यभिप्रेत्याह- असृजदित्यादिना ॥ भगवान् सर्वज्ञः पितामहः । हि यस्मात् । सुराणां असुराणां च । पक्षौ अवलम्बभूतौ । द्वावेव धर्माधर्मौ । असृजत् । अतः धर्माधर्मौ तदाश्रयौ सुरासुराश्रयौ । असुरशब्देनात्रासुरप्रकृतयो राक्षसादयश्च विवक्षिताः ॥ १२ ॥
धर्मो हि श्रूयते पक्षो ह्यमराणां महात्मनाम् ।
अधर्मो रक्षसां पक्षो ह्यसुराणां च रावण ।। १३ ।।
अनयोः कतरः केषां पक्ष इत्यत्राह — धर्मो हीति ॥ महात्मनामिति हेतुगर्भविशेषणं । महास्वभावानामित्यर्थः । समीचीनप्रकृतीनामितियावत् । अमहात्मनामित्यसुरादिविशेषणं चार्थसिद्धं । तथाच धर्मस्य देवपक्षत्वाद्रामस्य तदाश्रयत्वाद्देवादयो रामपक्षपातिन इतिभावः ॥ १३ ॥
धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम् ।
अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ।। १४ ।।
एवं देवादिपक्षपाताद्रामस्य बलीयस्त्वमुपपाय धर्मस्य प्राबल्यादपि तदाह — धर्म इति । अत्र यदेतिशेषः । धर्मः अधर्म यदा ग्रसते अभिभवति । तदा कृतं युगं अभूत् भवति । पुरुषेषु प्रवर्तते । आर्ष : कालव्यत्ययः । अधर्मो यदा धर्म ग्रसते तदा तिष्यः कलिः । प्रवर्तते । तिष्य: कलौ च पुष्ये च इत्यमरः ॥ १४ ॥
तत्त्वया चरता लोकान्धर्मो विनिहतो महान् ।
अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ।। १५ ।।
ततः किमित्यपेक्षायां त्वय्यधर्मेण कले: प्रवेशात्कृतापेक्षया कलेर्दुर्बलत्वादस्मदपेक्षया रामो बलवानित्याह – तदिति ॥ लोकान् चरता दिग्विजयार्थमिति शेषः । विनिहतः । परदारपरि ग्रहार्थमिति शेषः । अस्मदिति पञ्चमीबहुवचनं । परे शत्रवो रामादयो धार्मिका: । यद्वा कृतं युगमिति शब्दसमुदायेन शुभं लक्ष्यते । तिष्य इत्यनेनाशुभं । यदा धर्म: अधर्मं ग्रसते तदा शुभं भवति । यदा अधर्मो धर्म ग्रसते तदा अशुभं भवतीत्यर्थः । एवं भवतु मया किं कृतमित्याह – तदिति ॥ तत् धर्माधर्मयोरेवंरूपत्वात् । त्वया शुभहेतुर्धर्मो विनिहतः अशुभहेतुरधर्मश्च परिगृहीतः । तेन पराजयरूपाशुभहेत्वधर्मकृद्भ्योस्मत्जयरूपशुभहेतुधर्मपरा: परे बलिन इत्यर्थः ॥ १५ ॥
स प्रमादाद्विवृद्धस्तेऽधर्मोऽभिर्ग्रसते हि नः ।
विवर्धयति पक्षं च सुराणां सुरभावनः ।। १६ ।।
अधर्मं स्वीकृत्य धर्मे निहते तेषां सुराणां बलवत्त्वं कथमित्याशयाधर्मस्याश्रयना -शकत्वादित्यभिप्रायेणाह- स इति ॥ सः अधर्मः । ते प्रमादात् अविमृश्यकरणात् । विवृद्धः । नः अस्मान् । ग्रसते नाशयति । सुरभावनः सुरानुकूल: सन् सुराणां पक्षं विवर्धयति ॥ १६ ॥
विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया ।
ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ।। १७ ।।
स्वकृतस्याधर्मस्य सुरपक्षवृद्धिहेतुत्वं कथमित्याशङ्क्य ऋषीणामुद्वेगजननद्वाराऽधर्म -प्रवर्तकत्यादित्याह-विषयेष्विति ॥ विषयेषु प्रसक्तेन अतएव यत्किञ्चित्कारिणा देवर्षिप्रमुखानां कन्यापत्नीहरणादिकं कुर्वता । ऋषीणामुद्वेग: मनस्तापः । जनितः कृतः ॥ १७ ॥
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ।
तपसा भावितात्मानो धर्मस्यानुग्रहे रताः ।। १८ ।।
अग्निकल्पत्वमुपपादयति – तेषामिति । उद्वेगात्किं कृतवन्तस्तत्राह – तपसेति ॥ भावितात्मानः पूतात्मानः । धर्मस्यानुग्रहे संवर्धने । रताः ॥ १८ ॥
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः ।
जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते ।। १९ ।।
मुख्यैः श्रेष्ठैः। तैस्तैः अग्निष्टोममारभ्य विश्वसृजामयनपर्यन्तैः : । अग्नानुद्दिश्य जुह्वति होमं कुर्वन्ति । देवतोद्देशेन द्रव्यत्यागो यागः । त्यक्तस्याग्नौ प्रक्षेपो होम इत्यनयोर्भेदः ॥ १९ ॥
अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् ।
दिशोपि विद्रुताः सर्वे स्तनयित्नुरिवोष्णगे ।। २० ।।
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः ।
आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश ।। २१ ।।
तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः ।
चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ।। २२ ।।
अभिभूय अगणयित्वा । ब्रह्मघोषान् उदैरयन् । उच्चारयन्ति स्म । वेदांश्चोचैरधीयत इत्यस्य विवरणमिदं । तपःप्रभृतिकर्मणः फलमाह — दिश इत्यादिना सर्वा दिशःप्रतिविद्रुताः । राक्षसा इतिशेषः । उष्णगे ग्रीष्मे । स्तनयित्नुरिव मेघ इव । जातावेकवचनं ॥ २० – २२ ।।
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ।। २३ ।।
बलिनोपि देवाः ब्रह्मदत्तवरमहिम्ना न प्रहर्तुं शक्नुयुरिति चेत्तत्राह—देवदानवेत्यादिना देवदानवयक्षेभ्य एवावध्यत्ववरो गृहीतः । न तु मानुषादिभ्य इति भावः ॥ २३ ॥
मानुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः ।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ।। २४ ।।
तर्हि किमायातमित्यत्राह – मानुषा इति ॥ द्वयोरपि बहुवचनं पूजायां । महाबला महासैन्या: । इह लङ्कायां ॥ २४ ॥
उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा ।
विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ।। २५ ।।
न केवलं परागमनेन किं त्वशुभनिमित्तदर्शनेनापि भयमुत्प्रेक्ष्यमित्याह – उत्पातानिति ॥ उत्पातान् विविधान् दिव्यान्तरिक्षभौमभेदभिन्नान् । बहुविधान् भौमादिषुप्रत्येकंविविधान् । अनुपश्यामि तर्कयामि ।। २५ ।।
खराभिस्तनिता घोरा मेघाः प्रतिभयङ्करः ।
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ।। २६ ।।
खराभिस्तनिताः परुषगर्जिताः । घोराः विरूपाः । प्रतिभयंकराः । प्रतीत्युपसर्गमात्रं । भयंकरा इत्यर्थः ॥ २६ ॥
रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः ।
ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथा पुरा ।। २७ ।।
ध्वस्ताः धूसरा: । अतएव विवर्णाः विगतवर्णाः ॥ २७ ॥
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम् ।
प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ।। २८ ।।
व्याला: दुष्टाः । वाश्यन्ति वाशितं कुर्वन्ति । कुत्सितस्तं कुर्वन्तीत्यर्थ: । समवायान् सङ्घान् ॥ २८ ॥
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ।। २९ ।।
कालिका: नीलवर्णाः स्त्रियः । पूतनाप्रमुखा इति यावत् । शक्तय इत्येके । पाण्डुरैर्दन्तैरुपलक्षिताः सत्यः । प्रतिभाष्य प्रतिकूलमाभाष्य । गृहाणि गृहस्थितवस्तूनि । मुष्णन्त्यः हसन्ति । एवं दृश्यन्त इत्यर्थः ॥ २९ ॥
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते ।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ।। ३० ।।
बलिकर्माणि बलिकर्मसाधनानि हवींषि नकुलै: सह । वर्तन्तइतिशेष: ॥ ३० ॥
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह ।
किंनरा राक्षसैश्चापि समीयुर्मानुषैः सह ।। ३१ ।।
समीयुः संयन्ति । द्वीपिभिः व्याघ्रैः । मानुषैः । राक्षसा इति शेषः । मानुषाश्चात्रोत्पातजनिता एव ॥ ३१ ॥
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
राक्षसानां विनाशाय कपोता विचरन्ति च ।। ३२ ।।
कालचोदिताः दैवप्रेरिताः । विनाशाय विनाशसूचनायेत्यर्थः । वाताय कपिला विद्युत् – इत्यादिवत् । कपोताः कपोताख्या विहङ्गा इत्यन्वयः ॥ ३२ ॥
वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः ।। ३३ ।।
वेश्मसु मधुरसंल्लापार्थं पोषिताः शारिकाः । मधुरभाषणानि विहाय वीचीकूचीति क्रूरं वाश्यन्तीत्यर्थः ॥ ३३ ॥
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः ।
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च ।। ३४ ।।
पक्षिणः काकादय: । मृगाच पूर्वं निर्जिता अपि पुनः कलहैषिणः सन्तः । ग्रथिताः पुञ्जीभूताः । पतन्ति धावन्ति । प्रत्यादित्यं रुदन्ति चेत्यन्वयः ॥ ३४ ॥
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।
कालो गृहाणि सर्वेषां कालेकालेऽन्ववेक्षते ।। ३५ ।।
[ अहं त्वेतत्प्रपश्यामि युध्यतां तु दिनेदिने ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ।
सर्वं नष्टप्रभं मन्ये सैन्यं त्वगेहमाश्रितम् ।। ३६ ।। ]
कराल: भयंकरः । विकट विकटाङ्गः । विकल इति पाठे हीनाङ्ग इत्यर्थः । परुषः परुषवर्ण: । काल: मृत्युः । कालेकाले सायं प्रातश्च । गृहाण्यन्ववेक्षते । अन्वीक्षमाण इव दृश्यत इत्यर्थः ॥ ३५-३६ ॥
एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च ।
ज्ञात्वा प्रधार्य कार्याणि क्रियतामायतिक्षमम् ।। ३७ ।।
[ विष्णुं मन्यामहे रामं मानुषं रूपमास्थितम् ।
न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः ।। ३८ ।।
येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः ।
कुरुष्व नरराजेन सन्धिं रामेण रावण ।। ४९ ।। ]
अद्य प्रतिनिविष्टेन हितमुक्तं निशाचर ।
सीतार्थं ते महाप्राज्ञ महद्भयमुपस्थितम् ।
तथेमान्यनिमित्तानि लक्षये राक्षसेश्वर ।। ४० ।।
एतानि ज्ञात्वा कर्माणि कर्तव्यानि । प्रधार्य निर्धार्य । यत् आयतिक्षमं उत्तरकालार्हं । तत्क्रियतां । कर्माणि च सीताप्रदानादीनि ॥ ३७–४० ॥
इदं वचस्तत्र निगद्य माल्यवन्परीक्ष्य रक्षोऽधिपतेर्मनः पुनः ।
अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ।। ४१ ।।
स तद्वचो माल्यवता प्रभाषितं दशाननो न प्रतिशुश्रुवे तदा ।
भृशं जगर्हे च सुदुष्टमानसो मुमूर्षुरत्युच्चवचांस्युदीरयन् ।। ४२ ।।
अनुत्तमेषु मन्त्रिश्रेष्ठेषु । उत्तमपौरुषो माल्यवान् । इदं वचः । तत्र सभायां । निशम्य श्रावयित्वा । अन्तर्भावितण्यर्थोयं । रावणं रावणाकारं । समवेक्ष्य इङ्गितादिदर्शनपुरःसरं दृष्ट्वा रक्षोधिपतेर्मनः परीक्ष्य अनिवर्त्यं ज्ञात्वा तूष्णीं बभूव । उपदेशाद्विररामेत्यर्थः ॥ ४१-४२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चस्त्रिंशः सर्गः ॥ ३५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्ड- व्याख्याने पञ्चन्त्रिंशः सर्गः ॥ ३५ ॥