श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः
राक्षसैर्वानरसेनाकृतलङ्काद्वारनिरोधनंनिवेदितेनरावणेन प्रासादारोहणेन तत्सेनावलोकनम् ॥ १ ॥ उच्चप्रदेशारोहणेन लङ्कामवलोकयतारामेण सीतास्मरणेन -शोचनपूर्वकं वानरान्प्रतियुद्धचोदना ॥ २ ॥ ततोरावणचोदितराक्षसानां वानराणांच युद्धारंभः ॥ ३ ॥
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ॥ १ ॥
अथ युद्धारम्भो द्विचत्वारिंशे – तत इति ॥ तत्र तस्मिन्काले ॥ १ ॥
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं सोध्यरोहत ॥ २ ॥
विधानं रक्षणविधिं । द्विगुणं पूर्वस्मादधिकं ॥ २ ॥
स ददर्शावृतां लङ्कां सशैलवनकाननाम् ।
असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ ३ ॥
स इति । सर्वत आवृतामित्यन्वयः ॥ ३ ॥
स दृष्ट्वा वानरैः सर्वां वसुधां कबलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ ४ ॥
कबलीकृतां आच्छादितां । कपिलीकृतामितिपाठे वानरवर्णेन कपिलीकृतां । क्षपयितव्याः नाशयितव्याः । एत इति शेषः ॥ ४ ॥
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥ ५ ॥
आयतलोचन इत्यनेन विस्मयातिशय उच्यते ॥ ५ ॥
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ ६ ॥
पुप्लुवे नाम पूर्वस्थानात् प्राकारसन्निकृष्टं प्रदेशं प्राप्त इत्यर्थः ॥ ६ ॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ।। ७ ।।
दूयमानेनेति । सीतां स्मृत्वा दुःखितोभूदित्यर्थः ॥ ७ ॥
अत्र सा मृगशाबाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ।। ८ ।।
मृगशाबाक्षीत्यनेन शोकानर्हत्वमुच्यते । स्थण्डिलशायिनी भूतलशायिनी ॥ ८ ॥
पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयामास वानरान्द्विषतां वधे ॥ ९ ॥
पीड्यमानां राक्षसीभिरिति शेषः । धर्मात्यनेन दयालुत्वमुच्यते ॥ ९ ॥
एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा ।
संघर्षमाणाः प्लवगाः सिंहनादैरनादयन् ॥ १० ॥
वचने आज्ञापनरूपे । सङ्घर्षमाणाः स्पर्धमानाः । अनादयन् लङ्कामितिशेषः ॥ १० ॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ ११ ॥
विकिराम चूर्णयाम । मनांसि दधिरे निश्चयं चक्रुरित्यर्थः ॥ ११ ॥
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च ।
तरूंथोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥१२॥
शिखराणि पर्वतखण्डान् । शिखरं शैलखण्डमिति संग्रहकारः । तिष्ठन्ति अतिष्ठन् ॥ १२ ।।
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघव प्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ १३ ॥
प्रेक्षतः प्रेक्षमाणमनादृत्य । तान्यनीकानि वानरानी कानि । भागशः स्वस्वनियुक्तप्रदेशे । लङ्कां लङ्काप्राकारं । राघवप्रियकामार्थं रामप्रीतिसिद्ध्यर्थमित्यर्थः ॥ १३ ॥
ते ताम्रवक्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ॥ १४ ॥
व्यक्तजीविता: आशंसायां भूतवच्च इति क्तः ॥ १४ ॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः ।
प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ॥ १५ ॥
परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ १६ ॥
अरण्यानि उद्यानानि । तोरणानि बहिर्द्वाराणि ममन्थुः बभञ्जुरित्यर्थः ॥ १५-१६ ॥
ततः सहस्रयूथाश्च कोटियूथाश्च वानराः ।
कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ १७ ॥
कोटीशतयुताः कोटीशतयूथयुताः ॥ १७ ॥
काञ्चनानि प्रमृद्गन्तस्तोरणानि लवङ्गमाः ।
कैलासशिखराभाणि गोपुराणि प्रमथ्य च ॥ १८ ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ १९ ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ २० ॥
काञ्चनानीत्यादिश्लोकद्वयं । काञ्चनानि काञ्चनकृतानि । प्रमृगन्त: चूर्णयन्तः । आप्लवन्तः प्लवन्तश्च गमनागमने कुर्वन्तः ॥ १८-२० ॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ २१ ॥
घोषयन्तः घुष्यन्तः । गर्जन्तः सिंहनादं कुर्वन्तः ।। २१ ।।
वारबाहुः सुबाहुश्च नलश्च वनगोचरः ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ २२ ॥
वीरवाहुरित्यादि सार्धश्लोक एकान्वयः ॥ एतस्मिन्नन्तरे प्रसिद्धाः वीरबाह्वादयः प्राकारं निपीड्योपनिविष्टाः सन्तः । स्कन्धावारस्य शिबिरस्य । निवेशनं निर्माणं । चक्रुः । युद्धेन्तरान्तरा विश्रमार्थं वासस्थानं स्कन्धावारः । यद्वा व्यूहीभावेन सेनास्थापनं स्कन्धावारः ॥ २२ ॥
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः ।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ २३॥
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः ।
पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ॥ २४ ॥
निवेशनप्रकारमेवाह – पूर्वद्वारमित्यादिना ॥ कुमुदः पूर्वद्वारमावृत्य तस्थौ । ईशानकोणे स्थित्वा पूर्वद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २३-२४ ॥
दक्षिणं द्वारमागम्य वीरः शतबलिः कपिः ।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ २५ ॥
शतबलि: दक्षिणद्वारमावृत्य तस्थौ । आग्नेयकोणे स्थित्वा दक्षिणद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २५ ॥
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः ।
आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ॥ २६ ॥
सुषेण: पश्चिमद्वारं गतः आवृत्य तस्थौ । नैर्ऋतकोणे स्थित्वा पश्चिमद्वारमाक्रम्य स्थितवानित्यर्थः ॥ २६ ॥
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह ।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ २७ ॥
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २८॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ २९ ॥
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।
वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ॥ ३० ॥
सुग्रीव चोत्तरं द्वारमावृत्य तस्थौ । पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः इत्युक्तप्रकारेण वायव्यकोणे स्थितस्य सुग्रीवस्य उत्तरद्वारनिरोधकत्वाभिधानादेतदनुसारेण कुमुदादीनां तत्तत्कोणावस्थितत्वेन तत्तद्वारनिरोधकत्वमिति व्याख्यातं ॥ २७–३० ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
समन्तात्परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ ३१ ॥
गजो गवाक्ष इति ॥ रामपार्श्वस्थात् गवाक्षादन्यो ज्ञेयः ।। ३१ ।।
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ ३२ ॥
ततः वानरसेनासन्निवेशाद्धेतोः । तदा तस्मिन्सन्निवेशकाले ।। ३२ ।।
एतच्छ्रुत्वा तंतो वाक्यं रावणस्य मुखोद्गतम् ।
सहसा भीमनिर्घोषमुद्धुष्टं रजनीचरैः ॥ ३३ ॥
भीमनिर्घोषं यथा भवतितथा उद्धृष्टं । उच्चैः सिंहनादः कृत इत्यर्थः ।। ३३ ।।
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ।
हेमकोणाहता भीमा राक्षसानां समन्ततः ॥ ३४ ॥
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ ३५ ॥
प्रचोदिता: सेनाग्रे प्रेरिताः । चन्द्रपाण्डुरपुष्कराः चन्द्रशुभ्रमुखाः । संमार्जनसंस्कारविशेषेण तासां शुभ्रत्वं । पुष्करं करिहस्ताग्रे बाद्यभाण्डमुखे जले इत्यमरः । कोणो । वाद्यताडनदण्डः । विनेदुरित्यनुकर्षः । अथवा प्रचोदिताः सस्वनुरित्यर्थः ॥ ३४ – ३५ ॥
वे बभ्रुः शुभनीलाङ्गाः सशङ्खा रजनीचराः ।
विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ॥ ३६॥
शुभनीलाङ्गा: आभरणप्रभाभिः शोभमानानि नीलानि चाङ्गानि येषां ते । अतएव विद्युन्मण्डलसन्नद्धा इति नाधिकोपमा । विद्युन्मण्डलसन्नद्धा इत्युपमानविशेषणेनोपमेयेषु राक्षसेषु सभूषणत्वं गम्यत इत्यप्याहुः ।। ३६ ।।
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।
समये पूर्यमाणस्य वेगा इव महोदधेः ॥ ३७ ॥
सैन्याः सेनायां समवेता जनाः । सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते इत्यमरः । समये प्रलये । चन्द्रोदये वा । वेगा: पूराः ॥ ३७ ॥
ततो वानरसैन्येन मुक्तो नादः समन्ततः ।
मलयः पूरितो येन ससानुप्रस्थकन्दरः ॥ ३८ ॥
मलयः त्रिकूटः । सः प्रसिद्धः । सानुप्रस्थकन्दर: अनुप्रस्थं प्रस्थे प्रस्थे स्थिताः याः कन्दरास्ताभि: सह वर्तत इति विग्रहः । यद्वा सानुः वप्रः प्रस्थः तट: कन्दरा गुहेत्यर्थः । सानु: महाप्रस्थः प्रस्थः क्षुद्रतटः कन्दरः दरी तैः सह वर्तत इति ससानुप्रस्थकन्दर इत्याहुः ॥ ३८ ॥
शङ्खदुन्दुभिसंघुष्टः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ॥ ३९ ॥
गजानां बृंहितैः सार्धं हयानां हेषितैरपि ।
रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ॥ ४० ॥
शङ्खदुन्दुभीत्यादिश्लोकद्वयं ॥ शङ्खदुन्दुभिसंघुष्टः शङ्खदुन्दुभिसंघोषयुक्तः । तरस्विनां बलवतां । सिंहनादः गजबृंहितादिभिः सह पृथिव्यादिकं नादयन् अनादयत् ।। ३९—४० ।।
एतस्मिन्नन्तरे घोरः संग्रामः समवर्तत ।
रक्षसां वानराणां च यथा देवासुरे पुरा ॥ ४१ ॥
ते गदाभिः प्रदीप्ताभिः शक्तिशूल परश्वधैः ।
निजध्रुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ॥४२ ॥
देवासुरे यथा देवासुरविरोधे देवानामसुराणामिवेत्यर्थः । यद्वा षष्ठीबहुवचनस्य सुपां सुलुक् — इत्यादिना शेआदेश: ॥ ४१ – ४२ ॥
राजी जयति सुग्रीव इति शब्दो महानभूत् ॥ ४३ ॥
राजेत्यर्धं ॥ स्पष्टं ॥ ४३ ॥
राजञ्जयजयेत्युक्त्वा स्वस्वनामकथान्ततः ।
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ॥
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।। ४४ ।।
राजन्नित्यादिसार्धश्लोकः ॥ स्वस्वनामकथान्तत इति । नामकथां चोक्त्वा ततो निजघ्नुरित्युत्तरत्रान्वयः । नामकथानां अन्ततः अन्ते इति वा योजना । वेगिता: सजातवेगाः । वेपिता इति पाठे कोपेन कम्पमाना इत्यर्थ: ॥ ४४ ॥
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् ।
भिण्डैपालैश्च खङ्गैश्च शूलैश्चैव व्यदारयन् ॥४५ ॥
भिन्दिपालैः गदाभेदैः ॥ ४५ ॥
वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीगताः ।
राक्षसान्पातयामासुः समाप्लुत्य प्लवङ्गमाः ॥ ४६ ॥
समाप्लुत्य प्राकाराग्रपर्यन्तमुत्पत्य । प्लवनं श्रुतगतिं गच्छन्तीति लवङ्गमाः । असंज्ञायामपि खशार्ष: । अनेन प्लुतगतिमत्त्वमुक्तं । अतो न वानरशब्देन पुनरुक्तिः ॥ ४६ ॥
स संप्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥ ४७ ॥
[ वनौकसां तत्र भृशं निनादो लङ्कागतानां च निशाचराणाम् ।
प्रक्ष्वेडितास्फोटितसिंहनादैर्द्वाभ्यां गताभ्यामिव सागराभ्याम् ॥ ४८ ॥ ]
संप्रहार: युद्धं । तुमुलः परस्परसंकुल: । मांसशोणितान्येव कर्दमो यस्मिन् स मांसशोणितकर्दमः । अद्भुतोपमः दुर्लभोपम इति यावत् ॥ ४७ – ४८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥