57 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तपञ्चाशः सर्गः ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः । विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ।। 1.57.1 ।। स दक्षिणां दिशं गत्वा महिष्या सह राघव । तताप परमं घोरं विश्वामित्रो महत्तपः ।। 1.57.2 ।। एवं पशुपतिवितीर्णसरहस्यसर्वास्त्रवैघट्यदर्शनेनरुद्रस्यापरत्वमुपपादितम् । अथ पूर्वप्रस्तुतब्राह्मण्यस्यात्यन्तदुर्लभत्वं दर्शयति नवभिः सर्गैः । तत्र त्रिशङ्कुशरणागत्यनुगुणशक्तिमत्त्वं दर्शयति सप्तपञ्चाशे–ततः सन्तप्तहृदय इत्यादि, श्लोकद्वयमेकान्वयम् । महात्मना वसिष्ठेन । कृतवैरः अनेनास्य तपोनाशमूलं दर्शितम् […]

56 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्पञ्चाशः सर्गः एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः । आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ।। 1.56.1 ।। अथ सर्वास्त्रबलसम्पूर्णक्षत्रवीर्यादपि ब्रह्मबलं बलीय इत्याह षट्पञ्चाशे–एवमुक्त इत्यादि । तिष्ठ तिष्ठेति भयजननार्थोक्तिः ।। 1.56.1 ।। ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ।। 1.56.2 ।। ब्रह्मदण्डमित्यादि त्रयोविंशतिः । ब्रह्मदण्डमिति । ब्रह्मदण्डं ब्राह्मणासाधारणं दण्डम् ।। 1.56.2 ।। क्षत्रबन्धो स्थितो ऽस्म्येष यद्वलं […]

55 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चपञ्चाशः सर्गः ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् । वसिष्ठश्चोदयामास कामधुक्सृज योगतः ।। 1.55.1 ।। अथ पुनर्दिव्यास्त्रलाभपूर्वं विश्वामित्रेण वसिष्ठाश्रमसंरोधः पञ्चपञ्चाशे–ततस्तानित्यादि । हे कामधुक् योगतः योगमहिम्ना, तिरश्चो ऽपि ब्रह्मप्रसादाद्योगशक्तिरस्तीति ज्ञेयम् ।। 1.55.1 ।। तस्या हुम्भारवाज्जाताः काम्भोजा रविसन्निभाः । ऊधसस्त्वथ सञ्जाताः पप्लवाः शस्त्रपाणयः ।। 1.55.2 ।। तस्या इत्यादि चत्वारः । ऊधसः स्तनात् ।। 1.55.2 ।। योनिदेशाच्च यवनाःशकृद्देशाच्छकास्तथा । रोमकूपेषु […]

54 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुःपञ्चाशः सर्गः कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः । तदास्य शबलां राम विश्वामित्रो ऽन्वकर्षत ।। 1.54.1 ।। नीयमाना तु शबला राम राज्ञा महात्मना । दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ।। 1.54.2 ।। अथ बलात्कारकुपितवसिष्ठप्रहितकामधेनोर्बलसृष्टिश्चतुःपञ्चाशे–कामधेनुमित्यादिदशकम् ।। 1.54.1,2 ।। परित्यक्ता वसिष्ठेन किमहं सुमहात्मना । या ऽहं राजभटैर्दीना ह्रियेयं भृशदुःखिता ।। 1.54.3 ।। किं मया ऽपकृतं तस्य […]

53 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिपञ्चाशः सर्गः एवमुक्ता वसिष्ठेन शबला शत्रुसूदन । विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम् ।। 1.53.1 ।। कामध्ोनुप्रार्थनं त्रिपञ्चाशे–एवमुक्तेत्यादि । यस्य यस्य यथेप्सितं तथा कामान् काङ्क्षितान् विदधे ।। 1.53.1 ।। इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् । पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ।। 1.53.2 ।। उक्तमेव प्रपञ्चयति–इक्षूनित्यादि । मधूनिति पुँल्लिङ्गत्वमार्षम् । मैरेयाः मद्यविशेषाः मैरेयाख्यानित्यर्थः । “मैरेयमासवो धात्रीधातकीगुडवारिभिः” इति […]

52 Sarga बालकाण्डः

 श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्विपञ्चाशः सर्गः स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः । प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ।। 1.52.1 ।। विश्वामित्रसम्मानं द्विपञ्चाशे–स दृष्ट्वेत्यादि । वसिष्ठं दृष्ट्वा, प्रणतः प्रणनाम ।। 1.52.1 ।। स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना । आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ।। 1.52.2 ।। स्वागतमिति । उक्तः ऊचे । व्यादिदेश दापयामासेत्यर्थः ।। 1.52.2 ।। उपविष्टाय च […]

51 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकपञ्चाशः सर्गः (विश्वामित्रवृन्तातः) तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः । हृष्टरोमा महातेजाः शतानन्दो महातपाः ।। 1.51.1 ।। गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः । रामसन्दर्शनादेव परं विस्मयमागतः ।। 1.51.2 ।। अथाचार्यवैभवस्य ज्ञेयत्वाभिप्रायेण विश्वामित्रचरित्रं प्रस्तौति तस्य तद्वचनमित्यादिभिः पञ्चदशभिः सर्गैः । तस्येत्यादिद्वौ । हृष्टरोमा सञ्जातरोमाञ्चः । विस्मयमागतः, अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्तो ऽभूदित्यर्थः ।। 1.51.1,2 ।। […]

50 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चाशः सर्गः ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह । विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ।। 1.50.1 ।। एवं रामस्य परमपावनत्वमुक्तम् । अथ तस्य सीताविवाहवृत्तान्तं प्रस्तौति श्रियःपतित्वं प्रतिपादयितुं पञ्चाशे–ततः प्रागित्यादि । प्राच्या उत्तरस्याश्च दिशो ऽन्तरालं यत्सा प्रागुत्तरा ताम्, ऐशानीं दिशमित्यर्थः । ततः तस्मादाश्रमात् । यज्ञवाटं जनकस्येति शेषः ।। 1.50.1 ।। रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः । साध्वी यज्ञसमृद्धिर्हि जनकस्य […]

49 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनपञ्चाशः सर्गः अफलस्तु ततः शक्रो देवानग्निपुरोधसः । अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान् ।। 1.49.1 ।। अनयोर्द्वयोः शापयोरेकः पूर्वमेव मुक्तः । अपरस्त्वया मोचनीय इत्याशयेनाह एकोनपञ्चाशे–अफल इत्यादि । अग्निपुरोधसः अग्निपुरोगमान् । त्रस्तवदनः त्रस्तशब्देन तत्कार्यं दैन्यमुच्यते ।। 1.49.1 ।। कुर्वता तपसो विघ्नं गौतमस्य महात्मनः । क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ।। 1.49.2 ।। कुर्वतेति । महात्मनः गौतमस्य तपसः […]

48 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः ऽष्टचत्वारिंशः सर्गः पृष्ट्वा तु कुशलं तत्र परस्परसमागमे । कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ।। 1.48.1 ।। अथ रामस्य परमपावनत्वं दर्शयत्यष्टचत्वारिंशे–पृष्ट्वा त्वित्यादि । परस्परेत्यविभक्तिकनिर्देशः । परस्परं कुशलं पृष्ट्वा कथान्ते तदुत्तरान्ते इति योजना ।। 1.48.1 ।। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ । गजसिंहगती वीरौ शार्दूलवृषभोपमौ ।। 1.48.2 ।। पद्मपत्रविशालाक्षौ ख्ाड्गतूणीधनुर्द्धरौ । अश्विनाविव रूपेण समुपस्थितयौवनौ ।। 1.48.3 ।। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.