52 Sarga बालकाण्डः

 श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

द्विपञ्चाशः सर्गः

स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।

प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ।। 1.52.1 ।।

विश्वामित्रसम्मानं द्विपञ्चाशे–स दृष्ट्वेत्यादि । वसिष्ठं दृष्ट्वा, प्रणतः प्रणनाम ।। 1.52.1 ।।

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।

आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ।। 1.52.2 ।।

स्वागतमिति । उक्तः ऊचे । व्यादिदेश दापयामासेत्यर्थः ।। 1.52.2 ।।

उपविष्टाय च तदा विश्वामित्राय धीमते ।

यथान्यायं मुनिवरः फलमूलमुपाहरत् ।। 1.52.3 ।।

प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः ।

तपोग्निहोत्रशिष्येषु कुशलं पर्य्यपृच्छत ।। 1.52.4 ।।

विश्वामित्रो महातेजा वनस्पतिगणे तथा ।

सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् ।। 1.52.5 ।।

सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।

पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ।। 1.52.6 ।।

उपविष्टायेत्यादिचत्वारः । फलमूलमिति “जातिरप्राणिनाम्” इत्येकवत्त्वम् । राजसत्तमं प्रतीति शेषः ।। 1.52.36 ।।

कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन् ।

प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ।। 1.52.7 ।।

कच्चित्ते सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने ।

कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ।। 1.52.8 ।।

कच्चिद्बलेषु कोशेषु मित्रेषु च परन्तप ।

कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ।। 1.52.9 ।।

कच्चिदित्यादित्रयः । कच्चिदिति कामप्रवेदने ऽव्ययम् “कच्चित्कामप्रवेदने” इत्यमरः । तव कुशलं ममेप्सितमित्यमुमर्थं द्योतयति । राजवृत्तेन चतुर्विधेने उपलक्षितः । यथाहुः– “न्यायेनार्जनमर्थस्य वर्द्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ।।” इति। सम्भृताः पोषिताः, तिष्ठन्तीति शेषः। बलेषु चतुरङ्गबलेषु। कोशेषु अर्थसमूहेषु। पुत्रपौत्र इति गवाश्वप्रभृतित्वादेकवत्त्वम् ।।

1.52.79 ।।

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।

विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ।। 1.52.10 ।।

सर्वत्रेति । सर्वत्र वसिष्ठपृष्टसर्वविषय इत्यर्थः । वसिष्ठं धनिकम् ।। 1.52.10 ।।

कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाश्शुभाः ।

मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ।। 1.52.11 ।।

कृत्वेति । ताः कथाः अन्योन्यकुशलप्रश्नोत्तररूपाः । प्रीयेतां अप्रीणयताम् ।। 1.52.11 ।।

ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन ।

विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ।। 1.52.12 ।।

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल ।

तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे ।। 1.52.13 ।।

सत्क्रियां हि भवानेतां प्रतीच्छतु मयोद्यताम् ।

राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ।। 1.52.14 ।।

तत इत्यादित्रयः । प्रहसन्निव प्रसन्नमुख इत्यर्थः । सम्प्रतीच्छ प्रतिगृहाण । उद्यतां चिकीर्षिताम् ।। 1.52.1214 ।।

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः ।

कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया ।। 1.52.15 ।।

फलमूलेन भगवन् विद्यते यत्तवाश्रमे ।

पाद्येनाचमनीयेन भगवद्दर्शनेन च ।। 1.52.16 ।।

सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः ।

गमिष्यामि नमस्ते ऽस्तु मैत्रेणेक्षस्व चक्षुषा ।। 1.52.17 ।।

एवमिति त्रयः । प्रियवाक्येन आतिथ्यं करिष्यामीत्यनेन वचनेन । आतिथ्यं कृतं तवाश्रमे यद्विद्यते तेन फलमूलेन सुपूजितः हत्यन्वयः । पूजार्हेण त्वयेति शेषः । मैत्रेण स्नेहयुक्तेन । मत्वर्थीयाजन्तः ।। 1.52.1517 ।।

एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि ।

न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ।। 1.52.18 ।।

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।

यथाप्रियं भगवतस्तथास्तु मुनिसत्तम ।। 1.52.19 ।।

एवं ब्रुवन्तमिति द्वौ । पुनः न्यमन्त्रयत भोजनार्थं प्रार्थनमकरोत् । पुनःपुनरित्यत्र न्यमन्त्रयतेत्यनुषज्यते । बहुशः प्रत्युत्तरे ऽपि पुनःपुनर्न्यमन्त्रयतेत्यर्थः । गाधेयः गाधिपुत्रः । बाढमित्यस्यैव विवरणं यथेति ।। 1.52.18,19 ।।

एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।

आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः ।। 1.52.20 ।।

एवमिति । कल्माषीं चित्रवर्णाम्, शबलामिति यावत् । “चित्रं किर्मीरकल्माष–” इत्यमरः ।। 1.52.20 ।।

एह्येहि शबले क्षिप्रं शृणु चापि वाचो मम ।

सबलस्यास्य राजर्षेः कर्तुं व्यवसितो ऽस्म्यहम् ।

भोजनेन महार्हेण सत्कारं संविधत्स्व मे ।। 1.52.21 ।।

एहीति सार्द्धश्लोकः । सबलस्यास्य राजर्षेः सत्कारं कर्त्तुं व्यवसितो ऽस्मि । संविधत्स्व तदुपयोगिवस्तुजातं सम्पादय ।। 1.52.21 ।।

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् ।

तत्सर्वं कामधुक् क्षिप्रमभिवर्ष कृते मम ।। 1.52.22 ।।

यस्येति । षड्रसेषु यद्यस्य यस्य अभिपूजितम् अभिमतम् । तसर्त्वं यथाकामं मम कृते अभिवर्षेत्यन्वयः । “अर्थे कृते च तादर्थ्ये निपातद्वयमव्ययम्” इति निघण्टुः ।। 1.52.22 ।।

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।

अन्नानां निचयं सर्वं सृजस्व शबले त्वर ।। 1.52.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ।। 52 ।।

रसेनेति । रसेन रसायनभेदेन, अन्नेन भक्ष्येन शष्कुलीलाजादिना, पानेन पेयेन पानकरसादिना, लेह्यचोष्येण लेह्येन जिह्वास्वाद्येन क्षौद्रादिना, चोष्येण अधरपुटग्राह्येण दध्यादिना च समन्वितम् । “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इत्येकवद्भावः । अन्नानां शाल्यन्नादीनाम् । निचयं राशिम् । अनेन भक्ष्यभोज्यलेह्यचोष्यपेयखाद्यरूपषड्विधाभ्यवहारा दर्शिताः ।। 1.52.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विपञ्चाशः सर्गः ।। 52 ।। 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.