33 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

त्रयस्त्रिंशःसर्गः

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।

शिरोमिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ।। 1.33.1 ।।

अथ कुशनाभस्य कन्यावचनं शृण्वतः क्षमाविशेष उच्यते त्रयस्त्रिंशे तस्येत्यादि । शिरोभिश्चरणौ स्पृष्ट्वा, पादयोः प्रणम्येत्यर्थः ।। 1.33.1 ।।

वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।

अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ।। 1.33.2 ।।

वायुरिति । प्रधर्षयितुम् अभिभवितुम् इच्छति । वर्तमानसामीप्याल्लट् । अशुभं बलात्काररूपम् ।। 1.33.2 ।।

पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।

पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ।। 1.33.3 ।।

पितृमत्य इति । पितृमत्यः स्म, अतः स्वच्छन्दे स्वातन्त्र्ये किञ्चित्पतिस्वीकारविषये । वयं न स्थिताः अतो नः पितरमेव वृणीष्व । स यदि नः अस्मान्, तुभ्यं दास्यति तदा तव भविष्यामः । ते भद्रमस्तु ।। 1.33.3 ।।

तेन पापानुबन्धेन वचनं न प्रतीच्छता ।

एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ।। 1.33.4 ।।

तेनेति । एवं ब्रुवन्त्यो वयम् । अस्माकं वचनं न प्रतीच्छता अनङ्गीकुर्वता । पापानुबन्धेन पापानुसारिणा तेन वायुना निहताः ।। 1.33.4 ।।

तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।

प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ।। 1.33.5 ।।

तासामिति । अनुत्तमं क्षमावत्त्वात् ।। 1.33.5 ।।

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् ।

ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ।। 1.33.6 ।।

क्षान्तमिति । हे पुत्र्यः । क्षमावतां कर्त्तव्यं कर्तुमर्हं “कृत्यानां कर्तरि वा” इति षष्ठी । क्षान्तं क्षमा । भावे निष्ठा । कृतम् इदं सुमहत्कर्म, देवे प्रार्थयमानेप्यविकृतचित्तत्वं शरीरं भञ्जयति सति

निष्क्रोधत्वं च दुष्करमिति भावः । कुलं चावेक्षितम्, कुलानुरूपं कृत्यं कृतमित्यर्थः ।। 1.33.6 ।।

अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।। 1.33.7 ।।

उक्तमर्थं विवृणोति अलङ्कार इति अर्द्धम् । क्षमा अपराधसहिष्णुत्वम् ।। 1.33.7 ।।

दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः ।

यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।। 1.33.8 ।।

दुष्करमिति । वः तत् क्षान्तं क्षमा । दुष्करं त्रिदशेषु रूपैश्वर्यसम्पन्नेषु विशेषतो दुष्करम् । यादृशीति सर्वासामविशेषतः या क्षमा सापि दुष्करेत्यन्वयः । क्षमैव दुष्करा, ततस्त्रिदशेषु दुष्करा, ततोपि सर्वासामविशेषेण क्षमा दुष्करैवेत्यर्थः ।। 1.33.8 ।।

क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ।

क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत् ।। 1.33.9 ।।

क्षमां प्रशंसति क्षमेति । क्षमा दानम्, दानेन यत्फलं प्राप्नोति तत् क्षमया प्राप्नोतीत्यर्थः । एवमुत्तरत्रापि योज्यम् । धर्मः तटाकारामनिर्माणादिः । क्षमया भूमिसम्बन्धिन्या । जगच्चराचरं विष्ठितं स्थितं भवति ।। 1.33.9 ।।

विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ।

मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।

देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ।। 1.33.10 ।।

विसृज्येति अर्द्धत्रयम् । प्रदानं कन्याप्रदानम् । चिन्ताप्रकारमाह देश इति । प्रदानस्य कन्याप्रदानस्य । उचितौ देशकालौ । सदृशे स्वकुलस्य सदृशे पात्रे प्रतिपादनं च मन्त्रयामासेत्यर्थः ।। 1.33.10 ।।

एतस्मिन्नेव काले तु चूली नाम महामुनिः ।

ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ।। 1.33.11 ।।

एतस्मिन्निति । एतस्मिन्नेव काले कुशनाभीयकाले, उत्तरत्रान्वयः । ऊर्ध्वरेताः अस्खलितरेताः । ब्राह्मं तपः वैदिकं तपः ब्रह्मोद्देश्यकं वा ।। 1.33.11 ।।

तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।

सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ।। 1.33.12 ।।

तप्यन्तमिति । तत्र तस्मिन्देशे । तदा तत्काले । तप्यन्तं दाहार्थे ऽपि व्यत्ययाच्छ्यन् । गन्धर्वी जातिवाचित्वात् । पर्युपासते अशुश्रूषत । मध्ये मध्ये भद्रमस्त्विति प्रयोगः शुभोत्तरत्वाय ।। 1.33.12 ।।

सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।

उवास काले धर्मिष्ठा तस्यास्तुष्टो ऽभवद्गुरुः ।। 1.33.13 ।।

सा चेति । काले कियति काले । तुष्टो ऽभवत् । ब्रह्मर्षित्वाद्गुरुरित्युक्तिः ।। 1.33.13 ।।

स च तां काल योगेन प्रोवाच रघुनन्दन ।

परितुष्टो ऽस्मि भद्रं ते किं करोमि तव प्रियम् ।। 1.33.14 ।।

स चेति । कालयोगेन शुश्रूषापरिपाककालसम्बन्धेन । करोमि कुर्याम् ।। 1.33.14 ।।

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा ।

उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ।। 1.33.15 ।।

परितुष्टमिति । वाक्यकोविदं वाक्ये वचने कोविदं समर्थम् ।। 1.33.15 ।।

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।

ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक ।। 1.33.16 ।।

लक्ष्म्येति । ब्राह्म्या लक्ष्म्या ब्रह्मवर्चसेन । समुदितः श्रेष्ठः अत एव ब्रह्मभूतः ब्रह्मतुल्यः महातपा असि । अस्मात्त्वत्तः पुत्रमिच्छामि । ‘दीप्यसे परया लक्ष्म्या’ इति कोशान्तरे ।। 1.33.16 ।।

अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।

ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ।। 1.33.17 ।।

अपतिरिति । विधवाप्यपतिर्भवति, तत्राह भार्येति । उपगतायाः शरणं गतायाः मे । ब्राह्मेण तपोमहिम्ना ।। 1.33.17 ।।

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।

ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ।। 1.33.18 ।।

तस्या इति । ब्रह्मणा तपोयोगेन । दत्तो ब्रह्मदत्तः । चूलिनः स्वस्य मानसं मनस्सङ्कल्पजं सुतं ददौ ।। 1.33.18 ।।

स राजा सौमदेयस्तु पुरीमध्यावसत्तदा ।

काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ।। 1.33.19 ।।

स इति । राजा क्षत्रियः क्षत्रजत्वात् । लक्ष्म्या सम्पदायुक्तः । एतस्मिन्नन्तरे पुरीमध्यावसदिति सम्बन्धः ।। 1.33.19 ।।

स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।

ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ।। 1.33.20 ।।

स बुद्धिमिति । तदा ब्रह्मदत्तस्य काम्पिल्याख्यायां पुर्यामावासकाले ।। 1.33.20 ।।

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।

ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ।। 1.33.21 ।।

तमिति । राजा रञ्जकः ।। 1.33.21 ।।

यथाक्रमं ततः पाणीञ्जग्राह रघुनन्दन ।

ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ।। 1.33.22 ।।

यथेति । तासां पाणीन् जग्राह । देवपतिर्यथा देवपतिसदृशः, तत्तुल्यविभव इत्यर्थः ।। 1.33.22 ।।

स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।

युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा ।। 1.33.23 ।।

स्पृष्टेति । ततश्चूलिसूनुना । पाणाविति जात्येकवचनम् । विकुब्जाः विगतकुब्जभावाः शतं कन्या बभुः । विसर्गलोप आर्षः । बभुः कन्याशतमितिपाठः ।। 1.33.23 ।।

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।

बभूव परमप्रीतो हर्षं लेभे पुनःपुनः ।। 1.33.24 ।।

स इति । वायुना मुक्ताः, कन्या इति शेषः । परमप्रीतः अनुकूलवरलाभेन परमप्रीतः । हर्षं विकुब्जत्वकृतम् ।। 1.33.24 ।।

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।

सदारं प्रेषयामास सोपाध्यायगणं तदा ।। 1.33.25 ।।

कृतेति । प्रेषयामास, काम्पिल्यामिति शेषः ।। 1.33.25 ।।

सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।

यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।

स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ।। 1.33.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ।। 33 ।।

सोमदेति सार्द्धश्लोकः । सोमदा चूलिपुत्रमाता । पुत्रसदृशीं क्रियां दारक्रियाम्, दृष्ट्वेति शेषः । यथान्यायं यथाक्रमम् । स्नुषाः कन्याः कुशनाभपुत्रीः ।। 1.33.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रयस्त्रिंशःसर्गः ।। 33 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.