43 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

त्रिचत्वारिंशः सर्गः

देवदेवे गते तस्मिन् सो ऽङ्गुष्ठाग्रनिपीडिताम् ।

कृत्वा वसुमतीं राम संवत्सरमुपासत ।। 1.43.1 ।।

अथ गङ्गाप्लवनेन सागराणां स्वर्गगतिस्त्रिचत्वारिंशे–देवदेव इत्यादि । उपासत उपास्त । शिवमिति शेषः ।। 1.43.1 ।।

अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।

उमापतिः पशुपती राजानमिदमब्रवीत् ।। 1.43.2 ।।

अथेति । उमापतिरित्यनेनोमया सहागत इत्युच्यते ।। 1.43.2 ।।

प्रीतस्ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।

शिरसा धारयिष्यामि शैलराजसुतामहम् ।। 1.43.3 ।।

प्रीत इति । प्रियं करिष्यामीत्येतद्विवृणोति–शिरसेति ।। 1.43.3 ।।

ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।

तदा सा ऽतिमहद्रूपं कृत्वा वेगं च दुस्सहम् ।

आकाशादपतद्राम शिवे शिवशिरस्युत ।। 1.43.4 ।।

तत इति, अर्द्धत्रयमेकान्वयम् । हैमवती हिमवत्कन्या । शिवे शुद्धे । उतेति प्रसिद्धौ ।। 1.43.4 ।।

अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा ।

विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ।। 1.43.5 ।।

महारूपदुःसहवेगकरणे निमित्तमाह–अचिन्तयदिति । दुर्द्धरा धर्त्तुमशक्या । गृह्य गृहीत्वा ।।

1.43.5 ।।

तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ।

तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ।। 1.43.6 ।।

तस्या इति । वलेपनं गर्वम् । वष्टि भागुरिः–“इत्यल्लोपः । तिरोभावयितुं तिरोहितां कर्त्तुम् ।। 1.43.6 ।।

सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि ।

हिमवत्प्रतिमे राम जटामण्डलगह्वरे ।। 1.43.7 ।।

सेति । जटामण्डलमेव गह्वरं गुहा यस्मिंस्तत्तथा ।। 1.43.7 ।।

सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ।

नैव निर्गमनं लेभे जटामण्डलमोहिता ।। 1.43.8 ।।

सेति । निर्गमनं जटामण्डलान्निस्सरणमात्रमपि जटामण्डले मोहिता सञ्जातमोहा ।। 1.43.8 ।।

तत्रैवाबम्भ्रमद्देवी संवत्सरगणान् बहून् ।

तामपश्यन् पुनस्तत्र तपः परममास्थितः ।। 1.43.9 ।।

तत्रेति । अबम्भ्रमत् पुनःपुनरभ्रमत् । यङ्लुगन्ताल्लङ् । आस्थितः राजेति शेषः ।। 1.43.9 ।।

अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन ।

विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ।। 1.43.10 ।।

अनेनेति । अनेन तपसा तोषितश्चासीत् विससर्ज च । बिन्दुसरो नाम हिमवति ब्रह्मनिर्मितस्सरोविशेषः ।। 1.43.10 ।।

तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ।। 1.43.11 ।।

तस्यामित्यर्द्धम् । स्रोतांसि प्रवाहाः ।। 1.43.11 ।।

ह्लादिनी पावनी चैव नलिनी च तथा ऽपरा ।

तिस्रः प्राचीं दिशं जग्मुर्गङ्गाश्शिवजलाश्शुभाः ।। 1.43.12 ।।

स्रोतसां नामनिर्देशपूर्वकं गतिभेदमाह–ह्लादिनीति । शुभाः शोभमानाः ।। 1.43.12 ।।

सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ।

तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ।। 1.43.13 ।।

सुचक्षुरिति ।। महानदीति सर्वविशेषणम् ।। 1.43.13 ।।

सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ।। 1.43.14 ।।

सप्तमीत्यर्द्धम् । तासां मध्ये ।। 1.43.14 ।।

भगीरथो ऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।

प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ।। 1.43.15 ।।

भगीरथो ऽपीति । स्यन्दनं रथम् । अनुव्रजत् अन्वव्रजत् । अत्र स्वर्गाकाशभूमिगमनात् त्रिपथगात्वमित्येके, दिक्त्रयगमनादित्यपरे ।। 1.43.15 ।।

गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता ।

व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ।। 1.43.16 ।।

एवं ‘त्रीन् पथः केन हेतुना’ इत्यस्योत्तरमभिधाय ‘कर्मभिः कैः समन्विता’ इत्यस्य चरितभेदप्रश्नस्योत्तरमाह–गगनादिति । तीव्रशब्दे हेतुरयम् ।। 1.43.16 ।।

मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तदा ।

पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुन्धरा ।। 1.43.17 ।।

मत्स्येति । शिंशुमारः अम्बुकरी । “शिंशुमारस्त्वम्बुकरी” इति वैजयन्ती । अन्यैः जलजन्तविशेषैः ।। 1.43.17 ।।

ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा ।

व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा ।। 1.43.18 ।।

तत इति । गगनात् रुद्रजटागगनात् । गां भूमिम् ।। 1.43.18 ।।

विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ।

पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ।। 1.43.19 ।।

विमानैरिति । नगराकारैः नगरवद्विपुलैः । पारिप्लवगतैः पारिप्लवं सम्भ्रमं गतैरिति विमानादिविशेषणम् । तत्र गङ्गापतनप्रदेशे । विष्ठिताः विशेषेण स्थिताः ।। 1.43.19 ।।

तदद्भुततमं लोके गङ्गापतनमुत्तमम् ।

दिदृक्षवो देवगणाः समीयुरमितौजसः ।। 1.43.20 ।।

तदिति । लोके भूलोके । अमितौजस इत्यनेन प्रधानदेवा उच्यन्ते ।। 1.43.20 ।।

सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ।

शतादित्यमिवाभाति गगनं गततोयदम् ।। 1.43.21 ।।

सम्पतद्भिरिति । सुरगणैः अमिततेजोभिरिति सिद्धम् । आभाति अभात् ।। 1.43.21 ।।

शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ।

विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ।। 1.43.22 ।।

शिंशुमारेति । आकाशं चञ्चलैः शिंशुमारादिभिः विद्युद्भिरिव विक्षिप्तं व्याप्तम् अभवत् ।। 1.43.22 ।।

पाण्डरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ।

शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः ।। 1.43.23 ।।

पाण्डरैरिति । वेगवशेन सहस्रधा कीर्यमाणैः सलिलोत्पीडैः फेनैः हंससम्प्लवैः हंससङ्कुलैः शारदाभ्रैरिव गगनमाकीर्णमित्यन्वयः ।। 1.43.23 ।।

क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ।

विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ।। 1.43.24 ।।

क्वचिदिति । अत्र गङ्गेत्यनुषज्यते । द्रुततरमित्यादि क्रियाविशेषणम् । आयतम् ऋजु, विनतं निम्नेन सङ्कुचितम् । उद्भूतं पाषाणस्खलनादिना ऊर्ध्वमुखम् । सर्वत्र व्यत्ययेन भूते लट् ।। 1.43.24 ।।

सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ।

मुहुरूर्द्ध्वमुखं गत्वा पपात वसुधातलम् ।। 1.43.25 ।।

सलिलेनेति । अभ्याहतं वातव्यावर्तितम्, तरङ्गसलिलेनाभिमुखमाहतमित्यर्थः ।। 1.43.25 ।।

तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ।

व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ।। 1.43.26 ।।

तदिति । शङ्करशिरसि भ्रष्टं पतितमपि ततः भूमितले पतितमपि निर्मलम्, गतं कल्मषं येन तद्गतकल्मषम्, पापापहमित्यर्थः ।। 1.43.26 ।।

तत्र देवर्षिगन्धर्वा वसुधातलवासिनः ।

भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ।। 1.43.27 ।।

तत्रेति । पवित्रं पावनम्, तत्र ज्ञापकहेतुमाह भवाङ्गपतितमिति । भवेन रुद्रेण शिरसा धृतत्वात् पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः । पवित्रमिति सामान्योक्त्या भवस्यान्येषां च पवित्रमित्युक्तम्, अत एव “हरस्य गात्रसंस्पर्शात् पवित्रत्वमुपागता” इत्यत्रापि हरस्य शुद्धिप्रदत्वमुपागतेत्यर्थः । अन्ये ऽप्यृषय ऊचुः श्रीमद्भागवते– “यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः शिवो ऽभूत्” इति । भारते– “तदम्बु पतितं दृष्ट्वा दधार शिरसा हरः । पावनार्थं जटामध्ये योग्यो ऽस्मीत्यवधारणात् ।।” इति। अत्राप्ययोध्याकाण्डे वक्ष्यति– “विष्णुपादोद्भवां दिव्याम्” इति। गङ्गाया विष्णुपादोद्भवत्वेन पवित्रत्वरूपं दिव्यत्वं भवाङ्गात्पतितमिति वार्थः। “द्वितीयाश्रितातीतपतित–” इति द्वितीयासमासविधानात् पञ्चमीसमासानुपपत्तेश्च भवेन धृतत्वात्। अस्माभिरपि धार्यमिति पस्पृशुरित्येवार्थः। यद्वा भवाङ्गपतितत्वात् पवित्रम्, न तु पूर्ववदतिपवित्रम्, अत एव पस्पृशुः, न तु सस्नुः। यद्वा यद्यपि भवाङ्गात् पतितं तथापि विष्णुपादोद्भूतत्वात्पवित्रमिति वा “नदी वेगेन शुद्ध्यति” इति न्यायात्। भवसम्पर्कविगमे पवित्रमिति वा पस्पृशुः ।। 1.43.27 ।।

शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।

कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ।। 1.43.28 ।।

शापादिति । शापाद्धेतोः । ।। 1.43.28 ।।

धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता ।

पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे ।। 1.43.29 ।।

धूतेति । आकाशमाविश्य, आकाशमार्गेणेत्यर्थः ।। 1.43.29 ।।

मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।

कृताभिषेको गङ्गायां बभूव विगतक्लमः ।। 1.43.30 ।।

मुमुद इति । मुदितः मुमुदे, पुनःपुनर्जहर्षेत्यर्थः ।। 1.43.30 ।।

भगीरथो ऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।

प्रायादग्रे महातेजास्तं गङ्गा पृष्टतो ऽन्वगात् ।। 1.43.31 ।।

भगीरथ इति । स्पष्टम् ।। 1.43.31 ।।

देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ।

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ।। 1.43.32 ।।

सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् ।

गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ।। 1.43.33 ।।

देवा इति श्लोकद्वयम् । भगीरथरथानुगां गङ्गामन्वगमन् ।। 1.43.32,33 ।।

यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।

जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ।। 1.43.34 ।।

यत इति । यतः यत्र । ततः तत्र ।। 1.43.34 ।।

ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ।

गङ्गा सम्प्लावयामास यज्ञवाटं महात्मनः ।। 1.43.35 ।।

ततो हीति । अद्भुतकर्मण इति वक्ष्यमाणगङ्गापानाभिप्रायम् । यज्ञवाटं यज्ञक्षेत्रम् ।। 1.43.35 ।।

तस्या वलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ।

अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् ।। 1.43.36 ।।

तस्या इति । वलेपनं गर्वम् । परमाद्भुतमिति क्रियाविशेषणम् ।। 1.43.36 ।।

ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः ।

पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ।

गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ।। 1.43.37 ।।

तत इति सार्द्धश्लोकः । दुहितृत्वे नयन्ति स्म, दुहितरमकुर्वन्नित्यर्थः ।। 1.43.37 ।।

ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः ।

तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ।। 1.43.38 ।।

तत इति । ततः दुहितृत्वप्रापणात् । श्रोत्राभ्याम्, नरावयवेषु श्रोत्रस्यातिपावनत्वादिति भावः ।। 1.43.38 ।।

जगाम च पुनर्गङ्गा भगीरथरथानुगा ।

सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा ।

रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ।। 1.43.39 ।।

जगामेत्यर्द्धत्रयम् । तस्य कर्मणः भगीरथयत्नस्य ।। 1.43.39 ।।

भगीरथो ऽपि राजर्षिर्गङ्गामादाय यत्नतः ।

पितामहान् भस्मकृतानपश्यद्दीनचेतनः ।। 1.43.40 ।।

भगीरथ इति । भस्मकृतान् भस्मत्वेन कृतान् ।। 1.43.40 ।।

अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।

प्लावयद्धूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ।। 1.43.41 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ।। 43 ।।

अथेति । तत्सलिलं प्लावयत् अप्लावयत् । प्राप्ताः सगरपुत्रा इति शेषः ।। 1.43.41 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ।। 43 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.