71 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

एकसप्ततितमः सर्गः

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः ।

श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ।। 1.71.1 ।।

प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।

वक्तव्यं कुलजातेन तन्निबोध महामुने ।। 1.71.2 ।।

एवं वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशविशुद्धताज्ञापनपूर्वकं कन्याप्रदानं प्रतिजानीते एकसप्ततितमे– एवं ब्रुवाणमित्यादि ।। 1.71.1,2 ।।

राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।

निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ।। 1.71.3 ।।

सत्त्ववतां बलवताम् ।। 1.71.3 ।।

तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता ।

प्रथमो जनको नाम जनकादप्युदावसुः ।। 1.71.4 ।।

उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः ।

नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः ।। 1.71.5 ।।

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।

देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ।। 1.71.6 ।।

प्रथम इति । मिथिमारभ्यास्माकं जनकसञ्ज्ञेति भावः ।। 1.71.46 ।।

बृहद्रथस्य शूरो ऽभून्महावीरः प्रतापवान् ।

महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ।। 1.71.7 ।।

सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः ।

दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ।। 1.71.8 ।।

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः ।

प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ।। 1.71.9 ।।

पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।

देवमीढस्य विबुधो विबुधस्य महीध्रकः ।। 1.71.10 ।।

महीध्रकसुतो राजा कीर्तिरातो महाबलः ।

कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ।। 1.71.11 ।।

महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।

स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ।। 1.71.12 ।।

तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।

ज्येष्ठो ऽहमनुजो भ्राता मम वीरः कुशध्वजः ।। 1.71.13 ।।

सुधृतिरित्यन्वर्थसञ्ज्ञाज्ञापनार्थं विशेषणद्वयम् ।। 1.71.713 ।।

मां तु ज्येष्ठं पिता राज्ये सो ऽभिषिच्य नराधिपः ।

कुशध्वजं समावेश्य भारं मयि वनं गतः ।। 1.71.14 ।।

भारं भरणीयम्, पोषणीयमिति यावत् ।। 1.71.14 ।।

वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम् ।

भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ।। 1.71.15 ।।

धुरं राज्यभारम् ।। 1.71.15 ।।

कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात् ।

सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ।। 1.71.16 ।।

स च मे प्रेषयामास शैवं धनुरनुत्तमम् ।

सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति ।। 1.71.17 ।।

कस्यचित्कालस्य कस्मिंश्चित्काले गते । अवरोधकः अवरोद्धुमित्यर्थः । “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्” इति ण्वुल् ।। 1.71.16,17 ।।

तस्या ऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह ।

स हतो ऽभिमुखो राजा सुधन्वा तु मया रणे ।। 1.71.18 ।।

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।

साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम् ।। 1.71.19 ।।

तस्य सुधन्वनः । अप्रदानात् सीताधनुषोरप्रदानात् ।। 1.71.18,19 ।।

कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने ।

ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ।। 1.71.20 ।।

ते वध्वौ ददामि स्नुषात्वेन ददामि । वसिष्ठेन वरणात्ते ददामीत्युक्तम् ।। 1.71.20 ।।

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च ।। 1.71.21 ।।

वध्वावित्युक्तं व्यवस्थया दर्शयति–सीतामित्यर्द्धेन ।। 1.71.21 ।।

वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ।

द्वितीयामूर्मिलां चैव त्रिर्ददामि न संशयः ।। 1.71.22 ।।

उक्तमर्थं सनिमित्तमुपपादयतिवीर्येति । वीर्यशुल्कामित्येतदूर्मिलाया अपि विशेषणम् । यद्यपि रामेणैव धनुर्भङ्गः कृतः तथापि तादृशशक्तेर्लक्ष्मणे ऽपि दर्शनात्तद्वीर्यमेव ऊर्मिलाया अपि शुल्कमित्यर्थः । ऊर्मिला जनकस्यौरसपुत्री । त्रिः त्रिवारं त्रिभिः करणैर्वा ।। 1.71.22 ।।

रामलक्ष्मणयो राजन् गोदानं कारयस्व ह ।

पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ।। 1.71.23 ।।

गोदानं नाम, विवाहपूर्वसमयनियतं किञ्चित्कर्म । गावः केशाः दोःपादमूलरोमाणि च यत्र खण्यन्ते तदेतद्गोदानं नाम समावर्तनाख्यं कर्मेत्याहुः । वैवाहिकं पितृकार्यं नान्दीश्राद्धम् ।। 1.71.23 ।।

मघा ह्यद्य महाबाहो तृतीये दिवसे विभो ।

फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु ।

रामलक्ष्मणयो राजन् दानं कार्यं सुखोदयम् ।। 1.71.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकसप्ततितमः सर्गः ।। 71 ।।

तृतीये भाविनि फल्गुन्यां फल्गुन्याख्ये । उत्तरे उत्तरनक्षत्रे । वैवाहिकं विवाहप्रयोजनम् । “तदस्य प्रयोजनम्” इति ठक् । दानं गोभूतिलहिरण्यादिदानम् । सुखोदयं सुखोदर्कम्, वधूवरयोरतिशयावहमित्यर्थः । कार्यमिति सामान्योक्त्या मयापि कन्यार्थं क्रियत इति सूचितम् । कन्यादाने उत्तरफल्गुन्याः प्रशस्तत्वमुक्तं ज्यौतिषे “त्रीण्युत्तराण्यपि तथार्कमघानुराधामूलान्त्यसोमकमलोद्भवभान्युडूनि” इति ।। 1.71.24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकसप्ततितमः सर्गः ।। 71 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.