74 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

चतुःसप्ततितमः सर्गः

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।

आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ।। 1.74.1 ।।

अथायोध्याप्रस्थाने मध्येमार्गं जामदग्न्यागमनं चतुःसप्ततितमे–अथ रात्र्यामित्यादि । आपृष्ट्वा आपृच्छ्य उत्तरपर्वतं स्वावासं हिमवन्तम् ।। 1.74.1 ।।

विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।

आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम् ।। 1.74.2 ।।

गच्छन्तं तं तु राजानमन्वगच्छन्नराधिपः ।। 1.74.3 ।।

अथ राजा विदेहानां ददौ कन्याधनं बहु ।। 1.74.4 ।।

विश्वामित्र इति । आपृष्ट्वा जगामेति क्रियावृत्त्या राजपदावृत्तिः ।। 1.74.24 ।।

गवां शतसहस्राणि बहूनि मिथिलेश्वरः ।

कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च ।। 1.74.5 ।।

कन्याधनमेव विवृणोति–गवामित्यादि । कम्बलानामित्यत्रापि शतसहस्राणीत्यनुषज्यते । क्षौमकोट्यम्बराणि क्षौमाश्च कोट्यम्बराणि चेति द्वन्द्वः । क्षौमानामपि बहुत्वमर्थसिद्धम्, क्षौमरूपकोट्यम्बराणीति वा, कोट्यम्बराणि उत्कृष्ट वस्त्राणीति वा ।। 1.74.5 ।।

हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ।

ददौ कन्यापिता तासां दासीदासमनुत्तमम् ।। 1.74.6 ।।

हस्तीत्यादिसेनाङ्गत्वादेकवद्भावः । कन्यापिता जनकः । गवाश्वादित्वाद्दासीदासमित्येकवद्भावः ।। 1.74.6 ।।

हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ।

ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।। 1.74.7 ।।

दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् ।

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।। 1.74.8 ।।

हिरण्यस्य रजतस्य शतमिति शेषः ।। 1.74.7,8 ।।

राजाप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः ।

ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।। 1.74.9 ।।

सबलानुगः बलैश्चतुरङ्गैः अनुगैः किङ्करैश्च सहितः ।। 1.74.9 ।।

गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ।

घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।

भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ।। 1.74.10 ।।

तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।। 1.74.11 ।।

नरव्याघ्रं प्रतीति शेषः । घोरा इत्यनेनाशुभसूचकत्वमुक्तम् । पक्षिणः वायसादयः । प्रदक्षिणमिति शुभसूचनम् । अन्तरिक्षे अशुभसूचनम्, भूमौ शुभसूचनमित्यर्थस्य द्योतनार्थं भौमा इति पदम् ।। 1.74.10,11 ।।

असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ।

किमिदं हृदयोत्कम्पि मनो मम विषीदति ।। 1.74.12 ।।

राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ।

उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ।। 1.74.13 ।।

हृदयमुत्कम्पयितुं शीलमस्येति हृदयोत्कम्पि । इदं किं सुखोदर्कं दुःखोदर्कं वेति मनो विषीदति, शुभाशुभसूचनदर्शनेनोभयत्र निर्णयकारणाभावादिति भावः ।। 1.74.12,13 ।।

उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ।

मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ।। 1.74.14 ।।

पक्षिमुखाच्च्युतं पक्षिमुखेन सूचितमित्यर्थः । प्रशमयन्ति प्रशमं सूचयन्तीत्यर्थः ।। 1.74.14 ।।

तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ।

कम्पयन् पृथिवीं सर्वां पातयंश्च द्रुमान् शुभान् ।। 1.74.15 ।।

संवदतां संवदत्सु ।। 1.74.15 ।।

तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः ।

भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् ।। 1.74.16 ।।

वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ।

ससञ्ज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।। 1.74.17 ।।

भस्मना चावृतमभूदिति शेषः ।। 1.74.16,17 ।।

तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ।

ददर्श भीमसङ्काशं जटामण्डलधारिणम् ।। 1.74.18 ।।

भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् ।

कैलासमिव दुर्द्धर्षं कालाग्निमिव दुस्सहम् ।। 1.74.19 ।।

ज्वलन्तमिव तेजोभिर्दुर्निरीक्षं पृथग्जनैः ।

स्कन्धे चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।

प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ।। 1.74.20 ।।

जामदग्न्यमिति । अनन्तरापत्येति यञ्, गोत्रत्वारोपात् । जामदग्न्येयमिति पाठे– “इतश्चानिञः” इति बह्वच्त्वेप्यार्षत्वाढ्ढक् । पृथग्जनैः पामरैः विद्युद्गणोपममिति तेजस्वितायां दृष्टान्तः । त्रिपुरघ्नमिति तृन् । “अमनुष्यकर्तृके च” इति हन्तेष्टक् ।। 1.74.1820 ।।

तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम् ।

वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ।। 1.74.21 ।।

होमः मानसः ।। 1.74.21 ।।

सङ्गता मुनयः सर्वे सञ्जजल्पुरथो मिथः ।

कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ।। 1.74.22 ।।

पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।

क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ।। 1.74.23 ।।

एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् ।

ऋषयो राम रामेति वचो मधुरमब्रुवन् ।। 1.74.24 ।।

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् ।

रामं दाशरथिं रामो जामदग्न्यो ऽभ्यभाषत ।। 1.74.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ।। 74 ।।

कच्चिदिति । मनसो विमर्शे नोत्सादयिष्यतीत्यत्र हेतुमाहपूर्वमिति ।। 1.74.2225 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ।। 74 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.