14 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्दशः सर्गः

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।

सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ।। 1.14.1 ।।

पूर्वसर्गान्ते शालाप्रवेशानन्तरमश्वमेधारम्भस्सङ्ग्रहेण दर्शितः । तदनुष्ठानं विस्तरेण दर्शयिष्यन् तस्याश्वागमनपूर्वकत्वात्तदनुवादपूर्वकं यज्ञानुष्ठानं दर्शयति चतुर्दशे अथेत्यादि । अथ अश्वविमोचनानन्तरम् । तुरङ्गमे प्राप्ते क्रमेण प्राप्ते । तस्मिन्संवत्सरे पूर्णे राज्ञो यज्ञः अभ्यवर्तत प्रावर्तत । अश्वागमनक्रमस्तु विमुक्तमश्वं स्वैरं चरन्तं राजपुत्रराजोग्रसूतग्रामणिक्षत्रसङ्ग्रहितारश्चतुःशताः परिपालयन्तो नावर्तयन्तो ऽनुचरन्ति । ब्रह्माध्वर्युहोत्रुद्गातारश्चत्वार ऋत्विजस्तं रथकारगृहे समानीय बध्वा तस्य चतुर्षु पदेषु “इह धृति स्वाहा” इत्याद्याहुतिचतुष्टयं जुह्वति । तथाहुः “रथकारगृहे ऽश्वस्य वसतः सायमस्य तु । चतुर्षु पत्सु होतव्याश्चतस्रो धृतयः क्रमात् ।।” इति अथैकादशमासादूर्ध्वं तं सदस्याः समानीय आश्वत्थे व्रजे बध्नन्ति। तथाह आपस्तम्बः “ऊर्द्ध्वमेकादशान्मासादाश्वत्थे व्रजेऽश्वं बध्नीयात्” इति। ततो द्वादशे मासे शालानिर्माणादिसकलसम्भारान् सम्भृत्य फाल्गुनामावास्यायामृत्विग्भिः शालां प्रविश्य प्रतिपदमारभ्याश्वमेधं प्रारभन्ते ।। 1.14.1 ।।

ऋश्यशृङगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।

अश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः ।। 1.14.2 ।।

ऋश्यशृङ्गमिति । अनेन प्रधानार्त्विज्यं ब्रह्मत्वं तस्येति गम्यते ।। 1.14.2 ।।

कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः ।

यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ।। 1.14.3 ।।

प्रतिपदमारभ्य सप्तसु दिनेषु कर्तव्यान् “त्रीणि त्रीणि वैश्वदेवानि जुहोति” इति विहितानेकविंशतिहोमान् “पूर्णाहुतिमुत्तमां जुहोति” इति विहितं कर्मविशेषं चाभिप्रेत्याह कर्म कुर्वन्तीति । याजकाः ऋत्विजः वेदपारं तदर्थावबोधः, तद्गच्छन्तीति वेदपारगाः । कर्म पूर्वोक्तं विधिवत्कुर्वन्ति स्म यथाविधि यथावेदोक्तम्, यथान्यायं यथामीमांसम्, शास्त्रतः कल्पसूत्रानुसारेण । परिक्रामन्ति प्रचरन्ति । “नासँस्थिते सोमे ऽध्वर्युः प्रत्यङ्सदोतीयात्” इत्याद्युक्तक्रममतिलङ्घ्य ऋत्विजो न विहरन्तीत्यर्थः ।। 1.14.3 ।।

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।

चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ।। 1.14.4 ।।

अथ सोमक्रयानन्तरं सोमराजाप्यायनकर्मविशेषान् दर्शयति प्रवर्ग्यमिति । द्विजा ऋत्विजः । प्रवर्ग्यं “देवावै सत्रमासत” इत्यादिप्रवर्ग्यब्राह्मणोक्तं कर्मविशेषम् । शास्त्रतः विधिमीमांसाकल्पसूत्रानुसारेण, कृत्वा उपसदम् इष्टिविशेषम् । तथैव शास्त्रत एव । कृत्वा, शास्त्रतः उपदेशशास्त्रात् । अधिकम् अतिदेशतः प्राप्तं सर्वं कर्म च चक्रुः । “तिस्र एव साह्नस्योपसदो द्वाद्वशाहीनस्य” इति प्राप्ता द्वादशप्रवर्ग्योपसदश्चक्रुरित्यर्थः ।। 1.14.4 ।।

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।

प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ।। 1.14.5 ।।

अथ सोमप्रयोगं दर्शयति अभिपूज्येति । बहिष्पवमानादिभिस्तत्तत्कर्मदेवताः अभिपूज्य ततः प्रवर्ग्योपसदनावसाने । प्रातः सवनपूर्वाणि प्रातः सवनमाध्यन्दिनसवनतृतीयसवनानि कर्माणि चक्रुः ।। 1.14.5 ।।

ऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतो ऽनघः ।

माध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ।। 1.14.6 ।।

ऐन्द्र इति । ऐन्द्रः इन्द्रग्रहनिष्ठः सोमांशः, स विधिवदिन्द्राय दत्तः । अनघः पापनिवर्तकः । राजा सोमराजः । अभिष्टुतः स्तोत्रशस्त्रैः स्तुतः । यद्वा ऐन्द्रः इन्द्रदेवताको हविर्भागः । धानाः करम्भः परिवापः पुरोडाशः पयस्येति प्रातःसवनहवींषि । इन्द्राय हरिवते धानाः, इन्द्राय पूषण्वते करम्भः, सरस्वते परिवापः, इन्द्राय पुरोडाशः, मित्रावरुणाभ्यां पयस्येति होतव्यानीन्द्रमुद्दिश्यैव “अथ कस्मादेतेषां इविषामिन्द्रमेव यजन्ति” इत्यादिश्रुतेः । माध्यन्दिनसायन्तनसवनयोः पयस्यावर्जमन्यत्सर्वं समानम् । अभिषुत इति पाठे चतसृषु दिक्षु चतुर्भिः ऋत्विग्भिः पाषाणैरभिहत्य निःसारितसारा सोमलताभूदित्यर्थः । तथा हि सूत्रम् “सोमं राजानं दृषदि निधाय दक्षिणतो ब्रह्मा पश्चादध्वर्युरुत्तरतो होता प्रागुद्गाता स्थित्वा दृषद्भिरभिहन्यात्” इति । अनघः अंशुस्कन्दनरहितः ।। 1.14.6 ।।

तृतीयसवनं चैव राज्ञो ऽस्य सुमहात्मनः ।

चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ।। 1.14.7 ।।

तृतीयेति । तथा शास्त्रप्रकारेण, प्रातःसवनपूर्वाणि इत्युक्तस्यैवायं प्रपञ्चः ।। 1.14.7 ।।

न चाहुतमभूत्तत्र स्खलितं वापि किञ्चन ।

दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ।। 1.14.8 ।।

न चेति । अहुतं स्खलितम् अन्यथा हुतं वा किञ्चन नाभूत् । सर्वं होमादिकं ब्रह्मवत् मन्त्रवत् दृश्यते स्म । हि यस्मात् क्षेमयुक्तं निर्विघ्नं चक्रिरे । अत्रान्नहोमादिकमश्वमेधीयं सूचितम्, तेषां बहुत्वेन स्खालित्यादिसम्भावनया तत्परिहारस्य वक्तव्यत्वात् । तथाहुर्याज्ञिकाः “पत्नीसंयजनान्ते ऽहन्यग्निष्टोमे तु संस्थिते । प्रजापतिसमे गीते वीणागणिकिभिर्नृपे ।। अस्तं गते सहस्रांशावारुह्याश्वत्थनिर्मिताः । षट्त्रिंशतमथासन्दीस्तावन्तो ऽध्वर्यवो वृताः ।। अप्राकृतैः स्रुवैर्दीर्घदण्डैः खदिरसम्भवै । सर्वां तां रात्रिमन्नानि दशाज्यादीनि जुह्वति ।। सङ्ख्याहुतीस्ताः सकृदेव हुत्वा परार्द्धपर्य्यन्तमथ क्रमेण । हुत्वाश्वनामप्रभतीनि रात्रेश्शेषोक्थ्यसङ्ख्याहुतिभिः समाप्यः ।।” इति ।। 1.14.8 ।।

न तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।

नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ।। 1.14.9 ।।

अथ तत्रान्नदानसमृद्धिं दर्शयत्यष्टभिः न तेष्वित्यादि । यद्यपि क्रीते सोमे यज्ञान्नं न भोज्यम्, तथापि सर्वद्रव्यस्य वसिष्ठसात्कृतत्वेन न दोषः । तेष्वहस्सु यज्ञीयदिनेषु । श्रान्तः पिपासितः । क्षुधितः बुभुक्षितः । न दृश्यते न दृश्यते नादृश्यत । अशतानुचरः शतशिष्यरहितः ।। 1.14.9 ।।

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।

तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ।। 1.14.10 ।।

ब्राह्मणा इति । नाथवन्तः दासाः, शूद्रादय इति यावत् । श्रमणाः दिगम्बराः । “श्रमणावातवसनाः” इति निघण्टुः । यद्वा “चतुर्थमाश्रमं प्राप्ताः श्रमणा नाम ते स्मृताः ।” इति स्मृतिः ।। 1.14.10 ।।

वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।

अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ।। 1.14.11 ।।

वृद्धा इति । व्याधिताः सञ्जातव्याधयः । अनिशं भुञ्जमानानां भुञ्जानेष्वपि यजमानस्य तृप्तिः, अलम्बुद्धिर्नासीदित्यर्थः । यद्वा रस्यतातिशयात् भुक्त्यनन्तरमपि भोजनेच्छा जायत इत्यर्थः ।। 1.14.11 ।।

दीयतां दीयतामन्नं वासांसि विविधानि च ।

इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ।। 1.14.12 ।।

दीयतामिति । तथा चक्रुः, ददुरित्यर्थः ।। 1.14.12 ।।

अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।

दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ।। 1.14.13 ।।

अन्नेति । विधिवत् पाकविध्युक्तक्रमेण सिद्धस्य पक्वस्य । अन्नेति लुप्तषष्ठीविभक्तिकं पदम् । अन्नस्य खाद्यभक्ष्यलेह्यचोष्यभेदभिन्नस्य । कूटा राशयः ।। 1.14.13 ।।

नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।

अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ।। 1.14.14 ।।

नानेति । सुविहिताः सुतर्पिताः ।। 1.14.14 ।।

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।

अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ।। 1.14.15 ।।

अन्नमिति । अन्नं विधिवत् उपचारवत् स्वादु च अनेन तृप्ताः स्म । अहो इदं वर्णितुं न शक्यम् । इति द्विजर्षभाः प्रशंसन्ति प्राशंसन् । तद्राघवः शुश्राव । न तेष्वहःस्वित्यारभ्य प्रशंसाप्रकारः, न तु कविवाक्यम् । अनेन “ब्राह्मणौ वीणागाथिनौ गायतः” इत्यारभ्य “इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्” इत्युक्तस्तुतिश्रवणमुक्तम् ।। 1.14.15 ।।

स्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।

उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ।। 1.14.16 ।।

स्वलङ्कृता इति । ब्राह्मणान् ब्राह्मणेभ्यः पर्यवेषयन्, भक्ष्यान्नपानादीनिति शेषः । सुमृष्टमणिकुण्डलाः उत्तेजितरत्नकुण्डलाः, अन्ये पुरुषाः साहाय्यार्थं तानसेवन्तेत्यर्थः ।। 1.14.16 ।।

कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।

प्राहुः स्म वाग्ग्मिनो धीराः परस्परजिगीषया ।। 1.14.17 ।।

कर्मान्तर इति । कर्मान्तरे सवनयोरन्तरालकाले । धीराः धीमन्तः, वाग्ग्मिनः पटुवाचः, विप्रा ऋत्विजः परस्परजिगीषया बहून् हेतुवादान् प्राहुः स्म । अनेन ब्रह्मोद्यमुक्तम् । यथा “किँँस्विदासीत्पूर्वचित्तिः” इत्यादि होतृब्रह्मणोः प्रश्नप्रतिवचनानि ।। 1.14.17 ।।

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।

सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ।। 1.14.18 ।।

अथ “ऊमोर्व्यकाव्याधिदैवत्यानिद्विनाराशंसनं प्रातःसवनं द्विनाराशंसनं माध्यन्दिनं सवनं सकृन्नाराशंसनं तृतीयसवनम्” इति विहितानि त्रिकालकर्माणि दर्शयति दिवसे दिवस इति । देवसे दिवसे अश्वमेधाहेषु प्रत्यहं संस्तरे आस्तीर्णबर्हिषि । “संस्तरौ प्रस्तराध्वरौ” इत्यमरः । सर्वकर्माणि ऊमादिदैवत्यकर्माणि । यथाशास्त्रं वृद्धैः प्रचोदिताः सन्तः चक्रुः । “ऊमा ऊर्व्याश्च काव्याश्च पितरः सवनत्रये” । नाराशंसनं नाम सकृद्भक्षिताप्यायितासादितचमसम् ।। 1.14.18 ।।

नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।

सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ।। 1.14.19 ।।

नेति । अत्र यज्ञे अषडङ्गवित्कश्चिन्नासीत् । अव्रतश्च कश्चिन्नासीत् । अबहुश्रुतश्च कश्चिन्नासीत् । तस्य राज्ञः सदस्याः सदसि समवेता द्विजाः अवादकुशलाः नासन् ।। 1.14.19 ।।

प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा ।

तावन्तो बिल्वसहिताः पर्णिनश्च तथा ऽपरे ।। 1.14.20 ।।

अथौपवसथ्यदिनकृत्यं पश्वालम्भं वक्तुं यूपोच्छ्रयणप्रकारमाह प्राप्त इति, श्लोकद्वयमेकान्वयम् । तस्मिन् अश्वमेधे यूपानामुच्छ्रयो यूपोच्छ्रयः । उच्छ्यः उत्क्षेपणम्, उद्धृत्य स्थापनमिति यावत् । तत्कालो ऽत्र लक्ष्यते । “यूपायोच्छ्रीयमाणायानुब्रूहि” इति प्रैषे प्राप्त इत्यर्थः । बिल्वस्य विकारा बैल्वाः । “बिल्वादिभ्यो ऽण्” इत्यण् । बैल्वा यूपाष्षट्, उच्छ्रिता इति शेषः । खदिरस्य विकाराः खादिराः । तथेति समुच्चये । खादिरा यूपाश्च । तावन्तः षडेव । बिल्वसहिता इति खादिराणां बिल्वसमीपवर्तित्वम्, न तु पर्णिसमीपर्वर्तित्वमित्युच्यते । षट् खादिरा यथा बिल्वसहिता भवन्ति तथोच्छ्रिता इत्यर्थः । अपरे उक्तेभ्यो ऽन्ये पर्णिनः, पर्णी पलाशः । “पलाशे किंशुकः पर्णी” इत्यमरः । तत्प्रकृतिकाः पर्णिन इत्युच्यन्ते । पर्णिनो यूपाः तथा, षट् उच्छ्रिता इत्यर्थः ।। 1.14.20 ।।

श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा ।

द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ।। 1.14.21 ।।

श्लेष्मातकमय इति । श्लेष्मातकमयः राज्जुदालविकारः एको यूप उच्छ्रितः । देवदारुमयस्तथा देवदारुविकारश्च यूप उच्छ्रितः । अत्रैकत्वमविवक्षितम्, द्वयोः श्रुत्या चोदितत्वात् । “राज्जुदालमग्निष्ठम्मिनोति पौतुद्रवावभितो भवतः” इति श्रुतिः । राज्जुदालः श्लेष्मातकः, पौतुद्रवौ देवदारू । अयमत्र विन्यासक्रमः राज्जुदालो ऽग्निष्ठः । अग्नौ तिष्ठतीत्यग्निष्ठः । अग्निशब्देन अग्निस्थानवेदिरुच्यते । “अर्द्धमन्तर्वेदि मिनुयादर्धं बहिर्वेदि” इति श्रुतेः । स अग्निष्ठः प्रथमयूपः “तानग्निष्ठप्रथमान् मन्त्रेण छिनत्ति” इति सूत्रात् । तस्य दक्षिणोत्तरपार्श्वयोर्देवदारुयूपौ । तेषां त्रयाणां दक्षिणतस्त्रयो बैल्वा उत्तरतस्त्रयः । तेषां नवानां दक्षिणतस्त्रयः खादिरा उत्तरतस्त्रयः । तेषां पञ्चदशानां दक्षिणतस्त्रयः पालाशाः उत्तरतस्त्रयः । प्रथमं पालाशषट्कमन्ते बिल्वषट्कं वा । सर्वथा खादिरा एव बिल्वसहिताः, न पुनः पालाशाः । तमिममर्थं ग्रन्थकारो बिल्वसहिता इत्यसूचयत् । आपस्तम्बश्चासूत्रयत् “राज्जुदालमेकविंशत्यरत्निं सम्मिनोति पौतुद्रवावभितस्त्रयो बैल्वा दक्षिणतस्त्रय उत्तरतस्त्रयः खादिरा दक्षिणतस्त्रय उत्तरतस्त्रयः पालाशा दक्षिणतस्त्रय उत्तरतः” इति । एवं यूपानामुच्छ्रयणक्रममुक्त्वा तेषामन्तरालप्रदेशविस्तारं दर्शयति द्वाविति । तत्र यूपेषु । द्वौ द्वौ बाहुव्यस्तपरिग्रहौ विहितौ कृतौ । व्यस्तौ बाहू बाहुव्यस्तौ ताभ्यां परिग्रहः स्पर्शो ययोस्तौ । द्वौ द्वौ यूपौ व्यस्तबाहुस्पृश्यौ विहितौ, व्याममात्रान्तरप्रदेशावित्यर्थः । तथाह धर्मनिर्णयकारः “षण्णवत्यङ्गुलं बाहुदण्डमष्टोत्तरं तु वा । यूपान्तरालं तन्मात्रमश्वमेधे महाक्रतौ” इति ।। 1.14.21 ।।

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।

शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ।। 1.14.22 ।।

यूपनिर्माणमाह कारिता इति । एते सर्वे यूपाः शास्त्रज्ञैः यज्ञशास्त्रज्ञैः, यज्ञकोविदैः यज्ञप्रयोगकुशलैः । कारिताः काञ्चनैः काञ्चनपट्टैश्चालङ्कृताः भवन् । “बहुलं छन्दस्यमाङ्योगे ऽपि” इति अडभावः । अलङ्कारो ऽपि किं शास्त्रीयः ? नेत्याह तस्य यज्ञस्य शोभार्थमिति । यज्ञभूमेः शोभार्थमित्यर्थः ।। 1.14.22 ।।

एकविंशति यूपास्ते एकविंशत्यरत्नयः ।

वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ।। 1.14.23 ।।

तेषां सङ्ख्याप्रमाणे दर्शयति एकविंशतीति । ते यूपाः एकविंशति । “सुपां सुलुक्” इत्यादिना सुलोपः । एकविंशत्यरत्नयश्च एकविशत्यरत्न्युन्नता इत्यर्थः । “एकविंशत्यरत्निरश्वमेधस्य” इति श्रुतेः । “चतुर्विंशत्यङ्गुलयो ऽरत्निः” इति सूत्रम् । एकविंशद्भिरितीकारलोपबहुवचने आर्षे । एकैकमिति सामान्ये नपुंसकम् । एको यूप एकेन वाससेति क्रमेण सर्वे ऽपि वासोभिरलङ्कृता इत्यर्थः ।। 1.14.23 ।।

विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः ।

अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ।। 1.14.24 ।।

यूपस्थापनविशेषमुक्तानुवादपूर्वमाह विन्यस्ता इति । शिल्पिभिः सुकृताः सुष्ठु कृताः अन्यूनातिरिक्ततया कृता दृढाः सुषिरादिदोषरहिताः अष्टाश्रयः अष्टकोटयः । “स्त्रियः पाल्यश्रिकोटयः” इत्यमरः । श्लक्ष्णरूपसमन्विताः यूपाभ्यञ्जनेन स्निग्धरूपयुक्ताः सर्व एव विन्यस्ताः स्थापिताः । यद्वा प्राप्ते यूपोच्छ्रय इत्यादिश्लोकत्रयमेकान्वयम् । शास्त्रज्ञैः कारिता बैल्वादयः सर्वे एते

काञ्चनालङ्कृताः भवन्निति यूपनिर्माणमुक्तम् । एकविंशतीत्यनेन सङ्ख्याप्रमाणे दर्शिते । विन्यस्ता इत्यनेन स्थापनमुच्यते ।। 1.14.24 ।।

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।

सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ।। 1.14.25 ।।

यूपान् वर्णयति आच्छादिता इति । दिवि सप्तर्षय इव ते यूपा विराजन्ते स्म, दीप्तिमात्रे दृष्टान्तः । सप्तानां सप्तानां वा ।। 1.14.25 ।।

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।

चितो ऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ।। 1.14.26 ।।

यूपोच्छ्रयपूर्वभावि चयनमाह इष्टका इति । शुल्बकर्मणि यज्ञकर्मणि । “शुल्बं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ।” इति वैजयन्ती । प्रकृते चयनं विवक्षितम् । शुल्बमेकसरा रज्जुः । शुल्बसाध्यं कर्म शुल्बं चयनम्, अत एवाह रुद्रदत्तः “रज्जूनां विहरणसाधनत्वादेतत्कर्म शुल्बमाचष्ट आचार्यः” इति । तत्र कुशलैः ब्राह्मणैः यथान्यायं यथाशास्त्रम् । प्रमाणतः प्रमाणेन विशिष्टा इष्टकाः कारिताः । अत्र सूत्रम् “पादमात्रो ऽर्द्धमात्रो ऽणुकमात्र ऋजुरेखादक्षिणावृतासव्यावृतास्त्र्यालिखिताश्च” इति । अग्निः अग्न्याधारवेदिः । चितः ताभिरिष्टकाभिः कृतचयनः अभूत् ।। 1.14.26 ।।

स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।

गरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः ।। 1.14.27 ।।

चयनसंस्थानमाह स इति । स चित्यः चयननिर्वर्त्यो ऽग्निः राजसिंहस्य राजश्रेष्ठस्य । अनेन पूर्वमनेकधानुष्ठितक्रतुत्वं सूच्यते । कुशलैः रीतिभेदं विनाचयननिर्माणसमर्थैः द्विजैः ब्राह्मणैः ऋत्विग्भिः सञ्चितः सम्यग्यथाशास्त्रं चितः । कथं चित इत्यत्राह गरुड इति । गरुडः गरुडाकारः पक्षौ पुच्छं च प्रसार्या ऽधो वीक्षमाणः प्राङ्मुखं तिष्ठन् गरुड इव स्थितः, “श्येनचितं चिन्वीत” इति श्रुतौ श्येनशब्दो गरुडपर एव, “सुपर्णो ऽसि गरुत्मान्” इति मन्त्रलिङ्गात् । यद्वा गरुडः गरुडप्रतिकृतिः । “जीविकार्थे चापण्ये” इति वासुदेवादिवत्प्रतिकृतौ विहितस्य कनो लुप् । रुक्मपक्षः स्वर्णगर्भपक्षः । “सहस्रं हिरण्यशकलैः प्रतिदिशमग्निं प्रोक्षति” इति सूत्रात् । त्रिगुणः त्रिगुणप्रस्तारः, प्रकृतौ षट्प्रस्तारात्मकस्य चित्याग्नेरश्वमेधे त्रैगुण्यविधानात् । “षट् चितयो भवन्ति” इति श्रुतेः । “त्रिस्तावो ऽग्निर्भवतीत्यश्वमेधे विज्ञायते” इति सूत्राच्च । अत एवाष्टादशात्मकः अष्टादशप्रस्तारात्मकः । ननु षट्प्रस्तारात्मकस्य चित्यस्य त्रैगुण्यविधानेनैव अष्टादशप्रस्तारात्मकत्वं सिद्धम्, किं पुनस्तदुपदेशेन ? उच्यते त्रिगुण इत्युक्ते पञ्चदशात्मकत्वं प्रतीयते, तैत्तिरीयके “पञ्च चितयो भवन्ति” इति विधानात् । तदिदं वाजसनेयकपक्षावलम्बनं द्योतयितुमष्टादशात्मकत्वोक्तिः । एवम्भूतश्चित इत्यन्वयः ।। 1.14.27 ।।

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।

उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ।। 1.14.28 ।।

अथ पूर्वोक्तेषु यूपेषु पशुनियोजनमाह नियुक्ता इति । यथाशास्त्रं शास्त्रमनतिक्रम्य । प्रयोदिता विहिताः । पशव उरगाः पक्षिणश्च । तत्तद्दैवतमिन्द्रादिदेवतामुद्दिश्य तत्र यूपेषु नियुक्ता बद्धाः । यूपेष्वित्यारोकाणामुपलक्षणम् । “यूपेषु ग्राम्यान्पशून्नियुञ्जन्ति । आरोकेष्वारण्यान् धारयन्ति” इति श्रुतेः ।

अत्राशक्यानामुरगादीनां नियोजनं पञ्जरद्वारा । एते च पशवस्तत्तद्देवताश्च “इन्द्राय राज्ञे सूकरः” इत्याद्यनुवाकेषु प्रतिपाद्यन्ते ।। 1.14.28 ।।

शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।

ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ।। 1.14.29 ।।

तत्र “पर्यग्निकृतानारण्यानुत्सृजन्त्यहिंसायै” इति श्रुतेः आरण्यान् पशून् पर्यग्निकृतानुत्सृज्य ग्राम्याणां पशूनां शामित्रे नियोजनमाह शामित्रे त्विति । तुशब्देन आरण्येभ्यो वैलक्षण्यमुच्यते । हयः अश्वमेधीयः । ये जलचराः कूर्मादयः ते च तदन्यत्सर्वं च ग्राम्यपशुजातम्, तत्र यज्ञे । तदा विशसनकाले ऋत्विग्भिः शामित्रे विशसनकर्मणि शास्त्रतो नियुक्तम् ।। 1.14.29 ।।

पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।

अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ।। 1.14.30 ।।

यूपनियुक्तानां पशूनां सङ्ख्यामाह पशूनामिति । तत्र यूपेषु पशूनां त्रिशतं नियतं बद्धम् । तदा राज्ञो दशरथस्य अश्वरत्नोत्तमम् अश्वश्रेष्ठोत्तमं च नियतं त्रिशतमिति प्रधानापेक्षया अधिकानामपि श्रवणात् । तथाह भास्करः “अश्वमेधपशुसङ्ख्या तु पञ्चशतमेकोनविंशतिश्च” इति । अश्वरत्नोत्तर इति पाठे रत्नोत्तरो रत्नप्रधानो ऽश्व इति परनिपातेन योजना । तथाह भास्करः “सौवर्णान् महिषीमणीन् दशशतानस्यावयत्यावहाद्वावाता वयते मणीन् दशशतान् प्रत्यग्वहाद्राजतान् । प्रत्यक्श्रोणिसहस्रमेव परिवृत्त्यस्यावयेन्मौक्तिकान् सख्यः शङ्खमणी नथैषु समुपग्रन्थन्त्यविस्रस्तयः ।।” इति। आवयति उतान्करोति। ।। 1.14.30 ।।

कौसल्या तं हयं तत्र परिचर्य समन्ततः ।

कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ।। 1.14.31 ।।

मृताश्वोपचारमाह कौसल्येति । कौसल्या महिषी तत्र शामित्रप्रदेशे तं मृतं हयं समन्ततः परिचर्य प्रदक्षिणाप्रदक्षिणम् सञ्चार्य । अत्र सूत्रम् “दक्षिणान् केशपक्षानुद्ग्रध्य सव्यान् प्रग्रव्य दक्षिणानूरूनाघ्नाना इदं मध्विदं मध्विति जपन्त्यः स्त्रियो महिष्यश्चाश्वतूबरगोमृगाणां परिक्रम्य सव्यानुद्ग्रध्य दक्षिणान् प्रग्रव्य सव्यानूरूनाघ्नाना सक्थीस्वधून्वन्त्यस्त्वप्रदक्षिणं परिक्रम्य प्रदक्षिणमन्त्रतो यथापुरस्तान्नवकृत्वः सम्पादयन्ति” इति कृपाणैस्त्रिभिस्तिसृभिः सौवर्णीभिः सूचीभिः एनं परमया मुदा निरवधिकश्रद्धया विशशास असिपथान् कल्पयामास, कौसल्येति इतरासामुपलक्षणम् । “सौवर्णीभिः सूचीभिः पत्नयो ऽश्वस्यासिपथान् कल्पयन्ति प्राक्क्रोडात् प्रत्यञ्चीभिः” इति सूत्रात् । क्रोडं वक्षः ।। 1.14.31 ।।

पतत्रिणा तदा सार्द्धं सुस्थितेन च चेतसा ।

अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ।। 1.14.32 ।।

महिष्याः कर्तव्यान्तरमाह पतत्रिणेति । तदा विशसनोत्तरकाले कौसल्या धर्मकाम्यया धर्मसिद्धीच्छया । काम्यजन्तादकारप्रत्यये टाप् । सुस्थितेन सुस्थिरेण चेतसा उपलक्षिता सती, शवस्पर्शकुत्सारहिता सतीत्यर्थः । पतत्रिणा अश्वेन सार्द्धम् एकां रजनीमवसत् । अत्र सूत्रम् “अम्बे अम्बाल्यम्बिके” इति जपन्ती महिष्यश्वमुपसङ्गम्य ‘गणानां त्वा गणपतिं हवामहे’ इत्यभिमन्त्र्य

‘उत्सक्थ्योर्गृदं धेहि’ इति प्रजनने प्रजननं सन्निधायोपविशति । ‘सुभगे काम्पीलवासिनी’ति क्षौमेन वाससाध्वर्युर्महिषीमश्वं च प्रच्छाद्य ‘वृषावां रेतोधा रेतो दधातु’ इति जपत्याग्नीध्र एतां रात्रिमृत्विजो यजमानं जागरयन्ति” इति ।। 1.14.32 ।।

होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।

महिष्या परिवृत्त्या च वावातामपरां तथा ।। 1.14.33 ।।

तादात्विकदक्षिणामाह होतेति । तथेत्यनुक्तसमुच्चयार्थः । ब्रह्मा चेत्यर्थः । एते ब्रह्मादयश्चत्वारः प्रधानर्त्विजो महिषीपरिवृत्तिभ्यां सह वावातामपरां पालाकलीं च राज्ञो दक्षिणार्थं परिगृह्य हस्तेन समयोजयन्, रमणवद्धस्तेनागृह्णन्नित्यर्थः । अत्र श्रुतिः “अम्बे अम्बाल्यम्बिके इति पत्नीमुदानयति” इत्यादि । उदानयति हस्तेन गृह्णातीत्यर्थ इति भास्करः । सूत्रं च “महिषीं ब्रह्मणे ददाति वावातां होत्रे परिवृत्तिमुद्गात्रे पालाकलीमध्वर्यवे” इति । पश्चात्प्रतिनिधिद्रव्यदानेन निवर्त्येरन् । “कृताभिषेका महिषी परिवृत्तिरुपेक्षिता । वावाता भोगिनी पात्रप्रदा पालाकली मता ।।” इति वैजयन्ती ।। 1.14.33 ।।

पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।

ऋत्विक् परमसम्पन्नः श्रपयामास शास्त्रतः ।। 1.14.34 ।।

पतत्रिण इति । तस्य पतत्रिणः अश्वस्य “पतत्री पक्षितुरगौ” इत्यमरः । वपां वपास्थानीयां तेजनीम्, “नाश्वस्य वपा विद्यते” इति सूत्रात् “नान्येषां पशूनां तेजन्या अवद्यन्त्यवद्यन्त्यश्वस्य” इति श्रुतेश्च । उद्धृत्य आदाय । नियतेन्द्रियः एकाग्रः परमसम्पन्नः परमेण प्रयोगचातुर्येण सम्पन्नः । ऋत्विक् अध्वर्युः । शास्त्रतः श्रपयापास पपाच । “श्रा पाके” । शास्त्रं च स्वयमेव वक्ष्यति प्लक्षेति ।। 1.14.34 ।।

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।

यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ।। 1.14.35 ।।

अथ वपाहोमं सूचयन्नाह धूमेति । नराधिपः दशरथः यथाकालं होमकालमनतिक्रम्य । यथान्यायं यथाशास्त्रम् । आत्मनः पापं निर्णुदन् निवर्तयन् सन् वपाया धूमगन्धं जिघ्रति स्म ।। 1.14.35 ।।

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।

अग्नौ प्रास्यन्ति विधिवत्समन्त्राः षोडशर्त्विजः ।। 1.14.36 ।।

वपाहोममुक्त्वा अङ्गहोममाह हयस्येति । सर्वाणि ब्राह्मणा इत्यत्र गुर्वक्षरमार्षम् । सर्वाणीत्यनेन सर्वस्य हुतत्वेन शेषभक्षणं नास्तीत्युक्तम् । अङ्गहोमफलं श्रूयते “अङ्गे अङ्गे वै पुरुषस्य पाप्मोपश्लिष्टः । अङ्गादङ्गादेवैनं पाप्मनस्तेन मुञ्चति” इति । यजमानस्य सर्वं पापं निवर्तत इत्यर्थः ।। 1.14.36 ।।

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।

अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ।। 1.14.37 ।।

पूर्वं शास्त्रतः श्रपयामासेत्युक्तम्, तदवदानमाह प्लक्षेति । अन्येषां यज्ञानां सम्बन्धिहविः वपा । प्लक्षशाखासु क्रियते अवदीयते । अश्वमेधस्य यज्ञस्य भागः हविर्भागः । वैतसः वैतसे कटे अवदातव्यो भवति । शैषिको ऽण् । अत्र यज्ञशब्दने पशवो लक्ष्यन्ते । तथा च श्रुतिः “प्लक्षशाखायामन्येषां पशूनामवद्यन्ति वेतसशाखायामश्वस्य” इति । अत्र वेतसशाखाशब्दो वैतसकटपरः । वेतसस्य शाखा वैतसी । वैतस्यां संस्कृतो वैतसः । “यस्येति च” इति ईकारलोपः । वैतसकटस्तु पश्वासादनार्थः । “वैतसः कटो भवति अप्सु योनिर्वा अश्वः अप्सुजो वेतसः स्व एवैनं योनौ प्रतिष्ठापयति” इति श्रुतेः । “वैतसकटे ऽश्वं प्राञ्चमासादयति” इति सूत्राच्च । अतो वैतसकटे वपावदानमिति व्याख्यानं चिन्त्यम् ।। 1.14.37 ।।

त्र्यहो ऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।

चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ।

उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ।। 1.14.38 ।।

अत्र सवनीयदिनानि कतीत्याकाङ्क्षायामाह त्र्यह इति । “अश्वमेधस्य त्रीणि सवनीयान्यहानि” इति कल्पसूत्रेण ब्राह्मणैः तन्मूलभूतब्राह्मणवाक्यैश्च अश्वमेधः त्र्यहः सङ्ख्यातः । अश्वमेधस्यानेकाहसाध्यत्वे ऽपि सवनीयाहानां प्राधान्यात्तद्ग्रहः । त्रीणि अहानि यस्य स त्र्यहः । “अच्प्रत्यन्वव ” इत्यत्र योगविभागादच् । इदमर्द्धमेकं वाक्यम् । तान्यहानि परिगणयति चतुष्टोममिति । त्रिवृत्पञ्चदशः सप्तदश एकविंश इति स्तोमचतुष्टययुक्तत्वादग्निष्टोमश्चतुष्टोम इत्युच्यते । तदनुष्ठानयुक्तत्वात्तद्व्यपदेशः । एकविंशोक्थ्ययुक्तत्वादुक्थ्यमिति ज्योतिष्टोमस्य द्वितीया संस्था, तद्युक्तं द्वितीयमहः, सर्वस्तोमो ऽतिरात्रः तद्युक्तमुत्तरमहः, द्वितीयादुत्तरं तृतीयमह इत्यर्थः ।। 1.14.38 ।।

कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ।। 1.14.39 ।।

एवमश्वमेधस्य त्र्यहत्वेन त्रयाणां कर्तव्यत्वे ऽपि प्रकृते ऽश्वमेधे शास्त्रान्तरदर्शनात् विहिता अन्ये ऽपि बहवः क्रतवो राज्ञा कारिता इत्याह कारिता इत्यर्द्धेन ।। 1.14.39 ।।

ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ ।

अभिजिद्विश्वजिच्चैवमाप्तोर्यामो महाक्रतुः ।। 1.14.40 ।।

के ते क्रतव इत्यपेक्षायामाह ज्योतिष्टोमेति । अतिरात्राविति द्विवचनेन तस्यावृत्तिरुच्यते । विनिर्मितौ अनुष्ठितौ । अन्यत्रापि विभक्तिविपरिणामेनायं शब्द अनुषज्यताम् । उक्तदिनत्रयादुत्तरेष्वहस्सु ज्योतिष्टोमादयः षट् क्रतवः कारिता इत्यर्थः । शास्त्रान्तरे ज्योतिष्टोमादीनामपि विहितत्वेन षोडशिग्रहणवत्तेषामप्यनुष्ठाने महानभ्युदय इति मन्वानेन राज्ञा ते ऽपि कारिता इत्यर्थः । अत्र चयनयूपोच्छ्रयपशुनियोजनवपाहोमचतुष्टोमसवनानि क्रमेण वक्तव्यानीति तत्क्रमेण श्लोकाः । पठितव्याः । व्युत्क्रमपाठो लेखकप्रमादकृतः । ऋषिरेव वा क्रममविवक्षन् प्रणिनाय ।। 1.14.40 ।।

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः ।

अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ।। 1.14.41 ।।

अथ दक्षिणादानमाह प्राचीमिति द्वयमेकम् । स्वकुलस्य इक्ष्वाकुकुलस्य वर्द्धनः, बहुदक्षिणादानं

ह्युचितमिक्ष्वाकुकुलस्येति भावः ।। 1.14.41 ।।

उद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता ।

हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ।। 1.14.42 ।।

एतावद्दक्षिणादाने किं प्रमाणं तत्राह एषा दक्षिणा विनिर्मिता विहिता, “प्रतिदिशं दक्षिणां ददाति प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुः” इत्यादिसूत्रेणेति शेषः । स्वयम्भूविहिते ब्रह्मनिर्मिते । “प्रजापतिरश्वमेधमसृजत” इति श्रुतेः ।। 1.14.42 ।।

क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।

ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्द्धनः ।। 1.14.43 ।।

ऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।

भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ।। 1.14.44 ।।

क्रतुमित्यादिश्लोकद्वयमेकान्वयम् । न्यायतः शास्त्रतः हि यस्माद्राजा ददौ तस्मादृत्विजो ऽब्रुवन्नित्यन्वयः । यद्यपि “महापृथिवी न देया” इति इदं निषिद्धं तथाप्यत्र प्रदेशविशेष एव दत्त इति ज्ञेयम्, प्रतिषेधवदत्र विधेरपि दर्शनात् केसरिदानवद्विकल्पो वा ।। 1.14.43,44 ।।

न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।

रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।

निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ।। 1.14.45 ।।

न भूम्येति सार्द्धश्लोकः । अशक्तौ हेतुः रता इति । स्वाध्यायकरणे स्वाध्यायाध्ययने ।। 1.14.45 ।।

मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।

तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ।। 1.14.46 ।।

कथं दत्तस्य पुनरपहारस्तत्राह निष्क्रयमिति । निष्क्रयं मूल्यम्, कृत्स्नपृथिव्या मूल्यं कुतो लभ्यते ? तत्राह किञ्चिदिति । यथोपपन्नमित्यर्थः ।। 1.14.46 ।।

एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।। 1.14.47 ।।

किञ्चिदित्यस्य प्रपञ्चः मणीति । मणिरत्नं मणिश्रेष्ठम्, समुद्यतं समुपस्थितम् । एवमिति । नरपतिरेवमुक्तः सन् दशशतसहस्राणि, दशलक्षमिति यावत् ददौ ।। 1.14.47 ।।

दशकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ।। 1.14.48 ।।

दशेत्यर्द्धमेकं वाक्यम् । नृप इत्यस्य पूर्वश्लोकस्थस्यात्रान्वयः । चतुर्गुणं चतुर्दशकोटीरित्यर्थः । अत्र रजतानि प्रतिनिधित्वेन दत्तानि, न तु दक्षिणात्वेन । अतः “xतस्माद्रजतँ हिरण्यमदक्षिण्यम्” इति श्रुत्या न विरोधः ।। 1.14.48 ।।

ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ।

ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ।। 1.14.49 ।।

ऋत्विज इति । सर्वे ऋत्विजः सहिताः सन्तः वसु दक्षिणाप्राप्तं धनम् अंशीकृत्य दानाय ऋश्यशृङ्गाय वसिष्ठाय च ददुः ।। 1.14.49 ।।

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।

सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ।। 1.14.50 ।।

तत इति । न्यायतः शास्त्रतः “यावदध्वर्यवे ददाति तदर्द्धं प्रतिप्रस्थात्रे तृतीयं नेष्ट्रे चतुर्थमुन्नेत्रे एतेनेतरेषां दानमुक्तं भवति” इत्युक्तक्रमेण । ततः ऋश्यशृङ्गवसिष्ठमुखेन प्रविभागं कृत्वा । सुप्रीतमनसः प्रत्यूचुः । सुप्रीतमनस इति विशेषणेन सर्वे वयं प्रीताः स्म इति प्रतिवचनप्रकारो ऽवगम्यते ।। 1.14.50 ।।

ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ।

जाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ।। 1.14.51 ।।

तत इति । प्रसर्पकेभ्यः यज्ञदर्शनार्थमागतेभ्यः । “यावन्तो वै सदस्यास्ते सर्वे दक्षिण्याः” इति श्रुतेः । जाम्बूनदं जम्बूनदीप्रभवमिति हिरण्यविशेषणम् ।। 1.14.51 ।।

दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।

कस्मैचिद्याचमानाय ददौ राघवनन्दनः ।। 1.14.52 ।।

दरिद्रायेति । हस्ताभरणं याचमानाय कस्मैचित् दरिद्राय, तदेव ददावित्यर्थः ।। 1.14.52 ।।

ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।

प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ।। 1.14.53 ।।

तत इति । ततः यथेष्टदक्षिणादानेनेत्यर्थः ।। 1.14.53 ।।

तस्याशिषो ऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।

उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ।। 1.14.54 ।।

तस्येति । तस्य तस्मै ।। 1.14.54 ।।

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।

पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ।। 1.14.55 ।।

तत इति । पापं पुत्रोत्पत्तिप्रतिबन्धकदुतिरमपहन्तीति पापापहम् । “अपे क्लेशतमसोः” इति हन्तेर्डप्रत्ययः । तमःपर्यायो ऽत्र पापशब्दः । स्वर्नयनं पुत्रप्रापणद्वारा स्वर्गप्रापकम् । इतरैः पार्थिवर्षभैः दुष्करम्, न विद्यते उत्तममस्मादित्यनुत्तमं सर्वोत्तमं यज्ञमश्वमेधं प्राप्य प्रीतमनाः, बभूवेति शेषः ।। 1.14.55 ।।

ततो ऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।

कुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत ।। 1.14.56 ।।

एवं पुत्रोत्पत्तिप्रतिबन्धकसकलदुरितनिवारणक्षमे भगवदङ्गभूतब्रह्मादिदेवताराधनरूपे ऽश्वमेधे निर्वृत्ते साक्षाद्भगवदाराधनं पुत्रप्राप्तिकारणं क्रतुं सुमन्त्रोक्तं मनसि निधाय ऋश्यशृङ्गमर्थयते तत इति । कुलस्य वर्द्धनं पुत्रोत्पत्तिहेतुभूतं कर्मेत्यर्थः । त्वं तु कर्तुमर्हसीत्यन्ते इतिरध्याहार्यः ।। 1.14.56 ।।

तथेति च स राजानमुवाच द्विजसत्तमः ।

भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ।। 1.14.57 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ।। 14 ।।

तथेति । पुत्रीयं कर्म करिष्ये सुताश्च भविष्यन्तीत्युवाचेत्यन्वयः ।। 1.14.57 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणेमणिञ्जीराख्याने बालकाण्डव्याख्याने चतुर्दशः सर्गः ।। 14 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.