60 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

षष्टितमः सर्गः

तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् ।

ऋषिमध्ये महातेजा विश्वामित्रो ऽभ्यभाषत ।। 1.60.1 ।।

अथ सशरीरस्य त्रिशङ्कोः स्वर्गप्रापणं षष्टितमे–तप इत्यादि ।। 1.60.1 ।।

अयमिक्ष्वाकु दायादस्त्रिशङ्कुरिति विश्रुतः ।

धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ।

तेनानेन शरीरेण देवलोकजिगीषया ।। 1.60.2 ।।

अयमिति सार्द्धः । दायमत्तीति दायादः, पुत्रपौत्रादिः । पचाद्यच् । वंश इति यावत् । तेन पूर्वं क्षत्रियरूपेण । अनेन इदानीं चण्डालरूपेण शरीरेण । देवलोकजिगीषया स्वर्गं स्ववशीकर्तुमिच्छया । मां शरणं गतः ।। 1.60.2 ।।

यथा ऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति ।

तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ।। 1.60.3 ।।

यथेति पञ्च ।। 1.60.3 ।।

विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ।

ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ।। 1.60.4 ।।

ऊचुः अन्योन्यमिति शेषः ।। 1.60.4 ।।

अयं कुशिकदायादो मुनिः परमकोपनः ।

यदाह वचनं सम्यगेतत्कार्यं न संशयः ।। 1.60.5 ।।

अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ।

तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ।। 1.60.6 ।।

सम्यक्कार्यमित्यन्वयः ।। 1.60.5,6 ।।

गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ।

तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ।। 1.60.7 ।।

समधितिष्ठत स्वस्वार्त्विज्यमिति शेषः ।। 1.60.7 ।।

एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा ।

याजकश्च महातेजा विश्वामित्रो ऽभवत् क्रतौ ।। 1.60.8 ।।

एवमिति । तास्ताः क्रियाः स्वस्वार्त्विज्यकर्माणि । याजकः अध्वर्युः । स्रुवमुद्यम्येति वक्ष्यमाणत्वात् ।। 1.60.8 ।।

ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ।

चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ।। 1.60.9 ।।

ऋत्विज इति । मन्त्रवदिति क्रियाविशेषणम् । यथाकल्पं कल्पसूत्रमनतिक्रम्य । यथाविधि यथाशास्त्रम् ।। 1.60.9 ।।

ततः कालेन महता विश्वामित्रो महातपाः ।

चकारावाहनं तत्र भागार्थं सर्वदेवताः ।। 1.60.10 ।।

तत इति । महता कालेन द्विस्त्रिर्मन्त्रावृत्त्या सर्वदेवताः प्रतीति शेषः ।। 1.60.10 ।।

नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ।। 1.60.11 ।।

नेत्यर्द्धम् । नाभ्यागमन् । अनधिकारिणा अन्यायेन च कृतमकृतमिति न्यायादिति भावः ।। 1.60.11 ।।

तत्र क्रोधसमाविष्टो विश्वामित्रो महामुनिः ।

स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ।। 1.60.12 ।।

तत इति । स्रुवोद्यमनं कोपजचेष्टाविशेषः ।। 1.60.12 ।।

पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ।

एष त्वां सशरीरेण नयामि स्वर्गमोजसा ।

दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप ।। 1.60.13 ।।

पश्येति सार्द्धः । त्वदभिमतयागस्त्वास्तामिति भावः । एष इत्यव्यवधाने । ओजसा तपोवीर्येण । दुष्प्रापम्, अन्यैरिति शेषः ।। 1.60.13 ।।

स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम् ।

राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज ।। 1.60.14 ।।

स्वेति । स्वार्जितं सुष्ठ्वार्जितम् । स्वतेजसा स्वासाधारणप्रभावेन ।। 1.60.14 ।।

उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ।

दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा ।। 1.60.15 ।।

उक्तेति । मुनीनां पश्यतां मुनिषु पश्यत्सु सत्सु ।। 1.60.15 ।।

देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ।

सह सर्वैः सुरगणैरिदं वचनमब्रवीत् ।। 1.60.16 ।।

देवेति चत्वारः ।। 1.60.16 ।।

त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ।

गुरुशापहतो मूढ पत भूमिमवाक्छिराः ।। 1.60.17 ।।

एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः ।

विक्रोशमानस्त्राहीति विश्वामित्रं तपोध्ानम् ।। 1.60.18 ।।

स्वर्गकृतालयः स्वर्गालयार्हः ।। 1.60.17,18 ।।

तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ।

क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। 1.60.19 ।।

आहारयत् अकरोत् ।। 1.60.19 ।।

ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ।

सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।। 1.60.20 ।।

ऋषीति । सृजन् अभूदिति शेषः । असृजदित्यर्थः ।। 1.60.20 ।।

नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ।

दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः ।। 1.60.21 ।।

नक्षत्रेति । मुनिमध्ये स्थित एव दक्षिणां दिशमास्थाय तामधिकरणं कृत्वा । नक्षत्रमालां सप्तविंशतिनक्षत्रमालाम् । यथोत्तरतो ध्रुवो ऽचलस्तिष्ठति, एवं त्रिशङ्कुस्तिष्ठतु, तं परितो यथा सप्तर्षिण्डलं तद्वदत्रापि भवतु, तत्र यथा नक्षत्राणि तद्वदत्रापीत्यर्थः ।। 1.60.21 ।।

सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ।

अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।

दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ।। 1.60.22 ।।

सृष्ट्वेति सार्द्धः । नक्षत्रवंशं क्षुद्रनक्षत्रगणम् । द्वितीयार्धान्ते इति सङ्कल्पेत्युपस्कार्यम् । अन्यमिन्द्रं करिष्यामि विद्यमानलोकस्यान्येन्द्रं करिष्यामि । अनिन्द्रको लोको वा स्यात् । इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अत एवाहुराचार्याः– “अन्येन्द्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववाये” इति । अस्मिन्नर्थे इन्द्रं नाशयिष्यामीत्यर्थः । स्यात् सो ऽनुचितः, सृष्ट्यन्तरोपक्रमविरोधात् । दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे इत्यनन्तरविरोधाच्च । अत एवायमर्थो भवितुमर्हति–मया सृज्यमानस्य स्वर्गस्यान्यमिन्द्रं करिष्यामि, अथवा मया सृज्यस्स्वर्गलोको ऽनिन्द्रको वास्तु । तत्र त्रिशङ्कुरेवेन्द्रो भवतु, तत्परिवारान् सृजेयमिति तादृशदेवान् स्रष्टुमुपचक्रम इत्यर्थः ।। 1.60.22।।

ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः ।

विश्वामित्रं महात्मानमूचुः सानुनयं वचः ।। 1.60.23 ।।

तत इति । परमसम्भ्रान्ताः स्वप्रतिसृष्टेरतिदुःसहत्वादिति भावः । सानुनयं ससान्त्वम् ।। 1.60.23 ।।

अयं राजा महाभाग गुरुशापपरिक्षतः ।

सशरीरो दिवं यातु नार्हत्येह तपोधन ।। 1.60.24 ।।

अनुनयमेवाह–अयमित्यादि । नार्हति अदुष्टत्रैर्णिकलभ्यत्वात्स्वर्गस्येति भावः ।। 1.60.24 ।।

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः ।

अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ।। 1.60.25 ।।

तेषामिति चत्वारः ।। 1.60.25 ।।

सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः ।

आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ।। 1.60.26 ।।

भद्रं व इति प्रतिसान्त्वम् ।। 1.60.26 ।।

स्वर्गो ऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः ।

नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ।। 1.60.27 ।।

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः ।

मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ।। 1.60.28 ।।

स्वर्गो ऽस्तु अयं त्रिशङ्कुस्थितिदेश एवेति शेषः । मत्कृतानि मत्सृष्टानि । अत एव मामकानि लोकाः भूरादयः यावद्धरिष्यन्ति स्थास्यन्ति । सर्वशः सर्वप्रकारेण ध्रुवाणि भवन्तु । प्रार्थनायां लोट् । तत् पूर्वोक्तम् । अनुज्ञातुमङ्गीकर्तुम् ।। 1.60.27,28 ।।

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ।। 1.60.29 ।।

एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ।

गगने तान्यनेकानि वैश्वानरपथाद्बहिः ।। 1.60.30 ।।

नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् ।

अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ।। 1.60.31 ।।

अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ।

कृतार्थं कीर्तिमन्तञ्च स्वर्गलोकगतं तथा ।। 1.60.32 ।।

एवमुक्ता इत्यादिसार्द्धाः पञ्च । सर्वशः सर्वाणि । वैश्वानरपथात् वैश्वानरः ज्योतिः तत्पथात् प्रसिद्धानादिज्योतिश्चक्रमार्गात् । तेषु त्वत्सृष्टेषु । जाज्वलन् अतिशयेन प्रकाशमानः । अवाक्छिराः गुर्वपचारफलप्रकटनायाधोमुखः । अमरसन्निभः तेजसा अमरतुल्यः । तिष्ठतु ध्रुव इवेति भावः । अनुयास्यन्ति स्वर्गनक्षत्राणि ध्रुवमिवेति भावः । स्वर्गलोकगतं यथा स्वर्गलोकगतमिव कृतार्थमित्यन्वयः ।। 1.60.2932 ।।

विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ।

ऋषिभिश्च महातेजा बाढमित्याह देवताः ।। 1.60.33 ।।

बाढमित्यङ्गीकारद्योतकं वचनम् ।। 1.60.33 ।।

ततो देवा महात्मानो मुनयश्च तपोधनाः ।

जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ।। 1.60.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्टितमः सर्गः ।। 60 ।।

यज्ञस्यान्त इत्यनेन विश्वामित्रेण यजमानप्रतिनिधिं कृत्वा यज्ञः समापितः । देवैर्भागश्च गृहीत इति गम्यते ।। 1.60.34 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षष्टितमः सर्गः ।। 60 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.