12 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वादशः सर्गः

ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे ।

वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् ।। 1.12.1 ।।

एवं दशरथः सर्वकामसमृद्धो ऽपि पुत्रालाभसन्तप्तस्तन्मूलानि पापानि स्वाधिकारानुरूपेणाश्वमेधेन विना न विनश्यन्तीति मन्वानः “सर्वं पाप्पानं तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते” इति श्रुत्या “राजसार्वभौमो ऽश्वमेधेन यजेत” इति स्मृत्या च विहितमश्वमेधं यष्टुं सङ्कल्प्य तदानीमुद्बुद्धसंस्कारेण सुमन्त्रेणोदीरितवचनाज्जामात्रुपलालनव्याजेन शान्तया सह ऋश्यशृङ्गमानीय प्राप्तकाले पूर्वं सङ्कल्पितमश्वमेधं कर्तुमारभतेत्याह ततः काल इत्यादि । ततः ऋश्यशृङ्गानयनानन्तरं , बहुतिथे अनल्पे काले गते । सङ्ख्यासञ्ज्ञाद्बहुशब्दात् पूरणार्थे डटि “बहुपूगगणसङ्घस्य तिथुक्” इति तिथुगागमः । कस्मिंश्चित् मलिम्लुचत्वादिदोषरहिततया विलक्षणे, सुमनोहरे पौर्णमास्याः कालत्वेनातिमनोज्ञे, वसन्ते समनुप्राप्ते प्रारब्धे, चैत्र्यां पौर्णमास्यामित्यर्थः । राज्ञो दशरथस्य यष्टुं साङ्ग्रहणीमिष्टिं कर्तुं मनः मनोरथः अभूत् । “चैत्र्यां पौर्णमास्यां प्रातरश्वमेधेन यक्ष्ये इति सङ्कल्प्य साङ्ग्रहण्येष्ट्या यजते” इति स्मरणात् ।। 1.12.1 ।।

ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् ।

यज्ञाय वरयामास सन्तानार्थं कुलस्य वै ।। 1.12.2 ।।

अथ साङ्ग्रहणीमिष्टिं कर्तुमृत्विग्वरणे प्राप्ते प्रथममृश्यशृङ्गं ब्रह्मत्वेन वृतवानित्याह ततः प्रसाद्येति । देववर्णिनं देववर्चसम् ।। 1.12.2 ।।

तथेति च स राजानमुवाच च सुसत्कृतः ।

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।। 1.12.3 ।।

तथेति । स च ऋश्यशृङ्गश्च ।। 1.12.3 ।।

ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् ।

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।। 1.12.4 ।।

अथ “अपदातीनृत्विजः समावहन्त्यासुब्रह्मण्यायाः” इति विहितमध्वर्युप्रभृतिवरणमाह ततो राजेत्यादिना । अस्याः श्रुतेरयमर्थः तस्य तस्य गृहे गत्वा सोमप्रवाकवृतानध्वर्युब्रह्महोतृ़नाग्नीध्रं च हस्त्यश्वादिकमारोप्य राजगृहमानयन्ति राजपुरुषाः । अनन्तरायाममावास्यायां पूर्ववृता एव ते

सञ्ज्ञानेष्ट्यर्थं पुनर्व्रियन्ते । अथ वैशाख्यां पौर्णमास्यां प्राजापत्यर्षभपश्वर्थं पूर्ववत् सोमप्रवाकवृतौ मैत्रावरुणप्रतिप्रस्थातारौ हस्त्यादिकमारोप्यानयन्ति राजपुरुषाः । अनन्तरायाममावास्यायां तथैव वृतमुद्गातारं हस्त्यादिभिरानयन्ति । अथागामिनि वसन्ते पञ्चदश्यां हस्त्यादिभिः प्रस्तोतारमानयन्ति । त्रैधातवीयार्थं यत्र दीक्षारम्भस्तद्दिवसादूर्ध्वं तृतीयादिष्वहस्वन्वहमितरानष्टावृत्विजो हस्त्यादिकमारोप्यानयन्ति ब्राह्मणाच्छंसिनमच्छावाकं नेष्टारं प्रतिहर्तारं ग्रावस्तुतं पोतारम् उन्नेतारं सुब्रह्मण्यमिति सोमार्थम् । एवमासुब्रह्मण्याह्वानादपदातीनृत्विज आवहन्तीति । एवं क्रमेण कर्त्तव्यानि ऋत्विग्वरणानि कार्यकरत्वात्सङ्ग्रहेण दर्शयति सुमन्त्रावाहयेति । आवाहय आनय । ऋतौ यजन्तीति ऋत्विजः । ब्रह्मवादिनः वेदपाठकान् ।। 1.12.4 ।।

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।

पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजातयः ।। 1.12.5 ।।

ऋत्विजः परिगणयति सुयज्ञमिति ।। 1.12.5 ।।

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।

समानयत्स तान् सर्वान् समर्थान् वेदपारगान् ।। 1.12.6 ।।

तत इति त्वरितविक्रमः त्वरितपदन्यासः ।। 1.12.6 ।।

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।। 1.12.7 ।।

तानिति । धर्मार्थसहितं धर्मार्थरूपप्रयोजनयुक्तम्, श्लक्ष्णं मधुरम् ।। 1.12.7 ।।

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।

तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ।। 1.12.8 ।।

ममेति व्याख्यातम् ।। 1.12.8 ।।

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।

ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम् ।। 1.12.9 ।।

तदिति । यष्टुमिच्छामि प्रतिबन्धकदुरितशान्त्यर्थम् । ऋषिपुत्रप्रभावेन ऋश्यशृङ्गकृतयज्ञप्रभावेन, पश्चात्कामान्, पुत्रान् प्राप्स्यामि च ।। 1.12.9 ।।

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।। 1.12.10 ।।

तत इति । ऋश्यशृङ्गश्लाघागर्भत्वाद्वसिष्ठप्रमुखा इत्युक्तम् ।। 1.12.10 ।।

ऋश्यशृङ्गपुरोगाश्चप्रत्यूचुर्नृपतिं तदा ।

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।। 1.12.11 ।।

ऋश्यशृङ्गेत्यादि व्याख्यातप्रायम् ।। 1.12.11 ।।

सर्वथा प्राप्स्यसे पुत्रांश्चतुरो ऽमितविक्रमान् ।

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।। 1.12.12 ।।

सर्वथेति । सनत्कुमारवचःश्रवणाच्चतुर इत्युक्तम् ।। 1.12.12 ।।

ततः प्रीतो ऽभवद्राजा श्रुत्वा तु द्विजभाषितम् ।

अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ।। 1.12.13 ।।

तत इति । क्रियाभेदान्न राजपदपुनरुक्तिः ।। 1.12.13 ।।

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।

समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ।। 1.12.14 ।।

गुरूणामिति । सम्भ्रियन्तु सम्भ्रियन्ताम्, आर्षं परस्मैपदम् । अत्र सम्भाराः यज्ञीयाश्वमोचनोपकरणानि “द्वादशारत्नी रशना भवति” इत्युक्त्या द्वादशारत्निपरिमिता मुञ्जाख्यतृणविशेषनिर्मिता रशना “चतुष्टय्य आपो भवन्ति” इत्यनुवाकोक्ताः आतपतिवर्ष्याः कूप्याः स्थावरा वहन्त्यश्च इति चतुर्विधा आप इत्यादीनि । समर्थैः “चतुःशता रक्षन्ति” इति श्रूयमाणै राजपुत्राद्यैः अधिष्ठितः रक्षितः । सोपाध्यायः उपाध्यायैश्चतुर्भिः ऋत्विग्भिः सहितः । अश्वो विमुच्यताम् “चत्वार ऋत्विजः समुक्षन्तीत्यारभ्य शतेन राजपुत्रैः सह अध्वर्युः शतेनाराजभिरुग्रैः सहब्रह्मा शतेन सूतग्रामणीभिः सह होता शतेन क्षत्र्रसङ्ग्रहीतृभिः सहोद्गाता” इति श्रुतेः । सङ्गृहीतं च भट्टभास्करैः “सन्नाहवन्तः क्षितिपालपुत्राः सन्नद्धसूताः शतमस्य तल्प्याः । गोपायितारः शतमेवमुग्राः सन्नाहिनस्तादृशसूनुयुक्ताः । वैश्याः शतं प्रान्तचराः पथिस्युर्वरूथिनस्तैः शतमेव शूद्राः ।।” इति ।। 1.12.14 ।।

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।

शान्तयश्चाभिवर्द्धन्तां यथाकल्पं यथाविधि ।। 1.12.15 ।।

अथ “पुण्यनामदेवयजनमध्यवस्यति” इत्युक्तरीत्या यागार्हपुण्यस्थपलपरिग्रहं दर्शयति सरय्वा इति । उत्तरं विविक्तमिति तत्परिग्रहः । शान्तयः शान्तिकर्माणि । अभिवर्द्धन्तां प्रवर्तन्ताम्, यथाकल्पं यथाक्रमं, यथाविधि यथाशास्त्रम् ।। 1.12.15 ।।

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।

नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ।। 1.12.16 ।।

शक्य इति । कष्टः क्लेशकरः ।। 1.12.16 ।।

छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः ।

विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति ।। 1.12.17 ।।

छिद्रमिति । छिद्रम् अपराधमित्यर्थः ।। 1.12.17 ।।

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।

तथा विधानं क्रियतां समर्थाः करणेष्विह ।। 1.12.18 ।।

तदिति । यथेति छेदः ।। 1.12.18 ।।

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।

पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ।। 1.12.19 ।।

तथेति । अकुर्वत साङ्ग्रहणेष्टिप्रभृत्यश्वविमोचनान्तमकुर्वन्नित्यर्थः ।। 1.12.19 ।।

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।। 1.12.20 ।।

ततो द्विजा इति । अनुज्ञाताः, तेनेति शेषः ।। 1.12.20 ।।

गतेष्वथ द्विजाग्र्येषु मन्त्रिणस्तान्नराधिपः ।

विसर्ज्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ।। 1.12.21 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ।। 12 ।।

गतेष्विति । स्वं वेश्म, अग्निगृहादन्तःपुरमित्यर्थः ।। 1.12.21 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वादशः सर्गः ।। 12 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.