25 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चविशः सर्गः

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।

श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ।। 1.25.1 ।।

स्त्रिया अपि सर्वलोकविनाशिन्या वधे न दोष इत्याह पञ्चविंशे अथेत्यादि । अप्रमेयस्य अप्रमेयप्रभावस्य ।। 1.25.1 ।।

अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव ।

कथं नागसहस्रस्य धारयत्यबला बलम् ।। 1.25.2 ।।

अल्पेति । यदा यस्मात्, यदायत्रादयो हेतावपि मुनिभिः प्रयुज्यन्ते । यस्माच्छ्रूयन्ते तस्मात् अबला स्त्री कथं नागसहस्रस्य बलं धारयति ।। 1.25.2 ।।

विश्वामित्रो ऽब्रवीद्वाक्यं शृणु येन बलोत्तरा ।

वरदानकृतं वीर्यं धारयत्यबला बलम् ।। 1.25.3 ।।

विश्वामित्र इति । येन हेतुना बलोत्तरा भवति तं शृणु । तस्या वरदानकृतं वीर्यं बलमस्ति अतो ऽबलापि बलं धारयति ।। 1.25.3 ।।

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ।

अनपत्यः शुभाचारः स च तेपे महत्तपः ।। 1.25.4 ।।

वरदानप्रकारमाह पूर्वमित्यादि ।। 1.25.4 ।।

पितामहस्तु सम्प्रीतस्तस्य यक्षपतेस्तदा ।

कन्यारत्नं ददौ राम ताटकां नाम नामतः ।। 1.25.5 ।।

पितामह इति । नाम प्रसिद्धौ ।। 1.25.5 ।।

ददौ नागसहस्रस्य बलं चास्याः पितामहः ।

न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।। 1.25.6 ।।

ददाविति । यक्षाय सुकेतवे ।। 1.25.6 ।।

तां तु जातां विवर्द्धन्तीं रूपयौवनशालिनीम् ।

जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ।। 1.25.7 ।।

तामिति । विवर्द्धन्तीं विवर्द्धमानाम् । भार्यां ददौ ।। 1.25.7 ।।

कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत ।

मारीचं नाम दुर्द्धषं यः शापाद्राक्षसो ऽभवत् ।। 1.25.8 ।।

कस्यचिदिति । कस्मिंश्चित्काले गते सति । अजायत अजनयत् ।। 1.25.8 ।।

सुन्दे तु निहते राम सागस्त्यं मुनिपुङ्गवम् ।

ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ।। 1.25.9 ।।

शापप्रकारमाह सुन्दे त्विति । निहते, अगस्त्येनेति शेषः । प्रधर्षयितुं हन्तुम् । इच्छति ऐच्छत् ।। 1.25.9 ।।

भक्षार्थं जातसंरम्भा गर्जन्ती सा ऽभ्यधावत ।। 1.25.10 ।।

भक्षेति । जातसंरम्भा स्वभर्तृवधजनितकोपा अत एव भक्षार्थमभ्यधावत । अर्द्धम् ।। 1.25.10 ।।

आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।। 1.25.11 ।।

आपतन्तीमिति । स्पष्टम् ।। 1.25.11 ।।

अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ।। 1.25.12 ।।

अगस्त्य इत्यर्द्धम् ।। 1.25.12 ।।

पुरुषादी महायक्षी विरूपा विकृतानना ।

इदं रूपं विहाया ऽथ दारुणं रूपमस्तु ते ।। 1.25.13 ।।

पुरुषादीति । पुरुषादी मनुष्यभक्षिणी । त्वमिदं रूपं विहाय पुरुषादीत्यादिविशेषणयुक्ता भव । अथ ते दारुणं क्रूरं रूपं शरीरम् अस्तु ।। 1.25.13 ।।

सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता ।

देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ।। 1.25.14 ।।

सैषेति । अगस्त्यचरितम्, तदानीमिति शेषः ।। 1.25.14 ।।

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।

गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ।। 1.25.15 ।।

एनामिति । जहि नाशय ।। 1.25.15 ।।

न ह्येनां शापसंस्पृष्टां कश्चिदुत्सहते पुमान् ।

निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ।। 1.25.16 ।।

न हीति । शापसंस्पृष्टां शापयुक्ताम् ।। 1.25.16 ।।

न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।

चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ।। 1.25.17 ।।

न हीति । ते त्वया । घृणा जुगुप्सा । कर्तव्यम्, कर्मेति शेषः ।। 1.25.17 ।।

नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।

पातकं वा सदोषं वा कर्तव्यं रक्षता सताम् ।। 1.25.18 ।।

नृशंसमिति । नृशंसं क्रूरकर्म । सदोषं सापवादं कर्म । रक्षता राजपुत्रेण । प्रजारक्षणकारणात्कर्त्तव्यम् ।। 1.25.18 ।।

राज्यभारनियुक्तानामेष धर्मः सनातनः ।

अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ।। 1.25.19 ।।

राज्येति । सनातनः नित्यः । अधर्म्याम् अधर्मादनपेताम् । एतदेवाह धर्म इति ।। 1.25.19 ।।

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।

पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ।। 1.25.20 ।।

स्त्रीवधस्य कर्तव्यत्वे इतिहासद्वयमाह श्रूयत इत्यादिना । मन्थरां मन्थराभिधानाम् ।। 1.25.20 ।।

विष्णुना च पुरा राम भृगुपत्नी दृढव्रता

अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ।। 1.25.21 ।।

विष्णुनेति । काव्यमाता शुक्रमाता । इयं कथा मत्स्यपुराणे दर्शिता स्वपुत्रे शुक्रे देवशिक्षार्थं रुद्रसमीपे तपस्यति सति देवपीडिता असुराः शुक्रमातरं भृगुपत्नीं शरणमगच्छन् । सा चासुररक्षणार्थं देवान् हन्तुम़ुद्युक्ता । तां चेन्द्रप्रार्थितो विष्णुरासाद्य तस्याः शिरश्चिच्छेदेति ।। 1.25.21 ।।

एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः ।

अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।। 1.25.22 ।।

[तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ।]

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ।। 25 ।।

एतैः एतादृशैरित्यर्थः ।। 1.25.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने

पञ्चविशः सर्गः ।। 25 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.