11 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकादशः सर्गः

भूय एव च राजेन्द्र शृणु मे वचनं हितम् ।

यथा स देवप्रवरः कथायामेवमब्रवीत् ।। 1.11.1 ।।

एवं दशरथप्रश्नस्योत्तरमुक्त्वा कथाशेषं सुमन्त्रः प्रस्तौति भूय इत्यादि । देवप्रवरः सनत्कुमारः,

कथायां कथाप्रसङ्गे, एवं वक्ष्यमाणरीत्या यथा उक्तवान् तथा शृणु ।। 1.11.1 ।।

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।

राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ।। 1.11.2 ।।

इक्ष्वाकूणामिति । धार्मिको भविष्यतीत्यन्वयः । सत्यप्रतिश्रवः सत्यप्रतिज्ञः ।। 1.11.2 ।।

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।

कन्या चास्य महाभागा शान्ता नाम भविष्यति ।। 1.11.3 ।।

अङ्गेति । अस्य अङ्गराजस्य ।। 1.11.3 ।।

पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः ।

अङ्गराजं दशरथो गमिष्यति महायशाः ।। 1.11.4 ।।

पुत्र इति । अङ्गस्य राज्ञः अङ्गराजस्य ।। 1.11.4 ।।

अनपत्यो ऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् ।

आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य च ।। 1.11.5 ।।

अनपत्य इति । अहमनपत्यो ऽस्मि, तस्मात् मम कुलस्य सन्तानार्थमविच्छेदार्थं शान्ताभर्ता क्रतुमाहरेत अनुतिष्ठतु, इति वक्ष्यतीति शेषः ।। 1.11.5 ।।

श्रुत्वा राज्ञो ऽथ तद्वाक्यं मनसा स विचिन्त्य च ।

प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ।। 1.11.6 ।।

श्रुत्वेति । स रोमपादः मनसा विचिन्त्य, न तु मन्त्रिभिः । पुत्रवन्तं पुत्रप्रदानसमर्थं पुत्रयुक्तं वा ।। 1.11.6 ।।

प्रतिगृह्य च त विप्रं स राजा विगतज्वरः ।

आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ।। 1.11.7 ।।

प्रतिगृह्येति । आहरिष्यति करिष्यतीत्यर्थः । अन्तरात्मना मनसा उपलक्षितः ।। 1.11.7 ।।

तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।

ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ।। 1.11.8 ।।

तस्मिन् यज्ञे तमेव ऋत्विजं करिष्यतीत्याह तं चेति श्लोकद्वयमेकवाक्यम् । यष्टुं कामो यस्य स यष्टुकामः । “लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि” इति मकारलोपः । एवम्भूतो राजा तं वरयिष्यति । वरो वरणम् । “तत्करोति” इति णिच् । अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यभावः ।। 1.11.8 ।।

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च जनेश्वरः ।

लभते च स तं कामं विप्रमुख्याद्विशाम्पतिः ।। 1.11.9 ।।

किमर्थम् ? यज्ञार्थं पुत्रकामेष्ट्यर्थम्, तद्द्वारा प्रसवार्थं पुत्रार्थम्, तद्द्वारा स्वर्गार्थम् । “नापुत्रस्य लोको ऽस्ति” इति श्रुतेः । कामं काम्यक्रतुम् ।। 1.11.9 ।।

पुत्राश्चास्य भविष्यन्ति चत्वारो ऽमितविक्रमाः ।

वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ।। 1.11.10 ।।

पुत्राश्चेति । अमितविक्रमाः अपरिच्छिन्नपराक्रमाः ।। 1.11.10 ।।

एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।

सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ।। 1.11.11 ।।

एवमिति । पूर्वं पूर्वकाले । विभक्तिप्रतिरूपकमव्ययम् । पुरा पुराणः । देवयुगे कृतयुगे । यद्वा हे देव पुरा युगे, कृतयुग इत्यर्थः ।। 1.11.11 ।।

स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ।

स्वयमेव च राजेन्द्र गत्वा सबलवाहनः ।। 1.11.12 ।।

स इति । स त्वं पुत्रार्थी त्वम्, सुसत्कृतं सुसत्कारार्हम् । स्वयमेव, न तु पुरोहितादिद्वारा ।। 1.11.12 ।।

अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ।

[वसिष्ठेनाभ्यनुज्ञातो राजा सम्पूर्णमानसः ।]

सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ।। 1.11.13 ।।

अनुमान्येति । अनुमान्य कृतानुमतिकं कृत्वा, अन्यथा मयि स्थिते कथमयमन्यमाह्वयतीति वसिष्ठः कुप्येत्, अतः सुमन्त्रोक्तकथोक्तिपूर्वकमनुमान्येत्यर्थः । अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च इति वचनभङ्ग्या पुनर्वसिष्ठसन्निधौ सा कथा प्रस्ताविता सुमन्त्रमुखेनैवेति गम्यते । अतो वसिष्ठेनानुमतिः कृतेति मन्तव्यम् । सान्तःपुरतया गमनं जामात्रुपलालनरीत्या शान्तया सहानयनार्थम् । यत्र रोमपादनगरे ।। 1.11.13 ।।

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ।

अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ।। 1.11.14 ।।

वनानीति । वनादिविलोकनकुतुकित्वं शनैः शनैरित्यनेन द्योत्यते ।। 1.11.14 ।।

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।

ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ।। 1.11.15 ।।

आसाद्येति । तं देशमासाद्य, तं ऋषिपुत्रम् । आदौ रोमपाददर्शनात् पूर्वं ददर्श, तस्मिन् भक्त्यतिशयद्योतनार्थम् ।। 1.11.15 ।।

ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।

सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ।। 1.11.16 ।।

तत इति । राजा रोमपादः, राज्ञो दशरथस्य ।। 1.11.16 ।।

रोमपादेन चाख्यातमृषिपुत्राय धीमते ।

सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ।। 1.11.17 ।।

रोमपादेनेति । सम्बन्धकं शान्ताया जनकपितृत्वरूपं सम्बन्धम् । प्रत्यपूजयत्, ऋश्यशृङ्ग इति शेषः ।। 1.11.17 ।।

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।

सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ।। 1.11.18 ।।

एवमिति । तेन रोमपादेन सप्ताष्टेति लोकवचनपरिपाटी सङ्ख्यानियमोपेक्षा कृता ।। 1.11.18 ।।

शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ।

मदीयं नगरं यातु कार्यं हि महदुद्यतम् ।। 1.11.19 ।।

शान्तेति । उद्यतम् उद्युक्तम् ।। 1.11.19 ।।

तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।

उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ।। 1.11.20 ।।

तथेति । तस्य ऋश्यशृङ्गस्य गमनं संश्रुत्य प्रतिज्ञाय ।। 1.11.20 ।।

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।। 1.11.21 ।।

ऋषीति । प्रतिश्रुत्य आकर्ण्य । नृपं रोमपादम् ।। 1.11.21 ।।

तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ।

ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ।। 1.11.22 ।।

ताविति । अन्योन्यमञ्जलिमित्यर्थः ।। 1.11.22 ।।

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।

पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ।। 1.11.23 ।।

तत इति । सुहृदं रोमपादम् ।। 1.11.23 ।।

क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।

धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम् ।। 1.11.24 ।।

क्रियतामिति । सिक्तं च सम्मृष्टं च सिक्तसम्मृष्टम् । “पूर्वकाल ” इत्यादिना समासः । स्वलङ्कृतं पुष्पकदलीकाण्डादिभिः ।। 1.11.24 ।।

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।

तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ।। 1.11.25 ।।

तत इति । आगतम् आगतप्रायम्, राज्ञा यद्यथा प्रेषितं तत्तथा तदा श्रवणकाल एव चक्रुः ।। 1.11.25 ।।

ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ।

शङ्खदुन्दुभिर्निर्घोषैः पुरस्कृत्य द्विजर्षभम् ।। 1.11.26 ।।

तत इति । द्विजर्षभं पुरस्कृत्य शङ्खदुन्दुभिनिर्घोषैः सह प्रविवेश ।। 1.11.26 ।।

ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् ।

प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ।। 1.11.27 ।।

तत इति । नागराः नगरवासिनः । नरेन्द्रेण दशरथेन । सत्कृत्य नगरालङ्कारादिभिः सम्मान्य प्रवेश्यमानं तं द्विजं दृष्ट्वा प्रमुदिताः सन्तुष्टाः आसन् । इन्द्रस्येव कर्म पराक्रमादिकं यस्य सः इन्द्रकर्मा तेन ।। 1.11.27 ।।

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः ।

कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ।। 1.11.28 ।।

अन्तःपुरमिति । उपवाहनात् आनयनात् ।। 1.11.28 ।।

अन्तःपुरस्त्रियः सर्वाः शान्तां दृष्ट्वा तथागताम् ।

सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ।। 1.11.29 ।।

अन्तरिति । भर्त्रा सहागताम् अनेन पूर्वं कन्यात्वदशायामपि कदाचिदागमनं व्यज्यते ।। 1.11.29 ।।

पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः ।

उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा ।। 1.11.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ।। 11 ।।

पूज्यमानेति । विशेषतः जनकत्वसम्बन्धात् ऋत्विजा ऋश्यशृङ्गेण पितृगृहत्वात् शान्तायाः

प्राधान्यम् ।। 1.11.30 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकादशः सर्गः ।। 11 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.