13 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयोदशः सर्गः

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् ।

प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ।। 1.13.1 ।।

एवं प्रथमवसन्ते चैत्रपौर्णमास्यां साङ्ग्रहणेष्टिं विधायद्वितीये ऽह्नि ब्रह्मौदनमेध्याश्वबन्धनस्नापनप्रोक्षणविमोचनादिकम् “चत्वार ऋत्विजः समुक्षन्ति” इत्युक्तरीत्या कृत्वा “सावित्रमष्टाकपालं प्रातर्निर्वपति” इत्युक्तरीत्या प्रतिदिनं सावित्रादिषु कर्मस्वनुष्ठीयमानेषु संवत्सरे पूर्णे देवयजनं प्रति प्रस्थानं दर्शयति त्रयोदशे पुनः प्राप्त इत्यादि । पुनर्वसन्ते द्वितीयवसन्ते प्राप्ते संवत्सरः पूर्णो ऽभवत्, अमावास्या प्राप्तेत्यर्थः । तत्र भाविन्यां पौर्णमास्यां प्रसवार्थं हयमेधेन यष्टुं हयमेधाख्यं यज्ञं कर्तुम् गतः, देवयजनमितिशेषः । प्रथमसंवत्सरान्तिमामावास्यायां उखासम्भरणत्रैधातवीयदीक्षणीयादिकं दवेयजन एव हि कर्त्तव्यम् । तथोक्तं भास्करैः “संवत्सरस्यास्य तु या ऽन्तिमामावास्या विधेयामिह दीक्षणीयाम् । त्रैधातवीयां प्रवदन्ति सप्त दिनानि दीक्षाहुतयस्तथाष्टौ ।।” इति ।। 1.13.1 ।।

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।

अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ।

यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव ।। 1.13.2 ।।

एवमेतत्सर्गप्रतिपाद्यं देवयजनगमनं सङ्ग्रहेणोक्त्वा पुनस्तद्विस्तरेण वक्तुमुपक्रमते सर्गशेषेण । तत्र ब्रह्मौदनमारभ्य यावदश्वमेधसमाप्ति यजमानस्य स्वातन्त्र्यप्रतिषेधेन स्वयं यज्ञोपकरणसम्पादनाद्ययोगादध्वर्युणैव तस्य सर्वस्य कर्तव्यत्वादध्वर्युत्वेन वृतं वसिष्ठं प्रति प्रार्थयते अभिवाद्येत्यादिना । तदुक्तं भट्टभास्करैः “रशनाञ्जनतः पश्चादध्वर्युः परिवीयते । राज्याय स च राजा स्याद्यावत् सन्तिष्ठते क्रतुः ।।” इति येयं “द्वादशारत्नी रशना भवति मौञ्जी भवति” इत्यश्वबन्धनरज्जुर्विहिता, तस्याः “यदाज्यमुच्छिष्यते तस्मिन् रशनान्युनत्ति” इति यद्ब्रह्मौदनशिष्टाज्येनाभ्यञ्जनं विहितं ततः पश्चादित्यर्थः। अर्द्धत्रयमेकान्वयम्। वसिष्ठं अभिवाद्य च न्यायतः शास्त्रतः, प्रतिपूज्य च। प्रश्रितं विनययुक्तं वाक्यमब्रवीत्। कथम् ? प्रसवार्थं पुत्रार्थम्। आरब्धो मे यज्ञः यथोक्तं शास्त्रोक्तमनतिक्रम्य क्रियताम् ।। 1.13.2 ।।

यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ।। 1.13.3 ।।

यथेति । यज्ञाङ्गेषु द्रव्यदेवताकर्मादिरूपेषु यथा विघ्नो न क्रियते, राक्षसैरिति शेषः । तथा क्रियतामित्यर्थः ।। 1.13.3 ।।

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ।। 1.13.4 ।।

भवानिति । भवान् मह्यं स्निग्धः अविच्छिन्नस्नेहः सुहृत्, परमः वामदेवादिभ्य उत्कृष्टः, महान् वस्तुतो निरुपमः, गुरुः अतः उद्यतः उपक्रान्तः यज्ञस्य भारो भवतैव वोढव्यः चकारेणार्त्विज्यं च कर्तव्यमित्युच्यते ।। 1.13.4 ।।

तथेति च स राजानमब्रवीद्द्विजसत्तमः ।

करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ।। 1.13.5 ।।

तथेति । समर्थितं सम्यक् प्रार्थितम् ।। 1.13.5 ।।

ततो ऽब्रवीद्द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।

स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ।। 1.13.6 ।।

तत इति सार्द्धश्लोकत्रयमेकान्वयम् । यज्ञकर्मसु यज्ञप्रयोगेषु । स्थापत्ये तद्द्रव्यानयनस्वाम्ये । निष्ठितान् पूर्वं राज्ञा नियुक्तान् ।। 1.13.6 ।।

कर्मान्तिकान् शिल्पकरान् वर्द्धकीन् खनकानपि ।

गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ।

तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।। 1.13.7 ।।

कर्मान्तिकानिति । कर्मणामन्तः समाप्तिः स एषामस्तीति कर्मान्तिकाः । “अत इनिठनौ” इति ठन् । भृतकानित्यर्थः । शिल्पकरान् इष्टकादिनिर्मातृ़न् । वर्द्धकीन् तक्ष्णः । स्रुक्स्रुवचमसग्रहयूपादिनिर्मातृ़न् । खनकान् वापीकूपादिकृतः, गणकान् लेखकान्, शिल्पिनः चित्रादिकरान्, नटाः रसाभिनयकृतः, नर्तकाः भावाभिनयकृतः, शास्त्रविदः प्रयोगशास्त्रविदः ।। 1.13.7 ।।

यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ।

इष्टका बहुसाहस्रीः शीघ्रमानीयतामिति ।। 1.13.8 ।।

अथाज्ञापनप्रकारमाह अष्टभिः यज्ञकर्मेत्यादि । ऋत्विजः प्रत्याह यज्ञकर्मेति । समीहन्तां व्याप्रियन्ताम् । शिल्पकरान् प्रत्याह इष्टकेति । जात्येकवचनम् । इत्यब्रवीदिति पूर्वेणान्वयः ।। 1.13.8 ।।

औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ।

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।। 1.13.9 ।।

औपकार्या इति, सप्तश्लोक एकान्वयः । औपकार्या राजसदनानि । “स्वार्थे ष्यङ्” “राजसदनमुपकार्योपकारिका” इत्यमरः । बहुगुणान्तिताः औन्नत्यविशालत्वादिबहुगुणान्विताः ब्राह्मणावसथा इति आर्षो लिङ्गव्यत्ययः ।। 1.13.9 ।।

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ।

तथा पौरजनस्यापि कर्त्तव्या बहुविस्तराः ।। 1.13.10 ।।

कठिनफलादि भक्ष्यम् । सुनिष्ठिताः वातवर्षादिभिरप्रकम्प्याः ।। 1.13.10 ।।

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।

तथा जानपदस्यापि जनस्य बहु शोभनम् ।। 1.13.11 ।।

सर्वकामैः स्रक्चन्दनादिभिः उपस्थिताः संयुक्ताः बहु अधिकं विधिवत् यथा विधि सत्कृत्य गन्धादिभिरभ्यर्च्य ।। 1.13.11 ।।

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलता ।

सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ।। 1.13.12 ।।

लीलया अनादरेणेत्यर्थः । यथा पूजां प्राप्नुवन्ति तथा कर्तव्यमित्यर्थः ।। 1.13.12 ।।

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।

यज्ञकर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ।। 1.13.13 ।।

कामक्रोधवशात् स्नेहद्वेष वशात् । अपिशब्देन लीला समुच्चीयते ।। 1.13.13 ।।

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।

ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ।। 1.13.14 ।।

विशेषेण अत्यादरेणेत्यर्थः । यथाक्रमं यथावृद्धम् । ते चेत्यत्र चशब्दो भिन्नक्रमः । ते भोजनेन वसुभिः धनैश्च सम्भृतास्तृप्ताश्च स्युः ।। 1.13.14 ।।

यथा सर्वं सुविहितं न किञ्चित् परिहीयते ।

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।। 1.13.15 ।।

सर्वमपि यथा सुविहितं सुष्ठु अनुष्ठितं स्यात् किञ्चिदपि न परिहीयते न त्यक्ष्यते प्रीतिस्निग्धेन स्नेहार्द्रेण ।। 1.13.15 ।।

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।

यथोक्तं तत्सुविहितं न किञ्चित् परिहीयते ।। 1.13.16 ।।

यथोक्तं तत्करिष्यामो न किञ्चित् परिहीयते ।

ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ।। 1.13.17 ।।

यथोक्तप्रवृत्तिं दर्शयति तत इति । तत् पूर्वोक्तकार्यजातम् । एवमुपकरणनिष्पत्त्यनन्तरं राजाह्वानमाज्ञापयति तत इत्यादिना ।। 1.13.16,17 ।।

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।। 1.13.18 ।।

निमन्त्रयस्व आह्वय ।। 1.13.18 ।।

ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।। 1.13.19 ।।

ब्राह्मणानिति । सर्वदेशेषु स्थितानिति शेषः ।। 1.13.19 ।।

मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ।। 1.13.20 ।।

तमानय महाभागं स्वयमेव सुसत्कृतम् ।

पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ।। 1.13.21 ।।

मिथिलेति श्लोकद्वयमेकं वाक्यम् । तं प्रसिद्धं स्वयमेव, न तु दूतमुखेन । पूर्वसम्बन्धिनं चिरन्तनसुहृदं ततः पूर्वोक्तेभ्यो नृपतिभ्यः ।। 1.13.20,21 ।।

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।

वयस्यं राजसिंहस्य स्वयमेवानयस्व ह ।। 1.13.22 ।।

तथेति । स्वयमेव गमने हेतवो विशेषणानि ।। 1.13.22 ।।

तथा केकयराजानं वृद्धं परमधार्मिकम् ।

श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ।। 1.13.23 ।।

तथेति । केकयराजानमिति समासान्तविधेरनित्यत्वाट्टजभावः ।। 1.13.23 ।।

अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् ।

वयस्यं राजसिंहस्य समानय यशस्विनम् ।। 1.13.24 ।।

अङ्गेति । समानय, त्वमेवेति शेषः ।। 1.13.24 ।।

प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ।

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ।। 1.13.25 ।।

प्राचीनानिति । प्राचीनान् प्राग्देशवर्तिनः । सिन्धुदेशे सौवीरदेशे च भवाः सिन्धुसौवीराः । सौराष्ट्रेयान् सुराष्ट्रदेशभवान् । दाक्षिणात्यान् दक्षिणदेशभवान् । आनयस्व, दूतमुखेनेति शेषः ।। 1.13.25 ।।

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ।

तानानय यथाक्षिप्रं सानुगान् सह बान्धवान् ।। 1.13.26 ।।

सन्तीति । यथाक्षिप्रं शैघ्र्यमनतिक्रम्य ।। 1.13.26 ।।

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।

व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ।। 1.13.27 ।।

वसिष्ठेति । शुभान् अन्तरङ्गान् ।। 1.13.27 ।।

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।

सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ।। 1.13.28 ।।

स्वयमिति । महीक्षितः वसिष्ठेन विशिष्योक्तान् ।। 1.13.28 ।।

ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।

सर्वं निवेदयन्तिस्म यज्ञे यदुपकल्पितम् ।

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् ।। 1.13.29 ।।

ते चेति । उपलक्षणमेतत् । शिल्पकरादीनां यज्ञे यज्ञनिमित्तं यदुपकल्पितं निर्मितं तत्सर्वं निवेदयन्ति स्म । अवश्यं शिक्षणीयांशं पुनः शिक्षयति ततः प्रीत इति । अर्धमेकान्वयम् ।। 1.13.29 ।।

अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।

अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ।। 1.13.30 ।।

अवज्ञयेति । लीलया विनोदेन ।। 1.13.30 ।।

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।

बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ।। 1.13.31 ।।

तत इति । ततः दशरथनिर्गमनानन्तरम् रत्नानि श्रेष्ठवस्तूनि मणिमुक्ताप्रवालवस्त्राभरणचन्दनादीनि ।। 1.13.31 ।।

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ।

उपयाता नरव्याघ्र राजानस्तव शासनात् ।। 1.13.32 ।।

तत इति । स्पष्टम् ।। 1.13.32 ।।

मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः ।

यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ।। 1.13.33 ।।

मयेति । यज्ञमर्हति इति यज्ञियम् । “यज्ञर्त्विग्भ्यां घखञौ” इति घः । यज्ञाय यत्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ।। 1.13.33 ।।

निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ।

सर्वकामैरुपहृतै रुपेतं वै समन्ततः ।। 1.13.34 ।।

निर्यात्विति । अन्तिकात्समीपे । “दूरान्तिकार्थेभ्यो द्वितीया च” इति चकारेण पञ्चमी । समीपे उपहृतैः सर्वकामैः सर्वोपकरणैः उपेतम् ।। 1.13.34 ।।

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ।। 1.13.35 ।।

द्रष्टुमित्यर्धमेकान्वयम् । मनसेवेति क्षिप्रसिद्धत्वे दृष्टान्तः ।। 1.13.35 ।।

तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।

शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ।। 1.13.36 ।।

तथेति । वसिष्ठेत्यविभक्तिको निर्देशः । वसिष्ठस्य ऋश्यशृङ्गस्य चोभयोरित्यर्थः । ऋश्यशृङ्गस्य ब्रह्मत्वेन वृतत्वात् तद्वचनमप्यपेक्षितम् । शुभे दिवसे सोमसौम्यवारादौ, शुभे नक्षत्रे रोहिण्यादौ, निर्यातः, गृहात् यज्ञशालां प्रति इत्यर्थसिद्धम् । अत्राहुः “शङ्खदुन्दुभिमृदङ्गवादनैर्मङ्गलैः पटहकाहलादिभिः । स्वस्तिवादमुखरैर्मखक्षितिं ब्राह्मणैश्च सह सम्प्रपद्यते ।।” इति ।। 1.13.36 ।।

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।

ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ।

यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ।। 1.13.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ।। 13 ।।

तत इति सार्द्धश्लोकः । आरभन्निति छान्दसः । यज्ञवाटगताः सर्वे यजमानर्त्विगादयः, यथाविधि यथाक्रमं यथाशास्त्रं सर्वे यज्ञकर्मारभन् स्वस्वकर्मारभन्तेत्यर्थः ।। 1.13.37 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्ख्याने त्रयोदशः सर्गः ।। 13।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.