37 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

सप्तत्रिंशः सर्गः

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।

सेनापतिमभीप्सन्तः पितामहमुपागमन् ।। 1.37.1 ।।

अथ प्रतिज्ञातं स्कन्दोत्पादकत्वरूपं दिव्यसम्भववैभवमाह सप्तत्रिंशे–तप्यमान इत्यादि । तप्यमाने तपःकर्मकत्वादात्मनेपदकर्मवद्भावौ । देवसेनापतित्वं विहाय केवलतपःप्रवण इत्यर्थः ।। 1.37.1 ।।

ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् ।

प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः ।। 1.37.2 ।।

तत इति । अग्निना पुरोगमेन सहिताः साग्निपुरोगमाः । सुराः सर्वे प्रणिपत्य सुराः सर्वे अब्रुवन्निति क्रियाभेदान्न पुनरुक्तिः ।। 1.37.2 ।।

यो नः सेनापतिर्देव दत्तो भगवता पुरा ।

तपः परममास्थाय तप्यते स्म सहोमया ।। 1.37.3 ।।

यो न इति । भगवता भवता । यः सेनापतिरस्मभ्यमादिकाले दत्तः स इदानीमुमया सह तप्यते । स्मेति प्रसिद्धौ ।। 1.37.3 ।।

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।

संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ।। 1.37.4 ।।

यदिति । अनन्तरं सेनापतावन्यपरे सति । अत्र सेनापतिविषये । यत्कार्यं तत्संविधत्स्व आलोचय । तमेवाहूय सैनापत्ये निवेशय, अन्यं वोत्पादयेत्यर्थः ।। 1.37.4 ।।

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।

सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ।। 1.37.5 ।।

देवानामिति । सान्त्वयन् उग्रे तपसि वर्तमानस्य तस्य रुद्रस्य निवर्तनमशक्यम्, तत्र नाभिनिवेशः कार्य इति समादधान इत्यर्थः ।। 1.37.5 ।।

शैलपुत्र्या यदुक्तं तन्न प्रजाः सन्तु पत्निषु ।

तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ।। 1.37.6 ।।

अन्यं वोत्पादयेत्यत्र प्रतिवक्ति–शैलेति । शैलपुत्र्या पार्वत्या देवानां पत्निषु प्रजा न सन्त्विति यदुक्तं तद्वचनम् । अक्लिष्टम् अमोघम् । मया सत्यमेवोच्यते अत्र संशयो भवद्भिर्न कर्तव्यः ।। 1.37.6 ।।

इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।

जनयिष्यति देवानां सेनापतिमरिन्दमम् ।। 1.37.7 ।।

तर्हि का गतिरित्यत्राह–इयमिति । इयं बुद्धिस्था । अस्तीति शेषः ।। 1.37.7 ।।

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् ।

उमायास्तद्बहुमतं भविष्यति न संशयः ।। 1.37.8 ।।

कथमिदं गङ्गा सम्मन्यते, कुतो वोमा न कुप्येत्तत्राह–ज्येष्ठेति । तत्सुतम् अग्नेः सुतं मानयिष्यति, बहुमतिपूर्वं जनयिष्यतीत्यर्थः । तदुमाया बहुमतं स्वज्येष्ठायाः प्रीत्यर्थत्वादिति भावः ।। 1.37.8 ।।

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।

प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ।। 1.37.9 ।।

तदिति । कृतार्थाः कृतार्थप्रायाः ।। 1.37.9 ।।

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।

अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ।। 1.37.10 ।।

त इति । दैवतशब्दः पुँल्लिङ्गोप्यस्ति । “दैवतानि पुंसि वा” इत्यनुशासनात् । दग्धरुद्रतेजसो ऽग्नेः स्थानं कैलासः । पुत्रार्थं पुत्रोत्पादनार्थम् अग्निमूर्त्यन्तरं दग्धरुद्रतेजःस्थम् ।। 1.37.10 ।।

देवकार्यमिदं देव संविधत्स्व हुताशन ।

शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ।। 1.37.11 ।।

देवेति । संविधत्स्व सम्पादय । अस्य विवरणमुत्तरार्द्धम् । प्रथमं सामान्येनोक्तिरग्निहृदयज्ञानाय । महातेज इति सम्बोधनम् । तेजः रेतः ।। 1.37.11 ।।

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।

गर्भं धारय वै देवि देवतानामिदं प्रियम् ।। 1.37.12 ।।

देवतानामिति । देवताभ्यस्तथेति प्रतिज्ञायाकाशगङ्गां गत्वा हे देवि गर्भं धारय इत्युवाचेति शेषः । किमर्थमित्यत आह–देवतानामिदं प्रियमिति ।। 1.37.12 ।।

तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।

दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत ।। 1.37.13 ।।

तस्येति । दिव्यं रूपं दिव्यस्त्रीवेषम् । सो ऽग्निस्तस्या महिमानं सौन्दर्यातिशयं दृष्ट्वा समन्तात्सर्वावयवेभ्यः अवकीर्यत अवाकिरत् । आर्षः श्यन्प्रत्ययः । हृतवीर्यो ऽभूत् । “अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् ।” इति न्यायात् ।। 1.37.13 ।।

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।

सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ।। 1.37.14 ।।

समन्तत इति । समन्ततः सर्वावयवेषु अभ्यषिञ्चत रेतः सर्वावयवेषु यथा व्याप्तं भवति तथा सिक्तवानित्यर्थः । तेन सर्वस्रोतांसि सर्वावयवाः पूर्णानि व्याप्तानि ।। 1.37.14 ।।

तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।

अशक्ता धारणे देव तव तेजः समुद्धतम् ।

दह्यमानाग्निना तेन सम्प्रव्यथितचेतना ।। 1.37.15 ।।

तमित्यर्द्धत्रयम् । तेनाग्निना अग्नितेजसा दह्यमाना अत एव सम्प्रव्यथितचेतना अतिदुःखितचित्ता गङ्गा । सर्वदेवानां पुरोहितम् । “अग्निमीडे पुरोहितम्” इति श्रुतेः । तमग्निमुवाच । कथम् ? हे देव तव तेजः समुद्धतं अभिवृद्धं भवति अस्य धारणे अशक्तास्मीति ।। 1.37.15 ।।

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।

इह हैमवते पादे गर्भो ऽयं सन्निवेश्यताम् ।। 1.37.16 ।।

अथेति । सर्वदेवानां यत् हुतं तमश्नातीति सर्वदेव हुताशनः । पादे पर्यन्तपर्वते अग्निदग्धश्वेतपर्वतीकृतरुद्रतेजोराशावित्यर्थः ।। 1.37.16 ।।

श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।

उत्ससर्ज महातेजः स्रोतोभ्यो हि तदानघ ।। 1.37.17 ।।

श्रुत्वेति । महातेज इति सम्बोधनम् । स्रोतोभ्यः, उत्कृष्येति शेषः ।। 1.37.17 ।।

यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ।

काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ।। 1.37.18 ।।

यदिति । अस्याः गङ्गातः । निर्गतं यत् शोणितादि धरणीं गतं तस्मात्तप्तजाम्बूनदप्रभं द्रुतस्वर्णविशेषकान्ति काञ्चनम् । अमलं शुभं हिरण्यं रजतं च । अभवदिति वक्ष्यमाणमनुषज्यते । अमलमिति निर्गतविशेषणं वा ।। 1.37.18 ।।

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ।

मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।। 1.37.19 ।।

ताम्रमिति । गङ्गातो निर्गतात् तैक्ष्ण्यात् क्षारात् । ताम्रं कार्ष्णायसं चाभ्यजायत । तस्या गङ्गातः, अभवत् निर्गच्छति स्म । मलं तत्र भूमौ त्रपु सीसकं चाभ्यजायत । कृष्णायसमेव कार्ष्णायसम् ।। 1.37.19 ।।

तदेतद्धरणीं प्राप्य नानाधातुरवर्द्धत ।। 1.37.20 ।।

उपसंहरति–तदेतदिति । तदेतत् गङ्गातो निर्गतम् ।। 1.37.20 ।।

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।

सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ।। 1.37.21 ।।

एवं गर्भोत्सर्जनकाले गङ्गातो निर्गतानां शोणितादीनां सौवर्णादिभावमुक्त्वा गर्भतेजोरञ्जनात् केषाञ्चित्स्वर्णभावमाह निक्षिप्तेति । गर्भे गङ्गया निक्षिप्तमात्रे तस्य तेजोभिरभिरञ्जितं व्याप्तं पर्वतसन्नद्धं पूर्वोक्तश्वेतपर्वतसहितम् । सर्वं तद्वनं शरवणम् । सौवर्णं स्वर्णमयं अभवत् ।। 1.37.21 ।।

जातरूपमिति ख्यातं तदाप्रभृति राघव ।

सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ।। 1.37.22 ।।

जातेति । यदा सुवर्णं जातं तदाप्रभृति हुताशनसमप्रभं सुवर्णम्, जातं रूपं यस्येति व्युत्पत्त्या जातरूपमिति विख्यातमभूत् ।। 1.37.22 ।।

तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ।। 1.37.23 ।।

उपसंहरति–तृणेति ।। 1.37.23 ।।

तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।

क्षीरसम्भावनार्थाय कृत्तिकाः समयोजनयन् ।। 1.37.24 ।।

एवं गङ्गयोत्सृष्टस्य गर्भस्य पोष्ाणप्रकारमाह–तमिति । ततः गङ्गोत्सर्जनानन्तरम् । जातं तं कुमारं मरुद्गणाः देवगणाः सह युगपत् । क्षीरसम्भावनार्थाय क्षीरेण वर्द्धनप्रयोजनाय कृत्तिकाः समयोजयन् । ण्यन्तत्वाद्द्विकर्मकत्वम् ।। 1.37.24 ।।

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।

ददुः पुत्रो ऽयमस्माकं सर्वासामिति निश्चिताः ।। 1.37.25 ।।

ता इति । कृत्तिकाः अयमस्माकं सर्वासां पुत्रो भवत्विति देवैः सह समयं सङ्केतं कृत्वा निश्चिताः कृतनिश्चयाः सत्यः । जातमात्रस्य तस्य क्षीरं ददुः दातुमुद्युक्ताः ।। 1.37.25 ।।

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।

पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ।। 1.37.26 ।।

तत इति । उक्तविशेषणः पुत्रः कार्तिकेयः कृत्तिकापुत्रो भविष्यति इति । ब्रुवन् अब्रुवन् ।। 1.37.26 ।।

तेषां तद्ववचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।

स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ।। 1.37.27 ।।

तेषामिति । कृत्तिकाः गर्भपरिस्रवे गर्भोदके । स्कन्नं पतितम् । स्नापयन् अस्नापयन् । गर्भस्रवनिवृत्त्यर्थम् ।। 1.37.27 ।।

स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ।

कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ।। 1.37.28 ।।

स्कन्द इति । स्कन्नत्वात् स्कन्द इत्यन्वर्थनाम, चक्रुरित्यर्थः ।। 1.37.28 ।।

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।

षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ।। 1.37.29 ।।

प्रादुर्भूतमिति । ततः स्नापनानन्तरं । षण्णां कृत्तिकानां क्षीरं प्रादुर्भूतम् । तच्च स्तनजं पयः षडाननो भूत्वा जग्राह ।। 1.37.29 ।।

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।

अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ।। 1.37.30 ।।

गृहीत्वेति । एकाह्नेति टजभावः समासान्तस्यानित्यत्वात् । एकदिनेन स्तन्यं पीत्वा क्रमेण सुकुमारवपुरपि दैत्यगणानजयत् ।। 1.37.30 ।।

सुरसेनागणपतिं ततस्तमतुलद्युतिम् ।

अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः ।। 1.37.31 ।।

सुरेति । सुरसेनागणपतित्वेनाभ्यषिञ्चन्नित्यर्थः । प्रथममभिषेकस्ततो जय इत्यर्थक्रमः ।। 1.37.31 ।।

एष ते राम गङ्गाया विस्तरो ऽभिहितो मया ।

कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ।। 1.37.32 ।।

एष इति । विस्तरः दिव्यसम्भवः । तमेवाह कुमारेति । एवमेतदाख्यानश्रवणफलमुक्तम् धन्य इत्यादिना ।। 1.37.32 ।।

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।

आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ।। 1.37.33 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ।। 37 ।।

अथ प्रसङ्गात्तद्भक्तिफलमाह–भक्तश्चेति । सलोक एव सालोक्यम् । स्वार्थे ष्यञ् । तस्य भावः सालोक्यता, स्कन्दसमानलोकत्वमित्यर्थः ।। 1.37.33 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूष्ाणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तत्रिंशः सर्गः ।। 37 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.