54 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

चतुःपञ्चाशः सर्गः

कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः ।

तदास्य शबलां राम विश्वामित्रो ऽन्वकर्षत ।। 1.54.1 ।।

नीयमाना तु शबला राम राज्ञा महात्मना ।

दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ।। 1.54.2 ।।

अथ बलात्कारकुपितवसिष्ठप्रहितकामधेनोर्बलसृष्टिश्चतुःपञ्चाशे–कामधेनुमित्यादिदशकम् ।। 1.54.1,2 ।।

परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।

या ऽहं राजभटैर्दीना ह्रियेयं भृशदुःखिता ।। 1.54.3 ।।

किं मया ऽपकृतं तस्य महर्षेर्भावितात्मनः ।

यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ।। 1.54.4 ।।

निर्द्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन ।

जगामानिलवेगेन पादमूलं महात्मनः ।। 1.54.5 ।।

ह्रियेयम्, कर्मणि सम्प्रश्ने लिङ् । कथमपि ह्रियेयमित्यर्थः । भृशदुःखिता भृशं दुःखिता । वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ।। 1.54.35 ।।

शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।

वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ।। 1.54.6 ।।

क्रोशन्ती आर्तस्वरं कुर्वन्ती ।। 1.54.6 ।।

भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत ।

यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ।। 1.54.7 ।।

एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।

शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ।। 1.54.8 ।।

राजभृताः राजभटाः । त्वत्सकाशतः त्वत्समीपतः ।। 1.54.7,8 ।।

न त्वां त्यजामि शबले नापिमे ऽपकृतं त्वया ।

एष त्वां नयते राजा बलान्मत्तो महाबलः ।। 1.54.9 ।।

मत्तः मत्सकाशात् ।। 1.54.9 ।।

न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।

बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ।। 1.54.10 ।।

मह्यं मम । तर्हि तपोबलेन किमिति न दण्ड्यते ? तत्राह राजा त्वद्य विशेषत इति । राजा तपोबलेन न दण्ड्य इत्यर्थः ।। 1.54.10 ।।

इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।

हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ।। 1.54.11 ।।

एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।

वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ।। 1.54.12 ।।

न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः ।

ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ।। 1.54.13 ।।

अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ।

विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ।। 1.54.14 ।।

नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम् ।

तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ।। 1.54.15 ।।

इयमित्यादि पञ्च । सवाजिरथसङ्कुला वाजिसहितरथैस्सङ्कुला । तुभ्यं तव । त्वया त्वत्तः । त्वद्ब्रह्मबलेन सम्भृतां संवर्द्धितप्रभावाम् ।। 1.54.1115 ।।

इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ।

सृजस्वेति तदोवाच बलं परबलारुजम् ।। 1.54.16 ।।

तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ।। 1.54.17 ।।

इत्युक्त इत्याद्यष्टौ । आरुजति हिनस्तीत्यारुजम् ।। 1.54.16,17 ।।

तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप ।

नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ।। 1.54.18 ।।

बलं सैन्यम् । हुम्भारवः पशूनां हुम्भाशब्दः । उत्सृष्टाः निर्मिताः पप्लवशकयवनादिशब्दाः म्लेच्छजातिविशेषवचनाः । पश्यत इत्यनादरे षष्ठी ।। 1.54.18 ।।

बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।

स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ।

पप्लवान् नाशयामास शस्त्रैरुच्चावचैरपि ।। 1.54.19 ।।

विस्फारितं विवृतम् ।। 1.54.19 ।।

विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा ।

भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान् ।। 1.54.20 ।।

अर्दितान् हिंसितान् ।। 1.54.20 ।।

तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः ।

प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः ।। 1.54.21 ।।

हेमकिञ्जल्कसन्निभैः हेमशब्दश्चम्पकपरः, तस्य कनकाह्वयत्वात् । तत्केसरतुल्यैरित्यर्थः ।। 1.54.21 ।।

दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः ।

निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ।। 1.54.22 ।।

ततो ऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।

तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ।। 1.54.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ।। 54 ।।

पट्टिशः असिविशेषः ।। 1.54.22,23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ।। 54 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.