46 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

षट्चत्वारिंशः सर्गः

हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।

मारीचं काश्यपं राम भर्त्तारमिदमब्रवीत् ।। 1.46.1 ।।

विष्णुपक्षविरोधे महानपि यत्नो विफलः स्यादित्याह षट्चत्वारिंशे–हतेष्वित्यादि । मारीचं मरीचिपुत्रम् ।। 1.46.1 ।।

हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः ।

शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ।। 1.46.2 ।।

हतेति । तपोर्जितं तपसा ऊर्जितं दृढम् । आर्षः सन्धिः ।। 1.46.2 ।।

साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।

ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ।। 1.46.3 ।।

साहमिति । गर्भं पुत्रम् । ईश्वरं त्रैलोक्यनियन्तारम् । ईदृशमितिपाठे ऽप्ययमर्थो विवक्षितः । अनुज्ञातुम्, तप इति शेषः । भर्त्रनुज्ञां विना तपसि स्त्रिया अस्वातन्त्र्यादिति भावः ।। 1.46.3 ।।

तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ।

प्रत्युवाच महातेजा दितिं परमदुःखिताम् ।। 1.46.4 ।।

तस्या इति ।। 1.46.4 ।।

एवं भवतु भद्रं ते शुचिर्भव तपोधने ।

जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ।। 1.46.5 ।।

एवमिति । शुचिर्भव, यावत् पुत्रोत्पत्तीति शेषः ।। 1.46.5 ।।

पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ।

पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ।। 1.46.6 ।।

पूर्ण इति । मत्तः मदनुग्रहादित्यर्थः ।। 1.46.6 ।।

एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ।

समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ।। 1.46.7 ।।

एवमिति । ममार्जेत्याश्वासनप्रकारः । ततः मार्जनानन्तरम् । उदरं समालभ्य स्वस्ति पुत्रोत्पत्तिरूपं शुभं भवत्वित्युक्त्वानुगृह्य स काश्यपस्तपसे ययौ ।। 1.46.7 ।।

गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता ।

कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ।। 1.46.8 ।।

गत इति । कुशप्लवनं विशालायाः पूर्वस्थानम् ।। 1.46.8 ।।

तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ।

सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ।। 1.46.9 ।।

तप इति । गुणसम्पदा विनयादिसमृद्ध्या ।। 1.46.9 ।।

अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च ।

न्यवेदयत् सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ।। 1.46.10 ।।

अग्निमिति । परिचर्याप्रकारः ।। 1.46.10 ।।

गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ।

शक्रः सर्वेषु कालेषु दितिं परिचचार ह ।। 1.46.11 ।।

गात्रेति । मातृत्वात् गात्रसंवहनानि, श्रमापनयनैः व्यजनवीजनादिभिरिति शेषः ।। 1.46.11 ।।

अथ वर्षसहस्रे तु दशोने रघुनन्दन ।

दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ।। 1.46.12 ।।

अथेति । दशोने दशवर्षोने ।। 1.46.12 ।।

याचितेन सुरश्रेष्ठ पित्रा तव महात्मना ।

वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ।। 1.46.13 ।।

याचितेनेति । शुश्रूषाकृतप्रीत्यतिशयाद्वैरं विस्मृतवतीति भावः ।। 1.46.13 ।।

तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर ।

अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ।। 1.46.14 ।।

तप इति । ततः दशवर्षान्ते ।। 1.46.14 ।।

तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ।

त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ।। 1.46.15 ।।

तमिति । समाधास्ये विगतवैरं भ्रातृस्नेहवन्तमेव करिष्यामीत्यर्थः । त्रैलोक्यविजयं त्वद्भ्रातृकृतमिति शेषः । अमोघभर्त्रनुग्रहेणाप्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती ।। 1.46.15 ।।

एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे ।

निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ।। 1.46.16 ।।

एवमिति । मध्यं गगनमध्यम् । शीर्षतः शिरसि पादौ कृत्वा, स्थितेति शेषः । मध्याह्नशयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन नम्रं शिरः पादयोः संसक्तमभवदित्यर्थः ।। 1.46.16 ।।

दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्द्धजाम् ।

शिरःस्थाने कृतौ पादौ जहास च मुमोद च ।। 1.46.17 ।।

दृष्ट्वेति । पादतः कृतमूर्द्धजां पादौ कृत्वाथ शीर्षत इत्यस्य विवरणम्, अत एव अशुचिं तां

दृष्ट्वा शिरःस्थाने कृतौ पादौ शिरःस्पृष्टौ पादाविति मुमोद, तेन जहास च । यद्वा प्राप्ते मध्यं दिवाकर इत्यनेन दिवास्वापरूपाशौचं दर्शितम् । शीर्षतः शिरःस्थाने, शिरःस्थान इत्यनुवादात् । पादतः पादस्थाने । शयनपरिग्रहाभावे ऽपि कृष्णाजिनाद्यास्तरणे पादस्थाने शिरः शिरःस्थाने च पादौ कृत्वा सुप्तवतीत्यर्थः । पादोपधाने शीर्षं शीर्षोपधाने पादौ च कृत्वेत्यर्थः । रन्ध्रान्वेषणफलं जातमिति मोदः, वृथागर्वितेयमिति हासः ।। 1.46.17 ।।

तस्याः शरीरविवरं विवेश च पुरन्दरः ।

गर्भं च सप्तधा राम बिभेद परमात्मवान् ।। 1.46.18 ।।

तस्या इति । शरीरविवरं योनिविवरम् । आत्मवान् धैर्यवान् ।। 1.46.18 ।।

भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ।

रुरोद सुस्वरं राम ततो दितिरबुध्यत ।। 1.46.19 ।।

भिद्यमान इति । शतपर्वणा शतकोटिना ।। 1.46.19 ।।

मा रुदो मा रुदश्चेति गर्भं शक्रो ऽभ्यभाषत ।

बिभेद च महातेजा रुदन्तमपि वासवः ।। 1.46.20 ।।

मा रुद इति । “रुदिर् अश्रुविमोचने” इत्यस्माल्लुङ् । माङ्योगादडभावः ।। 1.46.20 ।।

न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।

निष्पपात ततः शक्रो मातुर्वचनगौरवात् ।। 1.46.21 ।।

न हन्तव्य इति । न हन्तव्यः । भेदने कृते ऽपि प्राणवियोजनं मा कुर्वित्यर्थः ।। 1.46.21 ।।

प्राञ्जलिर्वज्रसहितो दितिं शक्रो ऽभ्यभाषत ।

अशुचिर्देवि सुप्तासि पादयोः कृतमूर्द्धजा ।। 1.46.22 ।।

प्राञ्जलिरिति ।। 1.46.22 ।।

तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।

अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ।। 1.46.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।।

तदिति । अन्तरमवकाशम् । क्षन्तुमर्हसि ‘स्वहिंसापरां गामपि हिंस्यात्’ इतिन्यायेन युक्तत्वादिति भावः ।। 1.46.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ।। 46 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.