76 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

षट्सप्ततितमः सर्गः

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।

गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ।। 1.76.1 ।।

अथ जामदग्न्यगर्वनिर्वापणं षट्सप्ततितमे–श्रुत्वेत्यादि । पितुर्गौरवादिति पितुः सन्निधिगौरवादित्यर्थः । यन्त्रिता नियमिता कथा उच्चैः कथनं येन स तथा ।। 1.76.1 ।।

श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव ।

अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ।। 1.76.2 ।।

श्रुतवानिति । पितुरानृण्यं पितृघातिक्षत्रवधेन पितृवैरशुद्धिमास्थितः सन् यत्कर्म त्रिःसप्तकृत्वः क्षत्रवधरूपं कृतवानसि तच्छ्रुतवानस्मि । तदनुरुन्ध्यामहे अनुरुन्ध्मः । अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात् । कर्तरि यगार्षः ।। 1.76.2 ।।

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।

अवजानासि मे तेजः पश्य मे ऽद्य पराक्रमम् ।। 1.76.3 ।।

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् ।

शरं च प्रति जग्राह हस्ताल्लघुपराक्रमः ।। 1.76.4 ।।

आरोप्य स धनू रामश्शरं सज्यं चकार ह ।

जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ।। 1.76.5 ।।

वीर्येति । वीर्यहीनम् । अत एव क्षत्रधर्मेण प्राप्तधनुर्ग्रहणयुद्धादौ अशक्तमिव मन्यमानो यन्माम् अवजानासि ‘क्षत्रधर्मं पुरस्कृत्य’ इत्यादिना अवमानं कृतवानसि तन्नानुरुन्ध्यामहे । “अस्मदो द्वयोश्च” इति चकारादेकस्मिन् बहुवचनम् । अतः तेजःपरपरिभावासहनं पराक्रमम्, स्वशक्त्या पराभिभवनं च पश्य ।। 1.76.35 ।।

ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।

तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ।। 1.76.6 ।।

विश्वामित्रकृतेन विश्वामित्रकृतस्नेहेन । विश्वामित्रभगिन्यां सत्यवत्यामृचीकाज्जातो जमदग्निः तस्य पुत्रः परशुराम इति विश्वामित्रसम्बन्धेनेत्यर्थः ।। 1.76.6 ।।

इमां पादगतिं राम तपोबलसमार्जितान् ।

लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ।। 1.76.7 ।।

ते तुभ्यम् । पादयोर्गतिं गमनम् । लोकान् लोकप्राप्तिम् । यदिच्छसि अनयोर्मध्ये यदिच्छसि तद्वदेत्यर्थः । यदीच्छसीति पाठो युक्तः । उभयथा प्रतिबद्धः क्वचित्तिष्ठेन्न लोकं पीडयेदिति रामस्य हृदयम् ।। 1.76.7 ।।

न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।

मोघः पतति वीर्येण बलदर्पविनाशनः ।। 1.76.8 ।।

वीर्येण स्वशक्त्या मोधो न पतति लक्ष्यमभित्वा न तूष्णीं पततीत्यर्थः ।। 1.76.8 ।।

वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।

पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ।। 1.76.9 ।।

गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।

यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ।। 1.76.10 ।।

वरायुधेत्यादि । रामं तन्महदद्भुतं कर्म च द्रष्टुं समेता इत्यन्वयः ।। 1.76.9,10 ।।

जडीकृते तदा लोके रामे वरधनुर्द्धरे ।

निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ।। 1.76.11 ।।

जडीकृत इति । लोके जने जडीकृते स्तब्धे । निर्वीर्यः निर्गतवैष्णवतेजाः । तथा च पुराणान्तरम्– “ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ।।”

इति उदैक्षत विस्मित इति शेषः ।। 1.76.11 ।।

तेजो ऽभिहतवीर्यत्वाज्जामदग्न्यो जडीकृतः ।

रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ।। 1.76.12 ।।

उवाच प्रश्नोत्तरमिति शेषः ।। 1.76.12 ।।

काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।

विषये मे न वस्तव्यमिति मां काश्यपो ऽब्रवीत् ।। 1.76.13 ।।

सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।

कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य हि ।। 1.76.14 ।।

काश्यपायेत्यादि । यदाब्रवीत्तदाप्रभृति न वस इत्यन्वयः । गुरुवचः काश्यपवचः । कुर्वन् परिपालयन् । कुत इत्यत्राह कृतेति । हिशब्दः प्रसिद्धौ । यतः सर्वप्रसिद्धतया भूः काश्यपस्य स्वत्वेन कृता त्वद्विषये न वत्स्यामीति प्रतिज्ञा च कृता, तस्मादित्यर्थः ।। 1.76.13,14 ।।

तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव ।

मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 1.76.15 ।।

तदिमामिति । गतिः गमनम् ।। 1.76.15 ।।

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।

जहि तान् शरमुख्येन माभूत्कालस्य पर्ययः ।। 1.76.16 ।।

लोकहननं नाम लोकदानप्रतिबन्धः । मूर्तस्य वा अमूर्तस्य वा कार्यस्य प्रतिहननमेव रामशरस्यापेक्षितमिति भावः ।। 1.76.16 ।।

अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् ।

धनुषो ऽस्य परामर्शात् स्वस्ति ते ऽस्तु परन्तप ।। 1.76.17 ।।

एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।

त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।। 1.76.18 ।।

अक्षयमिति । अक्षयं निर्विकारम् । मधुहन्तारं विरोधिनिरसनशीलम् । अनेन “न ब्रह्मा नेशानः” इति महोपनिषदुपबृंहिता । परामर्शात् ग्रहणात् ।। 1.76.17,18 ।।

न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।

त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ।। 1.76.19 ।।

इयं त्वया विमुखीकृतिः । व्रीडा लज्जा ।। 1.76.19 ।।

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।

शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 1.76.20 ।।

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।

रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ।। 1.76.21 ।।

शरमोक्षे सति । अहं दृष्टशरलक्ष्यस्वार्जितलोकगतिः ।। 1.76.20,21 ।।

स हतान् दृश्य रामेण स्वान् लोकान् तपसार्जितान् ।

जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ।। 1.76.22 ।।

ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा ।

सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ।। 1.76.23 ।।

दृश्य दृष्ट्वा । लोकान् हतान् लोकप्राप्तिहेतुकर्माणि विफलीकृतानीत्यर्थः ।। 1.76.22,23 ।।

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।

ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ।। 1.76.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ।। 76 ।।

आत्मगतिम् स्वस्थानम् ।। 1.76.24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्सप्ततितमः सर्गः ।। 76 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.