34 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

चतुस्त्रिंशः सर्गः

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।

अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ।। 1.34.1 ।।

एवं प्रासङ्गिकं परिसमाप्य प्रकृतकथाशेषमाह चतुस्त्रिंशे कृतोद्वाह इत्यादि । अपुत्रः कुशनाभः । पुत्रायेयं पौत्री ताम् ।। 1.34.1 ।।

इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम् ।

उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ।। 1.34.2 ।।

इष्ट्यामिति । कुशः कुशनाभपिता ।। 1.34.2 ।।

पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः ।

गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ।। 1.34.3 ।।

पुत्रेति । सदृशः, गुणैरिति शेषः । स पुत्रः किन्नामकः ? तत्राह गाधिमिति । गाधिनामानं पुत्रं प्राप्स्यसे, तेन गाधिना । शश्वद्भवा शाश्वती । भवार्थे अण् । बहिषष्टिलोपवचनादव्ययानां भमात्रे टिलोपः क्वाचित्कः । अत्र न ततो ङीप् । ताम् ।। 1.34.3 ।।

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।

जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ।। 1.34.4 ।।

एवमिति । अनेन सदा ब्रह्मलोकवासी कुशः पुत्रानुग्रहार्थं भुवमागत इत्यवगम्यते । सनातनं नित्यम् ।। 1.34.4 ।।

कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः ।

यज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ।। 1.34.5 ।।

कस्यचिदिति । कस्यचित्कालस्य कस्मिंश्चित्काले गते सति । गाधिरित्येव यथा पित्रोक्तं तथैवेत्यर्थः । जज्ञे घृताच्यां भार्यायाम् ।। 1.34.5 ।।

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।

कुशवंशप्रसूतो ऽस्मि कौशिको रघुनन्दन ।। 1.34.6 ।।

स इति । यतः कुशवंशप्रसूतो ऽस्मि अतः कौशिकसञ्ज्ञो ऽस्मि । कुशशब्दात् गोत्रापत्ये ठक् ।। 1.34.6 ।।

पूर्वजा भगिनी चापि मम राघव सुव्रता ।

नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ।। 1.34.7 ।।

पूर्वजेति । पूर्वजा ज्येष्ठा । ऋचीके ऋचीकाख्यमुनय इत्यर्थः ।। 1.34.7 ।।

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।

कौशिकी परमोदारा प्रवृत्ता च महानदी ।। 1.34.8 ।।

सशरीरेति । भर्त्तारमनुवर्तिनी भर्त्रनुवर्तनधर्मप्रभावादिति भावः । न केवलं स्वर्गगमनमस्याः, महानदीत्वं च जातमित्याह कौशिकीति ।। 1.34.8 ।।

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।

लोकस्य हितकामार्थं प्रवृत्ता भ्ागिनी मम ।। 1.34.9 ।।

दिव्येति । दिव्या श्लाघ्या । हितमामुष्मिकम्, कामः ऐहिकम् तदुभयार्थं प्रवृत्ता । नदीरूपेण स्वर्गाद्धिमवन्तमुपाश्रितेत्यर्थः ।। 1.34.9 ।।

ततो ऽहं हिमवत्पार्श्वे वसामि निरतः सुखम् ।

भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ।। 1.34.10 ।।

तत इति । यतो हिमवन्तमाश्रिता तत इत्यर्थः ।। 1.34.10 ।।

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।

पतिव्रता महाभागा कौशिकी सरितां वरा ।। 1.34.11 ।।

सत्यवतीनामनिमित्तमाह सा त्विति ।। 1.34.11 ।।

अहं हि नियमाद्राम हित्वा तां समुपागतः ।

सिद्धाश्रममनुप्राप्य सिद्धो ऽस्मि तव तेजसा ।। 1.34.12 ।।

एवम्भूतस्य सिद्धाश्रमागमननिमित्तमाह अहं हीति । नियमात् यागनियमाद्धेतोः । समुपागतः सिद्धाश्रममितिशेष्ाः ।। 1.34.12 ।।

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता ।

देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ।। 1.34.13 ।।

एषेति । मम स्वस्य वंशस्य चोत्पत्तिः प्रसङ्गात्कीर्तिता, यत्त्वया पृष्टं तत् । देशस्य गिरिव्रजदेशस्य वैभवं चोक्तम् ।। 1.34.13 ।।

गतो ऽर्द्धरात्रः काकुत्स्थ कथाः कथयतो मम ।

निद्रामभ्येहि भद्रं ते मा भूद्विघ्नो ऽध्वनीह नः ।। 1.34.14 ।।

इतःपरं न प्रष्टव्यमित्याशयेनाह गत इति । अर्द्धो रात्रेरर्द्धरात्रः । अनपुंसकत्वेपि “अर्द्धं नपुंसकम्” इत्यार्षः समासः । “अहः सर्व ” इत्यादिना समासान्तो ऽच् । “रात्राह्न ” इति पुँल्लिङ्गता । अत्रार्द्धशब्दों ऽशवाची । उक्तं हि “भित्तं शकलखण्डे वा पुंस्यर्द्धो ऽर्द्धं समें ऽशके” इति । यावति रात्रिभागे निद्रा निषिद्धा तावान् गत इत्यर्थः । जागरणे को दोष इत्यत्राह माभूदिति । श्वो गन्तव्याध्वनि निद्राभावप्रयुक्तालस्यकृतविघ्नो माभूदित्यर्थः । मम कथाः कथयतः । मयि कथां कथयति ।। 1.34.14 ।।

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।

नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ।। 1.34.15 ।।

शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् ।

नक्षत्रतारागहनं ज्योतिर्भिरवभासते ।। 1.34.16 ।।

उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः ।

ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो ।। 1.34.17 ।।

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।

यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ।। 1.34.18 ।।

अथ निशामुखं वर्णयति चतुर्भिः निष्पन्दा इत्यादि । विष्पन्दाः पक्षिसञ्चाराभावादिति भावः । निलीनाः निद्रां प्राप्ता इत्यर्थः । नैशेन सन्ध्यातिरिक्तकालिकेन । सन्ध्या वियुज्यते वियुक्ता । वर्तमानसामीप्ये लट् । नक्षत्रैः अश्विन्यादिभिः, ताराभिः केवलनक्षत्रैश्च गहनं व्याप्तम् । नभः ज्योतिर्भिः ज्योतिष्मद्भिर्नेत्रैरावृतमिवावभासते । उत्तिष्ठतीति “उदोनूर्ध्वकर्मणि” इति परस्मैपदम् । तमो नुदतीति तमोनुदः “इगुपधलक्षणः कः” । निशायां प्रभवन्ति नैशानि । “प्रभवति” इत्यण् । भूतानि उलूकादयः । ततस्ततः तत्र तत्र । पौर्णमास्यां यज्ञं समाप्य द्वितीयायां प्रस्थानमिति चतुर्घटिकानन्तरं चन्द्रोदय इति सर्वथार्द्धरात्रशब्दः प्रदोषपर एव ।। 1.34.15 18 ।।

एवमुक्त्वा महातेजा विरराम महामुनिः ।

साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ।। 1.34.19 ।।

एवमिति । अभ्यपूजयन् अस्तुवन् ।। 1.34.19 ।।

कुशिकानामयं वंशो महान् धर्मपरः सदा ।

ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ।। 1.34.20 ।।

कुशिकानामिति । गाधेः कुशिक इति नामान्तरम् । कुशिकानां तद्गोत्रजानाम् । ब्रह्मोपमाः चतुर्मुखोपमाः ।। 1.34.20 ।।

विशेषेण भवानेव विश्वामित्रो महायशाः ।

कौशिकी च सरिच्छ्रेष्ठा कुलोद्योतकरी तव ।। 1.34.21 ।।

विशेषेणेति । विश्वामित्रः विश्वामित्रसञ्ज्ञः । भवानेव महात्मेत्यनुषङ्गः । कौशिकी च तव कुलोद्योतकरी कुलप्रकाशकरी ।। 1.34.21 ।।

इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।

निद्रामुपागमच्छ्रीमानस्तङ्गत इवांशुमान् ।। 1.34.22 ।।

इतीति । प्रशस्तः स्तुतः । “शंसु स्तुतौ” “यस्य विभाषा” इति नेट् । “अनिदितां ” इति नलोपः । श्रीमान् प्रश्ांसाकृतहर्षजनितश्रीमान् । अस्तङ्गतों ऽशुमानिव तद्वत्परप्रबोधाजनक इत्यर्थः ।। 1.34.22 ।।

रामो ऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।

प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ।। 1.34.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ।। 34 ।।

रामोपीति । किञ्चिदागतविस्मयः निद्रापारवश्यादिति भावः । समुपसेवते अध्वश्रमवशात् सम्यक् प्राप्तः ।। 1.34.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ।। 34 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.