57 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

सप्तपञ्चाशः सर्गः

ततः सन्तप्तहृदयः स्मरन् निग्रहमात्मनः ।

विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ।। 1.57.1 ।।

स दक्षिणां दिशं गत्वा महिष्या सह राघव ।

तताप परमं घोरं विश्वामित्रो महत्तपः ।। 1.57.2 ।।

एवं पशुपतिवितीर्णसरहस्यसर्वास्त्रवैघट्यदर्शनेनरुद्रस्यापरत्वमुपपादितम् । अथ पूर्वप्रस्तुतब्राह्मण्यस्यात्यन्तदुर्लभत्वं दर्शयति नवभिः सर्गैः । तत्र त्रिशङ्कुशरणागत्यनुगुणशक्तिमत्त्वं दर्शयति सप्तपञ्चाशे–ततः सन्तप्तहृदय इत्यादि, श्लोकद्वयमेकान्वयम् । महात्मना वसिष्ठेन । कृतवैरः

अनेनास्य तपोनाशमूलं दर्शितम् । ब्रह्मविदपचारो हि सर्वश्रेयोविनाशकः । दक्षिणां शरावत्यपेक्षया । महिष्येत्यनेन भावियाजकत्वानुगुणगार्हस्थ्यं दर्शितम् । महत्तपः परमं यथा तथा ततापेत्यन्वयः ।। 1.57.1,2 ।।

अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ।

हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः ।। 1.57.3 ।।

कामक्रोधाद्यनुवृत्तिं दर्शयति–अथेति ।। 1.57.3 ।।

पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ।। 1.57.4 ।।

अत एव तपसो मन्दफलत्वं दर्शयति–पूर्ण इति ।। 1.57.4 ।।

जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ।

अनेन तपसा त्वां तु राजर्षिरिति विद्महे ।। 1.57.5 ।।

जिता इति । विद्महे आर्षमात्मनेपदम् ।। 1.57.5 ।।

एवमुक्त्वा महातेजा जगाम सह दैवतैः ।

त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः ।। 1.57.6 ।।

एवमित्यादि चत्वारः । ब्रह्मा ब्रह्मलोकं जगाम, त्रिविष्टपं देवा जग्मुरित्यर्थः ।। 1.57.6 ।।

विश्वामित्रोपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः ।

दुःखेन महताविष्टः समन्युरिदमब्रवीत् ।। 1.57.7 ।।

समन्युः सदैन्यः “मन्युर्दैन्ये क्रतौ क्रुधि” इत्यमरः ।। 1.57.7 ।।

तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ।

देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् ।। 1.57.8 ।।

नास्ति मन्ये तपःफलम् । एतन्मात्रं मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदभिमतत्वादिति भावः ।। 1.57.8 ।।

एवं निश्चित्य मनसा भूय एव महातपाः ।

तपश्चकार काकुत्स्थ परमं परमात्मवान् ।। 1.57.9 ।।

परमं तपः पूर्वकृततपसोप्यतिशयितं तपः । परमात्मवान् अतिशयितयत्नवान् ।। 1.57.9 ।।

एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ।

त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्द्धनः ।। 1.57.10 ।।

एतस्मिन्निति । विख्यातः, अभूदिति शेषः ।। 1.57.10 ।।

तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ।

गच्छेयं सशरीरेण देवानां परमां गतिम् ।। 1.57.11 ।।

तस्येति । सशरीरेण, आत्मनेति शेषः । परमां गतिं स्वर्गमिति यावत् ।। 1.57.11 ।।

स वसिष्ठं समाहूय कथयामास चिन्तितम् ।

अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ।। 1.57.12 ।।

स इति । चिन्तितम् सशरीरस्वर्गसाधनयज्ञमित्यर्थः । अशक्यं सशरीरस्वर्गसाधनयज्ञकरणमिति शेषः । अशक्यत्वं च न ऋषेरसामर्थ्यात्, नापि तादृशकर्मविधानाभावात्, “सशरीर एव स्वर्गं लोकमेति” इति श्रुतेः । किन्तु त्रिशङ्कोस्तादृशस्वर्गप्राप्तिर्नास्तीति पूर्वकल्पवृत्ततज्ज्ञानादिति मन्तव्यम् । उक्तः अभूदिति शेषः ।। 1.57.12 ।।

प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ।

ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः ।। 1.57.13 ।।

प्रत्याख्यात इति । तत्कर्मसिद्ध्यर्थं सशरीरस्वर्गसाधनकर्मसिद्ध्यर्थम् ।। 1.57.13 ।।

वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।

त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् ।

वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः ।। 1.57.14 ।।

वासिष्ठा इति सार्धः । यत्र तेपिरे तत्र गत्वेति शेषः । शतं वासिष्ठानिति बह्वर्थे शतमिति निपातनात् सामानाधिकरण्यम् ।। 1.57.14 ।।

सो ऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् ।

अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुखः ।

अब्रवीत्सुमहात्मानः सर्वानेव कृताञ्जलिः ।। 1.57.15 ।।

स इति सार्द्धः । ह्रिया वसिष्ठप्रत्याख्यानकृतया । महात्मानः सुमहात्मान इति व्यत्ययेन प्रथमा ।। 1.57.15 ।।

शरणं वः प्रपद्ये ऽहं शरण्यान् शरणागतः ।

प्रत्याख्यातो ऽस्मि भद्रं वो वसिष्ठेन महात्मना ।। 1.57.16 ।।

शरणमिति । शरणं रक्षितारम् आगतः “शरणं गृहरक्षित्रोः” इति वचनात् । रक्षित्रपेक्षया आगतो ऽहम् । शरण्यान् शरणसमर्थान् । शरणं प्रपद्ये रक्षितृ़न् प्राप्नोमीत्यर्थः । यद्वा शरणागतः प्रत्याख्यात इत्युत्तरेणान्वयः । तर्ह्याचार्य एव गन्तव्य इत्यत्राह प्रत्याख्यात इति ।। 1.57.16 ।।

यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।

गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये ।। 1.57.17 ।।

किमर्थं शरणागतिस्तत्राह–यष्टुकाम इति । तत् यज्ञानुष्ठानम् ।। 1.57.17 ।।

शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ।

ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ।

सशरीरो यथाहं हि देवलोकमवाप्नुयाम् ।। 1.57.18 ।।

शिरसेति सार्द्धः । ब्राह्मणान् ब्रह्मविदः । समाहिताः अवहिताः ।। 1.57.18 ।।

प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ।

गुरुपुत्रानृते सर्वान्नाहं पश्यामि काञ्चन ।। 1.57.19 ।।

प्रत्याख्यात इति । गुरुपुत्रानृते अन्यां काञ्चन गतिं यजनोपायं न पश्यामीत्यन्वयः ।। 1.57.19 ।।

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ।

पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् ।। 1.57.20 ।।

इक्ष्वाकूणामिति । पुरोधाः पुरोहितः वसिष्ठः ।। 1.57.20 ।।

तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ।। 1.57.21 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ।। 57 ।।

तस्मादित्यर्द्धम् । तस्मात् वसिष्ठात् । अनन्तरं पश्चात् । तस्यारक्षकत्वे भवन्त एव रक्षका इति भावः ।। 1.57.21 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ।। 57 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.