26 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षड्विंशः सर्गः

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।

राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ।। 1.26.1 ।।

अथ ताटकावधः षड्विंशे मुनेरित्यादि । अक्लीबं धृष्टम् ।। 1.26.1 ।।

पितुर्वचननिर्देशात्पितुर्वचनगौरवात् ।

वचनं कौशिकस्येति कर्तव्यमविशङ्कया ।। 1.26.2 ।।

पितुरिति । पितुर्वचननिर्देशात् नियोगात्, कौशिकवचनं त्वया कर्तव्यमित्येवंरूपात् पितृवचनगौरवात् । बहुमानाच्च । इति उक्तप्रकारं कौशिकस्य वचनं कर्तव्यमिति मानसव्यापारः ।। 1.26.2 ।।

अनुशिष्टो ऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।

पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ।। 1.26.3 ।।

मुनिं प्रत्याह अनुशिष्ट इति ।। 1.26.3 ।।

सो ऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्मवादिनः ।

करिष्यामि न सन्देहस्ताटकावधमुत्तमम् ।। 1.26.4 ।।

सो ऽहमिति । श्रुत्वा स्थितः सो ऽहमित्यन्वयः ।। 1.26.4 ।।

गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च ।

तव चैवाप्रमेयस्य वचनं कर्त्तुमुद्यतः ।। 1.26.5 ।।

गोब्राह्मणेति । उद्यतः, अहमिति शेषः ।। 1.26.5 ।।

एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः ।

ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ।। 1.26.6 ।।

एवमिति । स्पष्टम् ।। 1.26.6 ।।

तेन शब्देन वित्रस्तास्ताटकावनवासिनः ।

ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता ।। 1.26.7 ।।

तेनेति । सुसङ्क्रुद्धा प्रकृत्या अतिकोपना । मोहिता किङ्कर्तव्यमिति सम्भ्रान्ता आसीत् ।। 1.26.7 ।।

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता ।

श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिस्सृतः ।। 1.26.8 ।।

तमिति । अभिनिध्याय आकर्ण्य क्रोधमूर्च्छिता आसीत् श्रुत्वा क्रुद्धा सा ऽभ्यद्रवच्च ।। 1.26.8 ।।

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।

प्रमाणेनातिवृद्धां च लक्ष्मणं सो ऽभ्यभाषत ।। 1.26.9 ।।

तामिति । प्रमाणेन औन्नत्येन ।। 1.26.9 ।।

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः ।

भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ।। 1.26.10 ।।

पश्येति । भैरवं भयङ्करम् । दारुणं विकृतम् ।। 1.26.10 ।।

एनां पश्य दुराधर्षां मायाबलसमन्विताम् ।

विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ।। 1.26.11 ।।

एनामिति । मायाबलम् अन्तर्द्धानबलम् । विनिवृत्तां पराङ्मुखीम् । एतावतैव गुरुवचनानुष्ठानसिद्धेरिति भावः ।। 1.26.11 ।।

न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।

वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ।। 1.26.12 ।।

न हीति । वीर्यगतिहननं हस्तपादभञ्जनेन ।। 1.26.12 ।।

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता ।

उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ।। 1.26.13 ।।

एवमिति । स्पष्टम् ।। 1.26.13 ।।

विश्वामित्रस्तु ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्य ताम् ।

स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ।। 1.26.14 ।।

विश्वामित्र इति । अस्त्वित्यत्र इतिशब्दो ऽध्याहार्यः । अतिमानुषशक्तिं जानन्नपि ताटकायाः क्रौर्यातिशयं दृष्ट्वातिशङ्कया महर्षिर्मङ्गलमाशास्ते ।। 1.26.14 ।।

उद्धून्वाना रजो घोरं ताटका राघवावुभौ ।

रजोमोहेन महता मुहूर्तं सा व्यमोहयत् ।। 1.26.15 ।।

उद्धून्वानेति । उद्धून्वाना उत्किरन्ती ।। 1.26.15 ।।

ततो मायां समास्थाय शिलावर्षेण राघवौ ।

अवाकिरत्सुमहता ततश्चुक्रोध राघवः ।। 1.26.16 ।।

तत इति । मायाम् अन्तर्द्धानशक्तिम् ।। 1.26.16 ।।

शिलावर्षं महत्तस्याः शरवर्षेण राघवः ।

प्रतिहत्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ।। 1.26.17 ।।

शिलेति । प्रतिहत्य भङ्क्त्वा करौ चिच्छेद शिलावर्षहेतुत्वात् । पत्रिभिः शरैः ।। 1.26.17 ।।

ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् ।

सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ।। 1.26.18 ।।

तत इति । अभ्याशे समीपे । गर्जतीं गर्जन्तीम् । नुमभाव आर्षः ।। 1.26.18 ।।

कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः ।

अन्तर्द्धानं गता यक्षी मोहयन्तीव मायया ।

अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह ।। 1.26.19 ।।

कामेति । कामरूपधरा कामरूपधरणशक्ता, अत एवानेकशो रूपाणि कृत्वा मायया अन्तर्द्धानं गता सती भैरवमश्मवर्षं विमुञ्चन्ती मोहयन्तीव विचचार । अर्द्धत्रयम् ।। 1.26.19 ।।

ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ।

दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ।। 1.26.20 ।।

तत इति । श्रीमान् स्वत एव ताटकावधहेतुप्राप्तिकृतहर्षेण कान्तिमान् ।। 1.26.20 ।।

अलं ते घृणया वीर पापैषा दुष्टचारिणी ।

यज्ञविघ्नकरी यक्षी पुरा वर्द्धति मायया ।। 1.26.21 ।।

अलमिति । दुष्टचारिणी दुष्टं यथा तथा आचरणशीला, अन्तर्द्धानशक्त्या अश्मवर्षशीलेत्यर्थः । एतेन ऐहिकनाशकत्वमुक्तम् । पारलौकिकनाशकत्वमप्याह यज्ञविघ्नकरीति । पुरा वर्द्धति वर्द्धिष्यते “यावत्पुरानिपातयोर्लट्” ।। 1.26.21 ।।

वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते ।

रक्षांसि सन्ध्याकालेषु दुर्द्धर्षाणि भवन्ति वै ।। 1.26.22 ।।

वध्यतामिति । सन्ध्या पुरा प्रवर्तते प्रवर्तिष्यते तावत् पूर्वमेव वध्यताम् । सन्ध्याप्रवृत्तौ का हानिस्तत्राह रक्षांसीति ।। 1.26.22 ।।

इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याभिवर्षतीम् ।

दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः ।। 1.26.23 ।।

इतीति । अभिवर्षतीम् । अभिवर्षन्तीं शब्दवेधित्वं श्रुतः शब्दो यस्मादुत्पन्नः तद्वेधित्वम् ।। 1.26.23 ।।

सा रुद्धा शरजालेन मायाबलसमन्विता ।

अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी ।। 1.26.24 ।।

सेति । अभिदुद्राव अप्रयोजकमन्तर्द्धानं विहायेत्यर्थः । विनेदुषी नादं कुर्वन्ती ।। 1.26.24 ।।

तामापतन्तीं वेगेन विक्रान्तामशनीमिव ।

शरेणोरसि विव्याध सा पपात ममार च ।। 1.26.25 ।।

तामिति । अशनीम् । “सर्वतो ऽक्तिन्नर्थादित्येके” इति ङीष् ।। 1.26.25 ।।

तां हतां भीमसङ्काशां दृष्ट्वा सुरपतिस्तदा ।

साधु साध्विति काकुत्स्थं सुराश्च समपूजयन् ।। 1.26.26 ।।

तामिति । भीमसङ्काशां भीमरूपाम् । सुरपतिः सुराश्च समपूजयन् ।। 1.26.26 ।।

उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ।

सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ।। 1.26.27 ।।

उवाचेति । स्पष्टम् ।। 1.26.27 ।।

मुने कौशिक भ्ाद्रं ते सेन्द्राः सर्वे मरुद्गणाः ।

तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ।। 1.26.28 ।।

मुने इति । सर्वे वयमिति शेषः । स्नेहं दर्शय स्नेहकार्यं प्रवर्तय ।। 1.26.28 ।।

प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ।

तपोबलभृतो ब्रह्मन् राघवाय निवेदय ।। 1.26.29 ।।

एतदेवाह प्रजापतेरिति ।। 1.26.29 ।।

पात्रभूतश्च ते ब्रह्मन् तवानुगमने धृतः ।

कर्तव्यं च महत्कार्यं सुराणां राजसूनुना ।। 1.26.30 ।।

पात्रेति । अयमिति शेषः । अनुगमने शुश्रूषणे । धृतः स्थिरधीः ।। 1.26.30 ।।

एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथागतम् ।

विश्वामित्रं पुरस्कृत्य ततः सन्ध्या प्रवर्तते ।। 1.26.31 ।।

एवमिति । पुरस्कृत्य पूजयित्वा जग्मुः । सन्ध्या सायंसन्ध्या प्रवर्तते स्म ।। 1.26.31 ।।

ततो मुनिवरः प्रीतस्ताटकावधतोषितः ।

मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ।। 1.26.32 ।।

तत इति । स्पष्टम् ।। 1.26.32 ।।

इहाद्य रजनीं राम वसाम शुभदर्शन ।

श्वःप्रभाते गमिष्यामस्तदाश्रमपदं मम ।। 1.26.33 ।।

इहेति । तत् पूर्वोक्तम् ।। 1.26.33 ।।

विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।

उवास रजनीं तत्र ताटकाया वने सुखम् ।। 1.26.34 ।।

विश्वामित्रेति । स्पष्टम् ।। 1.26.34 ।।

मुक्तशापं वनं तच्च तस्मिन्नेव तदा ऽहनि ।

रमणीयं विबभ्राज यथा चैत्ररथं वनम् ।। 1.26.35 ।।

मुक्तेति । मुक्तशापं मुक्तोपद्रवम् । तस्मिन्नहनि । तदैव तत्क्षण एव । चैत्ररथं कुबेरोद्यानम् ।। 1.26.35 ।।

निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः ।

उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः ।। 1.26.36 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ।। 26 ।।

निहत्येति । प्रतिबोध्यमानः, मुनिनेति शेषः । कौसल्या सुप्रजा रामेत्येवं प्रबोधितो ऽभूदित्यर्थः । उपजातिवृत्तम् ।। 1.26.36 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षड्विंशः सर्गः ।। 26 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.