40 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

चत्वारिंशः सर्गः

देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।

प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान् ।। 1.40.1 ।।

देवतानामित्यादि । कृतः अन्तो जननाशो यैस्ते कृतान्ताः सगरपुत्राः ।। 1.40.1 ।।

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।

कापिलं रूपमास्थाय धारयत्यनिशं धराम् ।

तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।। 1.40.2 ।।

यस्येति, सार्द्धश्लोकः । आस्थाय, य इति शेषः ।। 1.40.2 ।।

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ।

सगरस्य च पुत्राणां विनाशो ऽदीर्घजीविनाम् ।। 1.40.3 ।।

पृथिव्या इति । सनातनः प्रतिकल्पमवश्यम्भावी । दृष्टः निश्चितः । अतो न तत्रापि शोकः कार्य इति भावः । अदीर्घजीविनामिति छेदः । विनाशः दृष्ट इत्यनुषङ्गः ।। 1.40.3 ।।

पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम ।

देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।। 1.40.4 ।।

पितामहेति । त्रयस्त्रिंशद्देवाः अष्टौ वसव एकादश रुद्रा द्वादशादित्या अश्विनौ च । इदमुपलक्षणं गन्धर्वादेर्गमनस्यापि ।। 1.40.4 ।।

सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ।

पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः ।। 1.40.5 ।।

सगरस्येति । निर्घातः उत्पातविशेषः ।। 1.40.5 ।।

ततो भित्त्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् ।

सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ।। 1.40.6 ।।

तत इति । सर्वे महीं प्रदक्षिणं कृत्वा पितरं गत्वा सर्वे पितरमब्रुवन् ।। 1.40.6 ।।

परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ।

देवदानवरक्षांसि पिशाचोरगकिन्नराः ।। 1.40.7 ।।

न च पश्यामहे ऽश्वं तमश्वहर्तारमेव च ।

किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ।। 1.40.8 ।।

परिक्रान्तेति, श्लोकद्वयम् । सत्त्ववन्तो बलवन्तः । करिष्यामेति विसर्गलोपश्छान्दसः ।। 1.40.7,8 ।।

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ।

समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ।। 1.40.9 ।।

तेषामिति । समन्युः अश्वालाभकृतक्रोधवान् ।। 1.40.9 ।।

भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् ।

अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।। 1.40.10 ।।

भूय इति । भूयो निर्भिद्य खनतेत्यन्वयः । निवर्तथ निवर्तध्वम् ।। 1.40.10 ।।

पितुर्वचनमासाद्य सगरस्य महात्मनः ।

षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।। 1.40.11 ।।

पितुरिति । अभिद्रवन् अभ्यद्रवन् ।। 1.40.11 ।।

खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ।

दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।। 1.40.12 ।।

खन्यमान इति । दिशागजं “वष्टि भागुरिः–” इत्याप् । विरूपाक्षं विरूपाक्षाख्यम् ।। 1.40.12 ।।

सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ।

शिरसा धारयामास विरूपाक्षो महागजः ।। 1.40.13 ।।

उक्तं विवृणेति–सेति ।। 1.40.13 ।।

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ।

खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ।। 1.40.14 ।।

यदेति । पर्वणि काले । खेदाद्धेतोः । विश्रमार्थं श्रमशान्त्यर्थम् । चालयते चालयति ।। 1.40.14 ।।

तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ।

मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ।। 1.40.15 ।।

तमिति । मानयन्तः पूजयन्तः ।। 1.40.15 ।।

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः ।

दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ।। 1.40.16 ।।

तत इति । तत इत्यस्य विवरणं पूर्वां दिशं भित्त्वेति ।। 1.40.16 ।।

महापद्मं महात्मानं सुमहत्पर्वतोपमम् ।

शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ।। 1.40.17 ।।

महागजं विशेषयति–महेति । सुमहदित्यार्षम् ।। 1.40.17 ।।

ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ।

षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।। 1.40.18 ।।

तत इति । दिक्शब्देन देश उच्यते ।। 1.40.18 ।।

पश्चिमायामपि दिशि महान्तमचलोपमम् ।

दिशागजं सौमनसं ददृशुस्ते महाबलाः ।। 1.40.19 ।।

पश्चिमायामिति । सौमनसं सौमनसाख्यम् ।। 1.40.19 ।।

तं ते प्रदक्षिणं कृत्वा पृष्ट्वाचापि निरामयम् ।

खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ।। 1.40.20 ।।

तमिति । निरामयं कुशलम् । समुपक्रान्ताः गताः । हैमवतीं हिमवत्सम्बन्धिनीम् ।। 1.40.20 ।।

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डरम् ।

भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।। 1.40.21 ।।

उत्तरस्यामिति । भद्रं भद्राख्यम् । भद्रेण शोभनेन ।। 1.40.21 ।।

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ।

षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।। 1.40.22 ।।

समालभ्येति । समालभ्य स्पृष्ट्वा । “आलम्भः स्पर्शहिंसयोः” इत्यमरः ।। 1.40.22 ।।

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ।

रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ।। 1.40.23 ।।

तत इति । प्रागुत्तराम् ऐशानीं दिशम् । प्रथिताम् अश्वगमनयोग्यतावतीम् । गमनखननक्रियाभेदात्सागरसगरात्मजपदप्रयोगः ।। 1.40.23 ।।

ते तु सर्वे महात्मानो भीमवेगा महाबलाः ।

ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।। 1.40.24 ।।

ते त्विति । महात्मानः महाकायाः । कपिलं कपिलावतारम् ।। 1.40.24 ।।

हयं च तस्य देवस्य चरन्तमविदूरतः ।

प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ।। 1.40.25 ।।

हयं चेति । चरन्तं तृणानि भक्षयन्तम् ।। 1.40.25 ।।

ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ।

खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।

अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ।। 1.40.26 ।।

ते तमिति सार्द्धश्लोकः । तं कपिलम् ।। 1.40.26 ।।

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि ।

दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नः सगरात्मजान् ।। 1.40.27 ।।

अस्माकमिति । दुर्मेध इति सम्बोधनम् ।। 1.40.27 ।।

श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन ।

रोषेण महता ऽ ऽविष्टो हुङ्कारमकरोत्तदा ।। 1.40.28 ।।

श्रुत्वेति । स्पष्टम् ।। 1.40.28 ।।

ततस्तेनाप्रमेयेन कपिलेन महात्मना ।

भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ।। 1.40.29 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ।। 40 ।।

तत इति । अप्रमेयेन अप्रमेयवैभवेन ।। 1.40.29 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चत्वारिंशः सर्गः ।। 40 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.