36 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

षट्त्रिंशः सर्गः

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।

अभिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ।। 1.36.1 ।।

“भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्” इति गङ्गायास्त्रिपथगात्वप्रकारे पृष्टे अन्तरिक्षस्वर्गगमनयोः प्रत्युक्तत्वात्तत्र तृतीयपथगमनं कथमित्याशयेन पुनः पृच्छन्तं श्रीरामं प्रत्याह षट्त्रिंशे–उक्तवाक्य इत्यादि । मुनौ उक्तवाक्ये उक्तोत्तरे सति । अत्रोभावित्युक्तेः पूर्वसर्गे रामपदं लक्ष्मणस्याप्युपलक्षणं वेदितव्यम् । कथां पूर्वोक्ताम् ।। 1.36.1 ।।

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।

दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।

विस्तरं विस्तरज्ञो ऽसि दिव्यमानुषसम्भवम् ।। 1.36.2 ।।

धर्मेति अर्द्धत्रयम् । धर्मयुक्तम्, धर्मफलकश्रवणमित्यर्थः । इदं वृत्तं ज्येष्ठाया दुहितुः वृत्तं त्वया कथितम् । तस्या दिव्यमानुषसम्भवं दिव्यलोके मानुषलोके च सम्भवं विस्तरं वक्तुमर्हसि ।। 1.36.2 ।।

त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।। 1.36.3 ।।

त्रीनिति । त्रीन् पथः भूर्भुवःस्वर्मार्गान् । केन हेतुना प्लावयेत् प्लुता । भावयेदित्यपि पाठः । लकारव्यत्ययः । इतरयोः पूर्वसर्ग एवोक्तत्वात्केन हेतुना तृतीयपथं गतेति द्वितीयप्रश्नार्थः ।। 1.36.3 ।।

कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा ।

त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।। 1.36.4 ।।

तृतीयप्रश्नमाह–कथमिति । त्रिपथगा गङ्गा कथं विश्रुता कैः कर्मभिः व्यापारैः सरिदुत्तमा आसीत् ।। 1.36.4 ।।

तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।

निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।। 1.36.5 ।।

प्रथमप्रश्नोत्तरमाहेत्याह–तथेति । काकुत्स्थ इति लक्ष्मणस्याप्युपलक्षणम् । निखिलेन विस्तरेण । सर्वां दिव्यसम्भवां मानुषसम्भवां च ।। 1.36.5 ।।

पुरा राम कृतोद्वाहो नीलकण्ठो महातपाः ।

दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ।। 1.36.6 ।।

निखिलेनेत्युक्तं गाङ्गेयसम्भवमाह–पुरेति । कृतोद्वाह इति परपरिग्रहव्यावृत्तिः । दृष्ट्वा स्पृहया महातपोनिष्ठत्वे ऽपि कामबाणवशात् तस्यामभिलाषेण । मैथुनाय मिथुनकर्म कर्तुं उपचक्रमे ।। 1.36.6 ।।

शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।

[तस्य सङ्क्रीडमानस्य महादेवस्य धीमतः ।

एवं मन्मथयुद्धे तु तयोर्नासीत्पराजयः ।।]

न चापि तनयो राम तस्यामासीत्परन्तप ।। 1.36.7 ।।

शितीति । दिव्यं वर्षशतं गतम्, मैथुनेनैवेति शेषः । तनयः तनयप्रापकरेतोविसर्गः ।। 1.36.7 ।।

ततो देवाः समुद्विग्नाः पितामहपुरोगमाः ।

यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते ।। 1.36.8 ।।

तत इति । पितामहपुरोगमाः देवाः समुद्विग्ना भीताः । पाठान्तरेसमुद्युक्ताः उद्योगं चक्रुः । किमर्थम् ? इह पार्वत्यां यद्भूतं पुत्रः उत्पद्यते उत्पत्स्यते । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः । तत् कः प्रतिसहिष्यत इति विचार्य तन्निवर्त्तनाय समुद्युक्ता इत्यर्थः ।। 1.36.8 ।।

अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ।। 1.36.9 ।।

तमेवोद्योगमाह–अभिगम्येति । महादेवमिति शेषः ।। 1.36.9 ।।

देवदेव महादेव लोकस्यास्य हिते रत ।

सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ।। 1.36.10 ।।

देवदेवेति । देवदेवेत्यनेन महादेवशब्दार्थः उक्तः । प्रणिपातेन पादमूलपतनेन ।। 1.36.10 ।।

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।

ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ।। 1.36.11 ।।

नेति । तेजः तेजस्समुद्भूतं पुत्रं न धारयिष्यन्ति न सहिष्यन्ते, अतो ब्राह्मेण वेदावगतेन तपसा योगेन युक्तः सन्, तदङ्गतया देव्या सह तपश्चर । न तेजः पार्वत्यां मोक्तुमर्हसीति भावः ।। 1.36.11 ।।

त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।। 1.36.12 ।।

[रक्ष सर्वानिमाँल्लोकान्नालोकं कर्तुमर्हसि ।]

त्रैलोक्येति । त्रैलोक्यहितमेव कामः काम्यमानः पुरुषार्थः तदर्थम् । तेजः रेतः, तेजसि तेजोमयनिजशरीरे धारय, न मुञ्चेत्यर्थः ।। 1.36.12 ।।

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।

बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ।। 1.36.13 ।।

देवतानामिति । सर्वलोकमहेश्वरः सर्वलोकानां परमनियन्ता । सर्वलोकपितामह इति पाठान्तरम् ।। 1.36.13 ।।

धारयिष्याम्यहं तेजस्तेजस्येव सहोमया ।

त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ।। 1.36.14 ।।

बाढमित्यङ्गीकृतांशमाहधारयिष्यामीति । तेजः अक्षुभितांशम् । उमया उमाप्यक्षुभितं शोणितरूपं तेजो धारयत्वित्यर्थः । पृथिवीशब्देन लोका उच्यन्ते । निर्वाणं सुखम् ।। 1.36.14 ।।

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।

धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ।। 1.36.15 ।।

‘पुनश्चेदमुवाच’ इत्युक्तमंशं दर्शयतियदिदमिति । स्थानात् रेतःस्थानहृदयसम्पुटात् । अनुत्तमं दुर्भरम् । मे मह्यं ब्रुवन्तु ।। 1.36.15 ।।

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।

यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति ।। 1.36.16 ।।

एवमिति । धरा सर्वधारणशक्तिमती, अनेन धरा तद्धारणार्थं देवैः प्रार्थितेति सिद्धम् ।। 1.36.16 ।।

एवमुक्तः सुरपतिः प्रमुमोच महीतले ।

तेजसा पृथिवी येन व्याप्ता सगिरिकानना ।। 1.36.17 ।।

एवमिति । सुरपतिः रुद्रः । प्रमुमोच तेज इति सिद्धम् । येन तेजसा पृथिवी व्याप्ता तत्प्रमुमोच ।। 1.36.17 ।।

ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् ।

प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ।। 1.36.18 ।।

ततः पृथिव्यां व्याप्तत्वादेव हेतोः । पृथिवी भग्ना भविष्यतीति हुताशनमूचुः । पुनरूचुरित्यनेनाग्नेः प्रवेशभीतत्वं गम्यते, अग्निचारणहेतुतया वायुसमन्वित इत्युक्तम् ।। 1.36.18 ।।

तदग्निना पुनर्व्याप्तं सञ्जातः श्वेतपर्वतः ।

दिव्यं शरवणं चैव पावकादित्यसन्निभम् ।

यत्र जातो महातेजाः कार्तिकेयो ऽग्निसम्भवः ।। 1.36.19 ।।

तदिति अर्द्धत्रयम् । तत्तेजः अग्निना व्याप्तं सत् श्वेतपर्वतः सञ्जातः । ततः कालपरिपाकेन शरवणं च सञ्जातं । शराणां वनं शरवणम् । “प्रनिरन्तश्शर–” इति णत्वम् । शरवणं विशेषयति–यत्रेति । कृत्तिकानामपत्यं पुमान् कार्तिकेयः । “स्त्रीभ्यो ढक्” । स्तन्यदानात्कृत्तिका पुत्रत्वम् । अग्निना धृत्वा मुक्तत्वादग्निसम्भवः ।। 1.36.19 ।।

अथोमां च शिवं चैव देवाः सर्पिगणास्तदा ।

पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः ।। 1.36.20 ।।

अथेति । पूजयामासुः, मैथुनविघ्नकृतकोपशान्त्यर्थमित्यर्थः ।। 1.36.20 ।।

अथ शैलसुता राम त्रिदशानिदमब्रवीत् ।

समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ।। 1.36.21 ।।

अथेति । अब्रवीदित्येतद्विशिष्योच्यते अशपदिति ।। 1.36.21 ।।

यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया ।

अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ।। 1.36.22 ।।

यस्मादिति । पुत्रकाम्यया मया । सङ्गतिः भर्तृसंयोगो मैथुनरूपः सा यस्मान्निवारिता, तस्मात् यूयमपि स्वेषु दारेषु अपत्यं पुत्रं नोत्पादयिष्यथ ।। 1.36.22 ।।

अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ।

एवमुक्त्वा सुरान् सर्वान् शशाप पृथिवीमपि ।। 1.36.23 ।।

अद्येति । पूर्वार्द्धेन पूर्वश्लोकपठितमुच्यते । पत्नय इत्यार्षं ह्रस्वत्वम् ।। 1.36.23 ।।

अवने नैकरूपा त्वं बहुभार्या भविष्यसि ।

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।

प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ।। 1.36.24 ।।

अवन इति सार्द्धश्लोकः । नैकरूपा ऊषरत्वादिरूपेण नानाविधा । बहुभार्या बहूनां राज्ञां भार्या । मम पुत्रम् अनिच्छती अनिच्छन्ती त्वं मत्क्रोधेन शापरूपेण कलुषीकृता विपर्यस्तप्रकृतिः सती, पुत्रकृतां प्रीतिं न प्राप्स्यसीति भावः ।। 1.36.24 ।।

तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।

गमनायोपचक्राम दिशं वरुणपालिताम् ।। 1.36.25 ।।

तानिति । सुरपतिः रुद्रः । तान्सुरान् स्वकीयशापेन व्रीडितान् लज्जितान् । दृष्ट्वा प्रियाशापस्य दुष्परिहरत्वात् स्वीयशापदुःखस्य द्रष्टुमशक्यत्वाच्च वरुणपालितां दिशं हिमवतः प्रतीचीं प्रति । गमनायोपचक्राम । परस्मैपदमार्षम् ।। 1.36.25 ।।

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।

हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ।। 1.36.26 ।।

स इति । हिमवत्प्रभवे तस्य हिमवतो गिरेरुत्तरपार्श्वभूते शृङ्गे देव्या सह तप आतिष्ठत्, सदा तपोव्रतमसङ्कल्पयदित्यर्थः ।। 1.36.26 ।।

एष ते विस्तरो राम शैलपुत्र्या निवेदितः ।

गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ।। 1.36.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ।। 36 ।।

ननु ‘दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि’ इति पार्वती वृत्तान्तमुपेक्ष्य गङ्गावैभव एव मया पृष्टे तद्विहायोपेक्षितमेव पार्वतीवृत्तान्तं किमर्थं कथितवानसीति रामस्य शङ्कां परिहरति–एष इति । शैलपुत्र्याः पार्वत्याः सम्बन्धी कथाविस्तरो निवेदितः । वक्ष्यमाणगङ्गावैभवकथनोपयोगित्वेनोक्तः । गङ्गायाः प्रभवं प्रभावं त्वं शृणु । चः प्राधान्ये ।। 1.36.27 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने षट्त्रिंशः सर्गः ।। 36 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.