59 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

 एकोनषष्टितमः सर्गः

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।

अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ।। 1.59.1 ।।

जातिचण्डालस्य कदाचित्तद्भावनिवृत्तिरस्ति, नतु कर्मचण्डालस्येत्याह एकोनषष्टितमे उक्तवाक्यमित्यादि । साक्षाच्चण्डालरूपिणं चण्डालचिह्नधारित्वान्न शास्त्रगम्यचण्डालभाव इत्यर्थः ।। 1.59.1 ।।

ऐष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।

शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ।। 1.59.2 ।।

अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः ।

यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ।। 1.59.3 ।।

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।

अनेन सह रूपेण सशरीरो गमिष्यसि ।। 1.59.4 ।।

हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप ।

यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ।। 1.59.5 ।।

ऐक्ष्वाकेत्यादि चत्वारः । यज्ञसाह्यकरान् यज्ञसहायकरान् । गमिष्यसि स्वर्गमिति शेषः । अनेनेत्यनेन ऋषिशापकृतरूपस्य ब्रह्मणाप्यवार्यत्वेन जातिचण्डालताभावेन मत्तपोमहिमोपबृंहितयज्ञेन सशरीरः स्वर्गं गमिष्यसीति भावः । हस्तप्राप्तम् अनायासेन सद्योलब्धम् । तत्र हेतुः यस्त्वमिति ।। 1.59.25 ।।

एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् ।

व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् ।

सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह ।। 1.59.6 ।।

एवमिति सार्द्धः । शिष्यान् भृत्यान् ।। 1.59.6 ।।

सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया ।

सशिष्यसुहृदश्चैव सर्त्विजः सबहुश्रुतान् ।। 1.59.7 ।।

सर्वानिति । सुहृदः मत्सुहृदः शोभनहृदयान्वा ।। 1.59.7 ।।

यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ।

तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् ।। 1.59.8 ।।

यदन्य इति । मद्वाक्यबलेन चोदितः आहूतः यः कश्चनान्यः अनाहृतमुपेक्षारूपं चण्डालं याजयतीति निन्दारूपं वा, यद्वाक्यं ब्रूयात् तेनोक्तं तत्सर्वमखिलेन ममाख्येयम् ।। 1.59.8 ।।

तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ।

आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ।। 1.59.9 ।।

ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ।

ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ।। 1.59.10 ।।

तस्येति द्वौ । ब्रह्मवादिनः शिष्याः । ब्रह्मवादिनां वचनमित्यन्वयः ।। 1.59.9,10 ।।

श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ।

सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ।। 1.59.11 ।।

यदनादरवचनं मुनीनां तदपि वक्तव्यमित्युक्तत्वात्तदपि वदन्ति–श्रुत्वेत्यादिषट् । सर्वदेशेषु स्थिता इति शेषः । महोदयमिति तदाख्यम् ऋषिमित्यर्थः । वासिष्ठशतं च वर्जयित्वेति द्रष्टव्यम् ।। 1.59.11 ।।

वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ।

यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव ।। 1.59.12 ।।

वासिष्ठं यदाहेत्यत्र महोदयश्चेत्यपि बोद्ध्यम् । उपसंहारे तथा दर्शनात् ।। 1.59.12 ।।

क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।

कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ।। 1.59.13 ।।

क्षत्रियो याजको यस्येति । विप्रस्यैव याजनाधिकारात् चण्डालस्य याज्यत्वानधिकारात् तस्य सदसि देवताः कथं हविर्भोक्तारः । लुट् । ऋषयश्च कथमिष्टशिष्टभोक्तार इति भावः ।। 1.59.13 ।।

ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् ।

कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ।। 1.59.14 ।।

एतद्वचननैष्ठुर्यमूचुः संरक्तलोचनाः ।

वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ।। 1.59.15 ।।

तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः ।

क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ।। 1.59.16 ।।

पालिता इति क्षेपोक्तिः । अयाज्ययाजयितारः ऋषयः कथं स्वर्गं गमिष्यन्तीति भावः ।। 1.59.1416 ।।

ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ।

भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ।। 1.59.17 ।।

य इति । ‘तेषां तेजोविशेषेण प्रत्यवायो न विद्यते’ इति न्यायेन चण्डालयाजनमपि जीर्यतीत्यविज्ञाय ये दूषयन्ति ते भस्मीभूता भविष्यन्तीत्यर्थः ।। 1.59.17 ।।

अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ।

सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः ।। 1.59.18 ।।

श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।

विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ।। 1.59.19 ।।

महोदयश्चदुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ।

दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ।। 1.59.20 ।।

अद्येत्यादिपञ्च । क्षयं गृहम् । सप्तजातिशतानि सप्तजन्मशतानि । मृतपाः शवभक्षकाः । मुष्टिकाः हीनजातिविशेषाः । विकृताः विकृतवचन व्यापारादयः । विरूपाः विकृतवेषाः । अदूष्यम् उक्तन्यायेनेति भावः । महोदयश्चेत्यनेन पूर्वं शप्ता वसिष्ठपुत्रा एवेति गम्यते ।। 1.59.1820 ।।

प्राणातिपातनिरतो निरनुक्रोशतां गतः ।

दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति ।। 1.59.21 ।।

एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।

विरराम महातेजा ऋषिमध्ये महामुनिः ।। 1.59.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्टितमः सर्गः ।। 59 ।।

प्राणातिपातः बलात्प्राणनाशनम् । निरनुक्रोशतां निर्घृणताम् । वर्तयिष्यति प्राप्स्यति । ननूग्रतपस्वित्वेपि क्षत्रियस्य चण्डालयाजनं सर्वथा अन्याय्यमेवेति कथं यथार्थवादिषु शापप्रवृत्तिरितिचेत्, अत्रोत्तरम्–वसिष्ठवैरनिर्यातनकामस्य विश्वामित्रस्य तपःफलमिदमिति ।। 1.59.21,22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनषष्टितमः सर्गः ।। 59 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.