अतिमानुषस्तवव्याख्यानम्

श्रीः श्रीमते रामानुजाय नमः अतिमानुषस्तवम् अतिमानुषशीलवृत्तवेषैः अतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यम् वरये वैष्णववैभवावतारम् ॥ १ ॥ अतिमानुषेति – सदाचार्यसमाश्रयणेन प्राप्तपरावरतत्त्वयाथात्म्यविवेकः श्रीवत्साङ्कमिश्रः परव्यूहविभवान्तन्तर्याम्यर्चारूपेणावस्थितम् स्तव्यम् स्तवप्रियम् सर्वेश्वरम् स्तोतुकामः तत्र रामकृष्णविभवावतारम् देवतिर्यङ्मनुष्य साधर्म्येण पश्यताम् प्रत्यवायम् परतत्त्ववेषेण पश्यताम् चाभ्युदयम् । अवजानन्ति माम् मूढा मानुषीम् तनुमाश्रितम् । परम् भावमजानन्तो मम भूतमहेश्वरम् ॥ मोघाशा मोघर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीम् चैव प्रकृतिम् मोहिनीम् श्रिताः […]

सुन्दरबाहुस्तवव्याख्यानम्

श्रीः श्रीमते रामानुजाय नमः सुन्दरबाहुस्तवम्    अथ भगवद्भाष्यकारसकाशाल्लब्धपरावरतत्त्वयाथात्म्यावबोधः श्रीवत्साङ्कमिश्रः कावेरीमध्यगताच्छ्रीरङ्गक्षेत्रात् दक्षिणस्याम् दिशि वनगिरिवृषगिरिसिम्हगिरिप्रभृतिनामभिः प्रसिद्धे महापर्वते कृतावतारम् सुन्दरबाहुम् सुन्दरालङ्कारादिनामभिर्व्यवह्रियमाणम् दिव्यप्रबन्ध वैभवम् महाविष्णुम् स्वोज्जीवनार्थम् सकलप्राणिहितार्थम् च स्तोतुकाम: प्रथमम् स्तोत्रारम्भम् प्रतिजानीते? श्रीमन्ताविति – श्रीमन्तौ हरिचरणौ समाश्रितोऽहम् श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुम् स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥ यतः कारणात् भगवत्पादसमाश्रितः रामानुजमुनीन्द्रसकाश लब्धबोधश्च ततः कारणात् निर्भयः सन् तच्चरणसाक्षात्काराभिलाषी सुन्दरोरुबाहुनामानम् विष्णुम् […]

श्रीवैकुण्ठस्तवव्याख्यानम्

श्रीः श्रीमते रामानुजाय नमः श्रीवैकुण्ठस्तवम् श्रीवेङ्कटाचार्यवर्यस्य चरणौ शरणम् वृणे । यदीयसेवा सर्वेषाम् सूते तत्त्वार्थनिर्णयम् ॥ वेदान्तवेद्यविभवम् विविधावतारम् आदित्यवर्णमुदितम् तमसः परस्तात् । वैकुण्ठनायकमनायकमादिमूलम् पत्नीपरिच्छदविभूतियुतम् नमामि ॥ यो विष्णुरेव परतत्त्वमिति प्रतिज्ञाम् प्रत्यर्थि सम्सदि समर्थयते स्म सत्याम् । वेदान्तवाक्यगतिभिर्विविधैश्च तर्के: श्रीवत्सचिह्नगुरुमेनमुपयामि ॥     अथ भगवद्भाष्यकारसकाशात् समधिगतपरावरतत्त्वयाथार्थ्यज्ञः श्रीवत्साङ्कमिश्रो वेदान्तैकसमधिगम्यम् पत्नीपरिजनपरिच्छदसमेतम् परमप्राप्यम् नित्यमुक्तभोग्यम् श्रीवैकुण्ठनाथम् वेदान्तवाक्यार्थानुसन्धानक्रमेण सकलजगदुज्जीवनार्थम् च स्तोतुकामः प्रथमम् स्वाचार्यम् […]

वरदराजस्तवव्याख्यानम्

श्रीः श्रीमते रामानुजाय नमः वरदराजस्तवम् श्रीवत्सचिह्नमित्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ हस्त्यद्रीशस्तोत्रमध्यात्मगर्भम् पूर्वाचार्यैर्व्याकृतम् विस्तरेण । श्रीवत्साङ्कम् लक्ष्मणार्यम् च नत्वा सङ्क्षिप्याहम् व्याकरोमि स्वशक्त्या ॥ अखिलहेयप्रत्यनीक कल्याणैकतानम् स्वेतरसमस्तवस्तुविलक्षणम् सकलजगत्कारणम् परव्यूहविभवार्चान्तर्यामिरूपेण पञ्चधावस्थितम् चतुर्मुखमहहविर्भागाङ्गीकारार्थम् वेगवतीतीरे काञ्च्याम् पुण्यकोट्याम् सत्यव्रतक्षेत्रे हस्तिशैलशिखरेऽवतीर्णम् अद्यापि पुत्रमित्र क्षेत्र – धनधान्यादिवरप्रदानेन प्रकटितेश्वरभावम् सदा सन्निहितम् वरदराजमधिकृत्य मुमुक्षुभिः सर्वदानुसन्धेयमर्थपञ्चकम् चानुसन्दधत् श्रीवत्साङ्कमिश्रः सकलजगदुज्जीवनार्थम् स्वोज्जीवनार्थम् च स्तोत्रम् प्रवर्तयामास […]

श्रीस्तवव्याख्यानम्

श्रीः श्रीमते रामानुजाय नमः श्रीस्तवम् लक्ष्मीकटाक्षविक्षेपा रक्षणै ककृतक्षणाः । रक्षन्तूत्कूलकरुणा सन्धुक्षितजगत्त्रयाः ॥ अथ सर्वेश्वराभिमत स्वरूपगुणविभवाम्  सकलचेतनानाम् सकलपुरुषार्थप्राप्तौ पुरुषकारभूताम् सर्वेश्वरवत् स्वयमपि प्राप्यप्रापकभूताम् लक्ष्मीम् स्तोतुकामाः श्रीवत्साङ्कमिश्राः सकल-जगदुज्जीवनार्थमाशीर्वादमेव प्रबन्धमुखेन निबध्नन्ति । स्वस्तीति स्वस्ति श्रीर्दिशताद्  अशेषजगताम् सर्गोपसर्गस्थितीः स्वर्गम् दुर्गतिमापवर्गिकपदम् सर्वम् च कुर्वन् हरिः । यस्या वीक्ष्य मुखम् तदिङ्गितपराधीनो विधत्तेऽखिलम् क्रीडेयम् खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्  तया ॥ १ ॥ सा […]

श्री कूरेशविजयः

श्री कूरेशविजयः श्रीशैलेशदयापात्रं धीभक्त्यादि गुणार्णवम् । यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ श्रीपराशरभट्टायः श्रीरङ्गेशापुरोहितः । श्रीवत्साकसुतश्रीमान् श्रेयसे मेस्तु भूयसे ॥ श्रीवत्सचिह्नमिश्रेभ्यः नम उक्तिमधीमहे | यदुक्तस्त्रयीकण्ठेयान्ति मङ्गलसूत्रताम् ॥ अर्वाञ्चो यत्पदसरसिजद्वन्द्वभाश्रित्य पूर्च मूर्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः । सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्था घरसम्पन्धादमनुत कथं वर्ण्यते कूरनाथः ॥ : परोपन्यस्तपूर्वपक्ष श्लोका: गायत्री’बोधितत्वात् दशरथतनयस्थ पिताराधितत्वात् । शैरेः कैलासयात्रावतमुदिततयाऽभीष्टसन्तानदानात् । नेत्रेण वन […]

श्रीकूरनाथ पञ्चाशत्

श्रीमते रामानुजाय नमः श्री कूरनाथपञ्चाशत् श्रीशैललक्ष्मणमुने श्चरणाब्जयुग्मं श्रेयस्करं तनुभृता मखिलाघहन्तृ। नत्वा करोमि विबुधावलितुष्टयेऽहं कूराधिपस्तुतिमिमां कुशलप्रदात्रीम्।। -तोताद्रिमठस्थोऽयं श्रीशैल लक्ष्मणमुनिः १. जयजय यतिराज श्रीपदाम्भोजयुग्म प्रसृमरमकरन्दास्वाद लुब्धान्तरङ्ग। जयजय कुमतेभ व्रातहर्यक्ष विद्व न्मणिवर निगमान्ताकल्प कूराधिनाथ।। २. जयति जगति नैजोद्वेलमेधाविशेषा दधिगततमबोध व्यासवृत्त्यर्थजालः। जनित यतिवरेण्य स्वान्तनिस्सीममोदः श्रितजनपरिरक्षादीक्षितः कूरनाथः।। ३. जयति हरिपरत्व स्थापनोद्वेलमोदा दुपनिषदुपगूढा न्न्यायतोऽर्थान्विवृण्वन्। अधरित शिवपारम्यार्थि चोलाधिराजः शमितविमतवाद श्शान्तिमान्कूरनाथः।। ४. भवजलनिधिमग्नोत्तारणे […]

श्री कूरेश विंशतिः

श्रीमते रामानुजाय नमः श्री कूरेश विंशतिः श्रीरङ्गोज्ज्वल मध्यवीथिनिलयं श्रीराममिश्रात्मजं श्रीभट्टार्यपदाश्रयं शुभगुणं वाचांजयिभ्रातरम्। लोकार्यप्रवणं तदुक्तिरसिकं सर्वज्ञभट्टारकं वन्दे तं भुवि विंशतिं व्यतनुत श्रीवत्सचिह्नस्य यः।। १. श्रीरङ्गराजकरुणामयदृष्टिवीक्षा- संप्राप्तसर्वगुणराजिविराजमाने। श्रीमच्छठप्रमथने स्थिरभावबन्धं श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।। २. श्रीयामुनार्य पदपङ्कज सक्तचित्ते श्रीमत्पराङ्कुश गुरूत्तमलब्धविद्ये। श्रीलक्ष्मणे मुनिवरेऽर्पित सर्वभारं श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।। ३. आचार्यवर्यविभवस्यच शिष्यवृत्तेः सीमेति देशिकवरैः परितुष्यमाणम्। नित्यानवद्यकरुणाविलसत्कटाक्षं श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।। ४. रामानुजार्यमतसिन्धुविधो कुदृष्टि- बाह्यान्धकारपटलीहरणाब्जबन्धो। अस्मद्गुरो र्जनक […]

अतिमानुषस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः ।। अतिमानुषस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ अतिमानुषशीलवृत्तवेषैः अतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १ ॥ श्रेयः किरन्तु किरणाश्चरणारविन्दनिष्यन्दमानमकरन्दरसौघदेश्याः । तज्जाः श्रुतेर्मधुन उत्स इति प्रतीताः मङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २ ॥ श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासात् तज्जानुरागरसमज्जनं अञ्जसाऽऽप्य । अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजं उन्नयामः ॥ ३ ॥ वज्रध्वजाङ्कुशसुधाकलशातपत्रपङ्केरुहाङ्कपरिकर्मपरीतमन्तः । आपादपङ्कजविशृङ्खलदीप्रमौलेः श्रीरङ्गिणश्चरणयोर्युगं आश्रयामः ॥ ४ ॥ श्रीरङ्गराजचरणौ प्रणुमो […]

सुन्दरबाहुस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥सुन्दरबाहुस्तवः॥ श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥ सुन्दरायतभुजं भहामहे वृक्षषण्डमयमद्रिं आश्रितम् । यत्र सुप्रथितनूपुरापगातीर्थं अर्थितफलप्रदं विदुः ॥ २ ॥ क्वचित् त्वरितगामिनी क्वचन मन्दमन्दालसा क्वचित् स्खलितविह्वला क्वचन फेनिला सारवा । पतन्त्यपि किल क्वचित् व्रजति नूपुराह्वा नदी सुसुन्दरभुजाह्वयं मधु निपीय मत्ता […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.