श्री कूरेश विंशतिः

श्रीमते रामानुजाय नमः

श्री कूरेश विंशतिः

श्रीरङ्गोज्ज्वल मध्यवीथिनिलयं श्रीराममिश्रात्मजं

श्रीभट्टार्यपदाश्रयं शुभगुणं वाचांजयिभ्रातरम्।

लोकार्यप्रवणं तदुक्तिरसिकं सर्वज्ञभट्टारकं

वन्दे तं भुवि विंशतिं व्यतनुत श्रीवत्सचिह्नस्य यः।।

१. श्रीरङ्गराजकरुणामयदृष्टिवीक्षा-

संप्राप्तसर्वगुणराजिविराजमाने।

श्रीमच्छठप्रमथने स्थिरभावबन्धं

श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।।

२. श्रीयामुनार्य पदपङ्कज सक्तचित्ते

श्रीमत्पराङ्कुश गुरूत्तमलब्धविद्ये।

श्रीलक्ष्मणे मुनिवरेऽर्पित सर्वभारं

श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।।

३. आचार्यवर्यविभवस्यच शिष्यवृत्तेः

सीमेति देशिकवरैः परितुष्यमाणम्।

नित्यानवद्यकरुणाविलसत्कटाक्षं

श्रीवत्सचिह्नगुरु मन्वहमाश्रयामि।।

४. रामानुजार्यमतसिन्धुविधो कुदृष्टि-

बाह्यान्धकारपटलीहरणाब्जबन्धो।

अस्मद्गुरो र्जनक भट्टपराशरस्य

श्रीवत्सचिह्न शरणं भव मे दयालो।।

५. श्रीवत्सचिह्न भवतश्चरणारविन्द-

सेवामृतैकरसिकान् करुणासुपूर्णान्।

भट्टार्यवर्य निगमान्तमुनीन्द्रलोक-

गुर्वादिदेशिकवराञ् शरणं प्रपद्ये।।

६. श्रीरङ्गराजमहिषीकरलालनेन

संप्राप्तसर्वविभवस्य पराशरस्य।

कुर्यां मदन्वयगुरो र्गुरुतां गतस्य

कूराधिपस्य गुरुचिन्तन मन्तरङ्गैः।।

७. वैराग्यभक्तिजलधेः कृतिनश्च सत्य-

सङ्कल्पनस्य मृदितारिगणस्य नाध।

श्रीवत्सचिह्न पुरतस्तव गन्तुमेव

नार्होऽह मेव मधुना प्रलपामि हन्त।।

८. मायाविदूरमनसां मधुराकृतीनां

मात्सर्यलोभमदमानविवर्जितानाम्।

श्रीवत्सचिह्न भवतश्चरणाश्रिताना-

मन्तर्गतोऽप्यहमहो विभयश्चरामि।।

९. कूराधिप त्रिविधतापनिदानमेतत्

संरक्ष्य हेयतरमेव कलेबरं हा।

आत्मस्वरूप मतिनिर्मल मत्युपेक्ष्य

तस्यानुरूप फलशून्य इहैव वर्ते।।

१०. ज्ञात्वाप्यकृत्यकरणं विहिताप्रवृत्तिं

क्रूरप्रमत्त इव जात्वनुतापशून्यः।

पापाकृतिस्त्वदनुबन्धिषु सज्जनेषु

कूराधिपाहमपि हृष्टमनाश्चरामि।।

११. [1]कूरान्वयस्य मयि दोषचयस्तवेऽहं

सर्वात्मना भवितु मेवहि वत्सलस्य।

स्वामिंस्तथापि मम तत्करणे तु हन्त

तापो भवत्यहरहः कथमुत्सहेय।।?

१२. श्रीवत्सचिह्न तव भूरिदयापगायां

स्नात्वातिनिर्मलतमोऽपि मितंपचोऽहम्।

निन्द्येषु कर्मनिचयेषु निरूढबुद्धि-

र्मज्जाम्यधस्तमसि हा तव निर्भरोऽस्मि।।

१३. श्रीवत्सचिह्न भवत श्चरणाश्रिताना-

मस्माकमप्यनुचितेषु भवेच्चिकीर्षा।

सा सर्वथा भवति दुःखकरी तवैव

तस्मात्त्वमेव हर तादृशकर्मचिन्ताम्।।

१४. कूराधिपाल मतिवेलकृतेन कर्म-

मूलेन यत्सुखमवाप्त मथापि दुःखम्।

तच्छक्नुमो नु न निवारयितुं च सोढुं

तत्सङ्गमेव विनिवर्तय ते प्रभावात्।।

१५. स्मृत्वा मदीयविपरीतगति स्तदैव

भग्नाशयोऽप्यथ च हृष्टमनाश्चरामि।

श्रीवत्सचिह्न भवतस्त्वतिवेल शील-

वात्सल्यसौहृददयादि गुणान्विमृश्य।।

१६. कूराधिनाध गुणसंततिचिन्तनेन

कस्याशय स्तव नयाति परं प्रमोदम्।

निस्संशयत्व मथ निर्भयतां च सम्य-

ग्वृत्ति प्रवृत्यभिरतिं परमां विरक्तिम्।।

१७. श्रीरङ्गनायक भवत्प्रतिभाषणानि

श्रुत्वा प्रहृष्टमनसा यतिशेखरेण।

उक्तां सुभाषितसुधां च निशम्य नाध

त्वद्बन्धुतास्ति मम चेत्यभयश्चरामि।।

१८. श्रीवत्सचिह्न भवताप्यभिमानितोऽह-

मित्यादरेण सततं मयि रङ्गनाथः।

कुर्वन् दयां न विजहाति कृतागसं मां

रक्षत्यहोत्वयितु कीदृगनुग्रहोऽस्य।।

१९. श्रीवत्सलक्षण शरीरवशोऽपि नित्यं

नाधानुतप्त इवच प्रलपामि तेऽग्रे।

मैत्र्याशठश्च खल एष इतीव मत्वा

मामन्वहं समभिषञ्च कृपाकटाक्षैः।।

२०. आपन्नदीनजनरक्षणबद्धदीक्ष

विज्ञापनं त्विह मयोदितमुक्तिमात्रम्।

सार्थं विचार्य सहसाद्य तवैव पूर्त्या

कूराधिपोन्नमय मामिह सर्वथा त्वम्।।

इति श्रीकूरेशविंशतिः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.