श्रीवैकुण्ठस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः

॥ श्रीवैकुण्ठस्तवः ॥

श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १ ॥
त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् । यद्वा शरण्यं अशरण्यजनस्य पुण्यं तत् संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ २ ॥
भक्तिप्रभावभवदद्भुतभावबन्धसन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्थरत्ननिधिरच्युतदिव्यधाम जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ ३ ॥
यन्मङ्गलाय महते जगतामुशन्ति त्रैविष्टपान्यपि पदानि यदाश्रयाणि । वन्दामहे सरसिजेक्षणमद्वितीयं वेदान्तवेद्यं अनिदम्प्रथमं महस्तत् ॥ ४ ॥
पीताम्बरं वरदशीतलदृष्टिपातं आजानुलम्बिभुजं आयतकर्णपाशम् । तन्मेघमेचकं उदग्रविशालवक्षः लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ ५ ॥
यत् तत्त्वमक्षरमदृश्यमगोत्रवर्णं अग्राह्यमव्ययमनीदृशं अद्वितीयम् । ईशानमस्य जगतो यदणोरणीयः तद् वैष्णवं पदमुदारमुदाहरामः ॥ ६ ॥
आम्नायमूर्धनि च मूर्धनि चोर्ध्वपुंसां यद् धाम वैष्णवमभीक्ष्णतरं चकास्ति । तन्मादृशामपि च गोचरमेति वाचो मन्ये तदीयमिदमाश्रितवत्सलत्वम् ॥ ७ ॥
जानन्नपीह किल मामनपत्रपिष्णुः विष्णोः पदप्रणयिनीं गिरमाद्रियेऽहम् । न श्वावलीढमपि तीर्थमतीर्थमाहुः नोदन्यताऽपि च शुना किल लज्जितव्यम् ॥ ८ ॥
देवस्य दैत्यमथनस्य गुणेष्वियत्ता सङ्ख्या च वाङ्मनसगोचरमत्यभूताम् । अप्येवं अण्वपि च तत्र ममार्तिशान्त्यै कीटस्य तृष्यत उदन्वति विप्रुषाऽलम् ॥ ९ ॥
प्रेमार्द्रविह्वलगिरः पुरुषाः पुराणाः त्वां तुष्टुवुर्मधुरिपो! मधुरैर्वचोभिः । वाचो विडम्बितमिदं मम नीचवाचः क्षान्तिस्तु ते सविषया मम दुर्वचोभिः ॥ १० ॥
आज्ञा तवात्रभवती विदिता त्रयी सा तां हि प्रमाणमुपजग्मुरतीन्द्रियेऽर्थे । आभासभूयमभियान्त्यपराणि दोषैः एषा तु दोषरहिता महिता पुराणी ॥ ११ ॥
अन्तर्हितो निधिरसि त्वमशेषपुंसां लभ्योऽसि पुण्यपुरुषैः इतरैर्दुरापः । तत्र त्रयीं सुकृतिनः कृतिनोऽधिजग्मुः बाह्येषु बाह्यचरितैरितरैर्निपेते ॥ १२ ॥
चित्रं विधेर्विलसितं त्विदमाविरस्ति दुष्टात्मनामयमहो! किल दुर्विपाकः । यत् केचिदत्रभवतीं श्रुतिमाश्रयन्तोऽपि अर्थे कुदृष्टिविनिविष्टधियो विनष्टाः ॥ १३ ॥
बाह्याः कुदृष्टय इति द्वितयेऽप्यपारं घोरं तमः समुपयन्ति नहीक्षसे तान् । जग्धस्य काननमृगैर्मृगतृष्णिकेप्सोः कासारसत्त्वनिहतस्य च को विशेषः? ॥ १४ ॥
न्यायस्मृतिप्रभृतिभिर्भवता निसृष्टैः वेदोपबृंहणविधावुचितैरुपायैः । श्रुत्यर्थमर्थमिव भानुकरैर्विभेजुः त्वद्भक्तिभावितविकल्मषशेमुषीकाः ॥ १५ ॥
ये तु त्वदङ्घ्रिसरसीरुहभक्तिहीनाः तेषाममीभिरपि नैव यथार्थबोधः । पित्तघ्नमञ्जनमनापुषि जातु नेत्रे नैव प्रभाभिरपि शङ्खसितत्वबुद्धिः ॥ १६ ॥
तत्त्वार्थतत्परपरश्शतवेदवाक्यैः सामर्थ्यतः स्मृतिभिरप्यथ तादृशीभिः । त्वामेव तत्त्वपरसात्त्विकसत्पुराणैः दैवज्ञधीभिरपि निश्चिनुमः परेशम् ॥ १७ ॥
अन्यत्र तु क्वचन केचिदिहेशशब्दात् लोकप्रसिद्धिमुपगम्य तमीशमाहुः । तैश्च प्रसिद्धिविभवस्य समूलतायै ग्राह्या त्रयी त्वयि तु साऽच्युत! सम्मुखीना ॥ १८ ॥
यः खल्वणोरणुतरो महतो महीयान् आत्मा जनस्य जनको जगतश्च योऽभूत् । वेदात्मकप्रणवकारणवर्णवाच्यं तं त्वां वयं तु परमेश्वरमामनामः ॥ १९ ॥
आत्मेश्वरोऽसि न परोऽस्ति तवेश्वरोऽन्यः विश्वस्य चाधिपतिरस्य परायणं च । नारायणाच्युत! परस्त्वमिहैक एव ब्रह्मादयोऽपि भवदीक्षणलब्धसत्ताः ॥ २० ॥
नित्यः समाभ्यधिकवर्जित ऊर्जितश्रीः नित्येऽक्षरे दिवि वसन् पुरुषः पुराणः । सत्त्वप्रवर्तनकरो जगतोऽस्य मूलं नान्यस्त्वदस्ति धरणीधर! वेदवेद्यः ॥ २१ ॥
यं भूतभव्यभवदीशमनीशमाहुः अन्तस्समुद्रनिलयं यमनन्तरूपम् । यस्य त्रिलोकजननी महिषी च लक्ष्मीः साक्षात् स एव पुरुषोऽसि सहस्रमूर्धा ॥ २२ ॥
सर्वश्रुतिष्वनुगतं स्थिरमप्रकम्प्यं नारायणाह्वयधरं त्वमिवानवद्यम् । सूक्तं तु पौरुषमशेषजगत्पवित्रं त्वामुत्तमं पुरुषमीशमुदाजहार ॥ २३ ॥
आनन्दमैश्वरं अवाङ्मनसावगाह्यं आम्नासिषुः शतगुणोत्तरितक्रमेण । सोऽयं तवैव नृषु हि त्वमिहान्तरात्मा त्वं पुण्डरीकनयनः पुरुषश्च पौष्णः ॥ २४ ॥
यन्मूलकारणमबुध्यत सृष्टिवाक्यैः ब्रह्मेति वा सदिति वाऽऽत्मगिराऽथवा तत् । नारायणस्त्विति महोपनिषद् ब्रवीति सौबालिकीप्रभृतयोऽप्यनुजग्मुरेनाम् ॥ २५ ॥
ज्योतिः परं परमतत्त्वं अथो परात्मा ब्रह्मेति च श्रुतिषु यत् परवस्त्वधीतम् । नारायणस्तदिति तद् विशिनष्टि काचिद् विष्णोः पदं परमं इत्यपरा गृणाति ॥ २६ ॥
सन्तीदृशः श्रुतिशिरस्सु परस्सहस्राः वाचस्तव प्रथयितुं परमेशितृत्वम् । किञ्चेह न व्यजगणः क्रिमिधातृभेदं क्रामन् जगन्ति निगिरन् पुनरुद्गिरंश्च ॥ २७ ॥
रूपश्रिया परमया परमेण धाम्ना चित्रैश्च कैश्चिदुचितैर्भवतश्चरित्रैः । चिह्नैरनिह्नवपरैरपरैश्च कैश्चित् निश्चिन्वते त्वयि विपश्चित ईशितृत्वम् ॥ २८ ॥
यस्याः कटाक्षणमनुक्षणमीश्वराणां ऐश्वर्यहेतुरिति सर्वजनीनमेतत् । तां श्रीरिति त्वदुपसंश्रयणान्निराहुः त्वां हि श्रियः श्रियमुदाहुरुदारवाचः ॥ २९ ॥
माया त्वया गुणमयी किल या निसृष्टा सा ते विभो! किमिव नर्म न निर्मिमीते? । कौतस्कुताः स्थिरकुतर्कवशेन केचित् सत्यां श्रुतौ च बधिरास्त्वयि तन्महिम्ना ॥ ३० ॥
यः स्थावरक्रिमिपतङ्गमतङ्गजादिषु अन्येषु जन्तुषु सदैव विजायमानः । त्वं नित्यनिर्मल निरञ्जन निर्विकारकल्याणसद्गुणनिधे! स इतीरितस्तैः ॥ ३१ ॥
त्वद्दृष्टिजुष्टमिदमाविरभूदशेषं नो चेत् कटाक्षयसि नैव भवेत् प्रवृत्तिः । स्थातुं च वाञ्छति जगत् तव दृष्टिपातं तेन श्रुतौ जगदिषे हि जगत् त्वमेव ॥ ३२ ॥
एवं भगो! इह भवत्परतन्त्र एव शब्दोऽपि रूपवदमुष्य चराचरस्य । ऐश्वर्यमीदृशमिदं श्रुतिषूदितं ते पापीयसां अयमहो! त्वयि मोहहेतुः ॥ ३३ ॥
ये त्वत्कटाक्षलवलक्ष्यमिव क्षणं तैः ऐश्वर्यमीदृशं अलभ्यमलम्भि पुम्भिः । यत् केऽपि सञ्जगरिरे परमेशितृत्वं तेषामपि श्रुतिषु तन्महिमप्रसङ्गात् ॥ ३४ ॥
नित्येषु वस्तुषु भवन्निरपेक्षमेव तत्तत्स्वरूपं इति केचिदिह भ्रमन्तः । ऐश्वर्यमत्र तव सावधि सङ्गिरन्ते ब्रूते त्रयी तु निरुपाधिकमीशनं ते ॥ ३५ ॥
इच्छात एव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः । नित्यं त्वदेकपरतन्त्रनिजस्वरूपाः भावत्कमङ्गलगुणा हि निदर्शनं नः ॥ ३६ ॥
विश्वस्य विश्वविधकारणमच्युत! त्वं कार्यं तदेतदखिलं चिदचित्स्वरूपम् । त्वं निर्विकार इति वेदशिरस्सु घोषो निस्सीममेव तव दर्शयतीशितृत्वम् ॥ ३७ ॥
किंसाधनः? क्व निवसन्? किमुपाददानः? कस्मै फलाय सृजतीश इदं समस्तम्? । इत्याद्यनिष्ठितकुतर्कमतर्कयन्तः त्वद् वैभवं श्रुतिविदो विदुरप्रतर्क्यम् ॥ ३८ ॥
यत् संवृतं दशगुणोत्तरसप्ततत्त्वैः अण्डं चतुर्दशजगद् भवधातृधाम । अण्डानि तत्सुसदृशानि परश्शतानि क्रीडाविधेस्तव परिच्छदतामगच्छन् ॥ ३९ ॥
इच्छाविहारविधये विहितान्यमूनि स्यात् त्वद्विभूतिलवलेशकलायुतांशः । या वै न जातु परिणामपदास्पदं सा कालातिगा तव परा महती विभूतिः ॥ ४० ॥
यद्वैष्णवं हि परमं पदमामनन्ति खं वा यदेव परमं तमसः परस्तात् । तेजोमयं परमसत्त्वमयं ध्रुवं यद् आनन्दकन्दं अतिसुन्दरं अद्भुतं यत् ॥ ४१ ॥
यद् ब्रह्मरुद्रपुरुहूतमुखैर्दुरापं नित्यं निवृत्तिनिरतैः सनकादिभिर्वा । सायुज्यमुज्ज्वलमुशन्ति यदापरोक्ष्यं यस्मात् परं न पदमञ्चितमस्ति किञ्चित् ॥ ४२ ॥
रूपेण सद्गुणगणैः परया समृद्ध्या भावैरुदारमधुरैरपि वा महिम्ना । तादृक् तद् ईदृगिदं इत्युपवर्णयन्त्यो वाचो यदीयविभवस्य तिरस्क्रियायै ॥ ४३ ॥
यद् वृद्ध्यपक्षयविनाशमुखैर्विकारैः एतैरसंस्तुतं अनस्तमितास्तिशब्दम् । यद्गौरवात् श्रुतिषु फल्गु फलं क्रियाणां आदिष्टमन्यदसुखोत्तरमध्रुवं च ॥ ४४ ॥
निष्कल्मषैर्निहतजन्मजराविकारैः भूयिष्ठभक्तिविभवैरभवैरवाप्यम् । अन्यैरधन्यपुरुषैर्मनसाऽप्यनाप्यं वैकुण्ठनाम तव धाम तदामनन्ति ॥ ४५ ॥
नित्या तवान्यनिरपेक्षमहामहिम्नोऽपि एतादृशी निरवधिर्नियता विभूतिः । ज्ञानादयो गुणगणाः समतीरसीमाः लक्ष्मीः प्रिया परिजनाः पतगेन्द्रमुख्याः ॥ ४६ ॥
एकस्य येषु हि गुणस्य लवायुतांशः स्यात् कस्यचित् स खलु वाङ्मनसातिगश्रीः । ये तादृशोऽत्यवधयः समतीतसङ्ख्याः त्वत्सद्गुणास्त्वमसि तन्निरपेक्षलक्ष्मीः ॥ ४७ ॥
सर्वस्य चैव गुणतो हि विलक्षणत्वं ऐश्वर्यतश्च किल कश्चिदुदञ्चितः स्यात् । तत् प्रत्युत त्वयि विभो! विभवो गुणाश्च सम्बन्धतस्तव भजन्ति हि मङ्गळत्वम् ॥ ४८ ॥
दूरे गुणास्तव तु सत्त्वरजस्तमांसि तेन त्रयी प्रथयति त्वयि निर्गुणत्वम् । नित्यं हरे! निखिलसद्गुणसागरं हि त्वामामनन्ति परमेश्वरमीश्वराणाम् ॥ ४९ ॥
ज्ञानात्मनस्तव तदेव गुणं गृणन्ति तेजोमयस्य हि मणेर्गुण एव तेजः । तेनैव विश्वमपरोक्षमुदीक्षसे त्वं रक्षा त्वदीक्षणत एव यतोऽखिलस्य ॥ ५० ॥
त्रय्युद्यता तव युवत्वमुखैर्गुणौघैः आनन्दमेधितं इयानिति सन्नियन्तुम् । ते ये शतं त्विति परम्परया प्रवृत्ता नैवैष वाङ्मनसगोचर इत्युदाह ॥ ५१ ॥
एवं तया चतुरया तव यौवनाद्याः सर्वे गुणाः सह समस्तविभूतिभिश्च । प्रव्याहृताः स्युरवधीन् अवधीरयन्तो वाचामगोचरमहामहिमान एव ॥ ५२ ॥
संवर्तवर्ति निखिलं निरभिज्ञमज्ञं चित्रे च कर्मणि यथार्हमहो! नियच्छन् । सद्यः क्रिमिद्रुहिणभेदं अभेदमेतद् आविश्चकर्थ सकृदीक्षणदीक्षणेन ॥ ५३ ॥
अस्तं यदुद्यत् उपचाय्यपचायि चैवं ईशं दरिद्रमथ जङ्गममप्यनिङ्गम् । विश्वं विचित्रं अविलक्षणवीक्षणेन विक्षोभयस्यनवधिर्बत! शक्तिरैशी ॥ ५४ ॥
रूपप्रकारपरिणामकृतव्यवस्थं विश्वं विपर्यसितुमन्यदसच्च कर्तुम् । क्षाम्यन् स्वभावनियमं किमुदीक्षसे त्वं? स्वातन्त्र्यमैश्वरं अपर्यनुयोज्यमाहुः ॥ ५५ ॥
संवर्तसम्भृतकरस्य सहस्ररश्मेः उस्रं तमिस्रयदजस्रविहारि हारि । नित्यानुकूलमनुकूलनृणां परेषां उद्वेजनं च तव तेज उदाहरन्ति ॥ ५६ ॥
नैव ह्यवाप्यमनवाप्तमिहास्ति यस्य सत्ताऽपि तस्य तव वीक्षणतः प्रजानाम् । सम्पत् तु किंपुनरितो न वदान्यमन्यं मन्ये त्वमेव खलु मन्दिरमिन्दिरायाः ॥ ५७ ॥
पापैरनादिभवसम्भववासनोत्थैः दुःखेषु यः खलु मिमङ्क्षति हन्त! जन्तुः । तं केवलं नु कृपयैव समुद्धरिष्यन् तद्दुष्कृतस्य ननु निष्कृतिमात्थ शास्त्रैः ॥ ५८ ॥
शास्त्रैरनादिनिधनैः स्मृतिभिस्त्वदीयदिव्यावतारचरितैः शुभया च दृष्ट्या । निःश्रेयसं यदुपकल्पयसि प्रजानां सा त्वत्कृपाजलधितल्लजवल्गितश्रीः ॥ ५९ ॥
है हन्त! जन्तुषु निरन्तरसन्ततात्मा पाप्मा हि नाम वद कोऽयमचिन्त्यशक्तिः । यस्त्वत्कृपाजलधिमप्यतिवेलखेलं उल्लङ्घयत्यकृतभासुर भागधेयान् ॥ ६० ॥
यद् ब्रह्मकल्पनियुतानुभवेऽप्यनाश्यं तत् किल्बिषं सृजति जन्तुरिह क्षणार्धे । एवं सदा सकलजन्मसु सापराधं क्षाम्यस्यहो! तदभिसन्धिविराममात्रात् ॥ ६१ ॥
क्षान्तिस्तवेयं इयती महती कथं नु मुह्येदहो! त्वयि कृताञ्जलिपञ्जरेषु । इत्थं स्वतो निखिलजन्तुषु निर्विशेषं वात्सल्यमुत्सुकजनेषु कथं गुणस्ते ॥ ६२ ॥
विश्वं धियैव विरचय्य निचाय्य भूयः सञ्जह्रुषः सति समाश्रितवत्सलत्वे । आजग्मुषस्तव गजोत्तमबृंहितेन पादं पराममृशुषोऽपि च का मनीषा? ॥ ६३ ॥
यः कश्चिदेव यदि किञ्चन हन्त! जन्तुः भव्यो भजेत भगवन्तमनन्यचेताः । तं सोऽयं ईदृश इयानिति वाऽप्यजानन् है! वैनतेयसममप्युररीकरोषि ॥ ६४ ॥
त्वत्साम्यमेव भजतामभिवाञ्छसि त्वं तत्सात्कृतैर्विभवरूपगुणैस्त्वदीयैः । मुक्तिं ततो हि परमं तव साम्यमाहुः त्वद्दास्यमेव विदुषां परमं मतं तत् ॥ ६५ ॥
तद्वै तथाऽस्तु कतमोऽयमहो! स्वभावः यावान् यथाविधगुणो भजते भवन्तम् । तावान् तथाविधगुणस्तदधीनवृत्तिः संश्लिष्यसि त्वमिह तेन समानधर्मा ॥ ६६ ॥
नीलाञ्जनाद्रिनिभं उन्नसमायताक्षं आजानुजैत्रभुजं आयतकर्णपाशम् । श्रीवत्सलक्षणं उदारगभीरनाभिं पश्येम देव! शरदः शतमीदृशं त्वाम् ॥ ६७ ॥
अम्भोरुहाक्षं अरविन्दनिभाङ्घ्रियुग्मं आताम्रतामरसरम्यकराग्रकान्तिम् । भृङ्गालकं भ्रमरविभ्रमकायकान्तिं पीताम्बरं वपुरदस्तु वयं स्तवाम ॥ ६८ ॥
भ्रूविभ्रमेण मृदुशीतविलोकितेन मन्दस्मितेन मधुराक्षरया च वाचा । प्रेमप्रकर्षपिशुनेन विकासिना च सम्भावयिष्यसि कदा मुखपङ्कजेन ॥ ६९ ॥
वज्राङ्कुशध्वजसरोरुहशङ्खचक्रमत्सीसुधाकलशकल्पककल्पिताङ्कम् । त्वत्पादपद्मयुगलं विगलत्प्रभाद्भिः भूयोऽभिषेक्ष्यति कदा नु शिरो मदीयम्? ॥ ७० ॥
त्रैविक्रमक्रमकृताक्रमणत्रिलोकं उत्तंसमुत्तमं अनुत्तमभक्तिभाजाम् । नित्यं धनं मम कदा हि मदुत्तमाङ्गं अङ्गीकरिष्यति चिरं तव पादपद्मम् ॥ ७१ ॥
उन्निद्रपत्रशतपत्रसगोत्रं अन्तर्लेखारविन्दं अभिनन्दनमिन्द्रियाणाम् । मन्मूर्ध्नि हन्त! करपल्लवतल्लजं ते कुर्वन् कदा कृतमनोरथयिष्यसे माम् ॥ ७२ ॥
आङ्गी निसर्गनियता त्वयि हन्त कान्तिः नित्यं तवालमियमेव तथाऽपि चान्या । वैभूषणी भवति कान्तिरलन्तरां सा है पुष्कलैव निखिलाऽपि भवद्विभूतिः ॥ ७३ ॥
श्रीवत्सकौस्तुभकिरीटललाटिकाभिः केयूरहारकटकोत्तमकण्ठिकाभिः उद्दामदाममणिनूपुरनीविबन्धैः भान्तं भवन्तं अनिमेषं उदीक्षिषीय ॥ ७४ ॥
ऐन्दीवरी क्वचिदपि क्वचनारविन्दी चान्द्रातपी क्वचन च, क्वचनाऽथ हैमी । कान्तिस्तवोढपरभागपरस्परश्रीः पार्येत पारणयितुं किमु चक्षुषोर्मे ॥ ७५ ॥
त्वां सेवितं जलजचक्रगदासिशार्ङ्गैः तार्क्ष्येण सैन्यपतिनाऽनुचरैस्तथाऽन्यैः । देव्या श्रिया सह लसन्तमनन्तभोगे भुञ्जीय साञ्जलिरसङ्कुचिताक्षिपक्ष्मा ॥ ७६ ॥
कैङ्कर्यनित्यनिरतैर्भवदेकभोगैः नित्यैरनुक्षणनवीनरसार्द्रभावैः । नित्याभिवाञ्छितपरस्परनीचभावैः मद्दैवतैः परिजनैस्तव सङ्गसीय ॥ ७७ ॥
यत् किञ्चिदुज्ज्वलमिदं यदुपाख्ययाऽऽहुः सौन्दर्यमृद्धिरिति यन्महिमांशलेशः । नाम्नैव यां श्रियमुशन्ति यदीयधाम त्वामामनन्ति यतमा यतमानसिद्धिः ॥ ७८ ॥
या वै त्वयाऽप्युदधिमन्थनयत्नलभ्या याऽन्तर्हितेति जगदुन्मथनोद्यतोऽभूः । या च प्रतिक्षणमपूर्वरसानुबन्धैः भावैर्भवन्तमभिनन्दयते सदैव ॥ ७९ ॥
रूपश्रिया गुणगणैर्विभवेन धाम्ना भावैरुदारमधुरैश्चतुरैश्चरित्रैः । नित्यं तवैव सदृशीं श्रियमीश्वरीं तां त्वां चाञ्चितः परिचरेयमुदीर्णभावः ॥ ८० ॥
या बिभ्रती स्थिरचरात्मकमेव विश्वं विश्वम्भरा परमया क्षमया क्षमा च । तां मातरं च पितरं च भवन्तमस्य व्युच्छन्तु रात्रय इमाः वरिवस्यतो मे ॥ ८१ ॥
भावैरुदारमधुरैर्विविधैर्विलासैः भ्रूविभ्रमस्मितकटाक्षनिरीक्षणैश्च । या त्वन्मयी त्वमपि यन्मय एव सा मां नीला नितान्तमुररीकुरुतामुदारा ॥ ८२ ॥
भावैरनुक्षणं अपूर्वरसानुविद्धैः अत्यद्भुतैरभिनवैरभिनन्द्य देवीः । भृत्यान् यथोचितपरिच्छदिनो यथार्हं सम्भावयन्तमभितो भगवन्! भवेयम् ॥ ८३ ॥
हा हन्त हन्त! हतकोऽस्मि खलोऽस्मि धिङ्मां मुह्यन् अहो! अहमिदं किमुवाच वाचा । त्वामङ्ग! मङ्गलगुणास्पदमस्तहेयं आः! स्मर्तुमेव कथमर्हति मादृगंहः ॥ ८४ ॥
अंहः प्रसह्य विनिगृह्य विशोध्य बुद्धिं व्यापूय विश्वमशिवं जनुषाऽनुबद्धम् । आधाय सद्गुणगणानपि नाहमर्हः त्वत्पादयोर्यदहमत्र चिरान्निमग्नः ॥ ८५ ॥
जानेऽथवा किमहमङ्ग! यदेव सङ्गाद् अङ्गीकरोषि न हि मङ्गलमन्यदस्मात् । तेन त्वमेनमुररीकुरुषे जनं चेद् नैवामुतो भवति युक्ततमो हि कश्चित् ॥ ८६ ॥
यन्नाभवाम भवदीयकटाक्षलक्षं संसारगर्तपरिवर्तं अतोऽगमाम । आगांसि ये खलु सहस्रमजस्रमेव जन्मस्वतन्महि कथं त इमेऽनुकम्प्याः ॥ ८७ ॥
सत्कर्म नैव किल किञ्चन सञ्चिनोमि विद्याऽप्यवद्यरहिता न च विद्यते मे । किञ्च त्वदञ्चितपदाम्बुजभक्तिहीनः पात्रं भवामि भगवन्! भवतो दयायाः ॥ ८८ ॥
किं भूयसा प्रलपितेन! यदेव किञ्चित् पापाह्वं अल्पमुरु वा तदशेषमेषः । जानन् न वा शतसहस्रपरार्धकृत्वो योऽकार्षं एनं अगतिं कृपया क्षमस्व ॥ ८९ ॥
देव! त्वदीयचरणप्रणयप्रवीणरामानुजार्यविषयीकृतं अप्यहो! माम् । भूयः प्रधर्षयति वैषयिको विमोहो मत्कर्मणः कतरदत्र समानसारम् ॥ ९० ॥
गर्भेषु निर्भरनिपीडनखिन्नदेहः क्षोदीयसोऽतिमहतोऽप्यखिलस्य जन्तोः । जन्मान्तराण्यनुविचिन्त्य परस्सहस्राणि अत्राहं अप्रतिविधिर्निहतश्चरामि ॥ ९१ ॥
भूयश्च जन्मसमयेषु सुदुर्वचानि दुःखानि दुःखमतिरिच्य किमप्यजानन् । मूढोऽनुभूय पुनरेव तु बालभावात् दुःखोत्तरं निजचरित्रममुत्र सेवे ॥ ९२ ॥
भूयांसि भूय उपयन् विविधानि दुःखानि अन्यच्च दुःखमनुभूय सुखभ्रमेण । दुःखानुबन्धमपि दुःखविमिश्रमल्पं क्षुद्रं जुगुप्सितसुखं सुखमित्युपासे ॥ ९३ ॥
लोलद्भिरिन्द्रियहयैरपथेषु नीतः दुष्प्रापदुर्भगमनोरथमथ्यमानः । विद्याधनाभिजनजन्ममदेन कामक्रोधादिभिश्च हतधीर्न शमं प्रयामि ॥ ९४ ॥
लभ्येषु दुर्लभतरेष्वपि वाञ्छितेषु जाता सहस्रगुणतः प्रतिलम्भनेऽपि । विघ्नैर्हतेष्वपि च तेषु समूलघातं वर्धिष्णुरेव न तु शाम्यति हन्त तृष्णा ॥ ९५ ॥
त्वत्कीर्तनस्तुतिनमस्कृतिवेदनेषु श्रद्धा न भक्तिरपि शक्तिरथो न चेच्छा । नैवानुतापमतिरेष्वकृतेषु किं तु भूयान् अहो! परिकरः प्रतिकूलपक्षे ॥ ९६ ॥
एतेन वै सुविदितं बत मामकीनं दौरात्म्यं अप्रतिविधेयमपारं ईश! । संमूर्च्छतोऽप्यपदमस्मि यतस्त्वदीयनिस्सीमभूमकरुणामृतवीचिवायोः ॥ ९७ ॥
ऐश्वर्यवीर्यकरुणागरिमक्षमाद्याः स्वामिन्! अकारणसुहृत्त्वं अथो विशेषात् । सर्वे गुणाः सविषयास्तव मां अपारघोराघपूर्णं अगतिं निहतं समेत्य ॥ ९८ ॥
त्वत्पादसंश्रयणहेतुषु साधिकारान् उद्युञ्जतश्चरितकृत्स्नविधींश्च तांस्तान् । त्वं रक्षसीति महिमा न तवालमेषः मां चेदनीदृशमनन्यगतिं न रक्षेः ॥ ९९ ॥
या कर्मणामधिकृतिर्य इहोद्यमस्तेषु अप्येष्वनुष्ठितिरशेषमिदं हि पुंसाम् । त्वामन्तरेण न कथञ्चन शक्यमाप्तुं एवं च तेषु मयि चास्ति न ते विशेषः ॥ १०० ॥
निर्बन्ध एष यदि ते यदशेषवैधसंसेविनो वरद! रक्षसि नेतरान्स्त्वम् । तर्हि त्वमेव मयि शक्त्यधिकारवाञ्छाः प्रत्यूहशान्तिमितरच्च विधेहि विश्वाम् ॥ १०१ ॥
व्यक्तीकुर्वन् निगमशिरसामर्थमन्तर्निगूढं श्रीवैकुण्ठस्तवमकृत यः श्रेयसे सज्जनानाम् । कूराधीशं गुरुतरदयादुग्धसिन्धुं तमीडे श्रीवत्साङ्कं श्रुतिमतगुरुच्छात्रशीलैकधाम ॥
अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे मूर्ध्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः । सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थाम् यत्सम्बन्धादमनुत कथं वर्ण्यते कूरनाथः? ॥

 

॥ इति पञ्चस्तव्यां श्रीवैकुण्ठस्तवः समाप्तः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.