अतिमानुषस्तवव्याख्यानम्

श्रीः

श्रीमते रामानुजाय नमः

अतिमानुषस्तवम्

अतिमानुषशीलवृत्तवेषैः अतिवृत्तामरविक्रमप्रतापैः ।

अतिलङ्घितसर्वलोकसाम्यम् वरये वैष्णववैभवावतारम् ॥ १ ॥

अतिमानुषेति – सदाचार्यसमाश्रयणेन प्राप्तपरावरतत्त्वयाथात्म्यविवेकः श्रीवत्साङ्कमिश्रः परव्यूहविभवान्तन्तर्याम्यर्चारूपेणावस्थितम् स्तव्यम् स्तवप्रियम् सर्वेश्वरम् स्तोतुकामः तत्र रामकृष्णविभवावतारम् देवतिर्यङ्मनुष्य साधर्म्येण पश्यताम् प्रत्यवायम् परतत्त्ववेषेण पश्यताम् चाभ्युदयम् ।

अवजानन्ति माम् मूढा मानुषीम् तनुमाश्रितम् ।

परम् भावमजानन्तो मम भूतमहेश्वरम् ॥

मोघाशा मोघर्माणो मोघज्ञाना विचेतसः ।

राक्षसीमासुरीम् चैव प्रकृतिम् मोहिनीम् श्रिताः ॥ (भ.गी.९.११,१२)

तथा –

जन्म कर्म च मे दिव्यम् एवम् यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहम् पुनर्जन्म नैति मामेति सोऽर्जुन ॥ (भ.गी.४.९)

इत्यादिषु गीतासु भगवतैवोक्तमनुसन्दधानः स्वयमतिमानुषैर्लिङ्गैः लङ्घित परावर तत्त्ववेषेण स्तोष्यन् तत्प्रकाशनेन स्वात्मानमुपसन्नान् शिष्यानप्यनुसङ्ग्रहीष्यन् प्रथममति सुलभमर्चावतारम् श्रीरङ्गनाथमभिष्टौति ॥ १ ॥

श्रेयः किरन्तु किरणाश्चरणारविन्द-

निष्यन्दमानमकरन्दरसौघदेश्याः ।

तज्जाः श्रुतेर्मधुन उत्स इति प्रतीताः

मङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २ ॥

श्रेयः इति – तज्जाश्चरणारविन्दजाः किरणाः श्रेयः परमपुरुषार्थम् किरन्तु विकिरन्तु दद्युरित्यर्थः । कीदृशाश्चरणारविन्दनिर्गलन्मकरन्दरस-प्रवाहसदृशाः *ईषदसमाप्तौ कल्पब्देशीयरः(अष्टा.५.३.६७)* इति किञ्चिदूनसादृश्ये देश्य प्रत्ययः । अत्र गङ्गाजलमेव माधुर्यातिशयेन मकरन्दशब्देनोक्तम् । पुनः कीदृशः श्रुतेरिति हेतौ पञ्चमी । श्रुत्या मधुनो मकरन्दस्य ओघः प्रवाहः इति प्रतीताः ख्याताः । माङ्गल्यम्  रङ्गम् पुराणप्रसिद्धम् श्रीरङ्गस्थानम् तदेव निलयः स्थानम् यस्य स तथोक्तः । परस्य धाम्नः परञ्ज्योतिषः *नारायणपरो ज्योतिः(महाना.९.३)* इति श्रुतिः । अत्रेयम् श्रुतिर्विवक्षिता *तदस्य प्रियमभिपाथो अस्याम् नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था, विष्णोः पदे परमे मध्व उत्सः(विष्णुसूक्त.३) इति अस्यार्थः । विष्णोः पाथः । पादसलिलम् गङ्गाजलमिति यावत् । अश्याम् प्राश्याम् अत्र पाथसि विषये देवयवो देवत्वमिच्छन्तौ नरो मदन्ते माद्यन्ति नर इति प्रथमा बहुवचनम् । देवयव इति देवशब्दात् *सुपः आत्मनः क्यच्(अ.३.१.८)* इति क्य प्रत्यये विहिते क्याछन्दसीत्युत्प्रत्यये विहिते छान्दसम् रूपम् । सह प्रायिकम् विष्णोर्बन्धुः । इत्थम् परमे सर्वोत्कृष्टे पदे पादे मधुन उत्सः प्रवाहः । अत्रापि मधुरशब्देन गङ्गासलिलम् विवक्षितम् ॥ २ ॥

श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासात्

तज्जानुरागरसमज्जनम् अञ्जसाऽऽप्य ।

अद्याप्यनारततदुत्थितरागयोगम्

श्रीरङ्गराजचरणाम्बुजमुन्नयामः ॥ ३ ॥

श्रीमदिति – उन्नयामः शिरसा धारयामः ध्यायामः इति वा । पराङ्कुशमुनि द्रमिडोपनिषत्प्रवर्तकः शठकोपमुनिः तत्प्रभावश्च श्रीरङ्गराजस्तोत्रव्याख्यानेऽस्माभिः कथितम् । तस्य मनसि निवासः  स्थितिः तस्माद्धेतोः तज्जः मनोजः मनसि प्रादुर्भूतः योऽनुरागरसः प्रेमरसः । तत्र मज्जनम् अञ्जसा तत्त्वेन उद्भूतमिति वा । आप्य | अवाप्यद्यापि निरन्तरम् तदुत्थितरागयोगम् अनुरागरसममज्जनो-त्थितरक्ति सम्बन्धम् चरणयुगलस्य सहजरक्तत्वेऽपि अत्यन्तानुरक्तशठकोप चित्तमज्जनम् निमित्तमित्युत्प्रेक्षा गर्भिता ॥ ३ ॥

वज्रध्वजाङ्कुशसुधाकलशातपत्र-

पङ्केरुहाङ्कपरिकर्मपरीतमन्तः ।

आपादपङ्कजविशृङ्खलदीप्रमौलेः

श्रीरङ्गिणश्चरणयोर्युगम् आश्रयामः ॥ ४ ॥

वज्रमिति – सुधाकलशममृतकलशम् वज्रादय एव – अङ्कानि चिह्नानि तान्येव परिकर्माणि अलङ्कारः; तैः परीतम् व्याप्तम् अन्तः तलप्रदेशे पादपङ्कजपर्यन्तम् स्वप्रभाभिर्निरर्गलम्  प्रकाशमानो मौलिर्यस्य स तथोक्तः । मौलिः स्वप्रभया पादपर्यन्तम् प्रकाशत इत्ययमर्थो दिव्यप्रबन्धेऽनुसम्हितः ॥ ४ ॥

श्रीरङ्गराजचरणौ प्रणुमो ययोः खलु

एकस्त्रिविक्रमविधौ वसुधामशेषाम् ।

व्यक्रम्स्त साचलकुलामपि विप्रकीर्ण-

स्थूलावलग्नसिकतामिव निर्नतोच्चम् ॥ ५ ॥

श्रीरङ्गराज इति – प्रणुमः स्तुमः । णु स्तुताविति धातुः । ययोर्मध्ये एकः त्रिविक्रम विधौ अचलसमूहसहिताम् च कुलाचलसहितामिति वा । आहिताग्नित्वात् कुलशब्दस्य पूर्वनिपातः । अशेषामपि वसुधाम् विप्रकीर्णाम् स्थूलावलग्नसिकतामिव स्थिताम् विप्रकीर्णाः विशीर्णाः  स्थूलाः बृहन्त्यः पादतलावलग्नाः सिकता यस्याः सेति विग्रहः । तदानीम् कुलाचलाः पादतलावलग्नस्थूलसिकता इव स्थिता इति भावः । निम्नतोच्चम् नताः नीचाः। उच्चाः उन्नताः निर्गताः नतोच्चा यस्मिन् कर्मणीति क्रियाविशेषणम् । उच्चनीचरहितमिति यावत् । अनेन कृत्स्नपदार्थानाम् पादस्पर्शो विवक्षितः। व्यक्रम्स्त खलु आक्रान्तवान् । क्रमुपादविक्षेप इत्यस्माद्धातोः कर्तरि लुङ् ॥ ५ ॥

इत्थम् चरणद्वयप्रभावमनुसन्धाय गुणभेदप्रयुक्तम् व्यूहभेदमनुसन्धत्ते – ज्ञानमिति –

ज्ञानम् बलम् विपुलमीशनवीर्यशक्ति-

तेजाम्सि च त्रियुगभूयमुपागतानि ।

पूर्णानि षट् च परिगृह्य भवन्श्चतुर्धा

भक्तम् जनम् त्वमनुजग्रहिथानुरागात् ॥ ६ ॥

ज्ञानम् नाम सर्वदा सर्ववस्तुसाक्षात्कारः । बलम् अघटितघटनासामर्थ्यम् । ईशनम् ऐश्वर्यम् । तच्च कृत्स्नस्य जगतः स्वविधेयत्वकरणम्, वीर्यम् कृत्स्नम् ॥  जगद्धारणेऽपि अश्रमत्वम्, शक्तिः सृष्ट्यादि सामर्थ्यम्, तेजः पराभिभवन सामर्थ्यम्, विपुलम् विस्तीर्णम्, एतच्च ज्ञानादि विशेषणम्; तेन च चेतनान्तर ज्ञानादि व्यावृत्तिः। त्रीणि च तानि युगानि युग्मानि च तेषाम् भावः त्रियुगम् । *भुवो भावे(अ. ३.१.१०७)* इति भावार्थे क्यप् प्रत्ययः । पूर्णान्येतानि परिगृह्य त्रियुगत्वमुपागतानि षट् च परिगृह्य वासुदेवादिरूपेण चतुर्धा भवन् अनुरागाद् भक्तजनभा त्वमनुजगृहीथ अनुगृहीतवानसि । अनुजग्रहीथेति कर्तुः परोक्षतया लिटि मध्यमप्रयोगः । तत्र षट्गुणपरिपूर्णो भगवान् व्यूहवासुदेवः । परमपदनिलयस्तु नित्यमुक्तभोग्यः परवासुदेवो व्यूहबहिर्भूतः । ज्ञानबलाभ्याम् सङ्कर्षणः । ऐश्वर्यवीर्याभ्याम् प्रद्युम्नः । शक्तितेजोभ्यामनिरुद्धः इति ॥ ६ ॥

सम्प्रति स्वरूपशोधकवाक्यप्रतिपन्नमत्यन्तदुर्लभम् दिव्यात्मस्वरूपमनुसन्दधत्ते – एकान्तेति –

एकान्तमङ्गलगुणास्पदम् अस्तहेयम्

नित्यम् पदम् तव यतस्तत एव देव! ।

आम्नायते तदिह विश्वविरूपरूपम्

तेनैव नन्विदम् अशब्दमरूपमाहुः ॥ ७ ॥

हे देव यतः कारणात् तव नित्यम् पदम् पद्यते प्राप्यते इति पदम् दिव्यात्मस्वरूपम् नियमे नानन्तकल्याणगुणास्पदम् अस्तहेयम् हेयप्रत्यनीकम् तत एव तत्पदम् इह श्रुतिषु विश्वरूपरूपम् विश्वस्माच्चेतनाचेतनात् विलक्षण स्वरूपमाम्नायते । तेनैव हेतुना इदम् दिव्यात्मस्वरूपम् रूपरहितम् नाम रहितम् चाहुः ब्रह्मवादिनः । तथा च श्रुतिः *यत्तदद्रेश्यमग्राह्यमगोत्रवर्णम् अचक्षुः श्रोत्रम् तदपाणिपादम् नित्यम् विभुम् सर्वगतम् सुसूक्ष्मम् तदव्ययम् । यद्भूतयोनिम् परिपश्यन्ति धीरा(मुण्डक.१.६ )* इत्यत्र अगोत्रम् अनामकम् ॥ ७ ॥

पुनरपि दिव्यात्मस्वरूपमनुसन्धत्ते – शब्दादीति –

शब्दादिहेय इह गोचर इन्द्रियाणाम्

तत्प्रत्यनीकविभवस्त्वम् अतीन्द्रियोऽसि ।

तेनैव ते न बत दर्शनमस्ति किञ्चिद्

वाचो धियश्च तत एव न गोचरोऽसि ॥ ८ ॥

इह सम्सारमण्डले हेयम् निन्द्यम् शब्दादिविषयजातम् चक्षुरादीन्द्रियाणाम् गोचरो विषयः । हेयप्रतिभटस्वरूपगुणविभवस्त्वम् चक्षुराद्यतीन्द्रियोऽसि तेनैव हेतुना ते तव दर्शनम् चक्षुरादिभिः साक्षात्कारो नास्ति बत इति विषादे । न केवलमेतावत्, किञ्च तत एव हेतोः अस्मदादिवाचाम् मानसज्ञानस्य च न लक्ष्योऽसि । चक्षुरादिप्रवृत्त्यभावात् तन्मात्रमूलाभावात् वाक्प्रवृत्तिर्मनः प्रवृत्तिश्च त्वयि नास्तीति भावः । तथा च श्रुतिः *यतो वाचो निवर्तन्ते अप्राप्य मनसा सह(तैत्ति.२.४) इति ॥ ८ ॥

इत्थम् सर्वोत्कृष्टामत्यन्तदुर्लभाम् परावस्थाम् व्यूहावस्थाम् चानुसन्धाय इतः परम् सर्वप्राणिसुलभाम् प्राधान्येन प्रबन्धप्रतिपाद्याम् विभवावस्थाम् देवतिर्यङ्मनुष्यसाधर्म्येऽपि सर्वेश्वरदृष्ट्या तत्तद्विलक्षणतया चाभिष्टौति – एवम् स्थितेति –

एवम् स्थिते त्वदुपसम्श्रयणाभ्युपायो

मानेन केनचिदलप्स्यत नोपलब्धुम् ।

नो चेद् अमर्त्यमनुजादिषु योनिषु त्वम्

इच्छाविहारविधिना समवातरिष्यः ॥ ९ ॥

एवम् चक्षुराद्यगोचरे अवाङ्मनसगोचरे च त्वद्रूपे स्थिते सति  देवादिजन्मसु त्वमिच्छाविहारविधानेन हेतुना समवातरिष्यो नो चेत् सर्वज्ञेषु नित्यमुक्तेषु पितृवचन-परिपालनदौत्य सारथ्यादिस्वेच्छा विहारो न सम्भवतीति तदर्थम् मनुष्यादिसाधर्म्येण नावतीर्णश्चेदित्यर्थः । तर्हि केनचित् प्रत्यक्षादिना प्रमाणेन त्वदाश्रयणोपायो लब्धुम् प्राप्तुम् नो अलप्स्यत न लब्धः: स्यादित्यर्थः । अन्यत्र करणपथविदूरे त्वदाश्रयणम् दुर्लभम् । विभवावतारे तु सर्वेन्द्रियगोचरे सुलभमिति भावः । एकत्र कर्तरि लुङ्” । अन्यत्र कर्मणि ॥ ९ ॥

परत्वसौलभ्यादि “नोपबृम्हितम् शीलमनुसन्धत्ते – शीलेति –

शीलः क एष तव हन्त! दयैकसिन्धो!

क्षुद्रे पृथग्जनपदे जगदण्डमध्ये ।

क्षोदीयसोऽपि हि जनस्य कृते कृती त्वम्

अत्रावतीर्य ननु लोचनगोचरोऽभूः ॥ १० ॥

शीलम् नाम महतो मन्दैः सह नीरन्ध्रेण सम्श्लेषः । जगदाश्रयाण्डम् जगदण्डम् तन्मध्ये जगदण्डमध्ये इत्यर्थः । जगदाधार ब्रह्माण्डमध्ये तत्रापि क्षुद्रे तुच्छे पृथग्जनपदे प्राकृतजनस्थाने कृती कृतकृत्यः  अवाप्तसमस्तकामस्त्वम् क्षोदीयसः क्षुद्रतरस्य – जनस्य कृते प्रयोजनाय कृत इत्यव्ययम् प्रयोजनसूचकम् अथवा कृत इति क्विबन्तम् चतुर्थ्येकवचनम् । कृते उपकारायेति यावत् । देवमनुष्यादिरूपेणावतीर्य लोचनविषयोऽसि । ननु एष शीलाख्यो गुणः कीदृशः । त्वदसाधारणस्त्वदुत्कर्षाच्छादक इत्यर्थः । हन्त इति हर्षे ॥ १० ॥

यम् पातकात्सुमहतोऽप्युदधारयस्त्वम्

त्वत्पादवारिपरिपूतशिराश्च योऽभूत् ।

तम् वन्दसे किल ततश्च वरम् वृणीषे!

क्रीडाविधिर्बत विलक्षणलक्षणस्ते ॥ ११ ॥

यम् पातकादिति – यम् शिवम् स्वपितृभूतचतुर्मुखशिरश्छेदजनितात् पातकादुदधारयः उद्धृतवानासीः । यः शिवः त्वत्पादप्रक्षालनसलिलपवित्रितशिरश्चाभूत् । तम् वन्दसे तस्माद्वरम् वृणीषे त्वदीय सहजमुत्कर्षमवाप्तसमस्तकामस्त्वम् चाविचार्य एवम् कुरुष इति भावः । तथा हि ते लीलाप्रकारः विश्वविलक्षणलाञ्छनः विलक्षणस्वभाव इति भावः । भगवता कृष्णेन पत्नीभिः राह कैलासयात्रा कृता तत्र शिवश्च वन्दितः । ततः पुत्रार्थम् वरश्च लब्ध इति हरिवम्शे प्रसिद्धम् ॥ ११ ॥

क्रीडाविधेः परिकरस्तव या तु माया

सा मोहिनी न कतमस्य तु हन्त! जन्तोः ।

है! मर्त्यसिम्हवपुषस्तव तेजसोंऽशे

शम्भुर्भवन् हि शरभः शलभो बभूव ॥ १२ ॥

क्रीडाविधेरिति –

*देवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेताम् तरन्ति ते ॥(भ.गी.७.१४)*

इति गीता पुराणप्रसिद्धा या माया प्रकृतिः । *मायाम् तु प्रकृतिम् विद्यात् मायिनम् तु महेश्वरम्(श्वेता.४.१०)* इति हि श्रुतिः । तव क्रीडाविधेः परिकर उपकरणम् च सा कतमस्य प्राणिनः न मोहकरी । अत्र तु शब्दः प्रसिद्धौ । चतुर्विधम् देवादिशरीरम् सृष्ट्वा तत्तद्देहात्माभिमानेन प्राणिजातम् मोहयन् क्रीडसीति भावः । द्वितीयार्धेन भगवद्वैभवावतारमनुसन्धत्ते । अथवा द्वितीयार्धेन शम्भोरपि मायामोहकरत्वम् प्रतिपादयति । है शब्दः प्रसिद्धौ, अङ्गशब्द पर्यायो वा । तेजसोऽम्शे तेजोलेशे शम्भुः शरभाख्यो मृगो भवन् शलभाख्यः कीटो बभूव । हिरण्यवधार्थम् नृसिम्हावतारे सति  शम्भु: स्वभक्तसम्रक्षणार्थम् सिम्हजातिविरोधी शरभो भूत्वा प्रतियुध्यन्  पराजित इति वराहपुराणप्रसिद्धिः।  तदुक्तम्  – हन्तुमभ्यागतम् रौद्रम् शरभम् नरकेसरी । नखैर्विदारयामास हिरण्यकशिपुम् यथेति ॥ १२ ॥

यस्यात्मताम् त्रिपुरभङ्गविधावधास्त्वम्

त्वच्छक्तितेजितशरो विजयी च योऽभूत् ।

दक्षक्रतौ तु किल तेन विनिर्जितस्त्वम्

युक्तो विधेयविषयेषु हि कामचारः ॥ १३ ॥

यस्यात्मतेति आत्मतामन्तरात्मताम् अधाः अधारयः । लुडि मध्यमैकवचनम् । तदुक्तम् भारते –

*विष्णुरात्मा भगवतो भवत्यमिततेजसः ।

तस्मावनुज्ञासम्स्पर्शम् स विपेहे महेश्वरः ॥(महा.भा)*

इति धनुर्धारणज्याकर्षणशक्त्तोऽभूदित्यर्थः । तस्मान्नय त्रिपुरविजये त्वच्छक्त्त्या तेजितः शरे यस्य स तथोक्तः । तथा च श्रुतिः – *त इषुम् समस्कुर्वताग्निमनीकम् सोमम् शल्यम् विष्णुम् तेजनम्” (तै.सम्.६.२.३)* तथा सोमम् शरशल्यम् विष्णुम् तेजनमुत्तेजनम् तैक्ष्ण्यम् दक्षाध्वरध्वम्से  तेन शम्भुना विष्णुर्जितः । ननु त्वधीनसामर्थ्यात् शम्भोस्तव कथम् पराजय इति । अत्राह – युक्त इति । विधेयविषये वश्यजन विषये कामचारः स्वेच्छाचारः दक्षाध्वरध्वम्सः  तत्रभगवत्पराजयश्च भागवते प्रसिद्धम् ॥ १३ ॥

श्रीमहाविष्णुः तावत् मार्कण्डेयमहामुनेः स्वप्रभाव प्रदर्शनार्थम् तदानीमेवैकार्णवम् प्रलयमुत्पाद्य तत्र वटवृक्षम् सम्पाद्य स्वयम् वटदले शिशुर्भूत्वा शिश्ये । अनन्तेष्ववतारेषु अयमप्येकोऽवतारः । अयम् च भागवते प्रसिद्धः । तमनुसन्धत्ते – मुग्धेति –

मुग्धः शिशुः वटदले शयितोऽतितन्वा

तन्वा जगन्ति बिभृषे सविकासमेव ।

ऐशीमिमाम् तु तव शक्तिमतर्कितव्याम्

अव्याजतः प्रथयसे किमिहावतीर्णः ॥ १४ ॥

वटदले शयितः सन् अतितन्वा अत्यल्पया तन्वा शरीरेण जठरे जगन्ति सविकासमेव सविस्तारमेव बिभृषे । बिभृषे भृञ् भरण इत्यस्माद्धातोर्लिटि मध्यमैकवचनम् । इह सम्सारमण्डले एवम् शिशुवेषेणावतीर्णः सन् अतर्कितव्यामल्पोदरे कथमनेकजगद्भरणमिति कुतर्कानर्हाम् ईश्वरसम्बन्धिनीमिमाम् तव शक्तिमव्याजत अकपटेन तत्त्वत इति यावत् प्रकटयसि । किम् तव  मुग्धशिशुत्वेऽपि सर्वेश्वर शक्तिरचिन्त्येति भावः ॥ १४ ॥

ब्रह्मेशमध्यगणना गणनाऽर्कपङ्क्तौ

इन्द्रानुजत्वम् अदितेस्तनयत्वयोगात् ।

इक्ष्वाकुवम्शयदुवम्शजनिश्च हन्त!

श्लाध्यान्यमून्यनुपमस्य परस्य धाम्नः ॥ १५ ॥

ब्रह्मेशेति – ब्रह्मविष्णुमहेश्वर इति साम्येन गणनाः *आदित्यानमहम् विष्णुः ज्योतिषाम् रविरम्शुमान्(भ.गी.१०.२१)* द्वादशार्केषु विष्णुनामा सर्वेश्वरोऽप्येकोऽधिकारी अदितितनयत्वयोगात् देवेन्द्रानुजत्वम् जनिर्जन्म श्लाघ्यान्यमूनीति *नपुम्सकमनपुम्सकेनैक वच्चान्यतरस्याम्(अष्टा.१.२.६९) नपुम्सकत्वम् विकल्पेन बहुवचनम् च । सर्वोत्कृष्टस्य भगवतो निकृष्टवस्तु साहचर्येऽपि नोत्कर्षो हीयत इति भावः ॥ १५ ॥

त्वन्निर्मिता जठरगा च तव त्रिलोकी

किम् भिक्षणादियमृते भवता दुरापा? ।

मध्ये कदा तु न विचक्रमिषे जगच्चेत्

त्वद्विक्रमैः कथमिव श्रुतिरञ्चिता स्यात्? ॥ १६ ॥

त्वन्निर्मितेति – त्रयाणाम् लोकानाम् समाहारः त्रिलोकी । त्वया निर्मिता तव जठरे गता च इयम् बलिचक्रवर्तिनः सकाशात् भिक्षणमन्तरेण न विचक्रमिषे दुरापा दुर्लभा किम् सुलभैवेति भावः । अथ च जगन्मध्ये मध्यमभागे तथा तेन प्रकारेण न विचक्रमिषे चेत् नाक्रान्त वाम्श्चेत् कथमिति चेत् तव । त्रिभिर्विक्रमैः इदम् *विष्णुर्विविचक्रमे त्रेधा निदधे पदम् त्रीणि विचक्रमे विष्णुर्गोपा अदाभ्यः(वि.सू)* इत्यादिका श्रुतिः पूजिता स्यात् । त्वद्विक्रमैः परतयैव पूजितेति भावः । क्रमणम् नाम द्वितीयमाक्रमणम् विवक्षितम् । अत्र जगदित्येकवचनम् । जात्यभिप्रायेण । तथेति वाक्यान्तरे व्युत्क्रमे  वा ॥ १६ ॥

एतत् कथम् कथय यन्मथितस्त्वयाऽसौ

हित्वा स्वभावनियमम् प्रथितम् त्रिलोक्याम् ।

अश्वाप्सरोविषसुधाविधुपारिजात-

लक्ष्म्यात्मना परिणतो जलधिर्बभूव ॥ १७ ॥

एतदिति – उपेन्द्रावतारेण मथितः समुद्रस्त्रिलोक्याम् प्रसिद्धम् । स्वभाव नियमम् जलस्य जलाद्यात्मना मत्स्यमकराद्यात्मना वा विपरिणामः स्वभावनियमम् तम् हित्वा अश्वाद्यात्मना परिणतो बभूवेति यत् एतत् कथम् घटते? अथ च अतस्त्वच्छक्तिर्विचित्रेति भावः ॥ १७ ॥

पृच्छामि किञ्चन यदा किल राघवत्वे

मायामृगस्य वशगो मनुजत्वमौग्ध्यात् ।

सीतावियोगविवशो न च तद्गतिज्ञः

प्रादास्तदा परगतिम् हि कथम्? खगाय ॥ १८ ॥

पृच्छामीति – यदा यस्मिन्काले राघवत्वे मनुष्यभाव त्वप्रयुक्तमौढ्यात् माया मारीचपरतन्त्रस्तत एव सीतावियोग विवशः । न च तद्गतिज्ञः च आसीः । तदा मौढ्य दशायाम् जटायोः पक्षीन्द्रस्य पराम् उत्तमाम् गतिम् मोक्षम् कथम् प्रादाः । अत्र किञ्चन पृच्छामि – मुग्धस्य कथम् परगतिप्रदानमिति अतस्तव चरित्रमतिमानुषमिति भावः । जटायोरुत्तमगतिप्रदानम् श्रीमदारण्यकाण्डे प्रसिद्धम् ॥ १८ ॥

अक्षुण्णयोगपथम् अग्र्यहतम् जटायुम्

तिर्यञ्चमेव बत! मोक्षपथे नियोक्तुम् ।

शक्नोषि वेत्सि च यदा स तदा कथम् त्वम्

देवीमवाप्तुमनलम् व्यथितो विचिन्वन् ॥ १९ ॥

अक्षुण्णेति – यदा यस्मिन्काले तिर्यञ्चमत एव शास्त्रानधिकारात् अननुष्ठितयोगमार्गम् अग्र्येण ब्राह्मणेन हृतमत एव मोक्षानर्हम् ब्राह्मणहतस्य गतिर्नास्तीति स्मृतिप्रसिद्धम् । तादृशम् जटायुषम् मोक्षमार्गे नियोक्तुमाज्ञापयितुम् शक्नोषि तदुपायम् च वेत्सि जानासि च तदा तस्मिन्काले समये त्वम् देवीम् विचिन्वन् व्यथितस्तामवाप्तुम् कथमनलम समर्थ एव अथापि ।  मानुषलीला प्राकृतजनव्यामोहिनीति भावः । अत्रालम्  शब्दः पर्याप्तिवचनः । यथा *अलमल्लो मल्लाय (वार्तिक १४६२ under सूत्र ५८३) इति ॥ १९ ॥

सालान् हि सप्त सगिरीन् सरसातलान् यान्

एकेषुमन्दजवतो निरपत्रयस्त्वम् ।

तेष्वेकविव्यथनखिन्नकपिप्रणुन्नम्

शाखामृगम् मृगयसे स्म कथम् सहायम् ॥ २० ॥

सालानिति – हे देव त्वम् वालिवधसामर्थ्य सम्शयितम् सुग्रीवम् प्रति प्रत्ययम् जनयन् गिरिसहितान् रसातलसहितान् यान् सप्तसालान् एकेन’ बाणमन्दजवेन निरपत्रयः निप्पत्रमकरोः । अव्ययः अतिव्यथयसि इति यावत् । *सपत्रनिष्पत्त्रादतिव्यधने(अष्टा.५.४.६१) इति डाच् प्रत्यये विहिते णिचि च कृते लङि रूपम् । स हि सप्तसालेष्वेकमेव सालम् निष्पत्रयितुम् शक्तः? तेषु सालेषु’ एकसालविव्यथनेन खिन्नः विश्रान्तः ? कपिर्वाली तेन प्रणुन्नम् – राज्यात् प्रच्यावितम् शाखामृगम् सुग्रीवम् कथम् सहायम् मृगयसे कथमन्वेषयसि इदमपि प्राकृतजनव्यामोहकरमिति भावः ॥ २० ॥

दासः सखा समभवत् तव यः कपीन्द्रः

तद्विद्विषम् कपिम् अमर्षवशात् जिघाम्सुः ।

त्वत्स्नेहविक्लबधियम् तमिमम् कपीन्द्रम्

विस्रम्भयन् सपदि सालगिरीन् अविध्यः ॥ २१ ॥

दास इति – हे देव यः सुग्रीवस्तव दासः सखा चाभवत् तद्विद्विषम् क्षिप्रम् कपिम् वालिना अमर्षवशाज्जिघाम्सुस्त्वम् हन्तुमिच्छन् स्वाश्रितसम्रक्षणार्थमेव वालिजिघाम्सा न तु प्रयोजनान्तराभिसन्धिनोति भावः । त्वयि स्नेहेन कातरयितुम् सुग्रीवम् विश्वासयन् सालान् गिरीश्चाविध्यः बेधितवानासीः । लङ् मध्यमः । अयम् वालिनम् हन्तुम् शक्तः अशक्तो वेति त्वत्स्नेहकरणेन विक्लवयितुम् कातरम् सुग्रीवम् प्रति तद्विस्रम्भार्थमेव सालगिरिबेधः न तु प्रयोजनान्तरार्थमिति भावः ॥ २१ ॥

वालिवधेऽभिप्रायान्तरमुन्नयति – यद्वेति –

यद्वा मृगम् मृगयुवन्मृगयापदेशात्

छन्नो जघन्थ न तु शत्रुवधाभिमुख्यात् ।

तद्युक्तमेव तव राघववम्शजस्य

तिर्यक्षु नैव हि विपक्षतयोपचारः ॥ २२ ॥

मृगयुवल्लुब्धक इव मृगयापथेन मृगयामार्गेण वृक्षेषु तिरोहितस्सन् शाखामृगम् जघन्य हतवानसि । हन्तेर्धातोर्लिटि मध्यमैकवचनम् । *अभ्यासे चर्च(अ.८.४.५४) इति हकारस्य कुत्वम् घकारः । न तु शत्रुवदाभिमुख्यादिति शत्रुवदाभिमुखे स्थित्वा न जघन्थ इति यत् तव क्षत्रियाभिमानिनो युक्तम् । न हि तिर्यक्षु विपक्षतयोपचारो विपक्षाभिमान इत्यर्थः ॥ २२ ॥

मानुष्यकम् चरितमाचरितुम् प्रवृत्तो

देवातिगम् चरितमङ्ग ! किमङ्ग्यकार्षीः ।

यत्सागरे बत बबन्धिथ नाथ ! सेतुम्

शैलैः प्लवङ्गमसमिङ्गितसम्प्रणुन्नैः ॥ २३ ॥

मानुष्यकमिति – मनुष्यसम्बन्धिचरितमाचरितुम् प्रवृत्तस्त्वम् तद्विहाय दैवातिगम् चरितम् अङ्ग्यकार्षीः अङ्गीकृतवान् किम् । यद् यस्मात् कारणात् कपिव्यापारप्रेरितैः शैलैः सागरे सेतुम् बबन्धिथ किल अबध्नाः बधि बन्ध सम्यमन इत्यस्माद्धातोः लिटि मध्यमैकवचनम् । तस्मात् त्वच्चरित्रमतिदैवमिति भावः ॥ २३ ॥

यो विक्रमेण मनुजत्वविभूषणेन

देवम् वरम् वरुणराजमज ! व्यजेष्ठाः ।

कृत्वोपदाम् दशरथम् विधिरुद्रमुख्यैः

देवैः स्तुतश्च स किलेन्द्रजिता जितोऽसि ॥ २४ ॥

यो विक्रमेणेति – हे अज! परम् देवम् वरुणराजम् वरुणो हि  समुद्राभिमानिनी देवता समुद्रमिति यावत् । व्यजेष्ठाः जितवानासीः । जिजय इति धातोः लिटि मध्यमैकवचनम् । *विपराभ्याम् जे(अष्टा.१.३.१९)* इत्यात्मनेपदम् । किञ्च रावणवधानन्तरम् देवभूयम् गतम् दशरथमेवोपायनीकृत्य देवैः स्तुतश्च तादृशस्त्वम् इन्द्रजिता जितोऽसि । एतत् केवलम् विडम्बनमिति भावः ॥ २४ ॥

अब्धिम् न तेरिथ जिगेथ न राक्षसेन्द्रम्

नैवास्य जज्ञिथ यदा च बलाबलम् त्वम् ।

निस्सम्शयः सपदि तस्य पदेऽभ्यषिञ्चः

तस्यानुजम् कथमिदम् हि विभीषणम् च ॥ २५ ॥

Top of Form

Bottom of Form

 

Bottom of Form

अब्धिमिति रावणवधार्थम् समुद्रतीरे निविष्टस्त्वम् यदा समुद्रम् न तेरिथ तीर्णवान् नासीः । रावणथ च न जिग्यिथ जितवान्नासीः । अस्य शक्तितारतम्यम् च’ नैव जज्ञिथ ज्ञातवान्नासीः । तदैव सपदि निरसम्शयः समुद्रः सुतरो दुस्तरो वा रावणश्च किमधिकबलः समवलः अल्पवलो वा किमजय्यो जय्यो वेति सर्वसम्शयविनिर्मुक्तस्सन् तस्य राज्ये तस्यैव शत्रोः सहजबन्धुम् शरणागतम् विभीषणमभ्यषिञ्चश्चेति यदिदम् हि कथम् हि मानुषक्षत्रिय मात्रस्य घटते । सत्यसङ्कल्पस्य सर्वशत्रुभूतस्य’ सर्वेश्वरस्येति भावः ।  तेरिथेत्यादि लिट् मध्यमैकवचनम् । सन्लिटोझेः(अष्टा.७.३.५७) इति जकारस्य कुत्वम् जकारः । जिग्यिथेत्यत्र गुणाभावो विचारणीयः ॥ २५ ॥

त्वम् दक्षिणस्य निवसन् उदधेस्तटेऽपि

दूरान्तरोत्तरपयोधिमहान्तरीपे ।

दैत्वान्निजैकशरपारणयन् किमेताम्

लङ्काम् स्थितोऽत्र कुरुषे न किल स्म भस्म ॥ २६ ॥

त्वमिति – समुद्रम् राघवो राजा शरणम् गन्तुमर्हतीति विभीषणवचनात् समुद्रम् शरणम् गतः । तदनादृत्य तूष्णीम् स्थिते च तस्मिन् तच्छोषणार्थम् कृतब्रह्मास्त्र सन्धानः स्वशोषणभीत्या स्वस्वरूपमाविष्कृत्य समुद्रे च शरणम् गते तस्मै स्वयमभयम् प्रदाय तेन दत्तमार्गः प्रतिसम्हितस्यामोघस्य ब्रह्मास्त्रस्य किम् लक्ष्यमिति समुद्रम् पृष्टस्तेन चोत्तरमरुकान्तारदेशवासिनो दैत्या लक्ष्यमित्युक्तस्तत्र ब्रह्मास्त्रम् प्रयुञ्जानस्त्वम् दक्षिणसमुद्रतीरे निवसन्नपि  दूरावकाशस्योत्तरसमुद्रस्य मरुकान्ताराख्ये महाद्वीपे निवसतो दैत्यान् स्वकीयस्यैकस्य शरस्य पारणयन् पारणाम्  कुर्वन् अत्र लङ्कासमीपे स्थित एताम् लङ्काम् समर्थोऽपि भस्म किमर्थम् न कुरुषे तवैश्वर्यमपर्यनुयोग्यमिति भावः । किल स्मेत्यव्ययसमुदायः प्रसिद्धि द्योतकः ॥ २६ ॥

यत्तादृशागसमरिम् रघुवीर ! वीक्ष्य

विश्रम्यतामिति मुमोचिथ मुग्धमाजौ ।

कोऽयम् गुणः कतरकोटिगतः कियान् वा

कस्य स्तुतेः पदमहो बत ! कस्य भूमिः ॥ २७ ॥

कोऽयमिति – हे रघुवीर ! आजौ युद्धे मुग्धम् मूर्च्छितम् जटायुवधसीतापहारादि-प्रसिद्धतादृशापराधमरिम् वीक्ष्य अद्य त्वम् बहुशो युद्धश्रान्तः, श्वस्तावद्विश्रन्तसन्नद्धः सन् आगच्छेति वदन् मुमोचि तेति यदयम् गुणः कः? दया वा क्षमा वा सर्वभूतसाम्यम् वा सर्वभूतसौहार्दम् वा एतेषाम् समुदायो वा अहो बत आश्चर्यहर्षयोः कृतागसि क्रोधार्हेऽपि जायमानत्वादाश्चर्यम् । विमुक्तः शत्रुर्विभीषणवन्माम् शरणमुपगच्छेदित्यभिप्रायेण जायमानत्वाद्धर्षः । अयम् गुणस्त्वदसाधारण इति भावः । कतरकोटिगतः कतराम् दशाम् प्राप्तः । दृढमूलतया तथाप्यप्रकम्प्यतया च जायमानत्वात् पराम् काष्ठाम् गत इत्यर्थः । इतोऽपि त्वदसाधारण इति भावः । एवमुत्तरत्रापि भगवदसाधारण्यमनुसन्धेयम् । अयम् कियान् वा किम् प्रमाणकः शत्रुमित्रसाधारण्येन स्थिराश्रयतया प्रवृत्तेरन्त इत्यर्थः । कस्य स्तुतेः पदम् विधिशिवसनकादीनामपि स्तुत्यनर्हा इत्यर्थ: । कस्य भूमि: मनसोऽप्यभूमिरित्यर्थः । कस्य श्रेयसस्थानमिति वा सर्वश्रेयसाम् स्थानमित्यर्थः । मानुषवेषपरिग्रहेऽपि एतादृश गुणाविर्भावात् तव परत्वम् त्वयापि दुरपह्नवमिति हृदयम् । अयमर्थः श्रीमद्रामायणे अभिहितः ।

*गच्छानुजानामि रणार्दितस्त्वम्

प्रविश्य रात्रिम् चरराज लङ्काम् ।

आश्वस्य निर्याहि रथी सघन्वी

तदा बलम् द्रक्ष्यसि मे तद्रथस्यः(रा.यु.५९.१४१)* ॥ २७ ॥

इन्द्रजित् प्रथमयुद्धे रामलक्ष्मणौ मूर्च्छितौ द्वितीययुद्धे तु बहुशः शरपीडितौ ब्रह्मास्त्रविद्धौ मूर्च्छितौ उभयविधोऽप्ययम् मोहस्तावदितरमनुष्यवत् पारमार्थिको न भवति केवलम् नटनन्मात्रमित्यनुसन्धत्ते । एतेनेति –

एतेन वै सुविदितोऽभवदिन्द्रशत्रोः

मायास्त्रबन्धननिबन्धनजो विमोहः ।

यल्लक्ष्मणस्त्वदनुजो रिपुशक्तिमुग्धः

शत्रोर्गुरुः हनुमतस्तु लघुत्वमाप ॥ २८ ॥

यद्यस्मात् कारणात् इत्यर्थः । त्वदनुजस्त्वद्गुणैः त्वत्सहजदास्यमुपागतो लक्ष्मणो रिपुशक्तिमुग्धः प्रसङ्गाद्रावणस्य विभीषणेन सह युद्धे प्रवृद्धे तद्वधार्थम् रावणेनामोघशक्तिप्रयोगे पूर्वमेव शरणागतस्य विभीषणपरित्राणार्थम् मध्ये लक्ष्मणेन स्ववक्षसि धृतया रावणशक्त्या तया मुग्धो मूर्च्छितो लक्ष्मणः तदानीम् स्वविम्शतिभुजैः लक्ष्मणमुद्धृत्य स्वपुरम् प्रापयामीत्यभिप्रायेण लक्ष्मणमुद्धरतः शत्रोर्गुरुरभवत् । तदुक्तम् श्रीरामायणे –

*हिमवान् मन्दरो मेरुस्त्रैलोक्यम् वा सहामरैः ।

शक्तिम् भुजाभ्यामुद्धर्तुम् न शक्ये भरतानुजः ॥ इति ॥ (रा. यु.५९.११०)

तदानीमेवोद्धरतो हनुमतस्तु पुष्पवल्लघुत्वमाप । तदुक्तम् तत्रैव वायुसूनोः सुहृत्त्वे च भक्त्या परमया च सः शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत् कपेरिति एतेन कारणेन इन्द्रजितो मायास्त्रवन्धकारणजो विमोहो नटनमात्रमिति सुज्ञातोऽभूदिति ॥ २८ ॥

इत्थम् रामावतारमनुसन्धाय सौलभ्य वात्सल्यतरङ्गिते तत्रावतारे सोऽहमलब्धमनोरथ इति विषीदति –

हा हन्त हन्त भवतश्चरणारविन्द-

द्वन्द्वम् कदा नु विषयीभविता ममाक्ष्णोः ।

योऽहम् निरर्गलविनिर्गलदन्धकारैः

वृक्षैस्तृणैश्च सुलभम् समयम् व्यतीतः ॥ २९ ॥

हा हन्तेति – हा हन्त हन्तेत्यति विषादे । भवतः चरणारविन्दद्वन्द्वम् नु ममाक्ष्णोर्विषयो भविता । दुर्लभ इति भावः । तत्र उपपत्तिमुत्प्रेक्षते द्वितीयार्धेन । तस्मिन्नपि काले येन केनापि प्रकारेण वर्तमानो योऽहम् निरङ्कुशप्रसरदज्ञानैरन्तस्सञ्ज्ञैस्तृणादिभिरपि सुलभम् सुखेन लभ्यम् निर्याण दशायाम् सर्वमोक्षप्रदानसमयमतिक्रान्तः ॥ २९ ॥

पितृवचनपरिपालनार्थम् अयोध्याम् विहाय रघुनायकवनप्रवाससमये  तत्रत्याचेतनवृक्षादिदशामनुसन्धत्ते – वम्शमिति –

वम्शम् रघोरनुजिघृक्षुः  इहावतीर्णो

दिव्यैर्ववर्षिथ तथाऽत्र भवद्गुणौघैः ।

त्वत्सन्निधिप्रभवशैत्यजुषो यथा हि

वृक्षाश्च तान्तिमभजन्त भवद्वियोगे ॥ ३० ॥

रघोर्वम्शमनुग्रहीतुमिच्छुः सन्निह सम्सारमण्डलेऽवतीर्णस्त्वम् दिव्यैश्चेनान्तरगुण लक्षणैः सर्वप्राणिनामाप्यायकैः गुणगणैस्तथा ववर्षिथ वृष्टवानासीः । वर्षणमेव व्यतिरेकमुखेन वर्णयति । वनवासात्पूर्वम् त्वत्सन्निधिजनितशैत्यभाजोऽन्तरस्सञ्ज्ञा वृक्षाश्च भवद्वियोगेर्यथा तान्तिम् ग्लानिमभजन्त तथा ववर्षिथेति कुण्ठनया योजनया । तदुक्तम् श्रीमदयोध्याकाण्डे –

अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः ।

उपतप्तोदका नद्यः पल्वलानि सराम्सि चेति ॥(रा.अयोध्या.६०.४)* इति ॥ ३० ॥

ये धर्ममाचरितुम् अभ्यसितुम् च योगम्

बोद्धुम् च किञ्चन न जात्वधिकारभाजः ।

तेऽपि त्वदाचरितभूतलबन्धगन्धात्

बन्धातिगाः परगतिम् गमितास्तृणाद्याः ॥ ३१ ॥

य इति – ये तु श्रवणमननमुखेन धर्मम् बोद्धुम् निर्णेतुम् । धर्ममिति ब्रह्मतत्त्वस्याप्युपलक्षणम् । पश्चादनुष्ठातुम् निदिध्यासनासिद्ध्यर्थम् चित्तैकाग्र्यलक्षणम् प्राणायामादि परिकरसहितम् योगम् चाभ्यसितुम् जातु कदाचिदपि किञ्चन अल्पमपि नाधिकारभाजः अधिकारशून्या: तेऽपि तृणाद्याः त्वदाचरितभूतलगन्धसम्बन्धस्पर्शात् सम्सारबन्धातिगाः परगतिम् मुक्तिम् प्रापितापि परम्परयापि भगवदन्वयोऽचेतना नामपि दुर्लभपदप्रापक इति भावः ॥ ३१ ॥

मुक्तेरपि रघुनायकचरितानुसन्धानम् गरीय इत्यनुसन्धत्ते – तादृगिति –

तादृग्गुणो ननु बभूविथ राघवत्वे

यस्तावकम् चरितमन्वहम् अन्वभुङ्क्त ।

सोऽत्रैव हन्त हनुमान् परमाम् विमुक्तिम्

बुद्ध्वाऽवधूय चरितम् तव सेवतेऽसौ ॥ ३२ ॥

राघवत्वे सकलजनाह्लादकरतादृग्गुणो बभूविथ । तत्रैवोपपत्तिमाह –

*यो हनुमान् स्नेहो मे परमो राजम्स्त्वयि नित्यम् प्रतिष्ठितः ।

भक्तिश्च नियता वीर भावो नान्यत्र गच्छति ॥(रा.उत्तरा.४०.१५)* इति ।

क्रमेण तावकम् चरितम् त्वत्समानकालेऽन्वभुङ्क्त अनुभुक्तवान् सोऽ सौ । अत्रैव चिरकालम् त्वदाचरिते देशे प्राणिमात्रसुलभाम् मुक्तिम् बुद्धिपूर्वम् विहाय इदानीमपि तव चरितम् वाङ्मनसाभ्याम् सेवते । हन्त इति हर्षे ॥ ३२ ॥

यस्त्वम् कृतागसमपि प्रणतिप्रसक्तम्

तम् वायसम् परमया दययाऽक्षमिष्ठाः ।

तेनैव मादृशजनस्य महागसोऽपि

युक्तम् समाश्वसनम् इत्युपधारयामि ॥ ३३ ॥

यत्त्वमिति –

स पित्रा च परित्यक्तः सुरैश्च परमर्षिभिः ।

त्रीन् लोकान् सम्परिक्रम्य तमेव शरणम् गतः ॥

*स तन्निपतितम् भूमौ शरण्यश्शरणागतम् ।

वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥(रा.५.३८.३४,३५)*

इति प्रकारेण प्रणतिप्रसक्तमुन्मुखम् कृतान्तम् पुरापराद्धमपि तम् वायसम् परमया परा पराधनादरेण प्रवृत्ततया दयया क्षमिष्ठाः सहिष्ठाः इति यत् तेनैव हेतुना महागसोऽपि मम समाश्वसनम् सर्वथापराधम् सोढा  रक्षिष्यतीति विश्वसनम् युक्तमिति निर्णयामि ॥ ३३ ॥

इत्थम् रामावतारमति मानुषम् दैव वेषेणानुसन्धाय श्रीकृष्णावतारमपि तथैवानुसन्धत्ते – सेति –

सा पूतना शकटमर्जुनयोश्च युग्मम्

बाल्योचितान्यपरचेष्टितविस्फुलिङ्गे ।

यस्यालभन्त शलभत्वमहो ! निगूढः

स त्वम् व्रजे ववृधिषे किल कम्सभीत्या ॥ ३४ ॥

पूतना नाम बालघातिनिग्रहः यस्य ते पूतनादिकम् सर्वम् बाल्यावस्थोचिते अन्यपरे अन्योद्देशेन प्रवृत्तम् न तु पूतनादिवधोद्देशेन प्रवृत्ते चेष्टितरूपे वह्नि कणे शलभत्वम् पतङ्गत्वम् प्राप्नुवन् तादृशस्त्वम् कम्सभीत्या निगूढः प्रच्छन्न सन् नन्दव्रजे ववृधिषे प्रवृद्धः । किल शब्दः पारमार्थ्ये । तस्माद्व्रजे वासो न भीतिप्रुयुक्तः । तत्रत्यानामनुग्रहार्थ  इति भावः ॥ ३४ ॥

पश्यत्सु सूरिषु सदा परमम् पदम् ते

देव्या श्रिया सह वसन् परया विभूत्या ।

योगेन योगनिरतैः परिमृग्यमाणः

किम् त्वम् व्रजेषु नवनीतमहो ! व्यमुष्णाः? ॥ ३५ ॥

पश्यदिति – *तद्विष्णोः परमम् पदम् सदा पश्यन्ति सूरय(कठो.३. ९)* इति श्रुति प्रसिद्धेषु सूरिषु परमम् धाम पश्यत्सु सत्सु तेषाम् दर्शनमनादृत्यनित्यानपायिन्या श्रिया सम्पदा च सह तत्रैव वसन्नपि अत्र योगनिरतैर्योगिभिः योगेन चित्तैकाग्र्येण मृग्यमाणोऽपि किमर्थम् नवनीतममुष्णाः । अहो इत्याश्चर्ये । प्रच्छन्नस्यैकाकिनो दरिद्रस्य परामर्शशून्यस्य चौर्यमुचितम् । तद्विसदृशस्य तव तु नोचितमिति ध्वनिः । त्वदीयम् सौशील्यम् सौहार्दम् च परत्वमतिक्रम्य त्वामपि विमोहयतीति हृदयम् । अमुष्णा इति मुषस्तेय परम् इति धातोर्लिङि मध्यमपुरुषैकवचनम् । अहो अमुष्णा इति ओदिति(अ.१.१.१५) प्रगृह्यसंज्ञायाम् प्रकृतिवद्भावः ॥ ३५ ॥

यम् दुर्ग्रहम् सुमनसो मनसाऽपि नित्यम्

बन्धच्छिदम् परममीशमुदाहरन्ति ।

दाम्ना निबद्ध इति शुश्रुम तम् भवन्तम्

नालम् बभूविथ ! बत! श्लथनाय तस्य ॥ ३६ ॥

यमिति – प्रमनसः  प्रकृष्टमनसः कवयः य मनसापि दुर्ग्रहम् ग्रहीतुमशक्यम् नित्यम् शाश्वतम् बन्धच्छिदम् सम्सारबन्धच्छिदम् परममीशम् परमस्वामिनम् उदाहरन्ति व्याकुर्वन्ति । तम् भवन्तम्  दाम्ना निबद्ध इति च तस्य दाम्नः श्लथनाय विस्रम्सनाय नालम् बभूविथ न समर्थोऽभूरिति च शुश्रुमेत्यन्वयः बन्धच्छिदम् सम्सारबन्धच्छिदम् मनसापि नित्यमेवाश्रृण्वमित्यन्वयः । दुर्ग्रहस्यासमर्थस्य बन्धमोचकस्य ग्रहणम् बन्धनम् तदमोचनम् चायुक्तमिति भावः । तव सौहार्दमेतादृशमिति हृदयम् । शुश्रुमेति स्वस्मिन् परोक्षत्वारोपेण लिट् – प्रयोगः ॥ ३६ ॥

ऐशम् हि शैशवमपि व्यतिवेलखेलम्

यत् पूतना शकटमर्जुनयोश्च युग्मम् ।

बाल्योचितान्यपरसाचिविचेष्टितेन

हन्तालभन्त शलभायितमोजसस्ते ॥ ३७ ॥

ऐशमिति – ईश सम्बन्धि ऐशम् शैशवमप्यतिक्रान्तमर्यादलीलम् बाल्यवयोऽनुचितलीलमित्यर्थः । यद् यस्मात् कारणात् पूतनाप्रमुखम्  सर्वम् बाल्योचितेना नन्यपरेण साचिविचेष्टितेन ईषद्विचेष्टितेन । यद्वा साचि शब्दस्तिर्यगर्थे, तिर्यग्विचेष्टितेन ते तवोजसस्तेजसः शलभायितम् अशलभस्य शलभवदाचरणम् शलभव्यापारमिति यावत् । अलभन्त अप्राप्रुवन् । शलभशब्दादाचारार्थे लोहितादिडाजभ्यः क्यष् (अष्टा.३.१.१३) इति क्यष् प्रत्यये विहिते भावे निष्ठायाम् रूपम् ॥ ३७ ॥

सत्येव गव्यनिवहे निजधाम्नि भूम्ना

पर्यन्तसद्मसु किमर्थम् ? अचूचुरस्त्वम् ।

मुष्णञ्च किम् व्यजघटो घटशेषमग्रे ?

गोपीजनस्य परिहासपदम् किमासीः ? ॥ ३८ ॥

सत्येवेति – निजवेश्मनि भूम्ना अतिशयेन गव्यविभवे दधिपयः। प्रभृतीनामतिशयेन विभवे सत्येव समीपगृहेषु किमर्थमचूचुरः अमुष्णाः । मुष्णाम्श्च गोपीजनस्याग्रे चौर्यमना वृष्वन् घटशेषम् घटमात्रशेषम् किमर्थम् व्यजघटः विधटितवानासीः ।  उभयत्रापि णौ चडि लुडि मध्यमपुरुषैकवचनम् । घटम् भज्जयम्श्च किमर्थम् हासास्पदमासीः ।  एतत् सर्वम् तवोत्तरोत्तरम् लज्जाकरे भक्तानाम्  चित्ताकर्षमिति भावः ॥ ३८ ॥

यन्नाम नाथ ! नवनीतम् अचूचुरस्त्वम्

तच्छादनाय यदि ते मतिराविरासीत् ।

किम् मुग्ध ! दिग्धममुना करपल्लवतल्लजम् ते

गात्रे प्रमृज्य निरगाः किल निर्विशङ्कः ॥ ३९ ॥

यन्नामेति – तच्छादनाय चौर्या च्छादनाय यदा मतिराविरासीत् । तर्हि हे मुग्ध अमुना नवनीतेन दिग्धम् लिप्तम् करपल्लवम् किमर्थम् सर्वेषामपि दृश्ये गात्रे विमृज्य मार्जयित्वा निर्विशङ्कः गृहान्निरगाः किल निरगा इति । इण् गताविति धातोर्लडि मध्यमैकवचनम् ॥ ३९ ॥

त्वामन्यगोपगृहगव्यमुषम् यशोदा

गुर्वी त्वदीयमवमानममृष्यमाणा ।

प्रेम्णाऽथ दामपरिणामजुषा बबन्ध

तादृक् न ते चरितमार्यजनाः सहन्ते ॥ ४० ॥

त्वामिति अभिमानेन गुर्वी अभिमानभराक्रान्ता यशोदा त्वदीयम् त्वत्सम्बन्धिनम् त्वन्निमित्तमात्मनोऽवमानम् अमृष्यमाणा असहमाना अथ अनन्तरम् दामात्मना परिणतेन न प्रेम्णा बबन्ध तथा हि आर्यजनाः पित्रादयः स्वपुत्रादीनाम् तादृक्चौर्यात्मकम् चरितम् न सहन्ते तत्प्रेमभराक्रान्ता आर्यजनाः तान् बन्धनादसहन्निति ॥ ४० ॥

मात्रा यदि त्वमसि दामनि सन्निबद्धः

तच्छ्राविणाम् उदितचाक्षुषनिर्झराणाम् ।

बध्नासि हन्त हृदयम् भगवन् ! कुतस्तत् ?

सर्वो हि वश्यविषये विवृणोति वीर्यम् ॥ ४१ ॥

मात्रेति – हे भगवन् मात्रा तवम् यद्दामनि सन्निबद्धोऽसि तर्हि बन्धनम् शृण्वताम् त्वदुःखेन समानदुःखानामुदित चाक्षुषा- श्रुतप्रवाहाणामनुरक्तजनानाम् कुतो हेतोर्हृदयम् बध्नासि । तव चेदपराधनिमित्तबन्धनमुचितम् निरपराधानाम् तेषाम् बन्धनमनुचितमिति ध्वनिः । तथा हि सर्वो हि वश्य जनविषये वीर्यम् विवृणोति तव सौलभ्य सौशील्य सर्वचित्ताकर्षकमिति भावः ॥ ४१ ॥

कान्तालकान्तममलम् कमलायताक्षम्

उद्भ्रूविलासम् उदितस्मितम् उन्नसम् च ।

वक्त्रम् वहन् परम ! गोपगृहेषु किम् त्वम्

गोपीमनाम्सि नवनीतमुताभ्यमोषीः ॥ ४२ ॥

कान्तेति – हे परम उद्भूतभ्रूविलासम् उन्नसम् उन्नतनासिकम् उपसर्गाच्च(अ.५.४.११९) इति नासिकाशब्दस्य नसादेशः । किम् त्वम् गोपीमनाम्सि अमुष्णाः उत गोपीगृहेषु नवनीतम् ॥ ४२ ॥

सर्वम् गुणाय गुणिनाम् इति सत्यमेतत्

यत्खल्विहेतरजने मलिनत्वहेतुः ।

यद्गोपवेषविनिषेवणमुत्तमम् ते

गोपालनम् च गणयन्ति गुणम् गुणेषु ॥ ४३ ॥

सर्वमिति – इह लोके यत् कृत्यमितरजने गुणशून्यजने मालिन्यहेतुः तत्सर्वम् गुणिनाम् जनानाम् गुणाय भवतीति जनवचनमसत्यमेव । यद् यस्मात् कारणात् तेषु गुणेषु गोपानाम् वेषविनिवेषणम् वेषस्याकारस्यालङ्कारस्य वा विनिवेषणम् आश्रयणम् गोपालनम् च चकारादिह सह क्रीडनम् च उत्तमम् गुणम् गणयन्ति ॥ ४३ ॥

गोपालपोतकतया निभृतम् धरित्रीम्

आवस्तुकाम इव सन्नपि बाल्यलौल्यात् ।

ऐन्द्रम् निहत्य मखमद्रिमथो दधानः

किम् तस्थिषे सुरगणाय सवासवाय ॥ ४४ ॥

गोपालेति – बाल्यचापल्यात् गोपालपोतकतया गोपालार्भकतया धरित्रीम् धरित्र्याम् निभृतम् गूढम् आवस्तुकामः स्थातुकाम इव सन्नपि ऐन्द्रम् महमुत्सवम् निवार्य अधो गोवर्धनाद्रिम् दधानः सवासवाय सुरगणाय किम् किमर्थम् तस्थिषे स्वाभिप्रायम् प्रकाशयन् स्थितवानासीः । धरित्रीमिति उपान्वध्याङ्वसः(अ.१.४.४८) इति सप्तम्यर्थे द्वितीया । त्वया गृह्यमाणमपि परत्वम् ग्रहीतुमशक्यमिति भावः । नन्दगोपप्रभृतिषु गोपेषु साम्वत्सरिक महेन्द्रोत्सवम् कर्तुम् प्रवृत्तेषु तन्निवार्य भगवता गोवर्धनपर्वतोद्देशेनोत्सवः कारितः । तदानीमिन्द्रः प्रकुपितः सन् सप्तरात्रम् निरन्तरम् ववर्ष । तद्वर्षवारणाय तमेव पर्वतम् स्वप्रभावमाविष्कुर्वन् भगवान् दधार । तदानीम् भगवद् प्रभावम् ज्ञात्वा इन्द्रः सुरगणैः सह भगवन्तम् तुष्टावेति श्रीमद्भागवत प्रसिद्धम् ॥ ४४ ॥

वेणुक्वणप्रणयिनि त्वयि लोकनाथ !

वृन्दावनम् चरणसञ्चरणैः पुनाने ।

भावास्तदा वनभुवः किल कीदृशस्ते

त्वद्गीतसिक्तसिकतासु वसुन्धरासु ॥ ४५ ॥

वेणुक्वणेति – क्वणो नादः । पुनाने शोधयमाने भावाः पदार्थाः । चेतनाचेतनात्मकाः कीदृशाः प्राचीनामवस्थाम् परित्यज्यावस्थान्तरमापन्नाः । तदुक्तम् श्रीरङ्गराजस्तोत्रे श्रीमद्भट्टारकैः श्रीवत्साङ्कमिश्रपुत्रैः,

शैलोऽग्निश्च जलाम् बभूव मुनयो मूढाम्बभूवुर्जडाः ।

प्राज्ञामासुरगाः सगोपममृतामासुर्महाशीविषाः ॥

गोव्याघ्राः सहजाम्बभूवुरपरे त्वन्याम्बभूवुः ।

प्रभो त्वम् तेष्वन्यतमाम्बभूविथ भवद्गुणेक्वणोन्मादने ॥ (रङ्ग.स्तोत्र उ.श.७२)

अयम् श्लोकस्तत्रैवास्माभिर्व्याख्यातः । सिकतानामपि गीतरससेकान्मार्दवशैत्याप्तिः ॥ ४५ ॥

धन्यैः श्रुतम् तदिह तावकरासकाले

गीतेन येन हि शिलाः सलिलाम्बभूवुः ।

पञ्चापि किञ्च परिवृत्तगुणानि भूतानि

उर्वीकृशानुमरुदम्बरशम्बराणि ॥ ४६ ॥

धन्यैरिति – तावकरासक्रीडाकाले रासो नामानेकतालप्रबन्धोऽनेकपात्रो मण्डलाकारो नृत्तविशेषः । तत्र गीतम्  धन्यैर्भाग्यवद्भिः श्रुतम् येन हि शिलाः सलिलाम्बभूवुः । किञ्च पञ्चापि भूतानि प्राचीनम् गुणम् परित्यज्यापूर्वकल्याणशब्दस्पर्शादिगुणानि व्यत्यस्त गुणानीति वा । सलिलाम्बभूवुरिति सलिलशब्दात् सर्वप्रातिपदिकेभ्य (वार्तिक under सूत्र २६६५) इति क्विप्रत्यये कृते सनाद्यन्ता धातवः (अ.३.१.३२) इति सलिलशब्दस्य धातुसञ्ज्ञायाम् कास्प्रत्ययादाममन्त्रे लिटि (अ.३.१.३५) इत्याम्प्रत्यये कृते सलिलामिति रूपनिष्पत्तौ पश्चात् कृञ्चानुप्रयुज्यते लिटि (अ.३.१.४०) इति बभूव । आसाम् चकारेत्यादि शब्दनामनुप्रयोगे सलिलाम्बभूव सलिलामासेत्यादिरूपम् ॥ ४६ ॥

तेभ्यः कृती न किल कश्चिदिहास्ति ये वै

रासोत्सवोत्सुकधियः  तव काननान्ते ।

वेणुस्वनस्रुतरसौघपरिप्लुतान्ते

स्वे सृक्वणी रसनया लिलिहुर्भुजङ्गाः ॥ ४७ ॥

तेभ्य इति – उत्सुकधिय इति षष्ठी । काननान्ते काननान्तः ! अन्तः शब्दोऽयमव्ययः। कृती कृतार्थः । वेणुस्वन इति सृतामृतरस प्रवाहप्लावितप्रान्ते अन्तर्गतम् विषमेव अमृतत्वेन परिणतमिति अनुसन्धेयम् । सृक्वणी ओष्ठप्रान्तौ बहिर्निस्सृतामृत रसप्रवाह-ग्रहणार्थमन्तर्लिलिहुः इत्यर्थः ॥ ४७ ॥

अम्भोदनीलमरविन्ददलायताक्षम्

पिञ्छावतम्सम् उररीकृतवेणुपाणिम् ।

त्वाम् गोपवेषपरिकर्मितकायकान्तिम्

धन्यास्तदा ददृशुरुन्मथितान्यभावाः ॥ ४८ ॥

अम्भोदमिति – उररीकृतमङ्गीकृतम् गोपवेषेणालङ्कृतशरीरकान्तिम् तदा रासोत्सवसमये उन्मथितो विघटितो भोग्यवस्त्वन्तरविषयो भावो येषाम् ते  तथोक्ताः ॥ ४८ ॥

गोवर्धनो गिरिवरो यमुना नदी सा

बृन्दावनम् च मथुरा च पुरी पुराणी ।

अद्यापि हन्त ! सुलभाः कृतिनाम् जनानाम्

एते भवच्चरणचारजुषः प्रदेशाः ॥ ४९ ॥

गोवर्धनेति – पुराणी पुरातनी कृष्णावतारात्पूर्वम् शत्रुघ्ननिवेषिततया पुराणत्वम् । अद्यापि त्वदवतारविप्रकर्षेऽपि कृतिनाम् सुकृतिनाम् चारजुषः सञ्चारजुषः परम्परयापि भगवत्सम्बन्धि सहवासोऽपि तत्सहवासप्राय इति भावः ॥ ४९ ॥

श्रीकृष्णावतारेऽपि वयमलब्धमनोरथा इति विषीदति –

बृन्दावने स्थिरचरात्मककीटदूर्वा-

पर्यन्तजन्तुनिचये बत ! ये तदानीम् ।

नैवालभामहि जनिम् हतकास्त एते

पापाः पदम् तव कदा पुनराश्रयामः ॥ ५० ॥

वृन्दावनेति – स्थिरचरात्मकः स्थावरजङ्गमात्मकः कीटदूर्वावधिकः जन्तुनिचयो यस्मिन्निति बहुव्रीहिः । स्थिरापकर्षावधिर्दूर्वा चरापकर्षावधिः कीटः । दूर्वाया अपि क्षयवृद्धियोगेनान्तः सञ्ज्ञितया जन्तुपदेन व्यपदेशः । ये वयम् तदानीमेवम्विधे वृन्दावने जनिम् जन्म  नैवालभामहि न लब्धवन्तः लङात्मनेपदोत्तमबहुवचनम् ।  हतकाः प्रणष्ठाः पापास्त एते तव पदम् कदा पुनराश्रयायः ॥ ५० ॥

हा जन्म तासु सिकतासु मया न लब्धम्

रासे त्वया विरहिताः किल गोपकन्याः ।

यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त

निक्षिप्य तत्र निजमङ्गमनङ्गतप्तम् ॥ ५१ ॥

हा जन्मेति – सिकतासु जन्म सिकतात्वमित्यर्थः । त्वया क्रीडामध्ये अन्तर्हितेन याः तावकीनपदपङ्क्तिजुषः तासु सिकतासु जन्म न लब्धमित्यन्वयः । तत्र सिकतासु गोपकन्याः अनङ्गतप्तम् अङ्गम् निक्षिप्य अजुषन्त अप्रीणन् जुषि प्रीति सेवनयोरिति धातोः लङि प्रथमा बहुवचनम् । सम्सार तप्तमप्यङ्गम् तत्र निक्षिप्य पादस्पर्शप्रभावात् जुषेयेति भावः ॥ ५१ ॥

आचिन्वतः कुसुममङ्घ्रिसरोरुहम् ते

ये भेजिरे बत ! वनस्पतयो लता वा ।

अद्यापि तत्कुलभुवः कुलदैवतम् मे

बृन्दावनम् मम धियम् च सनाथयन्ति ॥ ५२ ॥

आचिन्वतेति – तत्कुलभुवः तत्सन्ततिप्रसन्ततिभवाः मम कुलदैवतम् उपास्यम् सनाथयन्ति कृतार्थयन्ति । अङ्घ्रिसरोरुहम् भेजिर इति आरोहणावरोहणसमय इति भावः । धियम् तदनुसन्धान प्रवृत्तामित्यर्थः ॥ ५२ ॥

यत् त्वत्प्रियम् तदिह पुण्यम् अपुण्यमन्यत्

नान्यत् तयोर्भवति लक्षणमत्र जातु ।

धूर्तायितम् तव हि यत् किल रासगोष्ठ्याम्

तत्कीर्तनम् परमपावनम् आमनन्ति ॥ ५३ ॥

यदिति – त्वत्प्रियत्वाप्रियत्वे एव पुण्यपापयोर्लक्षणे ताभ्यामन्यन्न लक्षणम् भवतीत्यर्थः । तथा हि यद्ययद्धूर्तायितम् धूर्तवदाचरणम् परदारस्पर्शादि तत्कीर्तनम् पावनादपि पावनम् । श्रीपराशरशुकादयः समामनन्ति श्रुतिस्मृतिसदाचारविहितस्याप्यनुष्ठानस्य त्वत्प्रियत्वादेव धर्मत्वम् तन्निषिद्धस्याप्यधर्मत्वम् तदप्रियत्वात् ॥ ५३ ॥

या कम्समुख्यनृपकीटनिबर्हणोत्था

सा निर्जितत्रिजगतस्तव नैव कीर्तिः ।

गोपालनादि यदिदम् भवदीयकर्मे-

त्यार्द्रीकरोति विदुषाम् हृदयम् तदेतत् ॥ ५४ ॥

या इति – नृपकीटो नृपापसदः निर्जितत्रिजगत इति त्रिविक्रमावसर इति शेषः । यदिदम् गोपालनादि तदेतत् भवदीयकर्मेति विदुषाम् हृदयम् द्रावयति । तव पराक्रमनिमित्तो विदुषाम् न सन्तोषः । किन्तु सौशील्यवात्सल्यानिमित्त इति भावः ॥ ५४ ॥ \

गोपालवेषपरिकर्म परावरेशम्

यन्नाम धाम परमम् तमसः परस्तात् ।

तत् पिञ्छलाञ्छनसुदामकृतोपवीतम्

गोधूलिधूसरितकुन्तलम् अन्तरास्ताम् ॥ ५५ ॥

गोपालेति – परावरे ईष्टे अनुशास्तीति परावरेशम् उत्कृष्टापकृष्टरूप जगदीशम् तमसः त्रिगुणात्मकात् प्रकृतिमण्डलात् परस्तात् परममुत्कृष्टम् यन्नामधाम महापुरुषाख्यम् तेजः वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् (श्वेता.३.७) इति हि श्रुतिः । तद्गोपवेषालङ्कारम् बर्हलाञ्छनवनमालाकृतोपवीतम् अन्तःकरणे आस्ताम् आस उपवेशन इति धातोर्लोडात्मनेपदप्रथमैकवचनम् ॥ ५५ ॥

कालयवनसहायो जरासन्धस्तावत् मथुराम् रुरोध । तदानीम् योगमायया द्वारवतीम् निर्माय तत्रत्यसकलपौरजनम् तत्र निवेश्य सर्वेश्वरः स्वयम् पलायितवानिति श्रीभागवते प्रसिद्धम् । तदनुसन्धत्ते –

यद्वै जरासुतभयाद् विपलायथास्त्वम्

तच्चेन्मनुष्यचरितानुविधानजम् ते ।

तर्हि त्रिलोकगुरुम् ईश्वरमीश्वराणाम्

बाणाहवे किमिति शम्भुम् अजृम्भयस्त्वम् ॥ ५६ ॥

यद्वै इति – जरासन्धसैन्याद्धेतोर्व्यपलायथा इति यत् तत् तन्मनुष्यचरितानुकरणम् चेत् तर्हि त्रिलोकगुरुमिन्द्रादीनामपि ईश्वरम् शम्भुम् बाणासुरयुद्धे किमिति कस्माद्धेतोरजृम्भयः जृम्भितमकरोः । जृभि जृम्भि गात्रविनाम इत्यस्माद्धातोर्णिचि विहिते लङ्मध्यैकवचनम् । तदुक्तम्  भारते –

जृम्भणास्त्र प्रयोगेन जृम्भमायास शङ्करम् ।

जृम्भाभिभूतस्तु हरो रथोपस्थ उपाविशत् ॥

न शशाक तदा योद्धुम् कृष्णेनाक्लिष्टकर्मणा । (वि.पु.५.३३.२४,२५)

इति विपलायथा इति अय पय गताविति धातोः कृपो रोलः उपसर्गस्यायतौः(अष्टा.८.३.७९) इति लत्वे कृते लङिमध्यमैकवचनम् । तव सहजम् सर्वेश्वरत्वम् क्वचित्क्वचिन्मानुषनटनामभिभवतीति भावः ॥ ५६ ॥

भगवता कृष्णेन पौण्ड्रकवासुदेवे तत्सखे काशिराजे च हते तत्पुत्रेण त्र्यम्बकवर-प्रसादादुत्पादितया कृत्यया द्वारवत्याम् दह्यमानायाम् तदानीम् देव्या रुक्मिण्या सह अक्षैर्दीव्यन् देदीव्यन् श्रीकृष्णः सुदर्शनम् प्राहिणोत् । तत् च ताम् कृत्याम् वाराणसीम् काशिराजम् च ददाहेति श्रीभागवतेऽन्यत्रापि प्रसिद्धम् । तदनुसन्धात्ते – जातमिति –

जातम् कुतस्तदकृतज्ञविचेष्टितम् ते

पुत्रीयया किल वरम् ववृषे वृषाङ्कात् ।

अक्षेषु सक्तमतिना च निरादरेण

वाराणसी हरपुरी भवता विदग्धा ॥ ५७ ॥

पुत्रीयया आत्मनः पुत्रेच्छ्या वृषाङ्काद् वरम् ववृषे किल । पुत्रीययेति सुप आत्मनः क्यच् (अ.३.१.८) इति पुत्रशब्दादिच्छायामर्थे क्यजिति विहिते क्यचि च (अ.४.४.३३) इति ईत्वे च विहिते अ प्रत्ययात् (अ.३३.३.१०२) इति अकारप्रत्यये च विहिते पुत्रीययेति रूपम् । अक्षेषु सक्तमतिर्मना निरादरेण तस्य हरस्य पुत्री सुदर्शनम् प्रेषयता त्वया दग्धेति यत् तदकृतज्ञविचेष्टितम् कृतघ्नचेष्टितम् ते कुतो जातम् । ततो वरलाभस्तत्पुरदाहश्चायुक्तमिति भावः ॥ ५७ ॥

सञ्जीवयन्नपि मृतम् सुतमुत्तरायाः

सान्दीपनेश्चिरमृतम् सुतमानयम्श्च ।

धाम्नो निजाद् द्विजसुतान् पुनरानयन् वा

स्वामेव ताम् तनुमहो ! कथमानयस्त्वम् ॥ ५८ ॥

सञ्जीवयन्निति – अश्वत्थाम्ना अपाण्डवास्त्रप्रयोगेण अभिमन्युपत्न्या उत्तराया गर्भे च दग्धे तम् मृतमपि सुतम् पादेन कमलाभेन ब्रह्मरुद्रार्चितेन वै । पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम् । यदि मे ब्रह्मचर्यम् स्यात् सत्यम् च मयि तिष्ठति । अव्याहतम् ममैश्वर्यम् तेन जीवस्व बालिश इति प्रकारेण सञ्जीवयन् तथा बलरामसहायेन गुरुदक्षिणार्थम् सान्दीपनिना चिरमृतस्वपुत्रे वृते तदानीम् दाहाग्निम् पञ्चजनाख्येनासुरेण भक्षितम् चिरमृतम् गुरुसुतमानयश्च तथा द्वारवत्याम् कस्यचिद् ब्राह्मणस्य पुत्रेषु जातमात्र एव मृतेषु तस्मिन् साक्रोशे भगवान् स्वयमर्जुनसारथिर्भूत्वा सप्तसमुद्रम् लोकालोकपर्यन्तम् महान्धकारम् चातीत्य अण्डभित्ति समीपवर्तिनो विष्णु लोकात् स्वधाम्नो द्विजसुताम्स्तत्र निवसता श्रीकृष्णार्जुन समुत्सुकेन विष्णुना दत्तान् पुनरानयन् वा स्वामेव काले विप्रकर्षेऽपि पूर्वावस्थामेव मातापितृप्रियाम् तेषाम् तनुम् शरीरम् कथमानयः? अहो आश्चर्यम् । अत्र सञ्जीवनम् पुत्रानयनम् कथञ्चिद् घटताम् । कालविप्रकर्षेऽपि यथापूर्वतादृशतनुसन्निवेश आश्चर्यमिति भावः ॥ ५८ ॥

इत्थमादौ श्रीरङ्गराजमर्चावतारम् तदनुपरव्यूहावस्थम् च सर्वेश्वरम् तदनन्तरम् च विशेषेण विभवावतारम् देवतिर्यङ्मनुष्यसाधर्म्येऽपि अतिमानुषैः सर्वेश्वरलिङ्गैः सर्वेश्वरदृष्ट्याभिष्टुत्य सम्प्रति  स्वकीयमाकिञ्चन्यानुसन्धानैः शरणमुपगच्छन् स्तोत्रम् परिसमापयति –

अद्यापि नास्त्युपरतिः त्रिविधापचारात्

पापः परे निपतितोऽस्मि तमस्यपारे ।

एतादृशोऽहमगतिर्भवतो दयायाः

पात्रम् त्वदीयचरणौ शरणम् प्रपद्ये ॥ ५९ ॥

अद्यापीति – अद्यापि आचार्यसमाश्रयणान्तरमपि भगवदपचारभागवदपचारमसह्यापचाररूपात् त्रिविधापचारादनुपरतः अत  एव पापः  । अनेन  कर्मराहित्यमुक्तम् । भक्ति राहित्यञ्चार्थसिद्धम् । अत एवापारेऽनन्ते परे महति तमस्यज्ञाने निपतितोऽस्मि । अनेन ज्ञानराहित्यमुक्तम् । भक्ति राहित्यञ्चार्थसिद्धम् । अत  एव तादृशोऽहम् अकिञ्चनोऽहम् अगतिः उपायान्तरशून्यः । अत एव त्वत्कृपापात्रमहम् त्वदीयचरणौ शरणम् प्रपद्ये । त्वयि न्यस्तभरो भवामि ॥ ५९ ॥

एतच्चरणव्रजनमपि न मनः पूर्वकम् विकलाङ्गम् च तस्मादेतदपि व्याजमात्रम् केवलम् । त्वदीयदयैव सर्वपरिपूरकम् समुत्तारकम् चेत्यनुसन्धत्ते –

विस्रम्भणम् त्वयि न यद्यपि मेऽस्ति नापि

श्रद्धा यथोक्तवचनार्थगता तथाऽपि ।

वाचम् त्विमाम् सकृदथाप्यसकृन्मयोक्ताम्

सत्याम् कुरुष्व दययैव दयैकसिन्धो ॥ ६० ॥

विस्रम्भणमिति – यद्यपि त्वयि प्रपत्त्यवयभूतो रक्षिष्यतीति महा विश्वासो नास्ति तदङ्गभूता  पूर्वोक्तशरणव्रजनवचनार्थविषयाश्रद्धापि मे नास्ति तथापि माम् शरणव्रजनविषयाम् वाचम् सकृद्धा असकृद्धा मयोक्ताम् वाचम् केवलम् कृपयैव सत्याम् कुरुष्व । यतस्त्वद्दयैकसिन्धुः  प्रपत्त्यनुष्ठानस्तु सकृदेव ।असकृदुक्तिरादरात् ममवाचिकप्रपत्त्यनुष्ठानम् । यथा तथा वा स्यात् । अथापि सत्याम् सहिताम् सफलाम् कुरुष्वेति भावः ॥ ६० ॥

इत्थम् शरणागतिमनुष्ठाय स्वयम् पापीयानित्यनुसन्दधानोऽपि भगवतो रक्षकत्वादि गुणानुसन्धानेन दृढविश्वासः सन् स्वयम् निर्भरोऽस्मीत्युच्छ्व सति- पापीयसो इति –

पापीयसोऽपि शरणागतशब्दभाजो

नोपेक्षणम् मम तवोचितमीश्वरस्य ।

त्वज्ज्ञानशक्तिकरुणासु सतीषु नैव

पापम् पराक्रमितुमर्हति मामकीनम् ॥ ६१ ॥

शरणागतिशब्दभाजो यथा तथा वा शरणागतिशब्द प्रयोक्तुर्मम नित्य दास्थभाज उपेक्षणम् ईश्वरस्य नित्यस्वामिनो

यत्किञ्चिद्व्याजमात्रापेक्षिणस्तव नोचितम् । किञ्च इतः परम् मामकीनम् शरणागति प्राप्तिविरोधि पापम् रक्षणोपयुक्तासु त्वज्ज्ञानशक्तिकरुणासु नित्यम् सतीषु ताः पराक्रमितुमलड्ध्य पुनरपि सम्सारे प्रवर्तयितुम् नार्हति । शरणव्रजनपर्यन्त एव पापपराक्रम इति भावः ॥ ६१ ॥

॥ इति श्रीमद्रामानुजाचार्यविरचितमतिमानुषस्तव व्याख्यानम् सम्पूर्णम् ॥

 ॥ श्रीमते रामानुजाय नमः ॥

॥ श्रीनिवास गुरवे नमः ॥

वेड्टाचार्यशिष्येण रामानुजविपश्विता ।

अतिमानुषसञ्ज्ञायास्तुतेर्व्याख्या विनिर्मिता ॥

 ॥ हरिः ओम् ॥

॥ श्रियै नमः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.