सुन्दरबाहुस्तवव्याख्यानम्

श्रीः

श्रीमते रामानुजाय नमः

सुन्दरबाहुस्तवम्

   अथ भगवद्भाष्यकारसकाशाल्लब्धपरावरतत्त्वयाथात्म्यावबोधः श्रीवत्साङ्कमिश्रः कावेरीमध्यगताच्छ्रीरङ्गक्षेत्रात् दक्षिणस्याम् दिशि वनगिरिवृषगिरिसिम्हगिरिप्रभृतिनामभिः प्रसिद्धे महापर्वते कृतावतारम् सुन्दरबाहुम् सुन्दरालङ्कारादिनामभिर्व्यवह्रियमाणम् दिव्यप्रबन्ध वैभवम् महाविष्णुम् स्वोज्जीवनार्थम् सकलप्राणिहितार्थम् च स्तोतुकाम: प्रथमम् स्तोत्रारम्भम् प्रतिजानीते? श्रीमन्ताविति –

श्रीमन्तौ हरिचरणौ समाश्रितोऽहम्

श्रीरामावरजमुनीन्द्रलब्धबोधः ।

निर्भीकस्तत इह सुन्दरोरुबाहुम्

स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥

यतः कारणात् भगवत्पादसमाश्रितः रामानुजमुनीन्द्रसकाश लब्धबोधश्च ततः कारणात् निर्भयः सन् तच्चरणसाक्षात्काराभिलाषी सुन्दरोरुबाहुनामानम् विष्णुम् स्तोष्य इत्यन्वयः | हरिचरणौ समाश्रित इत्यनेन प्रबन्धादौ कर्तव्या नमस्क्रिया कृतेत्यनुसन्धेयम् ॥ १ ॥

सुन्दरायतभुजम् भजामहे

वृक्षषण्डमयमद्रिमास्थितम् ।

यत्र सुप्रथितनूपुरापगा

तीर्थमर्थितफलप्रदम् विदुः ॥ २ ॥

सुन्दरायतमिति – सुन्दरायतभुजमिति तत्रत्यविष्णुनामधेयम् तथा वृक्षषण्डमयमद्रिमिति तत्पर्वतनामधेयम् च । यत्र पर्वते प्रसिद्धा नूपुर नदी सैव तीर्थमर्थितम् प्रार्थितम् । आर्थित फलप्रदम् वाञ्छित फलप्रदम् विदुः ॥ २ ॥

क्वचित्त्वरितगामिनी क्वचन मन्दमन्दालसा

क्वचित् स्खलितविह्वला क्वचन फेनिला सारवा ।

पतन्त्यपि किल क्वचित् व्रजति नूपुराह्वा नदी

सुसुन्दरभुजाह्वयम् मधु निपीय मत्ता यथा ॥ ३ ॥

क्वचिदिति – सुन्दरभुज मधुमत्ता यथा मत्तेव अलसा जडाः विह्वला व्याकुला स्खलिता च सा विह्वला च सारवा सशब्दा ॥ ३ ॥

उदधिगमन्दराद्रिमथिमन्थनलब्धपयो-

मधुररसेन्दिराह्वसुधसुन्दरदोः परिघम् ।

अशरणमादृशात्मशरणजा शरणार्थिजन

प्रवणधियजा भजेम तरुषण्डमयाद्रिपातिम् ॥ ४ ॥

उदधिगश्चेति – उदधिगश्चासौ मन्दराद्रिश्च स एव मथिः मन्था मन्थनदण्डः तेन मन्थनः मथन तेन लब्धः पयसः क्षीरस्य मधुररसो यस्याः सा तथोक्ता मन्थनलब्धा पयोमधुररसा इति इन्दिरानामधेयसुधा यस्य स तथोक्तः । मधुररस एवेन्दिराह्वेति व्याख्येयम् । सुन्दरौदौष्णौ भुजावेव परिघावर्गलदण्डौ यस्य स तथोक्तः । इदम् नामधेयम् तादृशेन्दिराह्वसुधाश्चासौ सुन्दरदोः— परिघश्चेति । पश्चात् कर्मधारयः । प्रवणधियम् परतन्त्रधियम् ॥ ४ ॥

शशधर रिङ्खणाढ्य शिखमुच्छिखर प्रकरम्

तिमिरनिभ प्रभूततरुषण्डमयम् भ्रमदम् ।

वनगिरिमावसन्तम् उपयामि हरिम् शरणम्

भिदुरितसप्तलोकसुविशृङ्खलशङ्खरवम् ॥ ५ ॥

शशधरेति – रिङ्खणेन सञ्चारेण आढ्या सम्पन्ना शोभिता च शिखा अग्रम् यस्य स तथोक्तः ।  उन्नतशिखरसमूहमन्धकारसदृशबहलवृक्षसमूहप्रचुरम् अत एव वृक्षसमूह एवायम् न पर्वत इति भ्रान्तिजनक इति भावः । वनगिरिमावसन्तमिति *उपान्वध्याङ्वसः(अष्टा.१.४.४८)* इति सप्तम्यर्थे द्वितीया । भिदुराः पदार्थाः अस्य सञ्जाता इति भिदुरिताः भिदुरितेषु सप्तलोकेषु निरर्गलशङ्खध्वनिम् यद्वा भिदुराः कृता भिदुरिताः *तत्करोति तदाचष्टे(वार्तिक १०१८ under सूत्र ५१६) इति णिचि विहिते विनिष्क्रान्तम् पदम् शशधरेति भिदुरिति च वर्णनम् दिव्यप्रबन्धेऽभिहितम् ॥ ५ ॥

यत्तुङ्ग शृङ्ग विनिषङ्गिसुराङ्गनानाम्

न्यस्तोर्ध्वपुण्ड्र मुखमण्डन मण्डितानाम् ।

दर्पण्यभूत् धृतमपङ्क  शशाङ्कपृष्ठम्

तद्धाम सुन्दरभुजस्य महान् वनाद्रिः ॥ ६ ॥

यत्तुङ्गेति – ऊर्ध्वपुण्ड्रमेव मुखमण्डनम् तेनालङ्कृतानाम् धृतम् करतलधृतम् अथवा आकाशधृतम् तत्र स्थितमिति यावत् । अपगतकलङ्कम् शशाङ्कपृष्ठम् अधोभाग एव भूच्छाया कलङ्कः न तूपरिभागे | दर्पण्यभूत् । अभूत् तत्भावार्थच्चिप्रत्ययान्तोऽयम् प्रयोगः | धाम स्थानम् तदिति धामापेक्षया नपुम्सकनिर्देशः | अनेन *पर्वतौन्नात्यमभिहितम्* ॥ ६ ॥

यदीयशिखरागताम् शशिकलाम् तु शाखामृगाः

निरीक्ष्य हरशेखरीभवनम् आमृशन्तस्ततः ।

स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटम्

स एष सुमहातरुर्वनगिरिः गृहम् श्रीपतेः ॥ ७ ॥

यदीय इति – हरशेखरीभूतत्वमामृशन्तो विचारयन्तस्ततः विचारानन्तरम् कलबुद्ध्या वा कपि चापलाद्वा न स्पृशन्ति हि स्फुटमिति गृहविशेषणम् | स्फुटम् गृहभूतमिरित्यर्थः ॥ ७ ॥

सुन्दरदोर्दिव्याज्ञा  लम्भनकातर  वशानुयायिनि करिणि ।

प्रणयजकलह  समाधिः यत्र वनाद्रिः स एष सुन्दरदोष्णः ॥ ८ ॥

सुन्दरदो इति – यत्र वनाद्रौ करिणि वनगजे लम्भनकातरवशानुयायिनि सति लम्भनमालिङ्गनम् तत्र कातर वशा करिणी कातर्यम् वशानुयायित्वे हेतुः सुन्दरदोष्णः सर्वेश्वरस्य दिव्याज्ञा प्रणयजनितकलहस्य समाधिः समाधानम् | दिव्याज्ञा प्रयोगे तत्रत्यतिरश्चामपि प्रणयज कलहशान्तिः स्यादिति भावः | स एष सुन्दरदोष्णो वनाद्रिर्भातीत्यर्थः ॥ ८ ॥

स एष सौन्दर्यनिधेः धृतश्रियो

वनाचलो नाम सुधाम यत्र हि ।

भुजङ्गराजस्य कुलस्य गौरवात्

न खण्डिताः कुण्डलिनः शिखण्डिभिः ॥ ९ ॥

स एषेति – सुधाम शोभनस्थानम् शेषकुलबहुमानात्तिरश्चामपि तत्र भागवत प्रेम्णा सहजवैरत्यागोऽस्तीति भावः ॥ ९ ॥

वृषगिरिरयमच्युतस्य यस्मिन्

स्वमतमलङ्घयितुम् परस्परेभ्यः ।

खगपतिचरणौ खगाश्शपन्ते

भुजगपतेर्भुजगाश्च सर्व एव ॥ १० ॥

वृषगिरिरिति – स्वमतम् स्वाभिमतम् प्रयोजनम् अलङ्घयितुम् अनतिक्रमितुम् परिपालयितुमिति यावत् खगपतिर्गरुड: भुजगपतिः शेषः चरणौ प्रतिपरस्परेभ्यः शपन्ते शपथम् कुर्वन्तीत्यर्थः । परस्परेभ्यः इति *श्लाघह्नुस्थाशपाम् ज्ञीप्स्यमानः(अष्टा.१.४.३४) इति चतुर्थी ॥ १० ॥

वकुलधरसरस्वतीविषक्त-

स्वररसभावयुतासु किन्नरीषु ।

द्रवति दृषदपि प्रसक्तगानासु

इह वनशैलतटीषु सुन्दरस्य ॥ ११ ॥

वकुलधरेति वकुलधरः शठकोपमुनिः तस्य सरस्वत्यो द्रमिडोपनिषद्गाथास्तत्र विषक्ता आसक्तास्तथा स्वररसभावैर्युताश्च स्वराः सप्त स्वरा रसाः शृङ्गारादयः भावाः लीला ॥ ११ ॥

हरिकुलमखिलम् हनूमदङ्घ्रिम्

स्वकुलपजाम्बवतस्तथैव भल्लाः ।

निजकुलपजटायुषश्च गृध्राः

स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥ १२ ॥

हरिकुलमिति – हरिकुलम् कपिकुलम् कुलपः – कुलपालकः भल्लाः ऋक्षाः सर्वेऽपि परमभागवतानाम् स्वकुलपतीनामाज्ञापरिपालका इति भावः | स्वमतमलङ्घयितुम् परस्परेभ्यः अङ्घ्रि शपन्त इह इति सर्वत्रान्वयः । अयम् श्लोकः वृषगिरिरिति श्लोकानन्तरम् पठनीयः ॥ १२ ॥

भृङ्गी गायति हम्सतालनिभृतम् तत्पुष्णती कोकिलाऽपि

उद्गायत्यथ वल्लितल्लजमुखादास्रम् मधु स्यन्दते ।

निष्पन्दस्तिमिताः कुरङ्गततयश्शीतम् शिलासैकतम्

सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन्वनक्ष्माधरे ॥ १३ ॥

भृङ्गी गायतीति – सायाह्ने यत्र सुन्दरभुजस्तिष्ठति तत्र वनक्ष्माधर इत्यन्वयः । भृङ्गी भृङ्गस्त्री हम्सानाम् तालैः  तालस्वरैः हम्सपक्षपातानाम् वा तालध्वनि भृतम् परिपूर्णमिति क्रियाविशेषणम् । हम्सस्वरास्तालस्वरानुकारिण इति भावः । तद्गानम् पुष्णाति वर्धयति, वल्ली तल्लजा लताश्रेष्ठा तासाम् मुखान्मकरन्दमयमानन्दाश्रु स्रवति इति कुरङ्गसमूहाश्च निश्चेष्टास्तब्धाश्च शिला सैकतम् शीतम् जातम् । शिलासैकतमिति द्वन्द्वैकवद्भावादेकवचनम् ॥ १३ ॥

पीताम्बरम् वरदशीतलदृष्टिपातम्

आजानुलम्बिभुजमायतकर्णपाशम् ।

श्रीमन्महावनगिरीन्द्रनिवासदीक्षम्

लक्ष्मीधरम् किमपि वस्तु ममाविरस्तु ॥ १४ ॥

पीताम्बरमिति – अयम् श्लोकः श्रीवैकुण्ठस्तोत्रेऽपि भङ्यन्तरेणानुसम्हितः अस्माभिस्तत्रैव व्याख्यातः ॥ १४ ॥

जनिजीवनाप्ययविमुक्तयो यतो

जगतामिति श्रुतिशिरस्सु गीयते ।

तदिदम् समस्तदुरितैकभेषजम्

वनशैलसम्भवमहम् भजे महः ॥ १५ ॥

जनीति – सृष्टिस्थितिलयमोक्षाः यतो यस्मात् ब्रह्मणः *यतो वा इमानि भूतानि जायन्त(तै.३.१)* इति वेदान्तवाक्येषु महस्तेजः वेदान्तवेद्यम् ब्रह्म वनाद्रौ सन्निधत्त इति भावः ॥ १५ ॥

सकलवेदान्तवाक्यानाम् सामान्यविशेषन्यायेन गतिसामान्यन्यायेन च सकलजगत्कारणे लक्ष्मीपतौ पुण्डरीकेक्षणे समाभ्यधिकदरिद्रे मुमुक्षूपास्ये परे ब्रह्मणि नारायण एव तात्पर्यमित्यनुसन्धत्ते । सद्ब्रह्मेति –

सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा

व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः ।

निस्तुल्याधिकमद्वितीयममृतम् तम् पुण्डरीकेक्षणम्

प्रारूढश्रियमाश्रये वनगिरेः कुञ्जोदितम् सुन्दरम् ॥ १६ ॥

यः सुन्दरः त्रयीशिरसि वेदान्ते *सदेव सौम्येदमग्र आसीत्(छान्. ६.२.१) *ब्रह्म वा इदमग्र आसीत्(बृह.१.४.१) इत्यादिभिः सद् ब्रह्मात्मपदैः कारणपरैः तथा *एको ह वै नारायण आसीत् न ब्रह्मा नेशान(महो.१.१) इति कारणपरया नारायणोक्त्या सामान्य विशेषन्यायेन व्याख्यातः । अयम् भावः सद्ब्रह्मात्मादिपदानाम् सामान्यपराणाम् विशेषाकाङ्क्षायाम् सामान्यविशेषन्यायेन नारायणेपर्यवसानम् युक्तमिति कीदृशैः सत्ब्रह्मात्मपदैः गतिसाम्याल्लब्धविषयानन्यत्वबोधोज्ज्वलैः गतिसामान्यम् नाम सकलवेदान्तवाक्यानाम् नाना तात्पर्यम् परित्यज्य एकत्र तात्पर्यनिश्चयः । गतिसामान्येन लब्धनारायणविषयैः तथा *न ब्रह्मा नेशान(महो.१.१) इति । तदितरनिषेधादनन्यत्वबोधोज्ज्वलैः तम् सुन्दरम् समाश्रये । कीदृशम् निस्तुल्याधिकम् समाभ्यधिकरहितम् *न तत्समश्चाभ्यधिकश्च दृश्यते(श्वेता.६.८) इति श्रुतिः । अत एवाद्वितीयम् असदृशम् अमृतम् षद्भावविकार शून्यम् पुण्डरीकेक्षणम् *तस्य यथा कप्यासम् पुण्डरीकमेवाक्षिणी (छान्.१.६.७)* इति श्रुतिः । प्रारूढश्रियम् प्रवृद्धश्रियम् कुञ्जोदितम् तरुषण्डे प्रादुर्भूतम् अयमेवार्थो  वरदराजस्तोत्र व्याख्याने च तत्र तत्र प्रपञ्चितः ॥ १६ ॥

पतिमिति श्रुतिर्ब्रह्मेशादीन् तस्मान्नारायणात् प्राप्तैश्वर्यान् ब्रुवणाय सुन्दरम् विश्वस्य पतिरित्यादिक्रमेण प्राह । पतिमिति –

पतिम् विश्वस्यात्मेश्वरमिति परम् ब्रह्म पुरुषः

परम् ज्योतिस्तत्त्वम् परमपि च नारायण इति ।

श्रुतिर्ब्रह्मेशादीन्स्तदुदितविभूतीम्स्तु गृणती

यमाहारूढश्रीस्स वनगिरिधामा विजयते ॥ १७ ॥

स वनगिरिधामा विजयत इत्यन्वयः । अत्र *पतिम् विश्वस्यात्मेश्वरम् शाश्वतम् शिवमच्युतम्* *नारायण परम् तत्त्वम् नारायणः परः नारायण परो ज्योतिरात्मा नारायणः परः(महाना.९.३) इत्यादि श्रुतिभिः नारायणस्यैव परत्व निर्धारणात् नारायण एव सर्वोत्कृष्ट इति भावः ॥ १७ ॥

यः पृथिव्याम् तिष्ठन् पृथिवीमन्तरोऽयम् पृथिवीम् न वेद, यस्य पृथिवी शरीरम्, यः पृथिव्यामन्तरो यमयति *तथा य आत्मनि तिष्ठन्, आत्मनोऽन्तरोयमात्मा न वेद, यस्यात्मा शरीरम्, य आत्मानमन्तरो यमयति(बृह.५.७.६)* इत्याद्यन्तर्यामि ब्राह्मणार्थमनुसन्दधानः स्तौति – पृथिव्या इति –

पृथिव्याद्यात्मान्तम् नियमयति यस्तत्त्वनिकरम्

तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् ।

स एष स्वैश्वर्यम् न विजहदशेषम् वनगिरिम्

समध्यासीनो नो विशतु हृदयम् सुन्दरभुजः ॥ १८ ॥

यः पृथिव्यादिकमारभ्य आत्मान्तम् तत्त्वसमूहम् तदन्तर्यामी तच्छरीरकेऽस्ति न पृथिव्यादिना अविदितः सन्नियमयति प्रेरयति स एष पृथिव्यादिषु तिष्ठन्नपि तद्गतदोषैरसम्स्पृष्टस्सन् हेयप्रत्यनीककल्याणैकतानत्वादिकमशेषमैश्वर्यम् न परित्यजन वनगिरिम् समध्यासीनो नो हृदयम् विशतु प्रविशतु । वनगिरिमिति *अधिशीस्थासाम् कर्म(अ.१.४.४६) इति सप्तम्यर्थे द्वितीया ॥ १८ ॥

यत्र *नान्यत् पश्यति, नान्यच्छृणोति, नान्यद्विजानाति स भूमा । यत्र अन्यत् पश्यति, अन्यच्छृणोति, अन्यद्विजानाति तदल्पम्(छान्. ७.२४) इति श्रुत्यर्थमनुसन्दधानः स्तोति – प्रत्यगात्मनीति –

प्रत्यगात्मनि कदाऽप्यसम्भवद्-

भूमभूमिमभिवक्ति यम् श्रुतिः ।

तम् वनाद्रिनिलयम् सुसुन्दरम्

सुन्दरायतभुजम् भजामहे ॥ १९ ॥

यत्र निरतिशयानन्दे ब्रह्मण्यनुभूयमाने तद्व्यतिरिक्तम् अन्यन्न पश्यति न शृणोति न जानाति स भूमा । यत्र वैषयिकानन्दे  अनुभूयमानेऽन्यत् पश्यति इत्यादि तदल्पमित्यर्थः । प्रत्यगात्मनि जीवात्मनि सर्वदाप्य सम्भवतो भूम्नोऽतिशयस्य भूमिम् स्थानम् श्रुतिरभिवक्ति कदापि मुक्तिदशायामित्यर्थः । तम् भजामहे इत्यन्वयः ॥ १९ ॥

वन्देय सुन्दरभुजम् भुजगेन्द्रभोग-

सक्तम् महावनगिरिप्रणयप्रवीणम् ।

यम् तम् विदुर्दहरमष्टगुणोपजुष्टम्

आकाशम् औपनिषदीषु सरस्वतीषु ॥ २० ॥

वन्देय इति – शेषभोगशयने सक्तमनुरक्तम् महावनगिरेः प्रणये स्नेहे प्रवीणम् चतुरम् तम् सुन्दरभुजम् वन्देय । अथ यदिदमस्मिन् ब्रह्मपुरे *दहरम् पुण्डरीकम् वेश्म(ना.अ.१०) दहरोऽस्मिन्नन्तराकाशः । तस्मिन् यदन्तस्तदन्वेष्टितव्यम् तद् विजिज्ञासितव्यम् इत्यारभ्य तस्मिन् कामाः समाहिताः । *एष आत्मापहतपाप्मा विजरो विमृत्योर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः(छान्. ८.१.५) इत्यादिषु औपनिषदीषु सरस्वतीषु दहरमाकाशम् सत्यसङ्कल्पवाद्यष्टगुणोपजुष्टम् सेव्यम् विदुः ।   ब्रह्ममीमाम्सकाः  ब्रह्मपुरे शरीरे दहरमल्पम् हृदयम् पुण्डरीकरूपम् वेश्म उपासनस्थानम् । अस्मिन् पुण्डरीके दहरः सूक्ष्म अन्तराकाशः ब्रह्मस्वरूपम् आसमन्तात् काशते इति व्युत्पत्तेः । तस्मिन्नाकाशे यदन्तः कल्याणगुणजातमस्ति तज्जिज्ञास्यम् उपास्यमिति तस्मिन् कामा इत्यपि काम्यन्त इति कल्याणगुणाः विवक्षिताः । अत कामाः एवापहतपाप्मत्वादीनामन्तरमाम्नातमिति ॥ २० ॥

यत्स्वायत्तस्वरूपस्थितिकृतिकनिजेच्छानियाम्यस्वशेष-

अनन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः ।

विश्वैश्शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्यः

तम् वन्दे सुन्दराह्वम् वनगिरिनिलयम् पुण्डरीकायताक्षम् ॥ २१ ॥

य इति – यतो हेतोर्य: स्वायत्तस्वरूपस्थितिकृतिकः  *स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिकः(श्रीरङ्ग) इत्यर्थः । तथा निजसङ्कल्पनियाम्यस्वशेषभूतानन्तकृत्स्नप्रपञ्चश्च ततो हेतोरिह लोके वेदे च अचित्परिणामभूतदेवतिर्यङ्मनुष्यादिशरीरवाचकैश्च शब्दैः जीवात्मैव कृत्स्नैश्चिदचिद्वाचकैश्शन्दैर्वाच्यः । तथा अपहतपुण्यपापतया नित्यमेवास्पृष्टसुखदुःखाद्यवद्यः तम् सुन्दरनामानम् वन्दे । अयम् भावः चेतनाचेतनप्रपञ्चस्य भगवदधीनस्वरूपस्थितिप्रवृत्तितया तन्नियाम्यतया च तच्छरीरकत्वमङ्गीकर्तव्यम् । शरीरवाचकानाम् शब्दानाम् शरीरिपर्यन्तत्वम् च लोके व्युत्पत्तिसिद्धम् । तथा च देवतिर्यङ्मनुष्यादिशरीरपराणाम् शब्दानाम् यथा चेतनशरीरपर्यन्तत्वम् तथा चिदचिद्वाचकानाम् शब्दानाम् सर्वशरीरि भगवत्पर्यन्तत्वमिति सर्वशब्दवाच्यो भगवानिति । अत एव *ज्योतीम्षि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च(वि.पु.२.१२.३९) । तथा *आदित्यनामहम् विष्णुर्ज्योतिषाम् रविरम्शुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहम् शशि(भ.गी.१०.२१) इत्यादिभिः शब्दैः सर्वेश्वरोऽभिधीयते । सर्वशब्दवाच्यत्वम् श्रीरङ्गराजस्तोत्रे (उत्तर-१९) अप्युक्तम् ।  सर्वशब्दवाच्यत्वम् श्रीनिवासस्तोत्रेऽप्यभिहितम् । तत्तद्देहविशेषवाचक पदम् तत्तच्छरीर्यात्मभावानाम् मुख्यवाचकमेव देवमनुजव्याघ्रादि शब्देष्विव । श्रीमन्नञ्जनशैलशेखरमणे कृत्स्नम् जगत्तद्वपुः त्वदीयम् वपुस्त्वम् चात्म इति । ततः पुराणनिगमस्मृत्यागमैर्गीयते ॥ २१ ॥

गुणजम् गुणिनो हि मङ्गलत्वम्

प्रमितम् प्रत्युत यत्स्वरूपमेत्य ।

तमनन्तसुखावबोधरूपम्

विमलम् सुन्दरबाहुमाश्रयामः ॥ २२ ॥

गुणजमिति – गुणिनः चेतनाचेतनात्मकपदार्थजातस्य मङ्गलत्वम् प्राशस्त्यम् गुणजम् प्रशस्तगुणाधीनम् प्रमितम् तथा हि मणिद्युमणिप्रदीपादीनाम् प्रभाप्रसादौज्ज्वल्यादिभिः प्राशस्त्यम् तथा देवमनुष्यादीनाम् ज्ञानशक्तिबलादिभिः तन्मङ्गलवम् यस्य स्वरूपमेत्य प्रत्युत विपरीतम् गुणायत्तमित्यर्थः । *गुणायत्तम् लोके गुणिषु हि मतम् मङ्गलपदम्* इत्यादिना तमनन्तसुखज्ञानरूपमाश्रयामः । अयमर्थो वरदराजशतकेऽप्यनुसम्हितः व्याख्यातम् च तत्रैव ॥ २२ ॥

ईश्वरस्य नित्योदितदशा शान्तोदितदशेति दशाद्वयमस्ति । तत्र प्रथमास्वरूपानुभवदशा | इतरा स्वानुगुणस्वविभूत्यनुभवदशा । तत्र प्रथमाम् अनुसन्धत्ते – अतिपतितेति –

अतिपतितावधिस्वमहिमानुभवप्रभवत्

सुखकृतनिस्तरङ्गजलधीयितनित्यदशम् ।

प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमम्

हरिमिह सुन्दराह्वमुपयामि वनाद्रितटे ॥ २३ ॥

अतिपतितावधेरमर्यादस्य स्वस्य महिमा प्रभावः तस्य अनुभवः तस्मात् प्रभवता सुखेन कृता । निस्तरङ्गजलधीयिता निस्तरङ्गजलधिवदाचरता निरतरङ्गमहोदधिसदृशेति यावत् । तादृशी नित्यदशा यस्य तम् । हेय सुखदुःखरागद्वेषादिसमूह प्रतिभटम् । अप्रतिमम् असदृशम् हरिम् शरणमुपयामीत्यर्थः । जलधीयितेति उपमार्थे क्यच्प्रत्यये कृते रूपे निष्क्रान्तम् पदम् ॥ २३ ॥

सदा षाड्गुण्याख्यैः पृथुलबलविज्ञानशकन-

प्रभावीर्यैश्वर्यैरवधिविधुरैरेधित  दशम् ।

द्रुमस्तोमक्ष्माभृत्परिसरमहोद्यानमुदितम्

प्रपद्येऽध्यारूढश्रियमिममहम् सुन्दरभुजम् ॥ २४ ॥

सदा षाड्गुण्येति – षड्गुणा एव षाड्गुण्यानि षड्गुणनामकैरित्यर्थः । पृथुलपदेन चेतनान्तर्गतवलज्ञानादिव्यावृत्तिः । शकनम् शक्तिः प्रभा तेजः एधितदशम्प्रवर्धिताऽवस्थम् वस्तुप्रभाभिः मणिरिव गुणैः प्रवर्धित इत्यर्थः । षड्गुणानाम् विवेकस्तत्र तत्र स्तोत्र व्याख्याने प्रपञ्चितः ॥ २४ ॥

सौशील्याश्रितवत्सलत्वमृदुतासौहार्दसाम्यार्जवैः

धैर्यस्थैर्यसुवीर्यशौर्यकृतितागाम्भीर्यचातुर्यकैः ।

सौन्दर्यान्वितसौकुमार्यसमतालावण्यमुख्यैर्गुणै-

र्देवः श्रीतरुषण्डशैलनिलयो नित्यम् स्थितस्सुन्दरः ॥ २५ ॥

सौशील्येति – सौशील्यम् नाम महतो मन्दैः सह नीरन्ध्रेण सम्श्लेषः । आश्रितवत्सलत्वम् स्वरक्षणीयवर्गे दोषतिरस्कारिणी प्रीतिः । मृदुता आश्रितविश्लेषासहत्वम् सौहार्दम् सामान्यतो विशेषतश्च सर्वहितैषित्वम् । साम्यम् तत् जातिगुणः वृत्तादिविभागानादरेण सर्वसमाश्रयणीयत्वम् आर्जवम् मनोवाक्कायानामेकरूपत्वम्, धैर्यमत्यन्तानिष्टप्रसङ्गेऽपि अभग्नप्रतिज्ञत्वम्, स्थैर्यम् शरणागतसङ्ग्रहे दोषप्रदर्शकैरन्तरङ्गैरकम्पनीयत्वम् सुवीर्यम् विचित्रयुद्धकरणेऽप्यक्षमत्वम् शौर्यमसहायेऽपि भीमेऽपि परसैन्ये निर्भयप्रवेशसामर्थ्यम्, कृतिता कृतकृत्यत्वम्, गाम्भीर्यम् दुर्विज्ञेय  स्वरूप स्वभावत्वम्, चातुर्यकम् सर्वकार्यकुशलत्वम् । सौन्दर्यम् दृष्टिचित्तापहारिणी अवयवशोभा; सौकुमार्यम् पुष्पादपि मृदुतरगात्रत्वम् । समता सम परिमाणत्वम् । लावण्यम् समुदायशोभा दिव्यात्मदिव्यरूपाश्रितैः सौशील्यादिभिः गुणैः सह सुन्दरो नित्यम् स्थितः सम्स्थित इत्यर्थः । सौशील्यादयः गद्यत्रयव्याख्याने वेदान्ताचार्यैः व्याख्याताः ॥ २५ ॥

येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरम् स्वाश्रयम्

कुर्यात्तादृशवैभवैरगणितैर्निस्सीमभूमान्वितैः ।

नित्यैर्दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदात्माश्रयैः

इद्धम् सुन्दरबाहुमस्मि शरणम् यातो वनाद्रीश्वरम् ॥ २६ ॥

येष्विति – येषु गुणेष्वेकस्य गुणस्य विप्रुडपि लवोऽपि स्वाश्रयम् पुरुषम् लोकोत्तरम् कुर्यात् । तादृशवैभवैः स्वाश्रयपुरुषस्य लोकोत्तरापादकत्ववैभवैरसङ्ख्यातैः निरवधिकप्रभावान्वितैर्दिव्यगुणैः ततोऽधिकगुणैः ततोऽधिकशुभत्वैकास्पदात्माश्रयैः तेभ्यो गुणेभ्योऽधिकम् शुभत्वस्य मङ्गलत्वस्य नियतास्पदम् यद्दिव्यात्मस्वरूपम् तदाश्रयैः गुणाः शुभतराः ततोऽपि शुभतरम् दिव्यात्मस्वरूपमिति भावः । गुणानाम् शुभकरत्वम् दिव्यात्मस्वरूपायत्तमित्यधस्तादनुसम्हितम् । तादृशैर्गुणैरित्थम् समृद्धम् सुन्दरबाहुम् शरणम् यातोऽस्मीत्यर्थः ॥ २६ ॥

सदा समस्तम् जगदीक्षते हि यः

प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः ।

स ईदृशज्ञाननिधिर्निधिस्तु नः

सिम्हाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७ ॥

सदेति – यः स्वतो युगपद्भवन्त्या प्रत्यक्षबुद्ध्या सदा समस्तम् जगत् ईक्षते सः अस्माकम् शेवधिः । अनेन ईश्वरज्ञानस्य इतरवैलक्षण्यम् दर्शितम् ॥ २७ ॥

ऐश्वर्यतेजोबलवीर्यशक्तयः

कीदृग्विधास्सुन्दरबाहुसम्श्रयाः ।

योऽसौ जगज्जन्मलयस्थितिक्रियाः

सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८ ॥

ऐश्वर्येति – जगज्जन्मस्थितलया एव क्रियाः अल्पात् सङ्कल्पात् सङ्कल्पलेशात् यो असौ उपकल्पयति तादृशसुन्दरबाहुम् सम्श्रयाः ऐश्वर्यादयः कीदृग्विधाः ईदृशाः इति वक्तुमशक्याः अवाङ्मनसगोचराः इति यावत् ॥ २८ ॥

यत् कल्पायुतभोगतोऽपि कृशताम् यायान्न तावत्फलम्

येष्वेकस्य तथाविधैस्सततजैरम्होभिरुत्सीमभिः ।

अस्तादाविह सम्सृतावुपचितैश्छन्नम् सुसन्नम् जनम्

सन्नत्या क्षमते क्षणाद्वनगिरिप्रस्थप्रियस्सुन्दरः ॥ २९ ॥

यदिति – यत् पापफलम् कल्पानाम् दशसहस्रभोगतोऽपि कृशत्वम् क्षयत्वम् यायाद्वा न वा तत्फलम् येष्वम्हस्सु एकस्याम्हसः फलम् तादृशैरम्होभिः छन्नम् प्रच्छन्नम् । अत एवावसन्नम् जनम् प्राणिमात्रम् सन्नत्या प्रणाममात्रेण अस्ता निरस्ता आदिर्यस्याः सा तस्याम् अनादाविति यावत् । सम्सृतौ सम्सारे ॥ २९ ॥

यज्जातीयो यादृशो यत्स्वभावः

पादच्छायाम् सम्श्रितो योऽपि कोऽपि ।

तज्जातीयस्तादृशस्तत्स्वभावः

श्लिष्यत्येनम् सुन्दरो वत्सलत्वात् ॥ ३० ॥

यज्जातीयो इति – यज्जातीयो यादृशः देवमनुष्यत्वादिजातीयः यादृशो यादृशकर्मा यत्स्वभावः यादृशशीलः, योऽपि कोऽपि उत्कृष्टापकृष्टो वा पादच्छायासम्श्रितः स्यात् । एनम् तादृग्विधः सम्श्लिष्यति अनुवर्तते । अय श्लोकोऽवतारानुष्ठानपरः ॥ ३० ॥

निहीनो जात्या वा भृशमकुशलैर्वा स्वचरितैः

पुमान्वै यः कश्चिद्बहुतृणमपि स्यादगुणतः ।

भजन्तम् तम् पश्येद्भुजगपतिना तुल्यमपि यो

वनाद्रिप्रस्थस्थः स मम शरणम् सुन्दरभुजः ॥ ३१ ॥

निहीनो इति – अगुणतो दुर्गुणै: बहुतृणमपि स्यात् । ईषदसमाप्तम् तृणम् स्यात् अल्पार्थे बहुच्प्रत्ययः । तुच्छ इत्यर्थः । भुजगपतिनापि शेषेणापि तुल्यम् पश्येदित्यर्थः। अगुणत इति सार्वविभक्तिकस्तसिल् । प्रस्थो नितम्बम् *स्नुः प्रस्थ: सानुरस्त्रियाम्(अमर.२.३.५)* इति अमरसिम्ह ॥ ३१ ॥

एकैकमङ्गलगुणानुभवाभिनन्दम्

ईदृक्त्वियानिति च सुन्दरदोष्णि कृष्णे ।

ते ये शतम् त्विति नियन्तुमनाः श्रुतिर्है

नैवेष वाङ्मनसगोचर इत्युदाह ॥ ३२ ॥

एकैकेति – अत्र श्रुतिः *सैषानन्दस्य मीमाम्सा भवति युवा स्यात् साधुयुवाध्यायकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात्, स एको मानुष आनन्दः । ते ये शतम् मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः(तैत्ति.२.८) इत्यभिधायानेनैव शतगुणितोत्तरोत्तरक्रमेण देवगन्धर्वपितृचिरलोक-कर्मदेवाजानदेवदेवेन्द्रबृहस्पतिप्रजापतिपर्यन्तमभिधायानन्तरमनेनैव क्रमेण प्रवृद्ध *आनन्दो ब्रह्म(बृ.६.१) इति उक्त्वा ततः परम् *यतो वाचो निवर्तन्ते अप्राप्य मनसा सह(तैत्ति.२.४.५) इति ।     श्रुत्यर्थस्तुरङ्गराजस्तोत्रव्याख्याने प्रपञ्चितः । श्लोकार्थस्तु  *सैषानन्दस्य मीमाम्सा भवति(तैत्ति.२.८) इत्यादिश्रुतिः । सुन्दरभुजे कृष्णे एकैकस्वमङ्गलगुणानुभवजनितमानन्दमीदृश इतरचेतनानन्दसदृश इयान् इयत्प्रमाणक इति ते ये शतम् त्विति क्रमेण नियन्तुमना सति शतगुणितोत्तरक्रमेण प्रवृद्ध एष ब्रह्मण आनन्दोऽवाङ्मनसागोचर इत्युदाह ॥ ३२ ॥

अब्जपादमरविन्दलोचनम्

पद्मपाणितलमञ्जनप्रभम् ।

सुन्दरोरुभुजमिन्दिरापतिम्

वन्दिषीय वरदम् वनाद्रिगम् ॥ ३३ ॥

अब्जमिति – अब्जसदृशपादम् पद्मसदृशपाणितलम् सुन्दरोरुभुजमिति नामधेयम् । उरु पृथुलम् ॥ ३३ ॥

कनकमरकताञ्जनद्रवाणाम्

मथनसमुत्थितसारमेलनोत्थम् ।

जयति किमपि रूपमस्य तेजो

वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४ ॥

कनकेति – अस्य सुन्दरस्य किमपि रूपम् प्रत्येकम् कनकादिद्रवाणाम् मथनेन समुत्थिता ये प्रत्येकम् साराम्शाः तेषाम् मेलनेन मिश्रेणेनोत्थमुद्भूतम् तेजोद्रव्यम् जयति नन्दनमुद्यानम् अथवा नन्दनम् सन्तोषकरम् तेजोरूपमिति तेजोमयम् रूपमित्यर्थः ॥ ३४ ॥

किम् नु स्वयम् स्वात्मविभूषणम् भवन्

असावलङ्कार इतीरितो जनैः ।

वर्धिष्णुबालद्रुमषण्डमण्डितम्

वनाचलम् वा परितः प्रसाधयन् ॥ ३५ ॥

किन्विति – सुन्दरबाहोरलङ्कार इति नाम | तत्र निमित्तम् उत्प्रेक्षते स्वयमेव स्वात्मविभूषणम् भवन् किम् नु वनाचलम् अलङ्कुर्वन्वेत्यर्थः ॥ ३५ ॥

पुनरप्यलङ्कारसमाख्यानिमित्तमनुसन्धत्ते – सुखेति –

सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः

सुसौगन्ध्यैः  दिव्याभरणगणदिव्यायुधगणैः ।

अलङ्कार्यैस्सर्वैर्निगदितमलङ्कार इति यः

समाख्यानम् धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥ ३६ ॥

सर्वेश्वरशरीरवन्नित्यैः कुसुमसुकुमारावयवाभरणैर्सुखप्रदैर्दिव्याभरणगणैः दिव्यायुधगणैः दिव्यायुधानामप्यलङ्कारत्वमस्तीति अलङ्कार्यैर्दिव्यमङ्गलविग्रहेणालङ्कारार्हैर्निगदितम् कीर्तितम्  समाख्यानम् नाम अलङ्काराणामप्यलङ्कारतया अलङ्कार नाम धत्त इति भावः ॥ ३६ ॥

मकुटमकुटमालोत्तम्सचूडाललाम-

स्वलकतिलकमालाकुण्डलैस्सोर्ध्वपुण्ड्रैः ।

मणिवरवनमालाहारकेयूरकण्ठ्यैः

तुलसिकटककाञ्चीनूपुराद्यैश्च भूषैः ॥ ३७ ॥

असिजलजरथाङ्गैः शार्ङ्गकौमोदकीभ्याम्

अगणितगुणजालैरायुधैरप्यथान्यैः ।

सततविततशोभम् पद्मनाभम् वनाद्रेः

उपवनसुखलीलम् सुन्दरम् वन्दिषीय ॥ ३८ ॥

मकुटश्च मकुटमाल च मकुटवेष्टनमाला मकुटमाला इत्यर्थः |  शिरोभूषणम् मकुटमालैव उत्तम्सः | चूडा केशबन्धः प्रशस्ता चूडा चूडा ललाम चूडा आभरणविशेषो वा, ललामतिलको वा । शोभना अलकाः स्वलकाः तिलकानाम् मौक्तिकनद्धाग्राणाम् सौवर्णतिलकानाम् मालामणिवरः कौस्तुभः केयूरमङ्गदम् कण्ठ्यम् कण्ठाभरणम्  कटको हस्ताभरणम् भूषैर्भूषणैः ॥ ३७ ॥

असि जलजेति – असि जलजरथाङ्गैः खड्गशङ्खसुदर्शनैः कौमोदकी गदा अगणितैः असङ्ख्यातैः तत्तदायुधोचितगुणगणैः अन्यैर्हलमुसलादिभिः सततविततशोभम् सर्वदा विस्तृतशोभम् सुखलीलम् सुखकरलीलम् ॥ ३८ ॥

आजानज  स्वगत  बन्धुरगन्धलुब्ध-

भ्राम्यद्विदग्धमधुपालिसदेशकेशम् ।

विश्वाधिराज्यपरिबर्हकिरीटराजम्

है! सुन्दरस्य बत ! सुन्दरमुत्तमाङ्गम् ॥ ३९ ॥

आजानजेति – सहजकेशगतनानाविधगन्धेषु लुब्धानाम् अभिलाषुकाणाम् भ्राम्यताम् विदग्धानाम् प्रवीणानाम् मधुपानाम् आलिभिः  पङ्क्तिभिः सदेशकेशम् समानदेशकेशम् सदृशम् केशमिति वा परिबर्ह उपकरणम् ॥ ३९ ॥

अन्धम् तमस्तिमिरनिर्मितमेव यत्स्यात्

तत्सारसाधितसुतन्त्वतिवृत्तवार्तम् ।

ईशस्य केशवगिरेरलकालिजालम्

तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४० ॥

अन्धन्तम इति – तिमिरनिर्मितम् यदन्धम् तमः स्यात् तिमिरमिति तमोमात्रम् सान्द्रतिमिरमन्धन्तम इत्यर्थः । तस्य साराम्शैः साधितानाम् निर्मितानाम् सुतन्तूनामतिक्रान्तसाम्यम् कथम् केशवगिरिर्वनाद्रिः अलकालिजालम् अलकपङ्क्तिसम्योगः वनाद्रिम् वर्णयति । तत्तुल्येति तस्यालकालिजालस्य समान कुलीनैः मधुपैराढ्यम् परिपूर्णम् महावनम् यस्य तस्य तत्तुल्यकुल्यमधुपाढ्यमहावनस्य विराजते ॥ ४० ॥

जुष्टाष्टमीकज्वलदिन्दुसन्निभम्

धृतोर्ध्वपुण्ड्रम् विलसद्विशेषकम् ।

भूम्ना ललाटम् विमलम् विराजते

वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१ ॥

जुष्टाष्टमीति – धृतोर्ध्वपुण्ड्रम् तदानीम् प्राप्ताष्टमीकप्रकाशमानमिन्दुसदृशम् विलसत्पत्रकम् भूम्ना अतिशयेन ॥ ४१ ॥

सुचारुचापद्वयविभ्रमम् भ्रुवोः

युगम् सुनेत्राह्वसहस्रपत्रयोः ।

उपान्तगम् वा मधुपावलीयुगम्

विराजते सुन्दरबाहुसम्श्रयम् ॥ ४२ ॥

सुचारुचाप इति – सुन्दरबाहुसम्श्रितम् भ्रुवोर्युगम् नेत्रनामकपद्मयोः समीपगतम् भ्रमरपङ्कत्योर्युगमिव विराजते अत्र वा शब्दः इवार्थे ॥ ४२ ॥

वनाद्रिनाथस्य विशालयोर्दृशोर्विसदृशम् अब्जम् कथम् निदर्शनम् उपमानम् । वैसादृश्यमेवाह अदीर्घमित्यादिना – अदीर्घमिति –

अदीर्घमप्रेमदुघम् क्षणोज्ज्वलम्

न चोरमन्तःकरणस्य पश्यताम् ।

अनुब्जमब्जम् नु कथम् निदर्शनम्

वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३ ॥

प्रेम सौहार्दम् दोग्धीति प्रेमदुघम् न प्रेमदुघम् । *दुहः  कब्धश्च(अ.३.२.७०)* इति घप्रत्ययः । अन्तःकरणस्य न चोरम् चोरयतीति चोर अपहारी न मनोहरमित्यर्थः । उब्जम् ऋजुः उब्ज आर्जव इति धातुः । अनुब्जमनृजु एकम् स्वभावम् न भवतीति यावत् ॥ ४३ ॥

प्रश्च्योतत्प्रेमसारामृतरसचुलकप्रक्रमप्रक्रियाभ्याम्

विक्षिप्तालोकितोर्मिप्रसरणमुषितस्वान्तकान्ताजनाभ्याम् ।

विश्वोत्पत्तिप्रवृत्तिस्थितिलयकरणैकान्तशान्तक्रियाभ्याम्

देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षतामीक्षणाभ्याम् ॥ ४४ ॥

प्रश्च्योतदिति – प्रच्योतन् प्रस्रवन् प्रेमसारः स्नेहसार एवामृतरसो ययोस्तौ । तौ च तौ चुलुकौ च प्रक्रमः प्रकारः । प्रक्रिया व्यापारः । तादृशचुलुकयोः प्रक्रमप्रक्रियौ ययोस्ते अमृतरसपरिपूर्णकरतलचुलुकसदृशे तद्व्यापारे च भगवल्लोचने इत्यर्थः । अमृतरसस्य चुलुकाविति वा विक्षिप्तेति प्रेरितालोकतरङ्गप्रसारमुषितान्तःकरणै कान्तासमूहाभ्याम् जगदुत्पत्त्यादिकारणेषु नियमेनाक्रूरव्यापाराभ्याम् पक्षपातरहिताभ्यामिति यावत् वीक्षताम् पश्य ॥ ४४ ॥

प्रेमामृतौघपरिवाहिमहाक्षिसिन्धु-

मध्ये प्रबद्धसमुदञ्चितसेतुकल्पा ।

ऋज्वी सुसुन्दरभुजस्य विभाति नासा

कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५ ॥

प्रेम इति – प्रेमैवामृतौघम् परिवहत इति प्रेमामृतौघा च ते परिवाहिनी ते च ते महाक्षिणी च त एव सिन्धुस्तस्या मध्ये प्रबन्धशोभितसेतुकल्पा ॥ ४५ ॥

व्याभाषिताभ्यधिकनन्दनभन्दनद्धि

मन्दस्मितामृतपरिस्रव सम्स्तवाढ्यम् ।

आभाति विद्रुमसमाधरमास्यमस्य

देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६ ॥

व्याभाषितेति-  व्याभाषणेन जनितानन्देन भन्दनम् कल्याणसमृद्धिर्यस्य तत् । भदि कल्याणे सुखे चेति धातुः । मन्दस्मितरूपामृतस्य यः परिसवः तेन सम्स्तवः परिचयः तेनाढ्यम् सम्पन्नम् सर्वदा सस्मितमिति भावः ॥ ४६ ॥

यशोदाङ्गुल्यग्रोन्नमितचुबुकाघ्राणमुदितौ

कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ ।

विराजेते विष्वग्वितत  सहकारासवरस-

प्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेः सुन्दरहरेः ॥ ४७ ॥

यशोदाङ्गुल्येति – चुबुकमोष्ठाधस्तात्प्रदेशः कौतुकवशात् यशोदया अगुल्यग्रोन्नमितचुबुकम् ययोस्तौ च तावाघ्राणेन मुदितौ च अद्यापि कालाविप्रकर्षेऽपि प्रफुल्लतया अनुवर्तमानतदाघ्राणजनितहर्षसूचकौ विष्वग्विततेति वनगिरिवर्णनम् सर्वतो विस्तीर्णसहकारमधुभिः प्रमाद्यत् भृङ्गपरिपूर्णद्रुमस्य वनाद्रेरित्यर्थः ॥ ४७ ॥

व्यालम्बिकुण्डलम् उदग्रसुवर्णपुष्प-

निष्पन्नकल्पलतिकायमलानुकारम् ।

यत्कर्णपाशयुगलम् निगलम् धियाम् नः

सोऽयम् सुसुन्दरभुजो वनशैलभूषा ॥ ४८ ॥

व्यालम्बीति – पुष्पितफलितकल्पलताद्वयानुकरणम् नः धियाम् ज्ञानसन्ततिनिर्गलम् श्रृङ्खलम् स्वसौन्दर्यातिशयेन शब्दादिविषयान्तरसञ्चारनिरोधकमिति यावत् | यस्य कर्णपाशयुगलम् ॥ ४८ ॥

सदम्स  सम्सञ्जित  कुन्तलान्तिका-

वतीर्णकर्णाभरणाढ्यकन्धरः ।

सुबन्धुरस्कन्ध  निबन्धनो युवा

सुसुन्दरः सुन्दरदोर्विजृम्भते ॥ ४९ ॥

सदम्सेति – सन्तौ च तावम्सौ च तत्र सञ्जिताः सञ्जिता अलकाः तेषाम् समीपे अवतीर्णाभ्याम् लम्बमानाभ्याम् कर्णाभरणाभ्याम् परिपूर्णकण्ठः सुबन्धुरस्कन्धनिबन्धनः निम्नोन्नतस्कन्धसन्निवेशः स्कन्ध इति कण्ठस्यापरभागः सुसुन्दर इति नामधेयम् सुन्दरौ दोष्णौ भुजौ यस्य स तथोक्तः | उभयोर्नामधेयत्वे पर्यायत्वम् स्यात् ॥ ४९ ॥

व्यूढगूढभुजजत्रुमुल्लसत् कम्बुकन्धरधरम् धराधरम् ।

वृक्षषण्डमयभूभृतस्तटे सुन्दरायतभुजम् भजामहे ॥ ५० ॥

व्यूढगूढेति – व्यूढभुजम् विभक्तभुजम् गूढजत्रुम् निमग्नजत्रुम् स्कन्धाम्सयोः सन्धिप्रदेशे-जत्रुणी शोभमानशङ्खसदृशकण्ठधरम् भूमिधरम् ॥ ५० ॥

मन्दरभ्रमणविभ्रमोद्भटाः सुन्दरस्य विलसन्ति बाहवः ।

इन्दिरासमभिनन्दभन्दनाः चन्दनागुरुविलेपभूषिताः ॥ ५१ ॥

मन्दरेति – मन्दर भ्रमणमेव विभ्रमः तत्र उद्भटा उदीर्णाः इति हा । इन्दिरायाः समभिनन्द आनन्दः तेन नन्दनाः कल्याणाः । भदि कल्याणे सुखे चेति धातुः ॥ ५१ ॥

ज्याकिणाङ्कपरिकर्मधर्मिणो

भान्ति सुन्दरभुजस्य बाहवः ।

पारिजातविटपायितर्द्धयः

प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२ ॥

ज्याकिणाङ्केति – ज्याकिणाङ्क एव परिकर्मालङ्कारः तेन धर्मिणः तदाश्रया इति यावत् । पारिजातविटपवदाचरितसमृद्धयः । प्रार्थितानामर्थानाम् परिदाने दीक्षिताः ईक्षावन्तः ॥ ५२ ॥

सागराम्बरतमालकानन-

श्यामलर्द्धय उदारपीवराः ।

शेषभोगपरिभोगभागिनः

तन्निभा वनगिरीशितुर्भुजाः ॥ ५३ ॥

सागरेति – सागरश्चाम्बरम् च तमालकाननम् चेति द्वन्द्वः । उदारा वदान्याः पीवरा माम्सलाः | शेषस्य भोगः शरीरम् तस्मिन् परिभोगो विभवः, तद्भागिनः तन्निभाः शेषभोगसदृशाः ॥ ५३ ॥

अहमहमिकाभाजो गोवर्धनोद्धृतिनर्मणि

प्रमथनविधावब्धेर्लब्धप्रबन्धसमक्रियाः ।

अभिमतबहूभावाः कान्ताभिरम्भणसम्भ्रमे

वनगिरिपतेर्बाहाश्शुम्भन्ति सुन्दरदोर्हरेः ॥ ५४ ॥

अहमहमिकेति – अहम् पूर्वमहम् पूर्वमिति योऽभिमानः सा अहमहमिका । तद्भाजः उद्धृतिरेव नर्म क्रीडा, लब्धाः प्राप्ताः, प्रबन्धा अनुस्यूताः, समास्तुल्याः क्रिया व्यापारा याsaaम् ता अभिरम्भणम् परिरम्भणम् स एव सम्भ्रमरतत्र अभिमतो बहुभावो बहुत्वसङ्ख्यायोगो येषाम् ते शुम्भन्ति शोभन्ते शुभशुम्भशोभार्थ इति धातुः ॥ ५४ ॥

श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्मम्

आरूढयोर्विमलशङ्खरथाङ्गयोस्तु ।

एकोऽब्जमाश्रित इवोत्तमराजहम्सः

पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५ ॥

श्रीमद्वनाद्रीति – पाणितलमेवाब्जयुग्मम् आरूढ्योरारोहितयोः तत् पद्मम् समितः प्राप्तः इयमभूतोपमा ॥ ५५ ॥

लक्ष्म्याः पदम् कौस्तुभसम्स्कृतम् च

श्रीवत्सभूमिर्विमलम् विशालम् ।

विभाति वक्षो वनमालयाऽऽढ्यम्

वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६ ॥

लक्ष्म्या इति – पदम् सम्स्थानम् सम्स्कृतमलङ्कृतम् ॥ ५६ ॥

सौन्दर्यामृतसारपूरपरिवाहावर्तगर्तायितम्

यातः किञ्च विरिञ्चसम्भवन  भूम्यम्भोजसम्भूतिभूः ।

नाभिश्शुम्भति कुम्भिकुम्भनिभनिर्भात  स्तन स्वर्वधू-

सम्भुक्तद्रुमषण्डशैलवसतेरारूढलक्ष्म्या हरेः ॥ ५७ ॥

सौन्दर्येति – हरेर्नाभिः शुम्भति । कीदृशः सौन्दर्यमेवामृतसारस्तस्य पूरः ओघस्तस्य परीवाहो निर्गमः प्रवाहः । तत्र जात आवर्त इति मध्यमपदलोपी समासः । स एव गर्तो रन्ध्रम् गर्तायितम् गर्तवदाचरणम् यातः प्राप्तः भावे निष्ठा । तादृगावर्तगर्तसदृश इति यावत् । किम् च विरञ्चिसम्भवनम् जन्म तस्य भूमिः स्थानम् तादृशमेवाम्भोजम् तस्य सम्भूतिभूः जन्मभूः कुम्भीगजः तस्य कुम्भौ मस्तकपिण्डौ तयोर्निभौ सदृशौ निर्भातौ द्योतितौ स्तनौ यासाम् ताः ताश्च स्वर्वध्वश्च ताभिः सम्भुक्तद्रुमषण्डशैलो वसतिर्यस्य स तथोक्तः ॥ ५७ ॥

सुन्दरस्य किल सुन्दरबाहोः

श्रीमहातरुवनाचलभर्तुः ।

हन्त ! यत्र निवसन्ति जगन्ति

प्रापितक्रशिम तत्तनु मध्यम् ॥ ५८ ॥

सुन्दरस्येति – यत्र जगन्ति निवसन्ति तत्तनुमध्यम् प्रापितक्रशिम प्रापितकार्श्यम् । हन्तेत्याश्चर्ये । महदाश्रयस्य महत्त्वम् युक्तम् न तु कार्श्यम् । मध्यम् त्वनेकजगदाश्रयमपि कृशम् भवति तदाश्चर्यमिति भावः ॥ ५८ ॥

पिष्टदुष्टमधुकैटभकीटौ

हस्तिहस्तयुगलाभसुवृत्तौ ।

राजतः क्रमकृशौ च सदूरू

सुन्दरस्य वनभूधरभर्तुः ॥ ५९ ॥

पिष्टदुष्टेति – मधुकैटभावेव कीटौ क्षुद्रजन्तू दुष्टौ तावूरुभ्याम् पिष्टाविति पुराणप्रसिद्धिः । क्रमकृशौ उपर्यधोभागक्रमेण कृशौ ॥ ५९ ॥

यौवनवृषककुदोद्भेदनिभम् नितराम्

भाति विभोरुभयम् जानु शुभाकृतिकम् ।

सुन्दरभुजनाम्नो मन्दरमथिताब्धेः

चन्दनवनविलसत्कन्दरवृषभपतेः ॥ ६० ॥

यौवनेति – यौवनमेव वृषः तस्य ककुदम् तस्योद्भेद उच्छायस्वन्निभम् उभयविधम् जानुपदम् जात्येकवचनम् । शुभाकृतिकम् शुभाकारम् चन्दनवनेन विलसन्ती कन्दरा गुहा यस्य स चासौ वृषभश्च तस्य पतिः वृषभपति इति पर्वतनामधेयम् ॥ ६० ॥

अधोमुखम् न्यस्तपदारविन्दयोः

उदञ्चितोदात्तसुनालसन्निभम् ।

विलङ्घ्य जङ्घे क्व नु रम्हतो दृशौ

वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१ ॥

अधोमुखेति – पादावेवारविन्दे अधोमुखन्यस्ते च ते पदारविन्दे च तयोः उदञ्चिते पूजिते । उदात्ते उद्धृते सुनाले तत्सन्निभे तादृशे जङ्घे विलङ्घ्य मे दृशौ क्व नु रम्हतः क्व नु गच्छतः । लावण्यातिशयात्तत्रैव निमग्न इति भावः ॥ ६१ ॥

सुसुन्दरस्यास्य पदारविन्दे

पादारविन्दाधिकसौकुमार्ये ।

अतोऽन्यथा ते बिभृयात्कथम् नु

तदासनम् नाम सहस्रपत्रम् ॥ ६२ ॥

सुसुन्दरस्येति – पादयोरधिष्ठानमरविन्दम् पदारविन्दम् तस्मादधिकम् सौकुमार्यम् ययोस्तेतदेवोपपादयति । अतोन्यथेति अस्मात् प्रकारात् अन्यथा चेदित्यर्थः । तदासनम् तयोः पादारविन्दयोरधिष्ठानम् सहस्रपत्रम् ते पादारविन्दे कथम् नु साम्यम् बिभृयात् । ततोऽल्पसौकुमार्यतया पराजितत्वेन ते बिभर्तीत्यर्थः ॥ ६२ ॥

सौन्दर्यमार्दव  सुगन्धरसप्रवाहैः

एते हि सुन्दरभुजस्य पदारविन्दे ।

अम्भोजडम्भ  परिरम्भणमभ्यजैष्टाम्

तद्वै पराजितमिमे शिरसा बिभर्ति ॥ ६३ ॥

सौन्दर्येति – सुन्दरभुजस्य एते पदारविन्दे सौन्दर्यादयः एव अमृतरसास्तेषाम् प्रवाहैरम्भोजस्य यो दम्भोऽहङ्कारः तस्य परिरम्भणम् सम्सर्गमभ्यजैष्टाम् जितवती । जि जय इति धातोर्लुङि परस्मैपदद्विवचनम् । तदेवोपपादयति । तदम्भोजम् पराजितम् सत् स्वयमासनाव्जम् भूत्वा इमे पादारविन्दे शिरसा बिभर्ति । अयमुत्प्रेक्षालङ्कारः ॥ ६३ ॥

एते ते बत सुन्दराह्वयजुषः पादारविन्दे शुभे

यन्निर्णेज  समुत्थित  त्रिपथगास्रोतस्सु किञ्चित्किल ।

धत्तेऽसौ शिरसा ध्रुवस्तदपरम् स्रोतो भवानीपतिः

यस्यास्यालक  नन्दिकेति निजगुर्नामैवमन्वर्थकम् ॥ ६४ ॥

एते इति – सुन्दराह्वयजुषः सुन्दरनामधेयभाजः पादारविन्दे शुभे पवित्रे ययोर्निर्णेजनेन प्रक्षालनेन समुत्थितायास्त्रिपथगायाश्चतुर्षु सिता अलकनन्दा चक्षुर्भद्राख्येषु स्रोतस्सु किञ्चिदेकम् स्रोतः शिरसा ध्रुवो धत्ते तन्त्तिविधा भूतम् तत्र एकम् स्वर्गगामि अन्यत् पातालगामि त्रिधाभूतात्तस्मादपरम् स्रोतः शिवो धत्ते यस्यालकनन्दिकेति नाम अन्वर्थम् निजगुः पौराणिकाः । अलकम् शिरोभागम् नन्दयतीति व्युत्पत्तेः । तदुक्तम् – *जगतः पावनार्थाय सा प्रयाता चतुर्दिशम् । सीता चालकानन्दा च चक्षुर्भद्रा च वै क्रमात्(वि.पु.२.२.३३)* इति । एतत्सर्वम् वरदराजस्तोत्रेऽनुसम्हितम् ॥ ६४ ॥

आम्नायकल्पलतिकोत्थसुगन्धिपुष्पम्

योगीन्द्रहार्दसरसीरुहराजहम्सम् ।

उत्पक्वधर्मसहकारफलप्रकाण्डम्

वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५ ॥

आम्नायेति – आम्नाय एव कल्पलतिका तस्या उद्भूतम् शोभनगन्धम् पुष्पहृत्सम्बन्धि हार्दम् सरसीरुहम् तत्र राजहम्सः धर्म एव सहकारवृक्षः तो फलप्रकाण्डम् फलश्रेष्ठम् ॥ ६५ ॥

सुसुन्दरस्यास्य तु वामनाकृतेः

क्रमत्रयप्रार्थिनि मानसे किल ।

इमे पदे तावदिहासहिष्णुनी

विचक्रमाते त्रिजगत् पदद्वये ॥ ६६ ॥

सुसुन्दरस्येति – बलिचक्रवर्तिनम् प्रतिविक्रमत्रयप्रार्थिनि सति इमे पदे चरणौ त्रिजगत् त्रयाणाम् जगताम् समाहारस्त्रिजगत् तत्परस्परासहिष्णुनि सति अहमेव विक्रमत्रयम् करिष्यामि अहमेवेति परस्परमसहमाने इत्यर्थः । विक्रमत्रयमपि पदद्वयेऽपि क्रमद्वयेद्विचक्रमाते आक्रान्तवति विक्रमेनावशेष इति भावः ॥ ६६ ॥

सौन्दर्यसारामृतसिन्धुवीची-

श्रेणीषु पादाङ्गुलिनामिकासु ।

न्यक्कृत्य चन्द्रश्रियमात्मकान्त्या

नखावली शुम्भति सुन्दरस्य ॥ ६७ ॥

सौन्दर्यसारेति – सौन्दर्यसारामृतनदीत्वेन रूपयित्वापादाङ्गुलीस्तस्य वीचित्वेन रूपयित्वा तत्र प्रतिफलितचन्द्रपङ्क्तित्वेन नखावलीर्वर्णयति पादाङ्गुलिनामिकासु पादाङ्गुलिव्यपदेशासु प्रतिफलितचन्द्रश्रियम् तिरस्कृत्य ॥ ६७ ॥

यो जातक्रशिमा मली च शिरसा सम्भावितश्शम्भुना

सोऽयम् यच्चरणाश्रयी शशधरो नूनम् नखव्याजतः ।

पूर्णत्वम् विमलत्वम्  उज्ज्वलतया सार्धम् बहुत्वम् तथा

यातस्तम् तरुषण्डशैलनिलयम् वन्दामहे सुन्दरम् ॥ ६८ ॥

यो जात इति  – मली मलिनः शिरसा सम्भावितः धृत उपलालित इति वा नख व्याजतो नखव्यपदेशात् बहुत्वम् बहुमानम् बहुसङ्ख्यायोगम् व अपक्वपुरुषैः शिरसा बहुमानादपि उत्कृष्टपुरुषपादसेवा गरीयसीति भावः ॥ ६८ ॥

यस्याः कटाक्षणमनुक्षणमीश्वराणाम्

ऐश्वर्यहेतुरिति सर्वजनीनमेतत् ।

श्रीस्सेति सुन्दरनिषेवणतो निराहुः

तम् हि श्रियः श्रियमुदाहुरुदारवाचः ॥ ६९ ॥

यस्या इति – ईस्वराणामिन्द्रादीनाम् सार्वजनीनम् सर्वजनप्रसिद्धम् सा श्रीरिति निराहुः । श्रयतीति श्रीरितिव्युत्पत्त्या श्रीशब्दस्य निर्वचनम् ब्रूयुरित्यर्थः । त्वाम् श्रियोऽपि श्रियमतिशयाधायकम् वाल्मीकिप्रभृतयः प्राहुः । तदुक्तम् श्रीरामायणे *श्रियः श्रीश्च भवेदग्र्या कीर्त्या कीर्तिः क्षमाक्षमा(रा.अयो.४४.१५) इति । श्रीवैकुण्ठस्तवेऽप्ययम् श्लोकोऽनुसम्हितः ॥ ६९ ॥

दिव्याचिन्त्य  महाद्भुतोत्तमगुणैः तारुण्यलावण्यक-

प्रायैरद्भुतभावगर्भसततापूर्वप्रियैर्विभ्रमैः ।

रूपाकारविभूतिभिश्च सदृशीम् नित्यानपेताम् श्रियम्

नीलाम् भूमिमपीदृशीम् रमयिता नित्यम् वनाद्रीश्वरः ॥ ७० ॥

दिव्येति – दिव्या अप्राकृताः इदमित्थमिति चिन्तयितुमनर्हा अचिन्त्या अद्भुताः आश्चर्यकराः तादृशैर्दिव्य स्वरूपगुणैः तथा तारुण्यकम् यौवनम् लावण्यकमवयवशोभा तत्प्रचुरैः एते दिव्यविग्रहगुणाः तथा अद्भुतैः सततापूर्वैः सदाभिनवैः  प्रियैर्विभ्रमैर्विलासैः रूपम् विग्रहः आकारोऽवयवसन्निवेशः विभूतिरैश्वर्यम् नित्यानपेताम् नित्यानपायिनीम् सर्वात्मना सदृशीम् श्रियम् रमयिता प्रीणयिता ईदृशीम् श्रियमिव सर्वात्मना सदृशीम् भूमिनीलाम् रमयितेत्यत्र तृन्प्रत्ययान्तम् पदम् । अन्यथा तृच्प्रत्यययोगे षष्ठी स्यात् ॥ ७० ॥

अन्योन्य  चेष्टित  निरीक्षणहार्दभाव-

प्रेमानुभाव  मधुरप्रणयप्रभावः ।

आजस्रनव्यतरदिव्यरसानुभूतिः

त्वाम् प्रेयसीम् रमयिता वनशैलनाथः ॥ ७१ ॥

अन्योन्येति – अत्र प्रेमानुभावशब्देन रत्यादयः शृङ्गारादिरसानाम् पूर्वावस्था स्थायीभावा विवक्षिताः । प्रणयभावशब्देन रसात्मना परिणताः शृङ्गारादिरसा विवक्षिताः । स्थायीभावाः शृङ्गारादिरसाच्च  पूर्वकालभाविभिरन्योन्यचेष्टितैः अन्योन्यनिरीक्षणैः सह कालभाविभिरन्योन्यहार्दभावैः निर्वेदग्लान्यादिभिः सन्धुक्षितः प्रेमानुभाव इति मध्यमपदलोपी समासः । तादृश प्रेमानुभावमधुरप्रणयभावो यस्य स तथोक्तः । प्रणयभावस्य मधुरत्वम् नाम स्वादुतरत्वम्; आजस्रनव्यतरदिव्यरसानुभूतिरिति स्वरूपानन्दानुभवो विवक्षितः । अजस्रमेवाऽऽजस्रम् आजस्र नव्यतरा सर्वदा अपूर्वा दिव्यरसस्य स्वरूपानन्दस्या नन्दानुभूतिर्यस्य स तथोक्तः । स्वाम् स्वकीयामत्रान्योन्यचेष्टितनिरीक्षणेत्यादिपदम् आजस्रनव्यतरेत्यादिपदम् च स्त्रीलिङ्गत्वेन विपरिणमय्य लक्ष्मीविशेषणत्वेनाप्यनुसन्धेयम् ॥ ७१ ॥

सुन्दरस्य वनशैलवासिनो

भोगमेव निजभोगमाभजन् ।

शेष एष इति शेषताकृतेः

प्रीतिमानहिपतिः स्वनामनि ॥ ७२ ॥

सुन्दरस्येति – निजभोगम् निजशरीरम्; भोगम् भोगसाधनम् आभजन् कुर्वन् शेषताकृतेः शेषत्वकारणाद्धेतोः शेष एष इति

प्रसिद्धे स्वनाम्नि अहिपतिः प्रीतिमान् ॥ ७२ ॥

वाहनासन  वितानचामरा-

द्याकृतिः खगपतिस्त्रयीमयः ।

नित्यदास्यरतिरेव यस्य वै

ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३ ॥

वाहनेति – भगवदभिमत तत्तत्कैङ्कर्योचितस्वरूप इत्यर्थः । यस्य वै यत्सम्बन्धीत्यर्थः । त्रयीमयो वेदमयः । वेदमयत्वम् च श्रीरङ्गराजस्तोत्रव्याख्याने प्रपञ्चितम् ॥ ७३ ॥

वनाद्रिनाथस्य सुसुन्दरस्य वै

प्रभुक्तशिष्टाश्यथ सैन्यसत्पतिः ।

समस्तलोकैकधुरन्धरस्सदा

कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४ ॥

वनाद्रिनाथस्येति – प्रभुक्तशिष्टाशी भुक्तशेषभोजी सर्वकर्मसु सृष्ट्यादिषु कटाक्षवीक्ष्यः इङ्गितमात्रप्रेर्य इति भावः ॥ ७४ ॥

छत्रचामरमुखाः परिच्छदाः

सूरयः परिजनाश्च नैत्यगाः ।

सुन्दरोरुभुजमिन्धते सदा

ज्ञानशक्तिमुखनित्यसद्गुणाः ॥ ७५ ॥

छत्रचामरेति – नित्य कर्तव्यम् कैङ्कर्यम् नैत्यम् तद् गच्छन्तीति नैत्यगाः । इन्धते दीपयन्ति । नित्यसूरिपरिजनपरिच्छदकल्याणसद्गुणैः प्रकाशत इत्यर्थः ॥ ७५ ॥

द्वारनाथगणनाथतल्लजाः

पारिषद्यपदभागिनस्तथा ।

मामकाश्च गुरवः सनातनाः

सुन्दरम् वनमहीध्रगम् श्रिताः ॥ ७६ ॥

द्वारनाथेति – द्वारनाथतल्लजाः द्वारपालश्रेष्ठाः चण्डप्रचण्डादयः; गणनाथतल्लजाः कुमुदकुमुदाक्षादयः दिव्याः परिषद्यपदभाजः भगवत्सायुज्यम् गताः शठकोपनाथयामुनरामानुजमुनिप्रभृतयो मदीयगुरवो वनमहीध्रम् गच्छन्तीति वनमहीन्द्रगास्तम् सम्श्रिताः ॥ ७६ ॥

ईदृशैः परिजनैः परिच्छदैः

नित्यसिद्धनिजभोगभूमिगः ।

सुन्दरो वनगिरेस्तटीषु वै

रज्यते सकलदृष्टिगोचरः ॥ ७७ ॥

ईदृशैरिति – नित्यसिद्धम् सर्वदा सिद्धम् निज्भोगभूमिर्दिव्यस्थानम् परमपदनिलयः एवात्रार्चात्मनावतीर्ण इति भावः | रज्यते अनुरक्तो भवति अकर्मकर्तरिप्रयोगः ॥ ७७ ॥

आक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु

वैकुण्ठधामनि समृद्धसुवापिकासु ।

श्रीमल्लतागृहवतीषु यथा तथैव

लक्ष्मीधरस्सजति सिम्हगिरेस्तटीषु ॥ ७८ ॥

आक्रीडभूमिष्विति – लक्ष्मीधरः वैकुण्ठधामनि यथा आक्रीडभूमिप्रभूषु सज्जति सम्सक्तो भवति तथैव सिम्हगिरेस्तटीषु सज्जतीत्यन्वयः | आक्रीडभूमिषु उद्यानभूमिषु कीदृशीषु पौष्पिकीषु पुष्पप्रचारसु समृद्धिषु सम्पत्सु ॥ ७८ ॥

आनन्दमन्दिरमहामणिमण्टपान्तः

लक्ष्म्या भुवाऽप्यहिपतौ सह नीलया च ।

निस्सङ्ख्यनित्यनिजदिव्यजनैकसेव्यो

नित्यम् वसन् सजति सुन्दरदोर्वनाद्रौ ॥ ७९ ॥

आनन्दमन्दिरेति – आनन्दमन्दिरमानन्दस्थानम् मण्टपान्तर्मण्टपोदरे नित्यम् वसन् सम्प्रति वनाद्रिम् प्रति सजतीत्यर्थः ॥ ७९ ॥

प्रत्यर्थिनि त्रिगुणकप्रकृतेरसीम्नि

वैकुण्ठधामनि पराम्बरनाम्नि नित्ये ।

नित्यम् वसन् परमसत्त्वमयेऽप्यतीत-

योगीन्द्रवाङ्मनस एष हरिर्वनाद्रौ ॥ ८० ॥

प्रत्यर्थिनीति – त्रिगुणमयप्रकृतेः प्रत्यर्थिनि प्रतिभटे हेयप्रतिभट इति यावत् । असीम्नि अनन्तपरिमाणे परमाम्बरनाम्नि परमाकाशपरमव्योम्नि नाम परमसत्त्वमये रजस्तमोभ्यामनवष्टब्धे शुद्धसत्त्वमये कल्याणैकतान इति यावत् । एवम् विधे वैकुण्ठे वसन्नपि वनाद्रौ प्रत्यक्ष इति भावः ॥ ८० ॥

नित्यविभूतिमनुसन्धाय लीलाविभूतिमनुसन्धत्ते – लोकाविति –

लोकाम्श्चतुर्दश दधत् किल सुन्दरस्य

पङ्क्तीगुणोत्तरितसप्तवृतीदमण्डम् ।

अन्यानि चास्य सुसदृम्शि परश्शतानि

क्रीडाविधेरिह परिच्छदतामगच्छन् ॥ ८१ ॥

चतुर्दशलोकान् स्वोदरे दधत् पङ्कितगुणैः दशगुणैः उत्तरिता उत्तरत्वेन कृता अधिकतया कृताः सप्तवृत्तयः आवरणानि यस्य तत् तथोक्तम् । यद्वा उत्तरिताः सञ्जातोत्तराः सातिशया इति यावत् । दशगुणाधिकम् सप्तावरणमिति यावत् । प्रकृतिमहदहङ्कारादिभूतचतुष्ट्यैरुत्तरोत्तरम् दशगुणाधिकैः सप्तभिस्तत्त्वैः परिवेष्टितमिति यावत् । एतादृशमिदम् ब्रह्माण्डम् अस्याण्डस्य सुसम्दृशि सुसदृशानि परःशतानि शतेभ्यः पराण्यण्डानि च क्रीडाविधेः परिच्छदतामुपकरणताम् अगच्छन् । *कृदिकारादक्तिनो ङीष् वक्तव्य (अ.बह्वात्यन्तर्गणसूत्रम्-५०) इति ङीषन्तमीकारान्तम् पत्नीपदम् ॥ ८१ ॥

सुरनरतिर्यगादिबहुभेदकभिन्नमिदम्

जगदथ चाण्डमण्डवरणानि च सप्त तथा ।

गुणपुरुषौ च मुक्तपुरुषाश्च वनाद्रिपतेः

उपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२ ॥

सुरनरेति – सर्वाण्येतानि विभोः नर्मविधये क्रीडाविधये उपकरणानि भवन्तीत्यर्थः भेदको भेदः गुणपुरुषौ प्रकृतिपुरुषौ ॥ ८२ ॥

ज्ञानिनः सततयोगिनो हि ये

सुन्दराङ्घ्रिपरभक्तिभागिनः ।

मुक्तिमाप्य परमाम् परे पदे

नित्यकिङ्करपदम् भजन्ति ते ॥ ८३ ॥

ज्ञानिन इति – ज्ञानिनः प्रकृतिवियुक्त प्रत्यगात्मानुसन्धा(न) शीला: (स) ततयोगिनः सततकर्मयोगानुष्ठानशीलाः परभक्तिभागिनः कर्मयोगज्ञानयोगाङ्गकभक्तियोगनिष्ठा इत्यर्थः । परमाम् मुक्तिमिति कैवल्यमुक्तिव्यावृत्तिः । नित्यकिङ्करपदम् नित्यकिङ्कराधिकारम् ॥ ८३ ॥

इतः परमवतारप्रयोजकान् गुणानवतारप्रयोजकमवताराम्श्चानुसन्धत्ते – देवस्येति –

देवस्य सुन्दरभुजस्य वनाद्रिभर्तु

र्है शीलवत्त्वमथवाऽऽश्रितवत्सलत्वम् ।

ऐशस्वभावमजहद्भिरिहावतारैः

योऽलञ्चकार जगदाश्रिततुल्यधर्मा ॥ ८४ ॥

यः आश्रिततुल्यधर्मा आश्रिततुल्यस्वभावः सन् ऐशस्वभावम् ईशस्वभावम् सर्वज्ञत्वसर्वशक्तित्वादिस्वभावमजहद्भिरपरित्यजद्भिः इह सम्सारमण्डले अवतारैर्जगदलञ्चकार । तस्य देवस्य शीलवत्त्वमवतारनिमित्तमथवाश्रितवत्सलत्वम् निमित्तमिति वितर्कः । शीलम् नाम महतो नीचै: सह सम्श्लेषः । आश्रितवात्सल्यम् आश्रितपारतन्त्र्यम् । है शब्दः प्रसिद्धौ ॥ ८४ ॥

सिम्हाद्रिनाथ! तव वाङ्मनसातिवृत्तम्

रूपम् त्वतीन्द्रियमुदाह रहस्यवाणी ।

एवम् च न त्वमिह चेत् समवातरिष्यः

त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५ ॥

सिम्हाद्रिनाथेति – रहस्यवाणी उपनिषत् तवाप्राकृतदिव्यरूपमतीन्द्रियमवाङ्मनसगोचरमुदाह । एवम् च सति त्वम् नावातरिष्यश्चेत् ज्ञानभक्तिविधयः अवतारगोचरज्ञानम् साक्षात्काररूपम् तद्गोचरा भक्तिः तद्गोचरो विधिः परिचारश्च मुधा भविष्यन् वृथा इत्यर्थः । अतीन्द्रिये रूपे तेषाम् अशक्त्यत्वादिति भावः ॥ ८५ ॥

ये भक्ता भवदेकभोगमनसोऽनन्यात्मसञ्जीवनाः

तत्सम्श्लेषणतद्विरोधिनिधनाद्यर्थम् वनाद्रीश्वर ! ।

मध्येऽण्डम् यदवातरस्सुरनराद्याकारदिव्याकृतिः

तेनैव त्रिदशैर्नरैश्च सुकरम् स्वप्रार्थितप्रार्थनम् ॥ ८६ ॥

ये भक्ता इति – भवदेकभोगमनसः भवत्येकस्मिन्नेव भोगोत्सुका इत्यर्थः। सर्वेश्वरमेव धारणपोषणभोग्यत्वेन मन्यमानाः तदलाभे स्वात्मधारणम् कर्तुमशक्नुवाना इति यावत् । अनन्यात्मसञ्जीवनाः अन्यपदार्थप्रयुक्तात्मसञ्जीवनशून्या ये भक्तस्तैः सम्श्लेषणम्, *ये यथा माम् प्रपद्यन्ते ताम्स्तथैव भजाम्यहम् (भ.गी.४.११)* इति प्रकारेण स्वयमेव सम्श्लेषः तेषाम् ये विरोधिनः तद्विनाशाद्यर्थम् आदिशब्देन धर्म स्थापनम् विवक्षितम् । मध्येऽण्डम् अण्डस्य मध्ये सुरनराद्याकारेण दिव्याकृतिः सन् सुरनररूपेण दिव्यरूपः तत्सदृशरूप इत्यर्थः । तेनाकारेणावातरिष्य इति यावत् । तेनैवानन्यभोगमनोभिरनन्यात्मसञ्जीवनैस्त्रिदशैर्नरैश्च स्वस्वप्रार्थितम् प्रार्थनम् सुकरम् सुप्रापमिति यावत् ॥ ८६ ॥

श्रीमन्महावनगिरीशविधीशयोस्ते

मध्ये तु विष्णुरिति यः प्रथमावतारः ।

तेनैव चेत्तव महिम्नि जनाः किलान्धाः

त्वन्मत्स्यभावमवगम्य कथम् भवेयुः ॥ ८७ ॥

श्रीमन्निति – तेनैव मध्ये अवतारमात्रेण तव महिम्नि तव सर्वोत्कर्षे जनाः अन्धाः मूढाः किल चेत् ब्रह्मविष्णुमहेश्वर सहपाठात् समानाधिकाराच्च तत्सदृशोऽयमिति समबुद्धयश्चेदित्यर्थः । तव मत्स्याद्यवतारेषु तिर्यग्भावम् तादृशव्यापारम् चाधिगम्य कथम् भवेयुः । *मोघज्ञाना मोघकर्माणश्च भवेयुः* इत्यर्थः । तदुक्तम् – *अवजानन्ति माम् मूढाः मानुषीम् तनुमाश्रितम् । परम् भावमजानन्तो मम भूतमहेश्वरम् । मोघज्ञा मोघकर्माणो मोघज्ञाना विचेतस(भ.गी.९. ११-१२) इति ॥ ८७ ॥

हे देव! सुन्दरभुज! त्वमिहाण्डमध्ये

सौलभ्यतो विसदृशम् चरितम् महिम्नः ।

अङ्गीकरोषि यदि तत्र सुरैरमीभिः

साम्यान्निकर्षपरिपालनमेव साधु ॥ ८८ ॥

हे देवेति – हे देव! महिम्नो विसदृशमननुरूपम् चरितम्  पितृवचनपरिपालनादौत्यसारथ्यादिप्रमुखम् चरित सौलभ्यगुणेनाङ्गीकरोषि यदि तत्र विषये विष्ण्ववतारोपेन्द्रावतारादिषु अमीभिः सुरैश्चतुर्मुखशिवेन्द्रादिभिः साम्याद्रामकृष्णाद्यवतारेषु निकर्षपरिपालनमेव वरम् देवतान्तरसाम्याचरणादपि तन्निकर्षाचरणम् भक्तचित्तानुरञ्जकम् श्रेयस्करम् चेति भावः ॥ ८८ ॥

इहावतीर्णस्य वनाद्रिनाथ! ते

निगूहतः स्वम् महिमानमैश्वरम् ।

उमापतेः किम् विजयः प्रियङ्करः

प्रियङ्करा वेन्द्रजिदस्त्रबन्धना ॥ ८९ ॥

इहावतीर्णस्येति – ऐश्वरमीश्वरत्वप्रयुक्तम् स्वम् महिमानम् निगूहतः आवृण्वतः बाणासुरयुद्धे उमापतेर्भवस्य पराजयः प्रियङ्करः किमस्त्रबन्धना वा प्रियङ्करी किमुभयमपि तुल्यमिति भावः ॥ ८९ ॥

पुच्छोत्पुच्छनमूर्च्छनोद्धतिधुतव्यावर्तितावर्तवत्

सम्वर्तार्णवनीरपूरविलुठत्पाठीनदिव्याकृतेः ।

सिम्हाद्रीश! न वैभवम् तव कथम् स्वालक्ष्यमालक्ष्यते

पद्माक्षस्य जुघुक्षतोऽपि विभवम् लक्ष्मीधराधोक्षज! ॥ ९० ॥

पुच्छोत्पुच्छेति – पुच्छस्य उत्पुच्छनम् धूननम् मूर्छनम् प्रसारणम् उद्धतिरुपरिप्रसारणम् एतैर्यथाकामम् धूतस्य कम्पितस्य व्यावर्तितस्य भ्रामितस्य अत एवावर्तवतस्सम्वर्तार्णवस्य प्रलयार्णवस्य जलपूरे विलुठत्पाठीनदिव्याकृतेःपरिवर्तमानदिव्य मत्स्याकृतेः पाठीनो मत्स्य विशेषः । विभवम् प्रभावम् जुघुक्षतो ग्रहीतुमिच्छतोऽपि तव वैभवम् ऐश्वर्यम् कथम् स्वालक्ष्यम् सुखेन लक्ष्यम् आलक्ष्यते । गूहनेऽपि तव वैभवम् क्वचित् प्रकटितमिति भावः अधोक्षजेति – *अमृतोदधिवत् सर्वैर्भुज्यमानोऽपि सर्वदा अधो न क्षीयते जातु यस्मात्तस्मादधोक्षज (भारतम्, उद्योगपर्वम्,८९.१०) इति निर्वचनात् सर्वदा भोग्यः इत्यर्थः ॥ ९० ॥

साचलावटतटाकदीर्घिका-

जाह्नवीजलधिवर्धितः क्षये ।

शृङ्गसङ्गमितनौर्मनोरभूः

अग्रतोऽण्डजवपुर्हि सुन्दर! ॥ ९१ ॥

साचलेति – अचला भूमिः तस्याम् अवटो गर्तः गर्तसहिताः साचलावटाः अवटो गर्तः । प्रसिद्धास्तटाकादयः तत्र विवर्धितः । मनुस्तावत् स्वयम् तर्पणसमये जलपात्रे प्रादुर्भूतम् क्रमेण वर्धमानम् मत्स्यम् प्रथमम् भूगर्ते प्रचिक्षेप । तदनन्तरम् गर्तमप्यपर्याप्तम् मत्वा क्रमेण तटाकादिसागरपर्यन्तेषु प्रचिक्षेपेति प्रसिद्धिः । तथा क्षये प्रलयसमये शृङ्गसङ्गमित नौः सन् शृङ्गेण सम्यमिता नौः मनोरग्रतोऽभूः । अण्डजवपुः मत्स्यवपुः अवान्तरप्रलयसमये भाविसर्गबीजभूतम् चराचरवर्गम् मनुमपि नावि निधाय ताम् च नावम् स्व शृङ्गेण सम्यम्य मनोरग्रतो धर्मोपदेशपरोऽभूरित्यर्थः । अयमर्थः श्रीरङ्गराजस्तोत्रेऽपि मीनतनुस्त्वम्(र.स्तो.२.६०) इत्यादिश्लोकेनोक्तम् ॥ ९१ ॥

प्रलयजनीरपूरपरिपूरितस्वनिलयावसन्नवदन्

भ्रमदशरण्यभूतशरणार्थिनाकिशरणम् भवन् स्वकृपया ।

चलदुदधीरिताम्बुकलुषीक्रियाढ्यगमनस्स्वपृष्ठविधृता-

ऽचलकुल एष मीनतनुरत्र सुन्दरभुजो वनाद्रिनिलयः ॥ ९२ ॥

प्रलयजेति – प्रलयकालोद्भव जलपूरपरिपूरित स्वस्थानानाम् अत एवावसन्नवदनानामितस्ततो भ्रमतामशरण्यभूतानाम् शरणार्थिनाम् नाकिनाम् सुराणाम् शरणम् भवन् चलदुदधिप्रेरिताम्बुकलुषीकरणे आढ्यगमनः समर्थगमनः तथा स्वपृष्ठप्रदेशे विधृतपर्वतकुलः । अस्मिन् श्लोके एकैकः पादः त्रयोविम्शत्यक्षरः ॥ ९२ ॥

स्वपृष्ठे प्रष्ठाद्रिभ्रमणकरणैः किञ्च फणिनः

विकृष्टिव्याकृष्टिव्यतिविधुतदुग्धाब्धिचलितैः ।

अविस्पन्दो नन्दन् विकसदरविन्देक्षणरुचिः

पुराऽभूस्सिम्हाद्रेः प्रियतम हरे! कच्छपवपुः ॥ ९३ ॥

स्वपृष्ठेति – हे सिम्हाद्रे! प्रियतम स्वपृष्ठे स्थितः प्रष्ठाद्रिरद्रिश्रेष्ठः *प्रष्ठोऽग्रगामिनि(अष्टा.८.३.९२)* इति निपातः । प्रष्ठशब्दः तस्य भ्रमणक्रियाभिः किञ्च फणिनो वासुकेर्योक्त्रीकृतस्य विकृष्टिव्याकृष्टिभ्याम् सव्यापसव्यकर्षणाभ्याम् व्यतिविधुतस्य व्यतिहारेण क्षोभितस्य दुग्धाब्धेः चलितैरप्यविस्पन्दः अप्रकम्प्यः कच्छपवपुः कमठवपुः ॥ ९३ ॥

जगत्प्रलीनम् पुनरुद्दिधीर्षतः

सिम्हक्षितिक्षिन्निलयस्थ! सुन्दर! ।

पुरा वराहस्य तवेयमुर्वरा

दम्ष्ट्राह्वयेन्दोः किल लक्ष्म  लक्षिता ॥ ९४ ॥

जगदिति – उद्दिधीर्षतः उद्धर्तुमिच्छतः हे सिम्हक्षितिक्षिन्निलयस्थ सिम्हक्षितिक्षित् सिम्हाद्रिः स एव निलयः तस्य दम्ष्ट्राह्वयेन्दोः दम्ष्ट्राह्वव्यपदेशचन्द्रस्य लक्ष्म कलङ्कः लक्षिता उत्प्रेक्षिता ॥ ९४ ॥

न वायुः पस्पन्दे ययतुरथवाऽस्तम् शशिरवौ

दिशोऽनश्यन् विश्वाऽप्यचलदचला साचलकुला ।

नभश्च प्रश्च्योति क्वथितमपि पाथो नरहरौ

त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज! ॥ ९५ ॥

न वायुरिति – हे सुन्दरभुज त्वयि स्तम्भे शुम्भद्वपुषि रतिशोभमानवपुषि सति वायुर्भीत्याम् न पस्पन्दे सति न चचाल अथ वा शब्दो वाक्यान्तरोपक्रमे । शशिरवी अस्तम् न ययतुः न चेलतुः । अस्तम् न प्राप्तौ । दिशोऽनश्यन् अदर्शनम् प्राप्ताः । विश्वा सर्वा अचला भूः साचलकुला सपर्वतकुला नभ आकाशम् प्रश्च्योति प्रश्चोतमस्या अस्तीति प्रश्चोति प्रसृतमित्यर्थः । पाथो जलम् क्वथितम् निष्पक्वम् । एतेन दिशाम् पञ्चमहाभूतानाम् च वैयाकुली दर्शिता ॥ ९५ ॥

अरालम् पातालम् त्रिदशनिलयः प्रापितलयो

धरित्री निर्धूता ययुरपि दिशः कामपि दिशम् ।

अजृम्भिष्टाम्भोधिर्घुमुघुमिति घूर्णन् सुररिपोः

विभिन्दाने वक्षस्त्वयि नरहरौ सुन्दरभुज! ॥ ९६ ॥

अरालमिति – हे सुन्दरभुज! नरहरौ त्वयि सुररिपोर्वक्षः विभिन्दाने सति पातालमरालम् भग्नम् अयथाप्रकारमिति यावत् । त्रिदशनिलयः स्वर्गः प्रापितलयः प्रापितमूर्छ इति यावत् । धरित्री निर्धूता कम्पिता दिशः कामपि दिशम् ययुः अपलायन्तेत्यर्थः । घुमघुमिति घूर्णन् भ्राम्यन् अम्भोधिः अजृम्भिष्ट जृम्भितमभूत् । अजृम्भिष्टेति जृभि गात्रविनाम इति लुङ् आत्मनेपदम् । घुमुघुमिति अनुकारशब्दः ॥ ९६ ॥

नखक्रकचकप्रधिक्रथितदैत्यवक्षस्स्थली-

समुत्थ  रुधिरच्छटा  च्छुरितबिम्बितम् स्वम् वपुः ।

विलोक्य रुषितः पुनः प्रतिमृगेन्द्रशङ्कावशात्

य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७ ॥

नखेति – नख एव क्रकचकम् आयुधविशेषः तस्य प्रधिर्नेमिः कोटिरिति यावत् । तेन क्रथिता दैत्यवक्षःस्थली तस्याः समुत्थरुधिराणाम् छटाभिः पटलैः छुरितम् खचितम् तत्र प्रतिबिम्बितम् स्वम् वपुः विलोक्य प्रति मृगेन्द्रबुद्ध्या पुनरपि रुषित रुष्ट इत्यर्थः ॥ ९७ ॥

क्षितिरियम् जनिसम्हृतिपालनैः

निगिरणोद्गिरणोद्धरणैरपि ।

वनगिरीश! तवैव सती कथम्

वरद! वामन! भिक्षणमर्हति ॥ ९८ ॥

ळक्षितिरिति – निगरणम् प्रलयसमये जठरे धारणम् उद्गरणम् पुनर्निस्सारणम्, उद्धरणम् प्रलयानन्तरम् समुद्रमध्यादुद्धरणम् अथवा त्रिविक्रमावतारे निगरणम् पादाभ्यामाक्रमणम्, उद्गिरणम् पुनर्मोचनम् । हे वामन एतैर्व्यापारैस्तवैव सती स्वम् भवतीति यावत् । बलिचक्रवर्तिनः सकाशात् कथम् भिक्षणमर्हति परद्रव्यम् हि भिक्षया लभ्यम्, न तु स्वद्रव्यमिति भावः ॥ ९८ ॥

भार्गवः किल भवन् भवान् पुरा

कुन्दसुन्दरवनाचलेश्वर! ।

अर्जुनस्य बलदर्पितस्य तु

च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९ ॥

भार्गव इति – कुन्दैः कुन्दपुष्पैः सुन्दरो वनाचलः अर्जुनस्य कार्तवीर्यार्जुनस्य सहस्रबाहुकाननम् च्छेत्स्यति अच्छेत्सीः तत् स्मरति अत्र *अभिज्ञा वचने लृट्(अ.३.२.११२) इति लृट् ॥ ९९ ॥

आज्ञा तवात्रभवती विदिता त्रयी सा

धर्मम् तदुक्तमखिलेन वनाद्रिनाथ! ।

अन्यूनमाचरितुमास्तिकशिक्षणार्थम्

अत्रावतीर्य किल सुन्दर! राघवोऽभूः ॥ १०० ॥

आज्ञेति – अत्रभवती पूज्या तदुक्तम् त्रयीविहित मन्यूनमिति क्रियाविशेषणम् । आस्तिकशिक्षणार्थम् स्वयम् धर्माचरणेन नास्तिकानाम् धर्मानुचरणशिक्षणार्थम् । तदुक्तम् भगवता – *यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनाः । स यत् प्रमाणम् कुरुते लोकस्तदनुवर्तत(भ.गी.३.२१)* इति । तथा *उत्सीदेयुरिमे लोका न कुर्याम् कर्म चेदहम्(भ.गी.३.२४)* इति ॥ १०० ॥

वनगिरिपतिरीशितेति देवैः

त्रिपुरहरत्रिपुरघ्नचापभङ्गात् ।

व्यगणि परशुरामदर्शितस्य

स्वकधनुषः परिमर्शदर्शनाच्च ॥ १०१ ॥

वनगिरिपतिरिति – देवैर्वनगिरिपतिरीशिता सर्वेश्वर इति व्यगणि निरचायि । त्रिपुरघ्नस्य शम्भोश्चापस्य भङ्गात् तथा परशुरामेण बलपरीक्षणार्थम् दर्शितस्य स्वकधनुषः वैष्णवस्य धनुषः परिमर्श दर्शनाच्च आरोपणदर्शनाच्च ॥ १०१ ॥

अत्र लोके अनवाप्तम् वस्तु जनैरुपायानुष्ठानेन भोक्तुम् लिप्स्यते प्रार्थ्यते । हे राम त्वया तु लब्धमेतद्राज्यम् भोक्तुम् नेष्यते । इत्थम् लोकदृष्ट्या कविर्विस्मितः सन्नीश्वरदृष्ट्यायुक्तमेतदित्यनुसन्धत्ते – अनवाप्तमिति –

अनवाप्तमत्र किल लिप्स्यते जनैः

न च लब्धमेतदिह भोक्तुमिष्यते ।

अनवाप्तमत्र किल नास्ति राम! तत्

जगती त्वया तृणमवैक्षि सुन्दर! ॥ १०२ ॥

हे सुन्दर अत्र यद्यस्मात् कारणात् अनवाप्तम् नास्ति तस्मात् कारणात् जगत् भूमिः तृणमवैक्षि तृणत्वेनावेक्षिता ॥ १०२ ॥

शिखरिषु विपिनेष्वप्यापगास्वच्छतोयासु

अनुभवसि रसज्ञो दण्डकारण्यवासान् ।

तदिह तदनुभूतौ साभिलाषोऽद्य राम!

श्रयसि वनगिरीन्द्रम् सुन्दरीभूय भूयः ॥ १०३ ॥

शिखरिष्विति – हे राम! रसज्ञ! त्वम् यद् यस्मात् कारणात् पर्वतादिषु दण्डकारण्यवासाननुभवसि तस्मात् कारणात् तदनुभूतौ दण्डकारण्यवासानुभूतौ साभिलाषः सन्नद्य पुनः सुन्दरीभूय सुन्दरनामा भूत्वा वनगिरीन्द्रम् श्रयसि । इयमुत्प्रेक्षा ॥ १०३ ॥

उपवनतरुषण्डैर्मण्डिते गण्डशैल-

प्रणयिभवदुदन्तोद्गायिगन्धर्वसिद्धे ।

वनगिरितटभूमिप्रस्तरे सुन्दर! त्वम्

भजसि नु मृगयानानुद्रवश्रान्तिशान्तिम् ॥ १०४ ॥

उपवनेति – गण्डशैलाः सुवेलो स्थूलोपलारतेषु तत्र प्रणयिनो भवन्तोवृत्तान्तोद्गायिनो गन्धर्वसिद्धा यस्मिन् प्रस्तरे पाषाणे हे गुन्दर त्वन्तो मृगयानानुद्रव श्रान्ति शान्तिम् ।  मायामारीचमृगगमनानुधावनजनितश्रान्तिशान्तिम् भजसि नु ॥ १०४ ॥

कूलेऽब्धेः किल दक्षिणस्य निवसन्दूरोत्तराम्भोधिगान्

दैत्यानेकपतत्रिणाऽच्छिन इतीयम् किम्वदन्ती श्रुता ।

तत्रैवेश्वरमम्भसाम् व्यजयथास्तस्माद्वनाद्रीश्वर!

श्रीमन्! सुन्दर! सेतुबन्धनमुखाः क्रीडास्तवाडम्बरम् ॥ १०५ ॥

कूलोऽब्धेति – दूरोत्तराम्भोधिगान् अत्यन्तविप्रकृष्टोत्तरसमुद्रतीरगतान् मरुकान्तारदेशवासिनो दैत्यानेकपतत्रिणा दक्षिणसमुद्रसम्शोषणार्थम् धनुषि सम्हितेनैकेनबाणेनाच्छिन इतीयम् किम्वदन्ती वृत्तान्तः श्रुता प्रसिद्धा । तथा तत्रैव दक्षिणकूल एवाम्भसाम् निधिम् दक्षिणसमुद्रम् व्यजयथा इति यत् तत् तस्मात् कारणात् सेतुबन्धन रावणवधादिप्रमुखाः क्रीडाः केवलमाडम्बरम् सम्भ्रमः । दक्षिणसमुद्रम् जितवतस्तव सेतुबन्धनम् तत्र स्थित्वा अत्यन्तदूरस्थ दैत्यान् जितवतस्तत्समीपवर्ति रावणादि जयश्च केवलमानुष नटनमात्रमिति भावः । व्यजयथा इति लङात्मनेपद मध्यमपुरुषैकवचनम् । अच्छिन इति लङि मध्यमैकवचनम् ॥ १०५ ॥

रघुकुलतिलक! त्वम् जातुचिद् यातुधान-

च्छलमृगमृगेयायाम् सम्प्रसक्तः पुराऽभूः ।

तदुपजनितखेदच्छेदनायाद्य गायन्-

मधुकरतरुषण्डम् रज्यसे किम् वनाद्रिम्? ॥ १०६ ॥

रघुकुलतिलकेति – जातुचित् कदाचित् छलमृगः कपटमृगः यातुधान एव छलमृगः तस्य मृगयायाम् रज्यसे किमनुरक्तो भवसि किम् ॥ १०६ ॥

हे सुन्दरैकतरजन्मनि कृष्णभावे

द्वे मातरौ च पितरौ च कुले अपि द्वे ।

एकक्षणादनुगृहीतवतः फलम् ते

नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७ ॥

हे सुन्दरेति – एकतरजन्मनि एकस्मिन्नेव जन्मनि द्वे मातरौ देवकीयशोदादेव्यौ द्वौ पितरौ वसुदेवनन्दगोपौ द्वे कुले क्षत्रकुल गोपकुले एकक्षणादल्पकालेन देवकीजठरादाविर्भावानन्तरमेव नन्दगोपकुलप्रवेशादिति यावत् । अनुगृहीतवतः परिगृह्णतः नीला कुलेन सदृशीति गोपकुला नीलादेवी क्षत्रकुला रुक्मिणी देवी मातृद्वयपितृद्वयकुलद्वयप्रतिग्रहप्रयोजनम् मातृपितृकुलानुरूप पत्नीद्वयपरिग्रह इति भावः ॥ १०७ ॥

त्वम् हि सुन्दर! यदा स्तनन्धयः

पूतनास्तनमधास्तदा नु किम् ।

जीर्णमेव जठरे पयोविषम्

दुर्जरम् वद तदात्मना सह ॥ १०८ ॥

त्वम् हीति – हे सुन्दर त्वम् स्तनन्धयः सन् यदा पूतनास्तनमधाः अपिबः धेट् पान इत्यस्माद् धातोः लुङि रूपम् । तदा इतरेषाम् दुर्जरम् पयोरूपम् विषम् तव जठरे तदात्मना तस्याः पूतनायाः आत्मना प्राणेन सह जीर्णमेव किम् वद ॥ १०८ ॥

आश्रितेषु सुलभो भवन् भवान्

मर्त्यताम् यदि जगाम सुन्दर! ।

अस्तु नाम तदुलूखले कियद्

दामबद्ध इति किम् तदाऽरुदः ॥ १०९ ॥

आश्रितेष्विति – भवान् सौलभ्यातिशयात् मर्त्यताम् यदि जगाम तदस्तु नाम तद्युक्तम् । उलूखले कियद्दामबद्ध इति तदा किमरुदः? किमर्थमरोदीः । तदाश्रितवात्सल्यात् तदपि सोढव्यमिति भावः । कियद्दामबद्ध अल्पदामबद्धः इतिशब्दो हेतौ ॥ १०९ ॥

सुन्दरोरुभुज ! नन्दनन्दनः

त्वम् भवन् भ्रमरविभ्रमालकः ।

मन्दिरेषु नवनीततल्लजम्

वल्लवीधियमुत व्यचूचुरः ॥ ११० ॥

सुन्दरेति – नन्दनन्दनः नन्दगोपनन्दनः भ्रमरविभ्रमालकः भ्रमरस्य विभ्रम इव विभ्रमो येषाम् ते तथोक्ताः तादृशा अलका यस्य स तथोक्तः । नवनीततल्लजम् नवनीतश्रेष्ठम्? वल्लवीनाम् गोपीनाम् चित्तम् व्यचूचुरः अमूमुषः, णौ चङि लङि रूपम् ॥ ११० ॥

कालियस्य फणताम् शिरस्तु मे

सत्कदम्बशिखरत्वमेव वा ।

वष्टि जुष्टवनशैल! सुन्दर!

त्वत्पदाब्जयुगमर्पितम् ययोः ॥ १११ ॥

कालियस्येति – ययोः फणशिखरयोः कालियः सर्पः कदम्बो वृक्षः वष्टि वाञ्छति जुष्टवनशैल सेवितवनशैल ॥ १११ ॥

गूहितस्वमहिमाऽपि सुन्दर!

त्वम् व्रजे किमिति शक्रमाक्रमीः ।

सप्तरात्रमदधाश्च किम् गिरिम्

पृच्छतश्च सुहृदः किमक्रुधः ॥ ११२ ॥

गूहितेति – गूहितस्वमहिमा आच्छादितस्वमहिमा शक्रमाक्रमीः देवेन्द्रमतिक्रान्तवानसि । इन्द्रमहोत्सवार्थम् गोपैः सम्भारेषु सम्भृतेषु सत्सु देवेन्द्रमतिक्रम्य तत्सर्वम् स्वयमेव जग्राहेति पुराणप्रसिद्धिः । सप्तानाम् रात्रीणाम् समाहारः सप्तरात्रम् । सङ्ख्यापूर्वी रात्रिशब्दोऽ-कारान्तः । अतिमानुषम् गोवर्धनोद्धरणादिकमवेक्ष्य भवान् देवो वा सिद्धो वेति पृच्छतो गोपवृद्धान् सुहृदः प्रति निजेश्वरत्वमाच्छादयन् किमर्थमक्रुधः अकुप्यः ॥ ११२ ॥

हे नन्दनन्दन! सुसुन्दर सुन्दराह्व!

बृन्दावने विहरतस्तव वल्लवीभिः ।

वेणुध्वनिश्रवणतस्तरुभिस्तदा वै

सग्रावभिर्जतुविलायमहो! विलिल्ये ॥ ११३ ॥

हे नन्दनन्दनेति – सुन्दराह्व सुन्दरनामधेय सग्रावभिस्तरुभिर्जतुविलायम् जतुसदृशम् विलिल्ये उपमाने कर्मणि चेति णमुल्प्रत्ययः । विलिल्ये इति भावे प्रयोगः ॥ ११३ ॥

गायम्गायम् वनगिरिपते! त्वम् हि बृन्दावनान्त

र्गोपीसङ्घैर्विहरसि यदा सुन्दर! व्यूढबाहो! ।

रासारम्भोत्सवबहुविधप्रेमसीमन्तिनीनाम्

चेतश्चेतस्तव च तु तदा काम् दशामन्वभूताम् ॥ ११४ ॥

गायमिति – गायम् गायमिति णमुल्प्रत्ययान्तम् शतृप्रत्ययान्तम् केचित् पठन्ति । व्यूढबाहो गोपीभुजैर्वेल्लितबाहो रासो नृत्तविशेषः । तस्यारम्भ एवोत्सवः तत्र बहवः शृङ्गारादिरसाः अन्योन्यम् प्रीतिर्यासाम् ताः तथोक्ताः । ताश्च ताः सीमान्तिन्यश्चेति कर्मधारयः । तासाम् चेतस्तव चेतस्तदा कामवस्थामनभूताम् सा दशा त्वया ताभिश्च न स्वसम्वेद्येति भावः ॥ ११४ ॥

इङ्गितम् निमिषितम् च तावकम्

रम्यमद्भुतमतिप्रियङ्करम् ।

तेन कम्समुखकीटशासनम्

सुन्दराल्पकमपि प्रशस्यते ॥ ११५ ॥

इङ्गितमिति – इङ्गितमव्यक्तव्यापारम् मानसव्यापारो वा निमिषितम् व्यक्तव्यापारम् तावकम् त्वत्सम्बन्धि रम्यम् मनोहरमद्भुतमाश्चर्यमति प्रियङ्करमति सन्तोषकरम् तेन हेतुना कम्सप्रमुख कीटशिक्षणम् त्वदपेक्षयाल्पकमत्यल्पमपि प्रशस्यते  श्लाघ्यते अल्पमनल्पम् वा अल्पविषयमनल्पविषयम् वा त्वत्सम्बन्धि सर्वम् श्लाघ्यमित्यर्थः ॥ ११५ ॥

वाराणसीदहनपौण्ड्रकभौमभङ्ग-

कल्पद्रुमाहरणशङ्करजृम्भणाद्याः ।

अन्याश्च भारतबलक्रथनादयस्ते

क्रीडास्सुसुन्दरभुज! श्रवणामृतानि ॥ ११६ ॥

वाराणसीति – दहनम् दाह: पौण्ड्रकः पौण्ड्रकवासुदेवः भौमो नरकासुरः जृम्भणास्त्र-प्रयोगेण शङ्करस्य जृम्भणम् क्रथनम् प्रविदारणम् ॥ ११६ ॥

त्वम् हि सुन्दर! वनाद्रिनाथ! हे!

वेङ्कटाह्वयनगेन्द्रमूर्धनि ।

देवसेवितपदाम्बुजद्वयः

सम्श्रितेभ्य इह तिष्ठसे सदा ॥ ११७ ॥

त्वम् हीति – हे वनाद्रिनाथ वेङ्कटाचलमूर्धनि देवैः  सेवितपदाम्बुजद्वयः सन् सम्श्रितेभ्यस्तिष्ठसे अहमेव सर्वान् रक्षिष्यामीति स्वाभिप्रायम् प्रकाशयति इत्यर्थः । तिष्ठतेर्धातोरभिप्रायप्रकाशने आत्मनेपदम् । त्वमेव वेङ्कटशैलनाथ इत्यर्थः ॥ ११७ ॥

हस्तिशैलनिलयो भवन् भवान्

साम्प्रतम् वरदराजसाह्वयः ।

इष्टमर्थमनुकम्पया ददद्

विश्वमेव दयते हि सुन्दर! ॥ ११८ ॥

हस्तिशैलेति – वरदराजसाह्वयः अन्वर्थवरदराजाह्वयसहित इत्यर्थः । दधसे धारयसि दध धारण इति धातुः ॥ ११८ ॥

मध्येक्षीरपयोधि शेषशयने शेषे सदा सुन्दर!

त्वम् तद्वैभवमात्मनो भुवि भवद्भक्तेषु वात्सल्यतः ।

विश्राण्याखिलनेत्रपात्रमिह सन् सह्योद्भवायास्तटे

श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर! ॥ ११९ ॥

मध्ये इति – मध्येक्षीरपयोधि क्षीराब्धेर्मध्ये शेषशयने शेषे निद्रासि | हे सुन्दर त्वम् कावेरीतीरे श्रीरङ्गे शेषशयने अखिलभक्तनेत्रपात्रस्सन् वात्सल्यतो भगवद्भक्तेषु तद्वैभवम् क्षीराब्धिमध्ये शेषे शयनवैभवम् विश्राण्य पदाय तत्रत्य भक्तजनेभ्यः शेषशयनप्रभावम् दर्शयन् श्रीरङ्गनाथ एव भवान् अभूदित्यर्थः ॥ ११९ ॥

कल्कीभविष्यन् कलिकल्कदूषितान्

दुष्टानशेषान् भगवन् हनिष्यसि ।

स एष तस्यावसरः सुसुन्दर!

प्रशाधि लक्ष्मीश! समक्षमेव नः ॥ १२० ॥

कल्कीति – कलिकल्कदूषितान् कलिकालदुर्मलदूषितान् हनिष्यसि शिक्षयसि तस्य शिक्षणस्य सोऽयमवसरः त्वया पूर्वम् सङ्कल्पितोऽवसरः इदानीमेवेत्यर्थः । ततः कारणात् त्वमस्मान् कलिकल्कदूषितान् त्वत्समक्षमेव प्रशाधि शिक्षस्व ॥ १२० ॥

ईदृशास्त्वदवतारसत्तमाः

सर्व एव भवदाश्रितान् जनान् ।

त्रातुमेव न कदाचिदन्यथा

तेन सुन्दर! भवन्तमाश्रये ॥ १२१ ॥

ईदृशा इति – ईदृशा मत्स्यकूर्मार्चावतारपर्यन्ता अवतारसत्तमा अवतारश्रेष्ठः सर्व एव भवदाश्रितान् जनाम्स्त्रातुमेव कदाचिदपि अन्यथा न परित्राणव्यतिरिक्त प्रयोजनान्तरवरा न भवतीत्यर्थः । तेन कारणेनार्चावताररूपम् भवन्तमाश्रये ॥ १२१ ॥

त्वामामनन्ति कवयः करुणामृताब्धिम्

त्वामेव सम्श्रितजनिघ्नमुपघ्नमेषाम् ।

येषाम् व्रजन्निह हि लोचनगोचरत्वम्

हे सुन्दराह्व! परिचस्करिषे वनाद्रिम् ॥ १२२ ॥

त्वामिति – सम्श्रितानाम् जनिघ्नम् । जन्मघ्नम् एषाम् सम्श्रितानामुपघ्नमाश्रयभूतम् उपघ्न आश्रय इति निपातः । एषामाश्रितानाम् लोचनगोचरत्वम् व्रजन् प्राप्नुवन् सुन्दराह्व सुन्दरनामन् वनाद्रिम् परिचस्करिषे *अलङ्कृतवानसि सम्पर्युपेभ्यः करोतौ भूषणे(अ.६.१.१३७)* इति सुडागमः ॥ १२२ ॥

ईश्वरस्वभावम् स्वस्वभावम् चोवेक्ष्य स्वयमुच्छ्वसिति- अशक्यमिति –

अशक्यम् नो किञ्चित्तव न च न जानासि निखिलम्

दयालुः क्षन्ता चास्यहमपि न चागाम्सि तरितुम् ।

क्षमोऽतस्त्वच्छेषो ह्यगतिरिति च क्षुद्र इति च

क्षमस्वैतावन्नोऽबलमिह हरे! सुन्दरभुज! ॥ १२३ ॥

तव किञ्चिन्नो अशक्यम् निखिलम् जानासि इति न सर्वज्ञः सर्वशक्तिश्चेति भावः । किञ्च दयालुः अपराधानाम् सोढा चासि । अहमपि स्वयमागाम्सि तरितुम् न क्षमो यतः कारणादगतिः प्राप्त्यन्तरशून्यः इति हेतोः क्षुद्रः क्षुद्रपुरुषार्थनिष्ठः इति च हेतोः आगाम्सि क्षमस्व । इह सम्सारमण्डले अस्माकमेतावत् त्वत्स्वभावम् मत्स्वभावानुसन्धानम् बलमवलम्बनम् ॥ १२३ ॥

लङ्कायुद्धहतान् हरीन् द्विजसुतम् शम्बूकदोषान्मृतम्

सान्दीपन्यभिजम् मृतम् द्विजसुतान् बालाम्श्च वैकुण्ठगान् ।

गर्भम् चार्जुनिसम्भवम् व्युदधरः स्वेनैव रूपेण यः

स्वाभीष्टम् मम मद्गुरोश्च ददसे नो किम् वनाद्रीश्वर! ॥ १२४ ॥

लङ्कायुद्धेति – शम्बूकदूष्यान् शम्बूकदुराचारान् मृतम् ब्राह्मणपुत्रम्, तथा श्रीकृष्णावतारे मृतम् सान्दीपन्यभिजम् सान्दीपनीपुत्रम् सान्दीपनीर्नामकृष्णस्य गुरुः । तथा द्वारवत्याम् द्विजसुतान् मृतान् अण्डान्तर्गतविष्णुलोकगतान् आर्जुनिरेमन्युः तत्सम्भवम् गर्भम् उत्तराया गर्भम् यः स्वेनैव श्रीरामकृष्णरूपेण व्युदधर उद्धृतवान् असि व्युदधर इति लङि रूपम् । हे वनाद्रीश्वर स त्वम् मम मद्गुरोश्च स्वाभीष्टम् प्रति नोदयसे किम् अवश्यम् दयस्वेति भावः ॥ १२४ ॥

आयोध्यकान् सपशुकीटतृणाम्श्च जन्तून्

किङ्कर्मणो नु बत! कीदृशवेदनाढ्यान् ।

सायुज्यलभ्यविभवान्निजनित्यलोकान्

सान्तानिकानगमयो वनशैलनाथ! ॥ १२५ ॥

आयोध्येति – अयोध्यासम्बन्धिनो देशा आयोध्या, उत्तरकोसलाsतान गच्छन्तीत्यायोध्यगाः किम् कर्म येषाम् ते किम् कर्माणः कीदृशेन वेदनेन आन्ध्याः कर्मज्ञानशून्याः इत्यर्थः । सायुज्यलभ्यविभवान् सायुज्यमोक्षेण लभ्यैश्वर्यान् मुक्तितुल्यानिति यावत् । सान्तानिकान् सान्तानिकनामकान् निजनित्यलोकान् अगमयः अप्रापयः सत्यलोकादनन्तरम् वैकुण्ठतुल्याः पुनरावृत्तिशून्या वैष्णवलोकाः सन्ति तान् अप्रापय इत्यर्थः ॥ १२५ ॥

पूर्वम् विकलचक्षुषे हरितवारणदासाय वरदराज सत्वम् चक्षुः प्रादात् इति प्रसिद्धिः । तदनुसन्धत्ते – हरितेति –

हरितवारणभृत्यसमाह्वयम्

करिगिरौ वरदस्त्वमपूर्विकाम् ।

दृशमलम्भय एव हि सुन्दर!

स्फुटमदाश्च परश्शतमीदृशम् ॥ १२६ ॥

हरितवारणभृत्यनामानमपूर्विकामत्यद्भुताम् दृशमलम्भय एव प्रापयः । द्विकर्मकप्रयोगः । किम् च ईदृशम् परश्शतम् पुत्रमित्रकलत्रक्षेत्रसम्पत्प्रमुखम् वरजातम् स्फुटम् प्रत्यक्षमदाः दत्तवान् । अदा इति लुङि रूपम् ॥ १२६ ॥

इह च देव! ददासि वरान् वरान्! वरद ! सुन्दर! सुन्दरदोर्धर! ।

वनगिरेरभितस्तटमावसन्नखिललोचनगोचरवैभवः ॥ १२७ ॥

इहेति – इह वनगिरौ परानुत्कृष्टान् सुन्दर सुन्दरदोर्धुर सुन्दरभुजवर वनगिरेस्तटमभित आवसन् *उपान्वध्याङ्वसः(अ.१.४.४८) इति सप्तम्यर्थे द्वितीया ॥ १२७ ॥

पुरा मलयध्वजो राजा सुन्दरम् समाराध्य तत्प्रसादात् तत्रैव मुक्तिम् प्रापेति प्रसिद्धिः । तदनुसन्दधानः स्वयमुच्छ्वसति – इदमिति –

इदमिमे शृणुमो मलयध्वजव

नृपमिह स्वयमेव हि सुन्दर! ।

चरणसात्कृतवानिति तद्वयम्

वनगिरीश्वर! जातमनोरथाः ॥ १२८ ॥

हे सुन्दर! इमे वयम् मलयध्वजनृपम् चरणाधीनम् कृतवानिति इदमुपाख्यानम् शृणुमः । यस्मात् कारणाद्वयम् सञ्जातमनोरथाः ॥ १२८ ॥

इत्थम् प्रक्रान्तम् स्तोत्रम् परिसमाप्य इतः परम् स्वयमैहिकामुष्मिकभोगवितृष्णो मुमुक्षुरपि श्रीवत्साङ्कमिश्रः प्रारब्धकर्मसमाप्तिपर्यन्तम् स्वशरीरस्थितिमालोच्य स्वानुरूपाम् वृत्तिम् परसमृद्धिम् च प्रार्थयते । अत्रेदमुपाख्यानमनुसन्धेयम् । पूर्वम् तावत् श्रीरङ्गदेशे शिवात्परतरम् नास्ति विष्णुरस्ति ततः परम् इति शैववैष्णवविवादे प्रवृत्ते तात्कालिकेन मूर्खेन शैवेन राज्ञा वैष्णवाचार्याणामुपद्रवे कृते तदानीम् भगवान् भाष्यकारः तम् देशम् परित्यज्य पश्चिमदेशम् प्राप्य यादवगिरिनाथम् नारायणम् सेवमानः  पञ्च सम्वत्सरानवसत् । श्रीवत्साङ्कमिश्रप्रमुखास्तु श्रीवैष्णवाचार्याः तस्मिन्नेव देशे तत्र तत्र तात्कालिकमुपद्रवम् सहमाना अवसन् । तदानीम् वनगिरिनाथम् सुन्दरम् प्रति इदम् च स्तोत्रमियम् च प्रार्थना प्रवृत्तेति – विज्ञापनमिति –

विज्ञापनाम् वनगिरीश्वर! सत्यरूपाम्

अङ्गीकुरुष्व करुणार्णव! मामकीनाम् ।

श्रीरङ्गधामनि यथापुरमेकतोऽहम्

रामानुजार्यवशगः परिवर्तिषीय ॥ १२९ ॥

हे करुणासमुद्र मामकीनाम् विज्ञापनाम् सत्यरूपामवन्ध्याम् कुरुष्व । तामेव विज्ञापनामाह श्रीरङ्गेति । श्रीरङ्गनाथस्थाने एष सोऽहमिदानीमत्र वनाद्रो वसन् पूर्वम् श्रीरङ्गस्थाने वसन्नहम् यथापुरम् यथापूर्वम् भगवद्रामानुजवशवर्ती परिवर्तिषीय तत्समीपे वर्तिषीय । आशिषि लिङ् ॥ १२९ ॥

किञ्चेदञ्च विरिञ्चभावन! वनाद्रीश! प्रभो! सुन्दर!

प्रत्याख्यानपराङ्मुखो वरदताम् पश्यन्नवश्यम् कुरु ।

श्रीरङ्गश्रियमन्वहम् प्रगुणयन्स्त्वद्भक्तभोग्याम् कुरु

प्रत्यक्षम् सुनिरस्तमेव विदधत्प्रत्यर्थिनाम् प्रार्थनाम् ॥ १३० ॥

किञ्चेति – विरिञ्चभावन विरिञ्चजनकवरदताम् वरदत्वम् पश्यन् अस्मत्प्रार्थनायाः प्रत्याख्यानपराङ्मुखः सन् इदम् च पूर्वप्रार्थितमवश्यम् कुरु । श्रीरङ्गश्रियम् वैभवम् प्रवर्धयन् अस्मत्समक्षम् त्वद्भक्तभोग्याम् कुरु । प्रत्यर्थिनाम् वैष्णवद्रोहिणाम् प्रार्थनाम् मनोरथम् सुनिरस्तम् यथा भवति तथा विदधत् ॥ १३० ॥

कारुण्यामृतवारिधे! वृषपते! हे सत्यसङ्कल्पन!

श्रीमन्! सुन्दर! योग्यताविरहितानुत्सार्य सद्वत्सल! ।

क्षाम्यन् साधुजनैः कृताम्स्तु निखिलानेवापचारान् क्षणात्

तद्भोग्यामनिशम् कुरुष्व भगवन्! श्रीरङ्गधामश्रियम् ॥ १३१ ॥

कारुण्येति – सङ्कल्पनम् सङ्कल्पः योग्यताविरहितान् भगवदानुकूल्ये तत्कैङ्कर्ये च योग्यताविरहितान् उत्सार्य शिक्षयित्वा इति यावत् ॥ १३१ ॥

प्रार्थितमेव पुनः पुनः प्रार्थयन् स्तोत्र शेषम् परिसमापयति । इदमिति –

इदम् भूयो भूयः पुनरपि च भूयः पुनरपि

स्फुटम् विज्ञीप्स्यामि  इत्यगतिरबुधोऽनन्यशरणः।

कृतागा दुष्टात्मा कलुषमतिरस्मीत्यनवधेः

दयायास्ते पात्रइ वनगिरिपते! सुन्दरभुज! ॥ १३२ ॥

पुनः पुनर्विज्ञप्स्यामि विज्ञापयितुभिच्छामि इति हेतोरगतिरबुधो ऽनन्यशरणः

कृतपापा दुष्टमनाः कलुषबुद्धिरस्मीति च हेतोः ते दयायाः पात्रमिति सर्वम् समञ्जसम्

सुन्दरबाहुस्तोत्रव्याख्यानम् सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.