श्रीस्तवव्याख्यानम्

श्रीः

श्रीमते रामानुजाय नमः

श्रीस्तवम्

लक्ष्मीकटाक्षविक्षेपा रक्षणै ककृतक्षणाः ।

रक्षन्तूत्कूलकरुणा सन्धुक्षितजगत्त्रयाः ॥

अथ सर्वेश्वराभिमत स्वरूपगुणविभवाम्  सकलचेतनानाम् सकलपुरुषार्थप्राप्तौ पुरुषकारभूताम् सर्वेश्वरवत् स्वयमपि प्राप्यप्रापकभूताम् लक्ष्मीम् स्तोतुकामाः श्रीवत्साङ्कमिश्राः सकल-जगदुज्जीवनार्थमाशीर्वादमेव प्रबन्धमुखेन निबध्नन्ति । स्वस्तीति

स्वस्ति श्रीर्दिशताद्  अशेषजगताम् सर्गोपसर्गस्थितीः

स्वर्गम् दुर्गतिमापवर्गिकपदम् सर्वम् च कुर्वन् हरिः ।

यस्या वीक्ष्य मुखम् तदिङ्गितपराधीनो विधत्तेऽखिलम्

क्रीडेयम् खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्  तया ॥ १ ॥

सा श्रीः अशेषजगताम् स्वस्ति मङ्गलम् दिशतात् । स्वस्तीति द्वितीयान्तम् पदम् नाव्ययम् । अशेषजगतामित्यस्यात्राप्यन्वयः । सर्गः सृष्टिः उपसर्गः उपद्रवः सम्हार इति यावत् । स्थिती रक्षा, दुर्गतिः नरकः यत्र पदे मुक्तिः भवति तदापवर्गिकपदम्, एतत्सर्वम् कुर्वन् कर्तुम् प्रारब्धो हरिः यस्या लक्ष्म्या मुखम् वीक्ष्य तन्मुखेङ्गितपरतन्त्रः सन् अखिलम् करोति तदनुमतिपूर्वकम् तन्मुखोल्लासार्थम् करोतीत्यर्थः । एवमेव करणे हेतुमाह – क्रीडेयमिति तया  श्रिया ऐकरस्यात् एकरसत्वात् तस्या यदनुकूलम् तदेवास्यानुकूलम् यदनुकूलम् तस्या इत्येवम् रूपैकरस्याद् अन्यथा स्वयमेव स्वातन्त्र्येण करणे इयम् जगन्निर्माणादि क्रीडा अस्याः हरे रसदा प्रीतिदा न स्यात् खलु । विरसा केवलव्यसनरूपा स्यादिति भावः । तदुक्तम् श्रीमत्पराशर भट्टारकैः श्रीगुणरत्नकोशे –

श्रियैः समस्त चिद्विधानव्यसनम् हरेः ।

अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ इति ।

  • श्रीगुणरत्नकोशे – 1 व्याख्यातम् च तत्रैव ।

स्वस्य स्तोत्रनिर्वाहार्थम् लक्ष्मीः प्रार्थयते । हे श्रीर्देवीति –

हे श्रीर्देवि! समस्तलोकजननीम् त्वाम् स्तोतुमीहामहे

युक्ताम् भावय भारतीम् प्रगुणय प्रेमप्रधानाम् धियम् ।

भक्तिम् भन्दय नन्दयाश्रितमिमम् दासम् जनम् तावकम्

लक्ष्यम् लक्ष्मि! कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥ २ ॥

ईहामहे प्रयतामहे । युक्ताम् योग्याम् शब्दालङ्कारयुक्ताम् इति भावः । भावय सम्भावय । प्रगुणय प्रगुणाम् कुरु । याथार्थ्यस्थैर्यवैशद्यादयो बुद्धिगुणाः प्रेमप्रधानाम् तद्गुण

गोचरप्रेमाधिकाम्  भन्दय वर्धय । अत्र भदि धातुर्वर्धमानार्थः । अनेकार्थत्वाद्धातूनाम् । बन्धयेति केषाञ्चित्पाठः । तावकम् त्वत्सम्बन्धिनम् त्वन्निर्वाह्यमिति यावत् । क्रियाभेदात् सम्बन्धि द्वयस्याप्यपौनरुक्त्यम् । विसृतिः प्रसारः ॥ २ ॥

सम्प्रति प्रश्नप्रतिवचन तत्प्रतिक्षेपरूपेण न कस्यापि वाङ्मनसागोचरासङ्ख्येयकल्याण गुणगणायाः लक्ष्म्याः स्तोत्राधिकार इत्याह ।  स्तोत्रमिति –

स्तोत्रम् नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान्

अन्यत्र त्वसतोऽधिरोप्य फणितिः सा तर्हि वन्ध्या त्वयि ।

सम्यक् सत्यगुणाभिवर्णमथो ब्रूयुः कथम् तादृशी

वाग्  वाचस्पतिनाऽपि शक्यरचना त्वत्सद्गुणार्णोनिधौ ॥ ३ ॥

तत्र प्रथमम् पृच्छति स्तोत्रम् नामेति । उत्तरमाशङ्कते यदिति प्रतिक्षिपति । सा तर्हि इति वास्तवगुण सद्भावादारोपा सम्भव इति भावः । प्रकारान्तरेणोत्तरमाशङ्कते – सम्यगिति प्रतिक्षिपति कथमिति । अर्णोनिधिः समुद्रः त्वद्गुणा वाचामगोचरा इति भावः ॥ ३ ॥

हे लक्ष्मि! यद्यपि तव गुणा वाङ्मनसागोचरा अथापि तद्वर्णनमन्तरेणात्मधारणम् कर्तुमसहमानोऽहम् यावद्वलम् वर्णयामीत्याह । ये वाचामिति –

ये वाचाम् मनसाम् च दुर्ग्रहतया ख्याता गुणास्तावकाः

तानेव प्रति साम्बुजिह्वमुदिता है! मामिका भारती ।

हास्यम् तत्तु न मन्महे न हि चकोर्येकाऽखिलाम् चन्द्रिकाम्

नालम् मातुमिति प्रगृह्य रसनामासीत सत्याम् तृषि ॥ ४ ॥

दुर्ग्रहतया ग्रसितुम् कबलयितुमशक्यतया साम्बुजिह्वमिति क्रिया विशेषणम् । सद्रवरसज्ञम् इति उदिता उद्युक्ता जिह्वा  रस्यपदार्थदर्शने स्वयम् द्रवति । अतः स्वयमेवोयुक्तेति भावः । है इत्यत्ययम् प्रसिद्धिपरम् । वाचस्पतिप्रभृतिभिरशक्यगुणवर्णने मम हास्यत्वमपि नारतीत्याह – हास्यमति । भारती उदितेति यत्तत्तु हास्यम् न मन्मह इत्यर्थः । एतादृशी मम स्तोत्रप्रवृत्तिर्युक्ता चरितार्था चेति दृष्टान्तमुखेनाह न हीति तृषि पिपासायाम् प्रगृह्य प्रतिरुध्य ॥ ४ ॥

अति निकृष्टस्यापि मम तवात्यन्तपवित्रकीर्तिस्पर्शने न’ भीतिर्न लज्जापि हेयप्रत्यनीकतयास्तवापि न मालिन्यम् ममाप्य- भिमतप्राप्तिरित्याह । क्षोदीयानपीति –

क्षोदीयानपि दुष्टबुद्धिरपि  निःस्नेहोऽप्यनीहोऽपि ते

कीर्तिम् देवि लिहन्नहम् न च बिभेम्यज्ञो न जिह्रेमि च ।

दुष्येत्  सा तु न तावता न हि शुना लीढाऽपि भागीरथी

दुष्येच्छ्वाऽपि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः ॥ ५ ॥

क्षुद्रतरोऽपि दुष्टबुद्धिरपि तामसबुद्धिरपि निस्स्नेहोऽपि दृढतरस्नेहरहितोऽपि अनीहोऽपि फलप्राप्तिपर्यन्तोद्योगरहितोऽपि लिहन् आस्वादयन् अहम् न बिभेमि न जिह्रेमि तत्र हेतुः अत्रेति । उक्तमर्थम् दृष्टान्तमुखेन उपपादयति न हीति । पवित्रा भागीरथी शुना लीढापि न दुष्येत् न दूषिता भवेत् । किन्तु पवित्रैव । शुनोऽपि न दोषः किन्तु शुद्धिरेव तथा न लज्जते । किन्तु श्लाघैव,  न च भीतिः । पुनः पुनः प्रवृत्तिरेव तृष्णाशान्तिस्तृप्तिश्च तथा ममापीति भावः ॥ ५ ॥ इतः परम् स्वाधिकारानुरूपम् लक्ष्मीम् स्तौति । ऐश्वर्यमिति –

ऐश्वर्यम् महदेव वाऽल्पमथवा दृश्येत पुम्साम् हि यत्

तल्लक्ष्म्याः समुदीक्षणात्  तव यतः सार्वत्रिकम् वर्तते ।

तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणः

धन्यम् मन्यत ईक्षणात्  तव यतः स्वात्मानमात्मेश्वरः ॥ ६ ॥

हे लक्ष्मि यदैश्वर्यम् दृश्यते तल्लक्ष्म्यास्तव समुदीक्षणाद् यतः कारणात् तवैश्वर्यम् सार्वत्रिकम् सर्वत्र व्याप्तम् वर्तते । अतः सर्वमप्यैश्वर्यम् त्वदेकदेश इत्यर्थः । त्वत्कटाक्षमूलेन तेनैतेनैश्वर्येण न विस्मयेमहि । यतः कारणात् सर्वेश्वरोऽपि नारायणः तवेक्षणात् स्वात्मानमितरपुरुषवत् धन्यम् मन्यते । तेनैतेन न विस्मयेन हीत्यर्थः ॥ ६ ॥

ऐश्वर्यम् यदशेषपुम्सि यदिदम् सौन्दर्यलावण्ययोः

रूपम् यच्च हि मङ्गलम् किमपि यल्लोके सदित्युच्यते ।

तत्  सर्वम् त्वदधीनमेव यदतः श्रीरित्यभेदेन वा

यद्वा श्रीमदितीदृशेन वचसा देवि! प्रथामश्नुते ॥ ७ ॥

ऐश्वर्यमिति –

सौन्दर्यमवयवशोभा लावण्यम् समुदायशोभा रूपम् स्वरूपम् मङ्गलम् कल्याणम् सत् पवित्रम् वस्तु किमपि वस्तु त्वदधीनमेव त्वत्कटाक्षाधीनमेवेत्यर्थः । यदतः इत्येकम् पदम् कारणपरम् । यदतः कारणादित्यर्थः । श्रीरित्यभेदेन श्रीतादात्म्येन श्रीमदिति ईदृशेन वचसा श्रीयुक्तमिदम् इत्येवम्विधेन वचसा प्रथाम् प्रसिद्धि व्यवहारम् वा अश्नुते प्राप्नोति ततस्त्वदधीनमित्यर्थः ॥ ७ ॥

देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते

यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते ।

यन्नास्त्येव तदज्ञताम्  अनुगुणाम् सर्वज्ञताया विदुः

व्योमाम्भोजमिदन्तया खलु विदन् भ्रान्तोऽयमित्युच्यते ॥ ८ ॥

देवीति – स्वरूपरूपगुणविभूतीनाम् महिम्ना उत्कर्षस्यावधिरियत्त्या अवध्यपरि ज्ञानेऽपि सर्वज्ञत्वम् न हीयत इत्यर्थः । तदपरिज्ञानम् सर्वज्ञत्वानुकूलमेवेत्याह – यदिति । तदेवोपपादयति व्योमेति । अत्यन्तम् अविद्यमानम् गगनकुसुममिदमिति विद्यमानतया विदन् पुरुषो भ्रान्तः । न त्वविद्यमानम् विद्यमानतया विदन्नित्यर्थः ॥ ८ ॥

लोके वनस्पतिबृहस्पतितारतम्यम्

यस्याः प्रसादपरिणाममुदाहरन्ति ।

सा भारती भगवती तु यदीयदासी

ताम् देवदेवमहिषीम् श्रियमाश्रयामः ॥ ९ ॥

लोकेति- अज्ञानावधिर्वनस्पतिः सर्वज्ञावधिः बृहस्पतिर्यस्या भारत्याः प्रसादस्य न्यूनाधिकभावेन परिणामः ॥ ९ ॥

यस्याः कटाक्षमृदुवीक्षणदीक्षणेन

सद्यः समुल्लसितपल्लवम्  उल्ललास ।

विश्वम् विपर्ययसमुत्थ-विपर्ययम् प्राक्

ताम् देवदेवमहिषीम् श्रियमाश्रयामः ॥ १० ॥

यस्या इति मृदुवीक्षणम् मन्दवीक्षणम् तदेव दीक्षणम् रक्षादीक्षम्  समुल्लसितपल्लवम् समुल्लसिताङ्कुरम् समुल्लसितोदयमिति यावत् । प्रलयदशायाम् दुर्वासशापेनामृतमथनात् पूर्वम् त्रैलोक्यश्रीतिरोधानदशायाम् वा कटाक्षविपर्ययेण समुद्भूतविपर्ययम् ॥ १० ॥

यस्याः कटाक्षवीक्षाक्षणलक्षम् लक्षिता महेशास्स्युः ।

श्रीरङ्गराजमहिषी सा मामपि वीक्षताम् लक्ष्मीः ॥ ११ ॥

यस्या इति स्तोत्रम् समापयति क्षणलक्ष्यम् यथा भवति तथा लक्षिताः । महेशाः जगतामधीश्वराः ॥ ११ ॥

॥ रामानुजार्यविरचितम् श्रीवत्साङ्कमिश्रकृतश्रीस्तवव्याख्यानम् सम्पूर्णम् ॥  

वेङ्कटाचार्यशिष्येन रामानुजविपश्चिता ।

सङ्ग्रहाच्छ्रीस्तुति व्याख्या यथामति विनिर्मिता ॥

———————–

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.