वरदराजस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः

॥ वरदराजस्तवः ॥

श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

स्वस्ति हस्तिगिरिमस्तशेखरः सन्तनोतु मयि सन्ततं हरिः । निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥१॥

श्रीनिधिं निधिमपारमर्थिनां अर्थितार्थपरिदानदीक्षितम् । सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥२॥
नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः । अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥ ३ ॥

वल्लिका श्रुतिमतल्लिकामयी येन पल्लवितविश्वशाखया । स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥ ४ ॥

यं परोक्षमुपदेशतस्त्रयी नेति नेति परपर्युदासतः । वक्ति यस्तं अपरोक्षमीक्षयत्येष तं करिगिरिं समाश्रये ॥ ५ ॥

एष ईश इति निर्णयं त्रयी भागधेयरहितेषु नो दिशेत् । हस्तिधामनि न निर्णयेत को देवराजमयीश्वरस्त्विति ॥ ६ ॥
है ! कुदृष्ट्यभिनिविष्टचेतसां निर्विशेषसविशेषताश्रयम् । संशयं करिगिरिर्नुदत्यसौ तुङ्गमङ्गळगुणास्पदे हरौ ॥ ७ ॥
न्यायतर्कमुनिमुख्यभाषितैः शोधितैः सह कथञ्चन त्रयी । जोषयेद्धरिमनंहसो जनान् हस्तिधाम सकलं जनं स्वयम् ॥ ८ ॥
अद्भुतं महदसीमभूमकं किञ्चिदस्ति किल वस्तु निस्तुलम् । इत्यघोषि यदिदं तदग्रतः तथ्यमेव करिधाम्नि दृश्यते ॥ ९ ॥
संवदेत किल यत् प्रमान्तरैः तत् प्रमाणमिति ये हि मेनिरे । तन्मतेऽपि बत मानतां गता हस्तिनाऽद्य परवस्तुनि त्रयी ॥ १० ॥
गुणायत्तं लोके गुणिषु हि मतं मङ्गळपदं विपर्यस्तं हस्तिक्षितिधरपते! तत् त्वयि पुनः । गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥ ११ ॥
निराबाधं नित्यं निरवधि निरंहो निरुपमं सदा शान्तं शुद्धं प्रतिभटमवद्यस्य सततम् । परं ब्रह्माम्नातं श्रुतिशिरसि यत् तद् वरद! ते परं रूपं साक्षात् तदिदमपदं वाङ्मनसयोः ॥ १२ ॥
प्रशान्तानन्तात्मानुभवजमहानन्दमहिमप्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम् । परं यत्ते रूपं स्वसदृशदरिद्रं वरद! तत् त्रयी पिस्प्रक्षन्ती परनिरसने श्राम्यति परम् ॥ १३ ॥
न वक्तुं न श्रोतुं न मनितुमथोपासिसिषितुं न च द्रष्टुं स्प्रष्टुं तदनु न च भोक्तुं हि सुशकम् । परं यद् वस्तूक्तं ननु वरद! साक्षात् तदसि भोः! कथं विश्वस्मै त्वं करिगिरिपुरस्तिष्ठस इह? ॥ १४ ॥
प्रकृष्टं विज्ञानं बलमतुलं ऐश्वर्यमखिलं विमर्यादं वीर्यं वरद! परमा शक्तिरपि च । परं तेजश्चेति प्रवरगुणषट्कं प्रथमजं गुणानां निस्सीम्नां गणनविगुणानां प्रसवभूः ॥ १५ ॥
गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्त्रिस्रस्तेषां त्रियुग! युगलैर्हि त्रिभिरभुः । व्यवस्था या चैषा ननु वरद! साऽऽविष्कृतिवशात् भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः ॥ १६ ॥
इयं वैयूही वै स्थितिरथ किलेच्छाविहृतये विभूतीनां मध्ये सुरनरतिरश्चामवतरन् । सजातीयस्तेषामिति तु विभवाख्यामपि भजन् करीश! त्वं पूर्णो वरगुणगणैस्तान् स्थगयसि ॥ १७ ॥
परो वा व्यूहो वा विभव उत वाऽर्चावतरणः भवान् वाऽन्तर्यामी वरवरद! यो यो भवसि वै । स स त्वं सन् ऐशान् वरगुणगणान् बिभ्रदखिलान् भजद्भ्यो भास्येवं सततं इतरेभ्यस्त्वितरथा ॥ १८ ॥
दयाक्षान्त्यौदार्यम्रदिमसमतासौहृदधृतिप्रसादप्रेमाज्ञाऽऽश्रितसुलभताद्या वरगुणाः । तथा सौन्दर्याद्यास्तव वरदराजोत्तमगुणाः विसीमानोऽसङ्ख्याः प्रणतजनभोगं प्रसुवते ॥ १९ ॥
अनन्याधीनत्वं तव किल जगुर्वैदिकगिरः पराधीनं त्वां तु प्रणतपरतन्त्रं मनुमहे! । उपालम्भोऽयं भोः! श्रयति बत सार्वज्ञ्यमपि ते यतो दोषं भक्तेष्विह वरद! नैवाकलयसि! ॥ २० ॥
पाणिपादवदनेक्षणशब्दैः अम्बुजान्यपदिशन् वरद! त्वम् । बाहुभिस्त्वतिविशालतमालान् आञ्जनं करिगिरेरसि शृङ्गम् ॥ २१ ॥
त्वामुदारभुजं उन्नसमायत् कर्णपाशपरिकर्मसदं सम् । आयताक्षमभिजातकपोलं पारणीयति वरप्रद! दृङ्मे ॥ २२ ॥
नीलमेघनिभं अञ्जनपुञ्ज श्यामकुन्तलं अनन्तशयं त्वाम् । अब्जपाणिपदं अम्बुजनेत्रं नेत्रसात् कुरु करीश! सदा मे ॥ २३ ॥
त्वक् च दृक् च निपिपासति जिह्वा विह्वला श्रवणवत् परवृत्तौ । नासिका त्वयि करीश! तथेति प्राप्नुयां कथमिमां स्विदवस्थाम् ॥ २४ ॥
आधिराज्यमधिकं भुवनानां ईश! ते पिशुनयन् किल मौलिः । चूलिकामणिसहस्रमरीचेः हस्तिभूषण! भवत्युदयाद्रिः ॥ २५ ॥
उद्धरत्युपरि भक्तजनानिति ऊर्ध्वताश्रयणसूचितशक्तिम् । ऊर्ध्वपुण्ड्रतिलकं बहुमानात् किं बिभर्षि वरद! स्वललाटे ॥ २६ ॥
कर्णिका तव करीश! किमेषा कर्णभूषणं? उतासंविभूषा? । अंसलम्ब्यलकभूषणमाहो! मानसस्य मम वा परिकर्म? ॥ २७ ॥
पारिजातविटपान् अभितो या पुष्पसम्पदुदियात् करिनाथ! । तां विडम्बयति तावकबाहुषु आतता तु कटकाङ्गदलक्ष्मीः ॥ २८ ॥

मथ्यमानचलफेनिलसिन्धु प्रोत्थितिक्षणदशां गमितौ ते । वक्षसि स्फुरितमौक्तिकहारे कौस्तुभश्च कमला च करीश! ॥ २९ ॥
अञ्जनक्षितिभृतो यदि नाम उपत्यका वरद! हेममयी स्यात् । तादृशी तव विभाति तु लक्ष्मीः आम्बरी बत विडम्बितविद्युत् ॥ ३० ॥
परभागमियाद् रवेस्तमिस्रा वरदाद्य त्वयि तन्निशामयामः । गमिता तव वक्त्रचित्रभानोः परभागं ननु कौन्तली तमिस्रा ॥ ३१ ॥
उभयोरपि पक्षयोस्तिथिर्या विषमीभावनिरासदाऽष्टमीति । उपमानजसम्पदे हि सेन्दोः वरदाभूद् भवतो ललाटलक्ष्म्या ॥ ३२ ॥
अलकालिचिकीर्षया किलात्ता सुपरीचिक्षिषया ललाटपट्टे । सुमषी निकषीकृता भ्रुवौ ते वरद! स्यादकृतत्वतस्तु नैवम् ॥ ३३ ॥
श्रवसश्च दृशश्च शब्दरूप ग्रहणे ते न हि जीववद् व्यवस्था । उभयोरखिलेक्षणक्षमत्वात् वरदातः! श्रवणाश्रये दृशौ ते ॥ ३४ ॥
करुणारसवाहिवीक्षणोर्मेः वरद! प्रेममयप्रवाहभाजः । तततीरवनावली भ्रुवौ दृक् चलसिन्धोस्तव नासिकेव सेतुः ॥ ३५ ॥
विभवं विवृणोति विस्तृणीते रुचं आविष्कुरुते कृपामपाराम् । अभिवर्षति हर्षं आर्द्रभावं तनुते ते वरदैष दृष्टिपातः ॥ ३६ ॥

अरुणाधरपल्लवे लसन्ती वरदासौ द्विजचन्द्रचन्द्रिका ते । अधिविद्रुमं अस्तनिस्तलालीरुचमाविष्कुरुते हि पुष्कराक्ष! ॥ ३७ ॥
स्मितनिर्झरिका विनिष्पतन्ती तव वक्षस्स्थलभूतले विशीर्णा । वरद! प्रबिभर्ति हारलक्ष्मीं अपि मुक्तावलिका नदीव तज्जा ॥ ३८ ॥
परिमण्डितरासमण्डलाभिः वरदाघ्रातं अभीष्टगोपिकाभिः । अनुवर्तितदातनप्रहर्षात् इव फुल्लं हि कपोलयोर्युगं ते ॥ ३९ ॥
मुखमुन्नसं आयताक्षं उद्यत् स्मितदन्तं रुचिराधरं नतभ्रु । लसदंसविलम्बि कर्णपाशं मयि ते निश्चलमस्तु हस्तिनाथ! ॥ ४० ॥
पद्मायाः प्रणयरसात् समासजन्त्याः स्वं बाहुं सुबहुमतो भुजेन तेन । कां नामान्वभवदहो! दशां तदात्वे कण्ठस्ते करिगिरिनाथ! कम्बुकान्तः ॥ ४१ ॥
सायामा धृतपरिणद्धयोऽब्धयो वा तादृश्यः स्फुटमथ वा दिशश्चतस्रः । चत्वारो वरद! वरप्रदास्त्वदीयाः भासन्ते भुजपरिघास्तमालनीलाः ॥ ४२ ॥

आश्लेषे वरद! भुजास्तवेन्दिरायाः गोपीनामभिमतरासबन्धने वा । बन्धे वा मुदमधिकां यशोदयाऽऽहो! सम्प्राप्तास्तव नवनीतमोषदोषात् ॥ ४३ ॥
सालीया इव विटपाः सपल्लवाग्राः कल्लोला इव जलधेः सविद्रुमाग्राः । भोगीन्द्रा इव च फणामणीद्धवक्त्राः भासन्ते वरद! भुजास्तवारुणाग्राः ॥ ४४ ॥

अम्भोधेः स्वयमभिमन्थनं चकर्थ क्षोणीध्रं पुनरबिभश्च सप्तरात्रम् । सप्तानां विवलयसि स्म कण्ठमुक्ष्णां अम्लाना वरद! तथाऽपि पाणयस्ते ॥ ४५ ॥
रिङ्खातो व्रजसदनाङ्गणेषु किं ते गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् । आलम्बाद्धयनयसूत्रतोत्रयोर्वा पाणीनां वरद! तवारुणत्वमासीत् ॥ ४६ ॥
सर्वज्ञाः समुचितशक्तयः सदैव त्वत्सेवानियमजुषस्त्वदेकभोगाः । हेतीनामधिपतयः सदा किमेतान् शोभार्थं वरद! बिभर्षि? हर्षतो वा? ॥ ४७ ॥
किं धातुर्गगनविधानमातृकाऽभूत् वक्षस्ते वरद! वरेण्य! यत्र नाम । पद्माया मुखमथ कौस्तुभश्च जातौ चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८ ॥
अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद् वरद! कथं नु कार्श्यमस्य? । माहात्म्यं स्वत इह येषु नूनमेषां ऋद्धिः स्यान्महिमकरी न हीतरेषाम् ॥ ४९ ॥
सौन्दर्यामृतरसवाहवेगजः स्यात् आवर्तस्तव किल पद्मनाभ! नाभिः । तत्पद्मं वरद! विभाति कान्तिमय्याः लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५० ॥

या दामोदर इति नामदा तवासीत् सा दामा किल किणकारिणी बभूव । तन्नूनं वरद! वलित्रयच्छलेन त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१ ॥
यादृग्बीजाध्युषितभुवि यद् वस्तु हस्तीश! जातं तत् तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत्। यस्मादण्डाध्युषित उदरे तावके जायमानं पद्मं पद्मानन! किल फलत्यण्डषण्डानखण्डान् ॥५२॥
अज्ञे यज्ञेश्वर! किल जने क्वाप्यदर्शा विमर्शं विश्वाधीशः कतम इति तन्निर्णयं वर्णयामः । व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि ब्रह्माद्यास्ते वरद! जनितास्तुन्दकन्दारविन्दे ॥५३॥
मुष्णन् कृष्णः प्रियनिजजनैः जैय्यहेङ्गवीनं दाम्ना भूम्ना वरद! हि यया त्वं यशोदाकराभ्याम् । बद्धो बन्धक्षपणकरणीं तां किलाद्यापि मातुः प्रेम्णा गात्राभरणं उदराबन्धनाख्यं बिभर्षि ॥५४॥
सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा स्थानाल्पत्वाद् विषमगतिजावर्तगर्ताभनाभिः । प्राप्य प्राप्तप्रथिम जघनं विस्मृता हस्तिनाथ! स्रोतोभेदं भजति भवतः पाददेशापदेशात् ॥५५॥
रम्भास्तम्भाः करिवरकराः कारभाः सारभाजः वेषाश्लेषा अपि मरकतस्तम्भमुख्यास्तुलाख्याः । साम्यं सम्यग् वरद! न दधुः सर्वमुर्वोस्त्वदूर्वोः न ह्यैश्वर्यं दधति न तथा यौवनारम्भजृम्भात्॥५६॥
या ते गात्रे वरद! जनिता कान्तिमय्यापगाऽभूत् तस्याः स्रोतोयुगलमिह तद् याति पादप्रवादम्। तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते स्यादुक्ष्णोर्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥५७॥

प्रेम्णाऽऽघ्रातुं करिगिरिशिरोऽधोमुखीभावभाजोः अङ्घ्रिद्वन्द्वाह्वयकमलयोः दण्डकाण्डायमाने । अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात् द्रष्टुर्दृष्टिर्वरद! किमलं लङ्घितुं जङ्घिके ते ॥५८॥
भक्तानां यद् वपुषि दहरं पण्डितं पुण्डरीकं यच्चाम्लानं वरद! सतताध्यासनादासनाब्जम् । आम्नायानां यदपि च शिरो यश्च मूर्धा शठारेः हस्त्यद्रेर्वा किमति सुखदं तेषु पादाब्जयोस्ते? ॥५९॥
पद्यास्वद्याङ्गुलिषु वरद! प्रान्ततः कान्तिसिन्धोः वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु । विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते छायाच्छद्मा नखविततितां लुम्बितः शुम्भितः सन् ॥६०॥
शम्भोरम्भोरुहमुख! सखा सन् सहाङ्कः शशाङ्कः कुर्वन् सेवां वरद! विकलो वृत्तहीनः सुवक्रः । त्वत्पादाब्जे प्रियमख नखच्छद्मनाश्रित्य नित्यं सद्वृत्तोऽभूत् स तु दशगुणः पुष्कलो निष्कलङ्कः॥६१||

त्वत्पादाब्जे प्रजाता सुरसरिदभवत् प्राक् चतुर्धा ततस्तासु एकां धत्ते ध्रुवः सा त्रिभुवनमपुनात् त्रीन् पथो भावयन्ती ।

तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुनः सत्पधाऽभूत् तास्वेका गां पुनाना वरद! सगरजस्वर्गसर्गं चकार ॥६२॥
परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते । परमपदं अथाण्डान्यात्मदेहस्तथाऽऽत्मा वरद! सकलमेतत् संश्रितार्थं चकर्थ ॥६३॥
अनाप्तं ह्याप्तव्यं न तव किञ्चिद् वरद! ते जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् । तथापि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान् समाश्लेष्टुं पेष्टुं तदसुखकृतां चावतरसि ॥ ६४ ॥
विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत् महत्वभिनिवेशनं किमुत तन्महिम्नस्तव । अहो! विसदृशे जगत्यवततर्थ पार्थादिकं निजं जनमुदञ्चयन् वरद! तं समाश्लेषकः ॥ ६५ ॥
संश्लेषे भजतां त्वरापरवशः कालेन संशोध्य तान् आनीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत ।

अक्षाम्यन् क्षमिणां वरो वरद! सन् अत्रावतीर्णो भवेः किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥६६॥

वरद! यदि न भुव्यवातरिष्यः श्रुतिविहिताः त्वदुपासनार्चनाद्याः । करणपथविदूरगे सति त्वयि अविषयतानिकृताः किलाभविष्यन् ॥६७॥
यदपराधसहस्रं अजस्रजं त्वयि शरण्य! हिरण्य उपावहत् । वरद! तेन चिरं त्वमविक्रियः विकृतिमर्भकनिर्भजनादगाः ॥६८॥
त्वामामनन्ति कवयः करुणामृताब्धे! ज्ञानक्रियाभजनलभ्यं अलभ्यमन्यैः । एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥ ६९ ॥

भजत्सु वात्सल्यवशात् समुत्सुकः प्रकाममत्रावतरेर्वरप्रद! । भवेश्च तेषां सुलभोऽथ किं न्विदं यदङ्ग दाम्ना नियतः पुराऽरुदः! ॥ ७० ॥
नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः । स्तम्भे च सम्भवस्ते पिशुनयति परेशतां वरद! ॥७१॥
तापत्रयीमयदवानलदह्यमानं मुह्यन्तमन्तमवयन्तं अनन्त! नैव । स्थातुं प्रयातुमुपयातुं अनीशं ईश! हस्तीश! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥७२॥

नानाविरुद्धविदिशासु दिशासु चाहो वन्ध्यैर्मनोरथशतैर्युगपद् विकृष्टैः । त्वत्पादयोरनुदितस्पृह एव सोऽहं न स्वस्ति हस्तिगिरिनाथ! निशामयामि ॥ ७३ ॥
है! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ लिप्सामलब्धवति चेतसि दुर्विनीते । दुष्कर्मवर्मपरिकर्मित एष सोऽहं अग्रे वरप्रद! तव प्रलपामि किञ्चित् ॥ ७४ ॥

सव्याधिराधिरवितुष्टिरनिष्टयोगः स्वाभीष्टभञ्जनं अमर्षकरो निकर्षः । कृन्तन्ति सन्ततमिमानि मनो मदीयं हस्तीश! न त्वदभिलाषनिधिप्रहाणिः ॥७५॥

विद्वेषमानमदरागविलोभमोहाद्याजानभूमिरहमत्र भवे निमज्जन् । निर्द्वन्द्व नित्य निरवद्य महागुणं त्वां हस्तीश! कः श्रयितुमीक्षितुमीप्सितुं वा ॥७६॥
पुत्रादयः कथममी मयि संस्थिते स्युः? इत्यप्रतिक्रियनिरर्थकचिन्तनेन । दूये न तु स्वयमहं भवितास्मि कीदृग् इत्यस्ति हस्तिगिरिनाथ! विमर्शलेशः ॥७७॥
शम्पाचलं बहुलदुःखं अनर्थहेतुः अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् । दुर्वासनाद्रढिमतः सुखमिन्द्रियोत्थं हातुं न मे मतिरलं वरदाधिराज! ॥७८॥
बुद्ध्वा च नो च विहिताकरणैर्निषिद्धसंसेवनैस्त्वदपचारशतैरसह्यैः । भक्तागसामपि शतैर्भवताऽप्यगण्यैः हस्तीश! वाक्तनुमनोजनितैर्हतोऽस्मि ॥७९॥
त्वद्दास्यमस्य हि मम स्वरसप्रसक्तं तच्चोरयन्नयमहं किल चस्खल प्राक् । त्वं मामकीन इति मामभिमन्यसे स्म हस्तीश! संशमय नस्तमिमं विवादम् ॥८०॥
भोगा इमे विधिशिवादिपदं च किञ्च स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता । सर्वं तदूषजलजोषमहं जुषेय हस्त्यद्रिनाथ! तव दास्यमहारसज्ञः ॥८१॥
विषयविषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे । अगतिरशरणो भवाब्धौ लुठन् वरद! शरणमित्यहं त्वां वृणे ॥८२॥
अकृतसुकृतकः सुदुष्कृत्तरः शुभगुणलवलेशदेशातिगः । अशुभगुणपरस्सहस्रावृतो वरदमुरुदयं गतिं त्वां वृणे ॥८३॥
शरणवरणवागियं योदिता न भवति बत! साऽपि धीपूर्विका । इति यदि दयनीयता मय्यहो! वरद! तव भवेत्ततः प्राणिमि ॥८४॥
निरवधिषु कृतेषु चागस्स्वहो! मतिरनुशयिनी यदि स्यात्ततः । वरद! हि दयसे न संशेमहे निरनुशयधियो हता है! वयम् ॥८५॥
शरणवरणवागियं याऽद्य मे वरद! तदधिकं न किञ्चिन्मम । सुलभमभिमतार्थदं साधनं तदयमवसरो दयायास्तव ॥ ८६ ॥

विषयविषयिणी स्पृहा भूयसी तव तु चरणयोर्न साऽल्पापि मे । वरद! ननु भरस्तवैव त्वयं यदुत तव पदस्पृहाजन्म मे ॥ ८७ ॥

इयमिह मतिरस्मदुज्जीवनी वरद! तव खलु प्रसादादृते । शरणमिति वचोऽपि मे नोदियात्त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८ ||

वरद! यदिह वस्तु वाञ्छाम्यहं तव चरणलभाविरोधस्ततः । यदि न भवति तत्-प्रदेहि प्रभो! झटिति वितर पादमेवान्यथा ॥ ८९ ॥

तदपि किमपि हन्त! दुर्वासनाशतविवशतया यदभ्यर्थये । तदतुलदय! सार्व! सर्वप्रद! प्रवितर वरद! क्षमाम्भोनिधे ॥ ९० ॥

प्रियमितरदथापि वा यद्यथा वितरसि वरद! प्रभो! त्वं हि मे । तदनुभवनमेव युक्तं तु मे त्वयि निहितभरोऽस्मि सोऽहं यतः ॥ ९१ ॥
यथाऽसि यावानसि योऽसि यद्गुणः करीश! यादृग्विभवो यदिङ्गितः । तथाविधं त्वाऽहमभक्तदुर्ग्रहं प्रपत्तिवाचैव निरीक्षितुं वृणे ॥९२॥
अये! दयालो! वरद! क्षमानिधे! विशेषतो विश्वजनीन! विश्वद! । हितज्ञ! सर्वज्ञ! समग्रशक्तिक! प्रसह्य मां प्रापय दास्यमेव ते  ॥९३॥
स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनाद्भजन्ति ये त्वां त्वयि भक्तितोऽथवा । करीश! तेषामपि तावकी दया तथात्वकृत्सैव तु मे बलं मतम् ॥९४॥
यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो निरुद्यमो निष्कृतदुष्कृतो न च । लभेय पादौ वरद! स्फुटास्ततः क्षमादयाद्यास्तव मङ्गला गुणाः ॥९५॥
विलोकनैर्विभ्रमणैरपि भ्रुवोः स्मितामृतैरिङ्गितमङ्गलैरपि । प्रचोदितस्ते वरद! प्रहृष्टधीः कदा विधास्ये वरिवस्यनं तव ॥९६॥
विविश्य विश्वेन्द्रियतर्षकर्षणीर्मनस्स्थले नित्यनिखातनिश्चलाः । सुधासखीर्हस्तिपते! सुशीतला गिरः श्रवस्याश्शृणुयाम तावकीः ॥९७॥
अशेषदेशाखिलकालयोगिनीष्वहं त्ववस्थास्वखिलास्वनन्यधीः । अशेषदास्यैकरतिस्तदाचरन् करीश! वर्तेय सदा त्वदन्तिके ॥९८॥
इमं जनं हन्त! कदाऽभिषेक्ष्यति त्वदक्षिनद्योर्वरद! श्रमापहा । अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ॥९९॥
सदातनत्वेऽपि तदातनत्ववन्नवीभवत्प्रेमरसप्रवाहया । निषेवितं त्वां सततोत्कया श्रिया करीश! पश्येम परश्शतं समाः ॥१००॥
समाहितैस्साधु सनन्दनादिभिस्सुदुर्लभं भक्तजनैरदुर्लभम् । अचिन्त्यमत्यद्भुतमप्रतर्कणं वरप्रद! त्वत्पदमाप्नुयां कथम्? ॥१०१॥
रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपस्त्वासीत्स यामुनमुनेस्सच नाथवंश्यः । वंश्यः पराङ्कुशमुनेस्सच सोऽपि देव्याः दासस्तवेति वरदास्मि तवेक्षणीयः ॥ १०२ ॥

॥ इति पञ्चस्तव्यां वरदराजस्तवः समाप्तः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.