सुन्दरबाहुस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः

॥सुन्दरबाहुस्तवः॥

श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥
सुन्दरायतभुजं भहामहे वृक्षषण्डमयमद्रिं आश्रितम् । यत्र सुप्रथितनूपुरापगातीर्थं अर्थितफलप्रदं विदुः ॥ २ ॥
क्वचित् त्वरितगामिनी क्वचन मन्दमन्दालसा क्वचित् स्खलितविह्वला क्वचन फेनिला सारवा । पतन्त्यपि किल क्वचित् व्रजति नूपुराह्वा नदी सुसुन्दरभुजाह्वयं मधु निपीय मत्ता यथा ॥ ३ ॥
उदधिगमन्दराद्रिमथिमन्थनलब्धपयोमधुररसेन्दिराह्वसुध सुन्दरदोः परिघम् । अशरणमादृशात्मशरणं शरणार्थिजनप्रवणधियं भजेम तरुषण्डमयाद्रिपातिम् ॥ ४ ॥
शशधररिङ्खणाढ्यशिखं उच्छिखरप्रकरं तिमिरनिभप्रभूततरुषण्डमयं भ्रमदम् । भिदुरितसप्तलोकसुविशृङ्खलशङ्खरवं वनगिरिं आवसन्तं उपयामि हरिं शरणम् ॥ ५ ॥
यत्तुङ्गशृङ्गविनिषङ्गिसुराङ्गनानां न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानाम् । दर्पण्यभूत् धृतमपङ्कशशाङ्कपृष्ठं तद् धाम सुन्दरभुजस्य महान् वनाद्रिः ॥ ६ ॥
यदीयशिखरागतां शशिकलां तु शाखामृगाः निरीक्ष्य हरशेखरीभवनं आमृशन्तस्ततः । स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटं स एष सुमहातरुव्रजगिरिः गृहं श्रीपतेः ॥ ७ ॥
सुन्दरदोर्दिव्याज्ञालम्भन कातरवशानुयायिनि करिणि । प्रणयजकलहसमाधिः यत्र वनाद्रिः स एष सुन्दरदोष्णः ॥ ८ ॥
स एष सौन्दर्यनिधेः धृतश्रियो वनाचलो नाम सुधाम यत्र हि । भुजङ्गराजस्य कुलस्य गौरवात् न खण्डिताः कुण्डलिनः शिखण्डिभिः ॥ ९ ॥
वृषगिरिरयं अच्युतस्य यस्मिन् स्वमतमलङ्घयितुं परस्परेभ्यः । खगपतिचरणौ खगाः शपन्ते भुजगपतेर्भुजगाश्च सर्व एव ॥ १० ॥
हरिकुलं अखिलं हनूमदङ्घ्रिं स्वकुलपजाम्बवतस्तथैव भल्लाः । निजकुलपजटायुषश्च गृध्राः स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥ ११ ॥
वकुलधरसरस्वतीविषक्तस्वररसभावयुतासु किन्नरीषु । द्रवति दृषदपि प्रसक्तगानासु इह वनशैलतटीषु सुन्दरस्य ॥ १२ ॥
भृङ्गी गायति हंसतालनिभृतं तत् पुष्णती कोकिलाऽपि उद्गायत्यथ वल्लितल्लजमुखादास्रं मधु स्यन्दते । निस्स्पन्दस्तिमिताः कुरङ्गततयः शीतं शिलासैकतं सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन् वनक्ष्माधरे ॥ १३ ॥
पीताम्बरं वरदशीतलदृष्टिपातं आजानुलम्बिभुजं आयतकर्णपाशम् । श्रीमन्महावनगिरीन्द्रनिवासदीक्षं लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ १४ ॥
जनिजीवनाप्ययविमुक्तयो यतो जगतामिति श्रुतिशिरस्सु गीयते । तदिदं समस्तदुरितैकभेषजं वनशैलसम्भवं अहं भजे महः ॥ १५ ॥
सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः । निस्तुल्याधिकं अद्वितीयममृतं तं पुण्डरीकेक्षणं प्रारूढश्रियं आश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥ १६ ॥
पतिं विश्वस्यात्मेश्वरं इति परं ब्रह्म पुरुषः परं ज्योतिस्तत्त्वं परमपि च नारायण इति । श्रुतिर्ब्रह्मेशादीन्स्तदुदितविभूतींस्तु गृणती यमाहारूढश्रीः स वनगिरिधामा विजयते ॥ १७ ॥
पृथिव्याद्यात्मान्तं नियमयति यः तत्त्वनिकरं तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् । स एष स्वैश्वर्यं न विजहदशेषं वनगिरिं समध्यासीनो नो विशतु हृदयं सुन्दरभुजः ॥ १८ ॥
प्रत्यगात्मनि कदाऽप्यसम्भवद् भूमभूमिमभिवक्ति यं श्रुतिः । तं वनाद्रिनिलयं सुसुन्दरं सुन्दरायतभुजं भजामहे ॥ १९ ॥
वन्देय सुन्दरभुजं भुजगेन्द्रभोगसक्तं महावनगिरिप्रणयप्रवीणम् । यं तं विदुर्दहरमष्टगुणोपजुष्टं आकाशं औपनिषदीषु सरस्वतीषु ॥ २० ॥
यत् स्वायत्तस्वरूपस्थिति कृतिक निजेच्छा नियाम्यस्वशेषानन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः । विश्वैः शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्यः तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायताक्षम् ॥ २१ ॥
गुणजं गुणिनो हि मङ्गलत्वं प्रमितं प्रत्युत यत्स्वरूपमेत्य । तमनन्तसुखावबोधरूपं विमलं सुन्दरबाहुमाश्रयामः ॥ २२ ॥
अतिपतितावधि स्वमहिमानुभवप्रभवत् सुखकृत निस्तरङ्ग जलधीयित नित्यदशम् । प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं हरिमिह सुन्दराह्वं उपयामि वनाद्रितटे ॥ २३ ॥
सदा षाड्गुण्याख्यैः पृथुलबल विज्ञानशकनप्रभावीर्यैश्वर्यैरवधि विधुरैरेधितदशम् । द्रुमस्तोमक्ष्माभृत्परिसर महोद्यानमुदितं प्रपद्येऽध्यारूढश्रियं इममहं सुन्दरभुजम् ॥ २४ ॥
सौशील्याश्रित वत्सलत्व मृदुता सौहार्दसाम्यार्जवैः धैर्यस्थैर्य सुवीर्यशौर्य कृतिता गाम्भीर्यचातुर्यकैः । सौन्दर्यान्वित सौकुमार्य समता लावण्य मुख्यैर्गुणैः देवः श्रीतरुषण्ड शैलनिलये नित्यं स्थितः सुन्दरः ॥ २५ ॥
येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरं स्वाश्रयं कुर्यात् तादृशवैभवैरगणितैर्निस्सीम भूमान्वितैः । नित्यैर्दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदात्माश्रयैः इद्धं सुन्दरबाहुमस्मि शरणं यातो वनाद्रीश्वरम् ॥ २६ ॥
सदा समस्तं जगदीक्षते हि यः प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः । स ईदृशज्ञाननिधिर्निधिस्तु नः सिंहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७ ॥
ऐश्वर्यतेजोबलवीर्यशक्तयः कीदृग्विधाः सुन्दरबाहुसंश्रयाः । योऽसौ जगज्जन्मलयस्थितिक्रियाः सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८ ॥
यत् कल्पायुतभोगतोऽपि कृशतां यायान्न तावत्फलं येष्वेकस्य तथाविधैः सततजैः अंहोभिरुत्सीमभिः । अस्तादाविह संसृतावुपचितैश्छन्नं सुसन्नं जनं सन्नत्या क्षमते क्षणाद् वनगिरिप्रस्थप्रियः सुन्दरः ॥ २९ ॥
यज्जातीयो यादृशो यत्स्वभावः पादच्छायां संश्रितो योऽपि कोऽपि । तज्जातीयस्तादृशस्तत्स्वभावः श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३० ॥
निहीनो जात्या वा भृशमकुशलैर्वा स्वचरितैः पुमान् वै यः कश्चिद् बहुतृणमपि स्यादगुणतः । श्रयन्तं तं पश्येद् भुजगपतिना तुल्यमपि यो वनाद्रिप्रस्थस्थः स मम शरणं सुन्दरभुजः ॥ ३१ ॥
एकैकमङ्गलगुणानुभवाभिनन्दं ईदृक् त्वियानिति च सुन्दरदोष्णि कृष्णे । ते ये शतं त्विति नियन्तुमनाः श्रुतिर्है नैवैष वाङ्मनसगोचर इत्युदाह ॥ ३२ ॥
अब्जपादं अरविन्दलोचनं पद्मपाणितलं अञ्जनप्रभम् । सुन्दरोरुभुजं इन्दिरापतिं वन्दिषीय वरदं वनाद्रिगम् ॥ ३३ ॥
कनकमरकताञ्जनद्रवाणां मथनसमुत्थितसारमेलनोत्थम् । जयति किमपि रूपमस्य तेजो वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४ ॥
किं नु स्वयं स्वात्मविभूषणं भवन् असावलङ्कार इतीरितो जनैः । वर्द्धिष्णुबालद्रुमषण्डमण्डितं वनाचलं वा परितः प्रसाधयन् ॥ ३५ ॥
सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः सुसौगन्ध्यैर्दिव्याभरणगणदिव्यायुधगणैः । अलङ्कार्यैः सर्वैर्निगदितं अलङ्कार इति यः समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥ ३६ ॥
मकुटमकुटमालोत्तंसचूडाललामस्वलकतिलकमालाकुण्डलैः सोर्ध्वपुण्ड्रैः । मणिवरवनमालाहारकेयूरकण्ठ्यैः तुलसिकटककाञ्चीनूपुराद्यैश्च भूषैः ॥ ३७ ॥
असिजलजरथाङ्गैः शार्ङ्गकौमोदकीभ्यां अगणितगुणजालैरायुधैरप्यथान्यैः । सततविततशोभं पद्मनाभं वनाद्रेः उपवनसुखलीलं सुन्दरं वन्दिषीय ॥ ३८ ॥
आजानजस्वगतबन्धुरगन्धलुब्धभ्राम्यद्विदग्धमधुपालिसदेशकेशम् । विश्वाधिराज्यपरिबर्हकिरीटराजं है! सुन्दरस्य बत सुन्दरमुत्तमाङ्गम् ॥ ३९ ॥
अन्धं तमस्तिमिरनिर्मितमेव यत् स्यात् तत्सारसाधितसुतन्त्वतिवृत्तवार्तम् । ईशस्य केशवगिरेरलकालिजालं तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४० ॥
जुष्टाष्टमीकज्वलदिन्दुसन्निभं धृतोर्ध्वपुण्ड्रं विलसद्विशेषकम् । भूम्ना ललाटं विपुलं विराजते वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१ ॥
सुचारुचापद्वयविभ्रमं भ्रुवोः युगं सुनेत्राह्वसहस्रपत्रयोः । उपान्तगं वा मधुपावलीयुगं विराजते सुन्दरबाहुसंश्रयम् ॥ ४२ ॥
अदीर्घमप्रेमदुघं क्षणोज्ज्वलं न चोरमन्तःकरणस्य पश्यताम् । अनुब्जमब्जं नु कथं निदर्शनं वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३ ॥
प्रश्च्योतत्प्रेमसारामृतरसचुलकप्रक्रमप्रक्रियाभ्यां विक्षिप्तालोकितोर्मिप्रसरणमुषितस्वान्तकान्ताजनाभ्याम् । विश्वोत्पत्तिप्रवृत्तिस्थितिलयकरणैकान्तशान्तक्रियाभ्यां देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षतामीक्षणाभ्याम् ॥ ४४ ॥
प्रेमामृतौघपरिवाहिमहाक्षिसिन्धुमध्ये प्रबद्धसमुदञ्चितसेतुकल्पा । ऋज्वी सुसुन्दरभुजस्य विभाति नासा कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५ ॥
व्याभाषिताभ्यधिकनन्दनभन्दनर्द्धि मन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् । आभाति विद्रुमसमाधरमास्यमस्य देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६ ॥
यशोदाङ्गुल्यग्रोन्नमितचिबुकाघ्राणमुदितौ कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ । विराजेते विष्वग्विततसहकारासवरसप्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेः सुन्दरहरेः ॥ ४७ ॥
व्यालम्बिकुण्डलं उदग्रसुवर्णपुष्पनिष्पन्नकल्पलतिकायमलानुकारम् । यत्कर्णपाशयुगलं निगलं धियां नः सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८ ॥
सदंससंसञ्जितकुन्तलान्तिकावतीर्णकर्णाभरणाढ्यकन्धरः । सुबन्धुरस्कन्धनिबन्धनो युवा सुसुन्दरः सुन्दरदोर्विजृम्भते ॥ ४९ ॥
व्यूढगूढभुजजत्रुं उल्लसत् कम्बुकन्धरधरं धराधरम् । वृक्षषण्डमयभूभृतस्तटे सुन्दरायतभुजं भजामहे ॥ ५० ॥
मन्दरभ्रमणविभ्रमोद्भटाः सुन्दरस्य विलसन्ति बाहवः । इन्दिरासमभिनन्दभन्दनाः चन्दनागुरुविलेपभूषिताः ॥ ५१ ॥
ज्याकिणाङ्कपरिकर्मधर्मिणो भान्ति सुन्दरभुजस्य बाहवः । पारिजातविटपायितर्द्धयः प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२ ॥
सागराम्बरतमालकाननश्यामलर्द्धय उदारपीवराः । शेषभोगपरिभोगभागिनः तन्निभा वनगिरीशितुर्भुजाः ॥ ५३ ॥
अहमहमिकाभाजो गोवर्धनोद्धृतिनर्मणि प्रमथनविधावब्धेर्लब्धप्रबन्धसमक्रियाः । अभिमतबहूभावाः कान्ताभिरम्भणसम्भ्रमे वनगिरिपतेर्बाहाः शुम्भन्ति सुन्दरदोर्हरेः ॥ ५४ ॥
श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्मं आरूढयोर्विमलशङ्खरथाङ्गयोस्तु । एकोऽब्जमाश्रित इवोत्तमराजहंसः पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५ ॥
लक्ष्म्याः पदं कौस्तुभसंस्कृतं च श्रीवत्सभूमिर्विमलं विशालम् । विभाति वक्षो वनमालयाऽऽढ्यं वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६ ॥
सौन्दर्यामृतसारपूरपरिवाहावर्तगर्तायितं यातः किञ्च विरिञ्चिसम्भवनभूम्यभोजसम्भूतिभूः । नाभिः शुम्भति कुम्भिकुम्भनिभनिर्भातस्तनस्वर्वधूसम्भुक्तद्रुमषण्डशैलवसतेरारूढलक्ष्म्या हरेः ॥ ५७ ॥
सुन्दरस्य किल सुन्दरबाहोः श्रीमहातरुवनाचलभर्तुः हन्तः! यत्र निवसन्ति जगन्ति प्रापितक्रशिम तत् तनुमध्यम् ॥ ५८ ॥
पिष्टदुष्टमधुकैटभकीटौ हस्तिहस्तयुगलाभसुवृत्तौ । राजतः क्रमकृशौ च सदूरू सुन्दरस्य वनभूधरभर्तुः ॥ ५९ ॥
यौवनवृषककुदोद्भेदनिभं नितरां भाति विभोरुभयं जानु शुभाकृतिकम् । सुन्दरभुजनाम्नो मन्दरमथिताब्धेः चन्दनवनविलसत्कन्दरवृषभपतेः ॥ ६० ॥
अधोमुखं न्यस्तपदारविन्दयोः उदञ्चितोदात्तसुनालसन्निभे । विलङ्घ्य जङ्घे क्व नु रंहतो दृशौ वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१ ॥
सुसुन्दरस्यास्य पदारविन्दे पादारविन्दाधिकसौकुमार्ये । अतोऽन्यथा ते बिभृयात् कथं नु तदासनं नाम सहस्रपत्रम् ॥ ६२ ॥
सौन्दर्यमार्दवसुगन्धरसप्रवाहैः एते हि सुन्दरभुजस्य पदारविन्दे । अम्भोजडम्भपरिरम्भणं अभ्यजैष्टां तद् वै पराजितमिमे शिरसा बिभर्ति ॥ ६३ ॥
एते ते बत सुन्दराह्वयजुषः पादारविन्दे शुभे यन्निर्णेजसमुत्थितत्रिपथगास्रोतस्सु किञ्चित् किल । धत्तेऽसौ शिरसा ध्रुवः तदपरं स्रोतो भवानीपतिः यस्यास्यालकनन्दिकेति निजगुः नामैवं अन्वर्थकम् ॥ ६४ ॥
आम्नायकल्पलतिकोत्थसुगन्धिपुष्पं योगीन्द्रहार्दसरसीरुहराजहंसम् । उत्पक्वधर्मसहकारफलप्रकाण्डं वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५ ॥
सुसुन्दरस्यास्य तु वामनाकृतेः क्रमत्रयप्रार्थिनि मानसे किल । इमे पदे तावदिहासहिष्णुनी विचक्रमाते त्रिजगत् पदद्वये ॥ ६६ ॥
सौन्दर्यसारामृतसिन्धुवीचीश्रेणीषु पादाङ्गुलिनामिकासु । न्यक्कृत्य चन्द्रश्रियमात्मकान्त्या नखावली शुम्भति सुन्दरस्य ॥ ६७ ॥
यो जातक्रशिमा मली च शिरसा सम्भावितः शम्भुना सोऽयं यच्चरणाश्रयी शशधरो नूनं नखव्याजतः । पूर्णत्वं विमलत्वमुज्ज्वलतया सार्धं बहुत्वं तथा यातस्तं तरुषण्डशैलनिलयं वन्दामहे सुन्दरम् ॥ ६८ ॥
यस्याः कटाक्षणं अनुक्षणं ईश्वराणां ऐश्वर्यहेतुरिति सर्वजनीनमेतत् । श्रीः सेति सुन्दरनिषेवणतो निराहुः तं हि श्रियः श्रियमुदाहुरुदारवाचः ॥ ६९ ॥
दिव्याचिन्त्यमहाद्भुतोत्तमगुणैस्तारुण्यलावण्यकप्रायैरद्भुतभावगर्भसततापूर्वप्रियैर्विभ्रमैः । रूपाकारविभूतिभिश्च सदृशीं नित्यानपेतां श्रियं नीलां भूमिमपीदृशीं रमयिता नित्यं वनाद्रीश्वरः ॥ ७० ॥
अन्योन्यचेष्टितनिरीक्षणहार्दभावप्रेमानुभावमधुरप्रणयप्रभावः । आजस्रनव्यतरदिव्यरसानुभूतिः स्वां प्रेयसीं रमयिता वनशैलनाथः ॥ ७१ ॥
सुन्दरस्य वनशैलवासिनो भोगमेव निजभोगमाभजन् । शेष एष इति शेषताकृतेः प्रीतिमान् अहिपतिः स्वनामनि ॥ ७२ ॥
वाहनासनवितानचामरादि आकृतिः खगपतिस्त्रयीमयः । नित्यदास्यरतिरेव यस्य वै ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३ ॥
वनाद्रिनाथस्य सुसुन्दरस्य वै प्रभुक्तशिष्टाश्यथ सेन्यसत्पतिः । समस्तलोकैकधुरन्धरः सदा कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४ ॥
छत्रचामरमुखाः परिच्छदाः सूरयः परिजनाश्च नैत्यगाः । सुन्दरोरुभुजमिन्धते सदा ज्ञानशक्तिमुखनित्यसद्गुणाः ॥ ७५ ॥
द्वारनाथगणनाथतल्लजाः पारिषद्यपदभागिनस्तथा । मामकाश्च गुरवः पुरातनाः सुन्दरं वनमहीध्रगं श्रिताः ॥ ७६ ॥
ईदृशैः परिजनैः परिच्छदैः नित्यसिद्धनिजभोगभूमिगः । सुन्दरो वनगिरेस्तटीषु वै रज्यते सकलदृष्टिगोचरः ॥ ७७ ॥
आक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु वैकुण्ठधामनि समृद्धसुवापिकासु । श्रीमल्लतागृहवतीषु यथा तथैव लक्ष्मीधरः सजति सिंहगिरेस्तटीषु ॥ ७८ ॥
आनन्दमन्दिरमहामणिमण्टपान्तः लक्ष्म्या भुवाऽप्यहिपतौ सह नीलया च । निस्सङ्ख्यनित्यनिजदिव्यजनैकसेव्यो नित्यं वसन् सजति सुन्दरदोर्वनाद्रौ ॥ ७९ ॥
प्रत्यर्थिनि त्रिगुणकप्रकृतेरसीम्नि वैकुण्ठधामनि पराम्बरनाम्नि नित्ये । नित्यं वसन् परमसत्त्वमयेऽप्यतीतयोगीन्द्रवाङ्मनस एष हरिर्वनाद्रौ ॥ ८० ॥
लोकांश्चतुर्दश दधत् किल सुन्दरस्य पङ्क्तीगुणोत्तरितसप्तवृतीदमण्डम् । अन्यानि चास्य सदृशानि परश्शतानि क्रीडाविधेरिह परिच्छदतामगच्छन् ॥ ८१ ॥
सुरनरतिर्यगादिबहुभेदकभिन्नमिदं जगदथ चाण्डं अण्डवरणानि च सप्त तथा । गुणपुरुषौ च मुक्तपुरुषाश्च वनाद्रिपतेः उपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२ ॥
ज्ञानिनः सततयोगिनो हि ये सुन्दराङ्घ्रिपरभक्तिभागिनः । मुक्तिमाप्य परमां परे पदे नित्यकिङ्करपदं भजन्ति ते ॥ ८३ ॥
देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः है! शीलवत्त्वं अथवाऽऽश्रितवत्सलत्वम् । ऐशस्वभावमजहद्भिरिहावतारैः योऽलञ्चकार जगदाश्रिततुल्यधर्मा ॥ ८४ ॥
सिंहाद्रिनाथ! तव वाङ्मनसातिवृत्तं रूपं त्वतीन्द्रियमुदाह रहस्यवाणी । एवं च न त्वमिह चेत् समवातरिष्यः त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५ ॥
ये भक्ता भवदेकभोगमनसोऽनन्यात्मसञ्जीवनाः तत्संश्लेषण-तद्विरोधिनिधनाद्यर्थं वनाद्रीश्वरः! । मध्येऽण्डं यदवातरः सुरनराद्याकारदिव्याकृतिः तेनैव त्रिदशैर्नरैश्च सुकरं स्वप्रार्थितप्रार्थनम् ॥ ८६ ॥
श्रीमन्! महावनगिरीश! विधीशयोस्ते मध्ये तु विष्णुरिति यः प्रथमावतारः । तेनैव चेत् तव महिम्नि जनाः किलान्धाः त्वन्मत्स्यभावमवगम्य कथं भवेयुः ॥ ८७ ॥
हे देव! सुन्दरभुज! त्वमिहाण्डमध्ये सौलभ्यतो विसदृशं चरितं महिम्नः । अङ्गीकरोषि यदि तत्र सुरैरमीभिः साम्यान्निकर्षपरिपालनमेव साधु! ॥ ८८ ॥
इहावतीर्णस्य वनाद्रिनाथ! ते निगूहतः स्वं महिमानमैश्वरम् । उमापतेः किं विजयः प्रियङ्करः प्रियङ्करा वेन्द्रजिदस्त्रबन्धना ॥ ८९ ॥
पुच्छोत्पुच्छनमूर्च्छनोद्धतिधुतव्यावर्तितावर्तवत् संवर्तार्णवनीरपूरविलुठत्पाठीनदिव्याकृतेः । सिंहाद्रीश! न वैभवं तव कथं स्वालक्ष्यमालक्ष्यते पद्माक्षस्य जुघुक्षतोऽपि विभवं लक्ष्मीधराधोक्षज! ॥ ९० ॥
साचलावटतटाकदीर्घिकाजाह्नवीजलधिवर्धितः क्षये । शृङ्गसङ्गमितनौर्मनोरभूः अग्रतोऽण्डजवपुर्हि सुन्दर! ॥ ९१ ॥
प्रलयजनीरपूरपरिपूरितस्वनिलयावसन्नवदनभ्रमदशरण्यभूतशरणार्थिनाकिशरणं भवन् स्वकृपया । चलदुदधीरिताम्बुकलुषीक्रियाढ्यगमनः स्वपृष्ठविधृताऽचलकुल एष मीनतनुरत्र सुन्दरभुजो वनाद्रिनिलयः ॥ ९२ ॥
स्वपृष्ठे प्रष्ठाद्रिभ्रमणकरणैः किञ्च फणिनो विकृष्टिव्याकृष्टिव्यतिविधुतदुग्धाब्धिचलितैः । अविस्पन्दो नन्दन् विकसदरविन्देक्षणरुचिः पुराऽभूः सिंहाद्रेः प्रियतम हरे! कच्छपवपुः ॥ ९३ ॥
जगत् प्रलीनं पुनरुद्दिधीर्षतः सिंहक्षितिक्षिन्निलयस्थ! सुन्दर! । पुरा वराहस्य तवेयमुर्वरा दंष्ट्राह्वयेन्दोः किल लक्ष्मलक्षिता ॥ ९४ ॥
न वायुः पस्पन्दे ययतुरथवाऽस्तं शशिरवी दिशोऽनश्यन् विश्वाऽप्यचलदचला साचलकुला । नभश्च प्रश्च्योति क्वथितमपि पाथो नरहरौ त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज! ॥ ९५ ॥
अरालं पातालं त्रिदशनिलयः प्रापितलयो धरित्री निर्धूता ययुरपि दिशः कामपि दिशाम् । अजृम्भिष्टाम्भोधिः घुमुघुमिति घूर्णन् सुररिपोः विभिन्दाने वक्षस्त्वयि नरहरौ सुन्दरभुज! ॥ ९६ ॥
नखक्रकचकप्रधिक्रथितदैत्यवक्षस्स्थलीसमुत्थरुधिरच्छटाच्छुरितबिम्बितं स्वं वपुः । विलोक्य रुषितः पुनः प्रतिमृगेन्द्रशङ्कावशादत् य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७ ॥
क्षितिरियं जनिसंहृतिपालनैः निगिरणोद्गिरणोद्धरणैरपि । वनगिरीश! तवैव सती कथं वरद वामन भिक्षणमर्हति ॥ ९८ ॥
भार्गवः किल भवन् भवान् पुरा कुन्दसुन्दरवनाचलेश्वर! । अर्जुनस्य बलदर्पितस्य तु च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९ ॥
आज्ञा तवात्रभवती विदिता त्रयी सा धर्मं तदुक्तमखिलेन वनाद्रिनाथ! । अन्यूनमाचरितुं आस्तिकशिक्षणार्थं अत्रावतीर्य किल सुन्दर! राघवोऽभूः ॥ १०० ॥
वनगिरिपतिरीशितेति देवैः त्रिपुरहरत्रिपुरघ्नचापभङ्गात् । व्यगणि परशुरामदर्शितस्य स्वकधनुषः परिमर्शदर्शनाच्च ॥ १०१ ॥
अनवाप्तमत्र किल लिप्स्यते जनैः न च लब्धमेतदिह भोक्तुमिष्यते । अनवाप्तमत्र किल नास्ति राम! तद् जगती त्वया तृणमवैक्षि सुन्दर! ॥ १०२ ॥
शिखरिषु विपिनेष्वप्यापगास्वच्छतोयासु अनुभवसि रसज्ञो दण्डकारण्यवासान् । तदिह तदनुभूतौ साभिलाषोऽद्य राम! श्रयसि वनगिरीन्द्रं सुन्दरीभूय भूयः ॥ १०३ ॥
उपवनतरुषण्डैर्मण्डिते गण्डशैलप्रणयिभवदुदन्तोद्गायिगन्धर्वसिद्धे । वनगिरितटभूमिप्रस्तरे सुन्दर! त्वं भजसि नु मृगयानानुद्रवश्रान्तिशान्तिम् ॥ १०४ ॥
कलेऽब्धेः किल दक्षिणस्य निवसन् दूरोत्तराम्भोधिगान् दैत्यान् एकपतत्रिणाऽच्छिन इतीयं किंवदन्ती श्रुता । तत्रैवेश्वरमम्भसां व्यजयथाः! तस्माद् वनाद्रीश्वर! श्रीमन्! सुन्दर! सेतुबन्धनमुखाः क्रीडास्तवाडम्बरम् ॥ १०५ ॥
रघुकुलतिलक! त्वं जातुचिद् यातुधानच्छलमृगमृगयायां सम्प्रसक्तः पुराऽभूः । तदुपजनितखेदच्छेदनायाद्य गायन् मधुकरतरुषण्डं रज्यसे किं वनाद्रिम्? ॥ १०६ ॥
है! सुन्दरैकतरजन्मनि कृष्णभावे द्वे मातरौ च पितरौ च कुले अपि द्वे । एकक्षणादनुगृहीतवतः फलं ते नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७ ॥
त्वं हि सुन्दर! यदा स्तनन्धयः पूतनास्तनमधास्तदा नु किम्? । जीर्णमेव जठरे पयोविषं दुर्जरं वद तदात्मना सह ॥ १०८ ॥
आश्रितेषु सुलभो भवन् भवान् मर्त्यतां यदि जगाम सुन्दर! । अस्तु नाम तदुलूखले कियद्दामबद्ध इति किं तदाऽरुदः ॥ १०९ ॥
सुन्दरोरुभुज ! नन्दनन्दनः त्वं भवन् भ्रमरविभ्रमालकः । मन्दिरेषु नवनीततल्लजं वल्लवीधियमुत व्यचूचुरः ॥ ११० ॥
कालियस्य फणतां शिरस्तु मे सत्कदम्बशिखरत्वमेव वा । वष्टि जुष्टवनशैल! सुन्दर! त्वत्पदाब्जयुगमर्पितं ययोः ॥ १११ ॥
गूहितस्वमहिमाऽपि सुन्दर! त्वं व्रजे किमिति शक्रमाक्रमीः? । सप्तरात्रमदधाश्च किं गिरिं? पृच्छतश्च सुहृदः किमक्रुधः? ॥ ११२ ॥
हे नन्दनन्दन! सुसुन्दर सुन्दराह्व! बृन्दावने विहरतस्तव वल्लवीभिः । वेणुध्वनिश्रवणतस्तरुभिस्तदा वै सग्रावभिर्जतुविलायमहो विलिल्ये ॥ ११३ ॥
गायं गायं वनगिरिपते! त्वं हि बृन्दावनान्तः गोपीसङ्घैर्विहरसि यदा सुन्दर! व्यूढबाहो । रासारम्भोत्सवबहुविधप्रेम सीमन्तिनीनां चेतश्चेतस्तव च तु तदा कां दशामन्वभूताम् ॥ ११४ ॥
इङ्गितं निमिषितं च तावकं रम्यमद्भुतमतिप्रियङ्करम् । तेन कंसमुखकीटशासनं सुन्दराल्पकमपि प्रशस्यते ॥ ११५ ॥
वाराणसीदहन पौण्ड्रकभौमभङ्गकल्पद्रुमाहरणशङ्करजृम्भणाद्याः । अन्याश्च भारतबलक्रथनादयस्ते क्रीडाः सुसुन्दरभुज! श्रवणामृतानि ॥ ११६ ॥
त्वं हि सुन्दर! वनाद्रिनाथ! हे! वेङ्कटाह्वयमहीध्र मूर्धनि । देवसेवितपदाम्बुजद्वयः संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७ ॥
हस्तिशैलनिलयो भवन् भवान् साम्प्रतं वरदराजसाह्वयः । इष्टमर्थमनुकम्पया तदद् विश्वमेव दयते हि सुन्दर! ॥ ११८ ॥
मध्येक्षीरपयोधि शेषशयने शेषे सदा सुन्दर! त्वं तद्वैभवमात्मनो भुवि भवद्भक्तेषु वात्सल्यतः । विश्राण्याखिलनेत्रपात्रमिह सन् सह्योद्भवायास्तटे श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर! ॥ ११9 ॥
कल्कीभविष्यन् कलिकल्कदूषितान् दुष्टान् अशेषान् भगवन् हनिष्यति । स एष तस्यावसरः सुसुन्दर! प्रशाधि लक्ष्मीश! समक्षमेव नः ॥ १२० ॥
ईदृशास्त्वदवतारसत्तमाः सर्व एव भवदाश्रितान् जनान् । त्रातुमेव न कदाचिदन्यथा तेन सुन्दर! भवन्तमाश्रये ॥ १२१ ॥
त्वामामनन्ति कवयः करुणामृताब्धिं त्वामेव संश्रितजनिघ्नं उपघ्नमेषाम् । एषां व्रजन्निह हि लोचनगोचरत्वं हे सुन्दराह्व! परिचस्करिषे वनाद्रिम् ॥ १२२ ॥
अशक्यं नो किञ्चित् तव न च न जानासि निखिलं दयालुः क्षन्ता चास्यहमपि च नागांसि तरितुम् । क्षमोऽतस्त्वच्छेषो ह्यगतिरिति च क्षुद्र इति च क्षमस्वैतावन्नो बलमिह हरे! सुन्दरभुज! ॥ १२३ ॥
लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं सान्दीपन्यभिजं मृतं द्विजसुतान् बालांश्च वैकुण्ठगान् । गर्भं चार्जुनिसम्भवं व्युदधरः स्वेनैव रूपेण यः स्वाभीष्टं मम मद्गुरोश्च ददसे नो किं वनाद्रीश्वर! ॥ १२४ ॥
आयोध्यगान् सपशुकीटतृणांश्च जन्तून् किङ्कर्मणो नु बत कीदृशवेदनाढ्यान् । सायुज्यलभ्यविभवान् निजनित्यलोकान् सान्तानिकान् अगमयो वनशैलनाथ! ॥ १२५ ॥
हरितवारणभृत्यसमाह्वयं करिगिरौ वरदस्त्वमपूर्विकाम् । दृशमलम्भय एव हि सुन्दर! स्फुटमदाश्च परश्शतमीदृशम् ॥ १२६ ॥
इह च देव! ददासि परान् वरान्! वरद ! सुन्दर! सुन्दरदोर्धर । वनगिरेरभितस्तटमावसन् निखिललोचनगोचरवैभवः ॥ १२७ ॥
इदमिमे शृणुमो मलयध्वजं नृपमिह स्वयमेव हि सुन्दर । चरणसात् कृतवानिति तद् वयं वनगिरीश्वर! जातमनोरथाः ॥ १२८ ॥
विज्ञापनां वनगिरीश्वर! सत्यरूपां अङ्गीकुरुष्व करुणार्णव! मामकीनाम् । श्रीरङ्गधामनि यथापुरमेष सोऽहं रामानुजार्यवशगः परिवर्तिषीय ॥ १२९ ॥
किञ्चेदं च विरिञ्चभावन! वनाद्रीश! प्रभो! सुन्दर! प्रत्याख्यानपराङ्मुखो वरदतां पश्यन् अवश्यं कुरु । श्रीरङ्गश्रियमन्वहं प्रगुणयन् त्वद्भक्तभोग्यां कुरु प्रत्यक्षं सुनिरस्तमेव विदधत् प्रत्यर्थिनां प्रार्थनाम् ॥ १३० ॥
कारुण्यामृतवारिधे! वृषपते हे! सत्यसङ्कल्पन! श्रीमन्! सुन्दर! योग्यताविरहितान् उत्सार्य सद्वत्सल! । क्षाम्यन् साधुजनैः कृतांस्तु निखिलानेवापचारान् क्षणात् तद्भोग्यामनिशं कुरुष्व भगवन्! श्रीरङ्गधामश्रियम् ॥ १३१ ॥
इदं भूयो भूयः पुनरपि च भूयः पुनरपि स्फुटं विज्ञीप्स्यामित्यगतिरबुधोऽनन्यशरणः। कृतागा दुष्टात्मा कलुषमतिरस्मीत्यनवधेः दयायास्ते पात्रं वनगिरिपते! सुन्दरभुज! ॥ १३२ ॥

 

॥ इति पञ्चस्तव्यां सुन्दरबाहुस्तवः समाप्तः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.