अतिमानुषस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः

।। अतिमानुषस्तवः ॥

श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

अतिमानुषशीलवृत्तवेषैः अतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १ ॥
श्रेयः किरन्तु किरणाश्चरणारविन्दनिष्यन्दमानमकरन्दरसौघदेश्याः । तज्जाः श्रुतेर्मधुन उत्स इति प्रतीताः मङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २ ॥
श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासात् तज्जानुरागरसमज्जनं अञ्जसाऽऽप्य । अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजं उन्नयामः ॥ ३ ॥
वज्रध्वजाङ्कुशसुधाकलशातपत्रपङ्केरुहाङ्कपरिकर्मपरीतमन्तः । आपादपङ्कजविशृङ्खलदीप्रमौलेः श्रीरङ्गिणश्चरणयोर्युगं आश्रयामः ॥ ४ ॥
श्रीरङ्गराजचरणौ प्रणुमो ययोः खलु एकस्त्रिविक्रमविधौ वसुधामशेषाम् । व्यक्रंस्त साचलकुलामपि विप्रकीर्णस्थूलावलग्नसिकतामिव निर्णतोच्चम् ॥ ५ ॥
ज्ञानं बलं विपुलमीशनवीर्यशक्तितेजांसि च त्रियुगभूयमुपागतानि । पूर्णानि षट् च परिगृह्य भवन्श्चतुर्धा भक्तं जनं त्वमनुजग्रहिथाऽनुरागात् ॥ ६ ॥
एकान्तमङ्गलगुणास्पदं अस्तहेयं नित्यं पदं तव यतस्तत एव देव! । आम्नायते तदिह विश्वविरूपरूपं तेनैव नन्विदं अशब्दं अरूपं आहुः ॥ ७ ॥
शब्दादिहेय इह गोचर इन्द्रियाणां तत्प्रत्यनीकविभवस्त्वं अतीन्द्रियोऽसि । तेनैव ते न बत दर्शनमस्ति किञ्चिद् वाचो धियश्च तत एव न गोचरोऽसि ॥ ८ ॥
एवं स्थिते त्वदुपसंश्रयणाभ्युपायो मानेन केनचिदलप्स्यत नोपलब्धुम् । नो चेद् अमर्त्यमनुजादिषु योनिषु त्वं इच्छाविहारविधिना समवातरिष्यः ॥ ९ ॥
शीलः क एष तव हन्त! दयैकसिन्धो! क्षुद्रे पृथग्जनपदे जगदण्डमध्ये । क्षोदीयसोऽपि हि जनस्य कृते कृती त्वं अत्रावतीर्य ननु लोचनगोचरोऽभूः ॥ १० ॥
यं पातकात् सुमहतोऽप्युदधारयस्त्वं त्वत्पादवारिपरिपूतशिराश्च योऽभूत् । तं वन्दसे किल ततश्च वरं वृणीषे! क्रीडाविधिर्बत विलक्षणलक्षणस्ते ॥ ११ ॥
क्रीडाविधेः परिकरस्तव या तु माया सा मोहिनी न कतमस्य तु हन्त! जन्तोः । है! मर्त्यसिंहवपुषस्तव तेजसोंऽशे शम्भुर्भवन् हि शरभः शलभो बभूव ॥ १२ ॥
यस्यात्मतां त्रिपुरभङ्गविधावधास्त्वं त्वच्छक्तितेजितशरो विजयी च योऽभूत् । दक्षक्रतौ तु किल तेन विनिर्जितस्त्वं युक्तो विधेयविषयेषु हि कामचारः ॥ १३ ॥
मुग्धः शिशुः वटदले शयितोऽतितन्वा तन्वा जगन्ति बिभृषे सविकासमेव । ऐशीमिमां तु तव शक्तिमतर्कितव्यां अव्याजतः प्रथयसे किमिहावतीर्णः? ॥ १४ ॥
ब्रह्मेशमध्यगणना गणनाऽर्कपङ्क्तौ इन्द्रानुजत्वं अदितेस्तनयत्वयोगात् । इक्ष्वाकुवंश-यदुवंशजनिश्च हन्त! श्लाघ्यान्यमून्यनुपमस्य परस्य धाम्नः ॥ १५ ॥
त्वन्निर्मिता जठरगा च तव त्रिलोकी किं भिक्षणादियमृते भवता दुरापा? । मध्ये कदा तु न विचक्रमिषे जगच्चेत् त्वद्विक्रमैः कथमिव श्रुतिरञ्चिता स्यात्? ॥ १६ ॥
एतत् कथं कथय यन्मथितस्त्वयाऽसौ हित्वा स्वभावनियमं प्रथितं त्रिलोक्याम् । अश्वाप्सरोविषसुधाविधुपारिजातलक्ष्म्यात्मना परिणतो जलधिर्बभूव ॥ १७ ॥
पृच्छामि किञ्चन यदा किल राघवत्वे मायामृगस्य वशगो मनुजत्वमौग्ध्यात् । सीतावियोगविवशो न च तद्गतिज्ञः प्रादास्तदा परगतिं हि कथं? खगाय ॥ १८ ॥
अक्षुण्णयोगपथम् अग्र्यहतं जटायुं तिर्यञ्चमेव बत मोक्षपथे नियोक्तुम् । शक्नोषि वेत्सि च यदा स तदा कथं त्वं देवीमवाप्तुमनलं व्यथितो विचिन्वन् ॥ १९ ॥
सालान् हि सप्त सगिरीन् सरसातलान् यान् एकेषुमन्दजवतो निरपत्रयस्त्वम् । तेष्वेकविव्यथनखिन्नकपिप्रणुन्नं शाखामृगं मृगयसे स्म कथं सहायम्? ॥ २० ॥
दासः सखा समभवत् तव यः कपीन्द्रः तद्विद्विषं कपिं अमर्षवशात् जिघांसुः । त्वत्स्नेहविक्लवधियं तमिमं कपीन्द्रं विस्रम्भयन् सपदि सालगिरीन् अविध्यः ॥ २१ ॥
यद्वा मृगं मृगयुवत् मृगयापथेन छन्नो जघन्थ न तु शत्रुवदाभिमुख्यात् । तद् युक्तमेव तव राघववंशजस्य तिर्यक्षु नैव हि विपक्षतयोपचारः ॥ २२ ॥
मानुष्यकं चरितमाचरितुं प्रवृत्तो देवातिगं चरितमङ्ग! किमङ्ग्यकार्षीः । यत् सागरे बत बबन्धिथ नाथ! सेतुं शैलैः प्लवङ्गमसमिङ्गितसम्प्रणुन्नैः ॥ २३ ॥
यो विक्रमेण मनुजत्वविभूषणेन देवं वरं वरुणराजं अज! व्यजेष्ठाः । कृत्वोपदां दशरथं विधिरुद्रमुख्यैः देवैः स्तुतश्च स किलेन्द्रजिता जितोऽसि ॥ २४ ॥
अब्धिं न तेरिथ जिगेथ न राक्षसेन्द्रं नैवास्य जज्ञित यदा च बलाबलं त्वम् । निस्संशयः सपदि तस्य पदेऽभ्यषिञ्चः तस्यानुजं कथमिदं हि विभीषणं च ॥ २५ ॥
त्वं दक्षिणस्य निवसन् उदधेस्तटेऽपि दूरान्तरोत्तरपयोधिमहान्तरीपे । दैत्यान् निजैकशरपारणयन् किमेतां लङ्कां स्थितोऽत्र कुरुषे किल न स्म भस्म? ॥ २६ ॥
यत् तादृशागसमरिं रघुवीर वीक्ष्य विश्रम्यतां इति मुमोचिथ मुग्धमाजौ । कोऽयं गुणः कतरकोटिगतः कियान् वा कस्य स्तुतेः पदमहो वद कस्य भूमिः? ॥ २७ ॥
यल्लक्ष्मणस्त्वदनुजो रिपुशक्तिमुग्धः शत्रोर्गुरुः हनुमतस्तु लघुर्बभूव । एतेन वै सुविदितोऽभवदिन्द्रशत्रोः मायास्त्रबन्धननिबन्धनजो विमोहः ॥ २८ ॥
हा हन्त हन्त भवतश्चरणारविन्दद्वन्द्वं कदा नु विषयी भविता ममाक्ष्णोः । योऽहं निरर्गलविनिर्गलदन्धकारैः वृक्षैस्तृणैश्च सुलभं समयं व्यतीतः ॥ २९ ॥
वंशं रघोरनुजिघृक्षुरिहावतीर्णः दिव्यैर्ववर्षिथ तथाऽत्र भवद्गुणौघैः । त्वत्सन्निधिप्रभवशैत्यजुषो यथा ही वृक्षाश्च तान्तिमलभन्त भवद्वियोगे ॥ ३० ॥
ये धर्ममाचरितुं अभ्यसितुं च योगं बोद्धुं च किञ्चन न जात्वधिकारभाजः । तेऽपि त्वदाचरितभूतलबन्धगन्धाद् बन्धातिगाः परगतिं गमितास्तृणाद्याः ॥ ३१ ॥
तादृग्गुणो ननु बभूविथ राघवत्वे यस्तावकं चरितमन्वहं अन्वभुङ्क्त । सोऽत्रैव हन्त! हनुमान् परमां विमुक्तिं बुद्ध्याऽवधूय चरितं तव सेवतेऽसौ ॥ ३२ ॥
यस्त्वं कृतागसमपि प्रणतिप्रसक्तं तं वायसं परमया कृपयाऽक्षमिष्ठाः । तेनैव मादृशजनस्य महागसोऽपि युक्तं समाश्वसनं इत्युपधारयामि ॥ ३३ ॥
सा पूतना शकटं अर्जुनयोश्च युग्मं बाल्योचितेऽन्यपरचेष्टितविस्फुलिङ्गे । यस्यालभन्त शलभत्वमहो! निगूढः स त्वं व्रजे ववृधिषे किल कंसभीत्या ॥ ३४ ॥
पश्यत्सु सूरिषु सदा परमं पदं ते देव्या श्रिया सह वसन् परया विभूत्या । योगेन योगनिरतैः परिमृग्यमाणः किं त्वं व्रजेषु नवनीतमहो! व्यमुष्णाः? ॥ ३५ ॥
यं दुर्ग्रहं सुमनसो मनसाऽपि नित्यं बन्धच्छिदं परममीशमुदाहरन्ति । दाम्ना निबद्ध इति शुश्रुम तं भवन्तं नालं बभूविथ! बत! श्लथनाय तस्य ॥ ३६ ॥
ऐशं हि शैशवमपि व्यतिवेलखेलं यत् पूतना शकटं अर्जुनयोश्च युग्मम् । बाल्योचितान्यपरसाचिविचेष्टितेन हन्तालभन्त शलभायितमोजसस्ते ॥ ३७ ॥
सत्येव गव्यनिवहे निजधाम्नि भूम्ना पर्यन्तसद्मसु किमर्थं? अचूचुरस्त्वम् । मुष्णंच किं व्यजघटो घटशेषमग्रे? गोपीजनस्य परिहासपदं किमासीः? ॥ ३८ ॥
यन्नाम नाथ! नवनीतं अचूचुरस्त्वं तच्छादनाय यदि ते मतिराविरासीत् । किं मुग्ध! दिग्धममुना करपल्लवं ते गात्रे प्रमृज्य निरगाः किल निर्विशङ्कः ॥ ३९ ॥
त्वामन्यगोपगृहगव्यमुषं यशोदा गुर्वी त्वदीयमवमानममृष्यमाणा । प्रेम्णाऽथ दामपरिणामजुषा बबन्ध तादृङ् न ते चरितं आर्यजनाः सहन्ते ॥ ४० ॥
मात्रा यदि त्वमसि दामनि सन्निबद्धः तच्छ्राविणां उदितचाक्षुषनिर्झराणाम् । बध्नासि हन्त हृदयं भगवन्! कुतस्तत्? सर्वो हि वश्यविषये विवृणोति वीर्यम् ॥ ४१ ॥
कान्तालकान्तममलं कमलायताक्षं उद्भ्रूविलासं उदितस्मितं उन्नसं च । वक्त्रं वहन् परम! गोपगृहेषु किं त्वं गोपीमनांसि नवनीतमुताभ्यमोषीः? ॥ ४२ ॥
सर्वं गुणाय गुणिनां इति सत्यमेतत् यत् खल्विहेतरजने मलिनत्वहेतुः । यद् गोपवेषविनिवेषणमुत्तमं ते गोपालनं च गणयन्ति गुणं गुणेषु ॥ ४३ ॥
गोपालपोतकतया निभृतं धरित्रीं आवस्तुकाम इव सन्नपि बाल्यलौल्यात् । ऐन्द्रं निहत्य महं अद्रिमथो दधानः किं तस्थिषे सुरगणाय सवासवाय ॥ ४४ ॥
वेणुक्वणप्रणयिनि त्वयि लोकनाथ! वृन्दावनं चरणसञ्चरणैः पुनाने । भावास्तदा वनभुवः किल कीदृशस्ते त्वद्गीतसिक्तसिकतासु वसुन्धरासु ॥ ४५ ॥
धन्यैः श्रुतं तदिह तावकरासकाले गीतेन येन हि शिलाः सलिलाम्बभूवुः । पञ्चापि किञ्च परिवृत्तगुणानि भूतानि उर्वीकृशानुमरुदम्बरशंबराणि ॥ ४६ ॥
तेभ्यः कृती न किल कश्चिदिहास्ति ये वै रासोत्सवोत्सुकधियस्तव काननान्ते । वेणुस्वनस्रुतरसौघपरिप्लुतान्ते स्वे सृक्वणी रसनया लिलिहुर्भुजङ्गाः ॥ ४७ ॥
अम्भोदनीलं अरविन्ददलायताक्षं पिञ्छावतंसं उररीकृतवेणुपाणिम् । त्वां गोपवेषपरिकर्मितकायकान्तिं धन्यास्तदा ददृशुरुन्मथितान्यभावाः ॥ ४८ ॥
गोवर्धनो गिरिवरो यमुना नदी सा बृन्दावनं च मथुरा च पुरी पुराणी । अद्यापि हन्त! सुलभाः कृतिनां जनानां एते भवच्चरणचारजुषः प्रदेशाः ॥ ४९ ॥
बृन्दावने स्थिरचरात्मककीटदूर्वापर्यन्तजन्तुनिचये बत ये तदानीम् । नैवालभामहि जनिं हतकास्त एते पापाः पदं तव कदा पुनराश्रयामः ॥ ५० ॥
हा जन्म तासु सिकतासु मया न लब्धं रासे त्वया विरहिताः किल गोपकन्याः । यास्तावकीनपदपङ्क्तिजुषोऽजुषन्त निक्षिप्य तत्र निजमङ्गमनङ्गतप्तम् ॥ ५१ ॥
आचिन्वतः कुसुममङ्घ्रिसरोरुहं ते ये भेजिरे बत! वनस्पतयो लता वा । अद्यापि तत्कुलभुवः कुलदैवतं मे वृन्दावनं मम धियं च सनाथयन्ति ॥ ५२ ॥
यत् त्वत्प्रियं तदिह पुण्यं अपुण्यमन्यत् नान्यत् तयोर्भवति लक्षणमत्र जातु । धूर्तायितं तव हि यत् किल रासगोष्ठ्यां तत्कीर्तनं परमपावनं आमनन्ति ॥ ५३ ॥
या कंसमुख्यनृपकीटनिबर्हणोत्था सा निर्जितत्रिजगतस्तव नैव कीर्तिः । गोपालनादि यदिदं भवदीयकर्मेत्यार्द्रीकरोति विदुषां हृदयं तदेतत् ॥ ५४ ॥
गोपालवेषपरिकर्म परावरेशं यन्नाम धाम परमं तमसः परस्तात् । तत् पिञ्छलाञ्छनसुदामकृतोपवीतं गोधूलिधूसरितकुन्तलं अन्तरास्ताम् ॥ ५५ ॥
यद्वै जरासुतभयाद् विपलायथास्त्वं तच्चेन्मनुष्यचरितानुविधानजं ते । तर्हि त्रिलोकगुरुं ईश्वरमीश्वराणां बाणाहवे किमिति शम्भुं अजृम्भयस्त्वम् ॥ ५६ ॥
जातं कुतस्तदकृतज्ञविचेष्टितं ते पुत्रीयया किल वरं ववृषे वृषाङ्कात् । अक्षेषु सक्तमतिना च निरादरेण वाराणसी हरपुरी भवता विदग्धा ॥ ५७ ॥
सञ्जीवयन् अपि मृतं सुतमुत्तरायाः सान्दीपनेश्चिरमृतं सुतमानयंश्च । धाम्नो निजाद् द्विजसुतान् पुनरानयन् वा स्वामेव तां तनुमहो! कथमानयस्त्वम् ॥ ५८ ॥
अद्यापि नास्त्युपरतिः त्रिविधापचारात् पापः परे निपतितोऽस्मि तमस्यपारे । एतादृशोऽहमगतिर्भवतो दयायाः पात्रं त्वदीयचरणौ शरणं प्रपद्ये ॥ ५९ ॥
विस्रम्भणं त्वयि न यद्यपि मेऽस्ति नापि श्रद्धा यथोक्तवचनार्थगता तथाऽपि । वाचं त्विमां सकृदथाप्यसकृन्मयोक्तां सत्यां कुरुष्व दययैव दयैकसिन्धो ॥ ६० ॥
पापीयसोऽपि शरणागतिशब्दभाजो नोपेक्षणं मम तवोचितमीश्वरस्य । त्वज्ज्ञानशक्तिकरुणासु सतीषु नेह पापं पराक्रमितुमर्हति मामकीनम् ॥ ६१ ॥

।। इति पञ्चस्तव्याम् अतिमानुषस्तवः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.