40 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चत्वारिंशः सर्गः श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः । उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। 5.40.1।। श्रुत्वेत्यादि ।। 5.40.1।। त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर । अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। 5.40.2।। यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः । संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ।। 5.40.3।। त्वामिति । अर्धसञ्जातसस्या अर्धोत्पन्नसस्या ।। 5.40.23।। अभिज्ञानं […]
39 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंश सर्गः मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति । अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। 5.39.1।। मणिमित्यादि । अभिज्ञातं सम्यक् ज्ञातम् ।। 5.39.1।। मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति । वीरो जनन्या मम च राज्ञो दशरथस्य च ।। 5.39.2।। स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम । अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। 5.39.3।। त्रयाणामिति “अधीगर्थदयोशां कर्मणि” इति […]
38 Sarga सुन्दरकाण्डः
रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टात्रिंशः सर्गः ततः सकपिशार्दूलस्तेन वाक्येन हर्षितः । सीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ।। 5.38.1।। ततः स इत्यादि । तच्छ्रुत्वा तेन वाक्येन हर्षितः वाक्युमुवाच ।। 5.38.1।। युक्तरूपं त्वया देवि भाषितं शुभदर्शने । सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ।। 5.38.2।। युक्तरूपं युक्ततरमित्यर्थः । “प्रशंसायां रूपम्” । प्राशस्त्यं चात्र प्रकृत्यर्थवैशिष्ट्यम् । स्त्रीस्वभावस्य भीरुत्वादेः । साध्वीनां […]
37 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना । हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। 5.37.1।। सीतेत्यादि ।। 5.37.1।। अमृतं विषसंसृष्टं त्वया वानरभाषितम् । यच्च नान्यमना रामो यच्च शोकपरायणः ।। 5.37.2।। अमृतमिति । यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्च शोकपरायण इति विषसंसृष्टत्वे ।। 5.37.2।। ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति […]
36 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः भूय एव महातेजा हनुमान् मारुतात्मजः । अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। 5.36.1।। भूय इत्यादि ।। 5.36.1।। वानरो ऽहं महाभागे दूतो रामस्य धीमतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। 5.36.2।। प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना । समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। 5.36.3।। इत्थं सन्देशकथनादिना देवीं विश्वास्याभिज्ञानाङ्गुलीयकदानेन दृढं विश्वासयति वानरो […]
35 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चत्रिंशः सर्गः तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् । उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। 5.35.1।। क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानराणां नराणां च कथमासीत् समागमः ।। 5.35.2।। तान्त्वित्यादि ।। 5.35.12।।. यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। 5.35.3।। यानीति […]
34 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुस्त्रिंशः सर्गः तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः । दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। 5.34.1।। तस्या इत्यादि । दुःखात् दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः ।। 5.34.1।। अहं रामस्य सन्देशाद्देवि दूतस्तवागतः । वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।। 5.34.2।। अहमिति । तव दुतः प्रति प्रेषितो दुतः ।। 5.34.2।। यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः । स त्वां […]
33 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। 5.33.1।। तामब्रवीन्महातेजा हनूमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। 5.33.2।। कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि । द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। 5.33.3।। सो ऽवतीर्येत्यादि । सः राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः सीतादौस्थ्यदर्शनेन दीनः । जानन्नपि वैदेह्यैव वाचयितुमब्रवीत् ।। 5.33.13।। किमर्थं […]
32 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। 5.32.1।। सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् । फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। 5.32.2।। [साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।] मैथिली चिन्तयामास विस्मयं परमं गता । अहो भीममिदं रूपं वानरस्य दुरासदम् । दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। 5.32.3।। विललाप भृशं सीता […]
31 Sarga सुन्दरकाण्डः
श्रीरीमायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। 5.31.1।। एवमित्यादि । चिन्तां चिन्तयित्वा चिन्तां कृत्वा, कर्तव्यमर्थं निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूचते ऽस्मिन्निति संश्रवः समीपम्, समीपे व्याजहार । यद्वा “पाठ्ये गेये च मधुरम्” इति संश्रवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा इन्द्रियेभ्यो निस्सृत्य विषयान् गृहीत्वा तदनन्तरं हि रसो […]