श्रीभाष्यम् 04-02-05 आसृत्युपक्रमाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आसृत्युपक्रमाधिकरणम्

(अधिकरणार्थः – देहादुत्क्रमं प्राप्नुवतोर्विद्वदविदुषोः द्वयोरपि गतिः, नाडीप्रवेशपर्यन्तं समानैव)

४९५. समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य

(विचारणीयः संशयः)

इयमुत्क्रान्ति: किं विद्वदविदुषोस्समाना, उताविदुष एवेति चिन्तायाम्,

(पूर्वः पक्षः)

अविदुष एवेति प्राप्तम्। कुत:? विदुषोऽत्रैवामृतत्ववचनादुत्क्रान्त्यभावात्। विदुषो ह्यत्रैवामृतत्वं श्राव्यते –  यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिता: अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते (कठ.२.६.१४) इति॥

(सूत्रतः सिद्धान्तः)

एवं प्राप्तेऽभिधीयते- समानाचाऽसृत्युपक्रमात् – इति। विदुषोऽप्यासृत्युपक्रमात् उत्क्रान्तिस्समाना। आसृत्युपक्रमात् – आगत्युपक्रमात्, नाडीप्रवेशात्प्रागित्यर्थ:। विदुषोऽपि हि नाडीविशेषेणोत्क्रम्य गति: श्रूयते –  शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे  भवन्ति (कठ.२.६.१६) इति। एवं नाडीविशेषेण गतिश्रवणाद्विदुषोऽप्युत्क्रान्तिरवर्जनीया । सा च नाडीप्रवेशात्प्राग्विशेषाश्रवणात्समाना। तत्प्रवेशदशायां च विशेष: श्रूयते  तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषी वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य (बृ.६.४.२) इति  शतं चैका हृदयस्य (कठ.२.६.१६) इत्यनया श्रुत्यैकार्थ्यान्मूर्ध्नो निष्क्रमणं विद्वद्विषयम्; इतरदविद्वद्विषयम् ।

(अत्र ब्रह्म समश्नुते इति श्रुत्याशयः)

यदुक्तं – विदुषोऽत्रैवामृतत्वं श्राव्यते – इति;

तत्रोच्यते – अमृतत्वं चानुपोष्य – इति। चशब्दोऽवधारणे। अनुपोष्य – शरीरेन्द्रियादिसम्बन्धमदग्ध्वैव, यदमृतत्वम् – उत्तरपूर्वाघयोरश्लेषविनाशरूपं प्राप्यते; तदुच्यते  यदा सर्वे प्रमुच्यन्ते (कठ.२.६.१४) इत्यादिकया श्रुत्येत्यर्थ:।  अत्र ब्रह्म समश्नुते (कठ.२.३.१४) इति च उपासनवेलायां यो ब्रह्मानुभव:;  तद्विषयमित्यभिप्राय:॥७॥

४९६. तदापीतेस्संसारव्यपदेशात् ॥४८॥

(संसारस्य ब्रह्मप्राप्तिपर्यन्तता)

अवश्यं च तत् – अमृतत्वमदग्धदेहसम्बन्धस्यैवेति विज्ञेयम्।

कुत:? आपीते: संसारव्यपदेशात् – अपीति: – अप्यय: – ब्रह्मप्राप्ति:। सा चार्चिरादिना मार्गेण देशविशेषं गत्वेति वक्ष्यते। आतदवस्थाप्राप्ते: संसार: – देहसम्बन्धलक्षणो हि व्यपदिश्यते –  तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा.६.१४.२) इति  अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि इति च॥ ८॥

(विदुषोऽपि आब्रह्मप्राप्ति बन्धानुवृत्तिः)

४९७. सूक्ष्मं प्रमाणतश्च तथोपलब्धे:

इतश्च विदुषोऽपि बन्धो नात्र दग्ध:; यतस्सूक्ष्मं शरीरमनुवर्तते । कुत इदमवगम्यते; प्रमाणतस्तथोपलब्धे: – उपलभ्यते हि देवयानेन पथा गच्छतो विदुष:  तं प्रतिब्रूयात् (कौ.१.२) सत्यं ब्रूयात् इति चन्द्रमसा संवादवचनेन शरीरसद्भाव: । अतस्सूक्ष्मशरीरमनुवर्तते। अतश्च बन्धो न दग्ध: ॥९॥

(अत्र ब्रह्मेति श्रुतेः सर्वबन्धविनिर्मोक्षतात्पर्यकत्वाभावः)

४९८. नोपमर्देनात: १०

अत:  यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिता: अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते (कठ.२.६.१४) इति वचनं न बन्धोपमर्देनामृतत्वं वदति ॥१०॥

(विदुषोऽपि उत्क्रमतः शरीरे ऊष्मोपलब्धेः सूक्ष्मशरीरानुवृत्तिज्ञापकता)

४९९. अस्यैव चोपपत्तेरूष्मा ११

अस्य – सूक्ष्मशरीरस्य क्वचिद्विद्यमानत्वोपपत्तेर्विदुष: प्रक्रान्तमरणस्य मरणात्प्रागूष्मा, स्थूले शरीरे क्वाचित्क उपलभ्यते । न च स्थूलस्यैव शरीरस्यायमूष्मा, अन्यत्रानुपलब्धे:। ततश्चोष्मण: क्वचिदुपलब्धिर्विदुषस्सूक्ष्मशरीरस्योत्क्रान्तिनिबन्धनेति गम्यते। तस्माद्विदुषोऽपि आसृत्युपक्रमात्समानोत्क्रान्तिरिति सुष्ठूक्तम् ॥११॥

पुनरपि विदुष उत्क्रान्तिर्न सम्भवतीत्याशङ्क्य परिह्रियते –

५००. प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् १२

(विदुषो देहादुत्क्रान्ते, श्रुतिनिषिद्धत्वशङ्का)

यदुक्तं विदुषोऽप्युत्क्रांन्तिस्समानेति, तन्नोपपद्यते, विदुष उत्क्रान्तिप्रतिषेधात् ।

तथाहि एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्वपक्रामति (बृ.६-४-१) इत्युपक्रम्य  तेन प्रद्योतेनैष आत्मा निष्क्रामति तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृह.६-४-१) इत्यविदुष उत्क्रान्तिप्रकारमभिधाय  अन्यन्नवतरं कल्याणतरं रूपं कुरुते (बृ.६-४-४) इति देहान्तरपरिग्रहं चाभिधाय  प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे इति तु कामयमान: (बृ.६.४.६) इत्यविद्वद्विषयं परिसमाप्य  अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकाम: तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति (बृ.६.४.६) इति विदुष उत्क्रान्ति: प्रतिषिध्यते। तथा पूर्वत्र आर्तभागप्रश्नेऽपि विदुष उत्क्रान्तिप्रतिषेधो दृश्यते  अप पुनर्मृत्युं जयति (बृ.५.२.१०) इति विद्वांसं प्रस्तुत्य याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते उदस्मात्प्राणा: क्रामन्त्याहो इति पृष्ट:  नेति होवाच याज्ञवल्क्योऽत्रैव समवलीयन्ते उच्छ्वयत्याध्मातो मृत: शेते (बृह.५.२.१०) इति। अतो विद्वानिहैवामृतत्वं प्राप्नोतीति चेत् –

(विदुषः उत्क्रान्तिनिषेधशङ्कायाः निरासः)

तन्न, शारीरात् – प्रत्यगात्मन: प्राणानामुत्क्रान्तिर्ह्यत्र प्रतिषिध्यते; न शरीरात्  तस्य प्राणा: उत्क्रामन्ति (बृह.६.४.६) इत्यत्र तच्छब्देन  अथाकामयमान: (बृह.६.४.६) इति प्रकृतश्शारीर एव परामृश्यते; नाश्रुतं शरीरम्।  तस्य (बृ.६.४.६) इति षष्ठ्या प्राणानां सम्बन्धित्वेन शारीरो निर्दिष्ट:; नतूत्त्क्रान्त्यपादानत्वेन; उत्क्रान्त्यपादानं तु शरीरमेवेति चेत् – न, अपादानापेक्षायामश्रुताच्छरीरात्सम्बन्धितया श्रुतस्यात्मन एव सन्निहितत्वेनापादानतयापि ग्राह्यत्वात् । किञ्च प्राणानां जीवसम्बन्धितयैव प्रज्ञातानां तत्सम्बन्धकथने प्रयोजनाभावात्सम्बन्धमात्रवाचिन्या षष्ठ्या अपादानमेव विशेष इति निश्चीयते । यथा  नटस्य शृणोति इति।

(उक्तार्थे विवादानवकाशप्रकाशनम्)

न चात्र विवदितव्यं – स्पष्टो ह्येकेषां – माध्यन्दिनानामाम्नाये शारीरो जीव एवापादानमिति  योऽकामो निष्काम आप्तकामो आत्मकाम तस्मात्प्राणा उत्क्रामन्ति (बृ.६.४.६) इति।

(उत्क्रान्तिनिषेधाप्रसक्तिशङ्का – परिहारौ)

शारीरात्प्राणानामुत्क्रान्तिप्रसङ्गाभावात्तन्निषेधो नोपपद्यत इति चेत् – न,  तस्य तावदेव चिरम् (छा.६.१४.२) इति विदुषश्शरीरवियोगकाले ब्रह्मसम्पत्तिवचनेन प्राणानामपि तस्मिन्काले शारीराद्विदुषो वियोग: प्रसज्यते; ततश्च देवयानेन पथा ब्रह्मसम्पत्तिर्नोपपद्यत इति । तस्य प्राणा उत्क्रामन्ति (बृ.६.४.६) देवयानेन पथा ब्रह्मप्राप्ते: प्राग्जीवाद्विदुषोऽपि प्राणा न विश्लिष्यन्तीत्युच्यते।

(आर्तभागप्रश्न-प्रतिवचनयोर्निर्णयः)

आर्तभागप्रश्नोऽपि यदा विद्वद्विषय:; तदा अयमेव परिहार: । स त्वविद्वद्विषय:, तत्र प्रश्नप्रतिवचनयो: ब्रह्मविद्याप्रसङ्गादर्शनात्; तत्र हि ग्रहातिग्रहरूपेणेन्द्रियेन्द्रियार्थस्वभाव:, अपामग्न्यन्नत्वं,  म्रियमाणस्य जीवस्य प्राणापरित्याग:, मृतस्य नामवाच्यकीर्त्यनुवृत्ति:, तस्य च पुण्यपापानुगुण-गतिप्राप्तिरित्येतेऽर्था: प्रश्नपूर्वकं प्रत्युक्ता:। तत्र च अप पुनर्मृत्युं जयति (बृह.५.२.१०) इति  अपामग्न्यन्नत्वज्ञानादग्निजय एव मृत्युजय उच्यते । अतो नात्र विदुष: प्रसङ्ग:।  अविदुषस्तु प्राणानुत्क्रान्तिवचनं – स्थूलदेहवत्प्राणा न मुञ्चन्ति,  अपि तु भूतसूक्ष्मवज्जीवं परिष्वज्य गच्छन्ति – इति प्रतिपादयतीति निरवद्यम् ॥१२॥

(विदुषः उत्क्रान्तेः स्मृत्या सिद्धिः)

५०१. स्मर्यते १३

स्मर्यते च विदुषोऽपि मूर्धन्यनाड्योत्क्रान्ति:  ऊर्ध्वमेक: स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम्। ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् (याज्ञ.स्मृ.३.१६७) इति ॥१३॥

इति श्रीशारीरकमीमांसाभाष्ये आसृत्युपक्रमाधिकरणम्॥५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.