श्रीभगवद्रामानुजविरचित
वेदान्तदीप:
॥अथ प्रथमाध्याये चतुर्थ: पाद:॥
१–४–१
११०। आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च – कठवल्लीषु। इन्द्रियेभ्य: परा ह्यर्था अर्थेभ्यश्च परं मन:। मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्पर:। महत: परमव्यक्तमव्यक्तात्पुरुष: पर:। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति: इत्यत्र किं साङ्ख्योक्तं प्रधानमव्यक्तशब्दाभिधेयमुत नेति संशय:। प्रधानमिति पूर्व: पक्ष:, महत: परमित्यादितत्तन्त्रप्रक्रियाप्रत्यभिज्ञानात्, पुरुषान्नपरं किञ्चित् इति पञ्चविंशकपुरुषातिरिक्त-तत्त्वनिषेधाच्च। राद्धान्तस्तु – नाव्यक्तशब्देन प्रधानमिह गृह्यते। पूर्वत्र आत्मानं रथिनं विद्धि शरीरं रथमेव च इत्यादिना उपासनानिर्वृत्तये वश्येन्द्रियत्वापादानाय ये आत्मशरीरबुद्धिमन-इन्द्रियविषया:, रथिरथसारथिप्रग्रहहयगोचरत्वेन रूपिता; तेषु वशीकार्यत्वे परा:। इन्द्रियेभ्य: परा इत्यादिनोच्यन्ते; तत्र चेन्द्रियादय: स्वशब्देनैव गृह्यन्ते, रथत्वेन रूपितं शरीरमिहाव्यक्त-परिणामत्वेन अव्यक्तशब्देन गृह्यत इति नेह तत्तन्त्रप्रक्रिया प्रत्यभिज्ञा(न)गन्ध:। अव्यक्तात्पुरुष: पर इति च न पञ्चविंशक:; अपितु प्राप्य: परमात्मैव। अन्तर्यामितयोपासनस्याप्युपायभूत इति स इह वशीकार्यकाष्ठात्वेन पुरुषान्न परं किञ्चित् इत्युक्त:। सूत्रार्थस्तु – एकेषां कठानां शाखायाम् – आनुमानिकं प्रधानं जगत्कारणत्वेन महत: परमव्यक्तम् इत्याम्नायते इति चेत्; तन्न, अव्यक्तशब्देन शरीराख्यरूपकविन्यस्तस्य गृहीते: – पूर्वत्रात्मादिषु रथिरथादिरूपकविन्यस्तेषु रथत्वेन रूपितस्य शरीरस्यात्राव्यक्तशब्देन गृहीतेरित्यर्थ:। अतो वशीकार्यत्वे परा इहोच्यन्ते। दर्शयति चैनमर्थं वाक्यशेष: इन्द्रियादीनां नियमनप्रकारं प्रतिपादयन् यच्छेद्वाङ्मनसी इत्यादि:॥१॥
कथमव्यक्तशब्दस्य शरीरं वाच्यं भवतीत्याशङ्क्याह –
१११। सूक्ष्मं तु तदर्हात्वात् – तु शब्दोऽवधारणे। सूक्ष्मम् – अव्यक्तमेवावस्थान्तरापन्नं शरीरं भवति, तदवस्थस्यैव कार्यार्हात्वात्। यदि रूपकविन्यस्ता आत्मादय एव वशीकार्यत्वे परा:। इन्द्रियेभ्य: परा इत्यादिना गृह्यन्ते॥२॥
तर्हि अव्यक्तात्पुरुष: पर:, पुरुषान्न परं किञ्चित् इति पुरुषग्रहणं किमर्थमित्यत आह-
११२। तदधीनत्वादर्थवत् – अन्तर्यामिरूपेणावस्थितपुरुषाधीनत्वादात्मादिकं सर्वं रथिरथत्वादिना रूपितमर्थवत् – प्रयोजनवद्भवति। अत उपासननिर्वृत्तौ वशीकार्यकाष्ठा परमपुरुष इति तदर्थमिह रूपकविन्यस्तेषु परिगृह्यमाणेषु परस्यापि पुरुषस्य ग्रहणम्। उपासननिर्वृत्त्युपायकाष्ठा पुरुष: प्राप्यश्चेति। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति: इत्युक्तम्। भाष्यप्रक्रियया वा नेयमिदं सूत्रम् – परमपुरुषशरीरतया तदधीनत्वात् भूतसूक्ष्ममव्याकृतमर्थवदिति तदिहाव्यक्तशब्देन गृह्यते; नाब्रह्मात्मकं स्वनिष्ठं तन्त्रसिद्धम् इति॥३॥
११३। ज्ञेयत्वावचनाच्च – यदि तन्त्रसिद्धप्रक्रियेहाभिप्रेता; तदाऽव्यक्तस्यापि ज्ञेयत्वं वक्तव्यम्। व्यक्ताव्यक्तज्ञविज्ञानात् इति हि तत्प्रक्रिया। न ह्यव्यक्तमिह ज्ञेयत्वेनोक्तम्, अतश्चात्र न तन्त्रप्रक्रियागन्ध:॥४॥
११४। वदतीति चेन्न प्राज्ञो हि प्रकरणात् – अशब्दमस्पर्शम् इत्युपक्रम्य, महत: परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यत इति प्रधानस्य ज्ञेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत्; तन्न, अशब्दमस्पर्शमित्यादिना प्राज्ञ: – परमपुरुष एव ह्यत्रोच्यते; सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम्। एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते॥ इति प्राज्ञस्यैव प्रकृतत्वात्॥५॥
११५। त्रयाणामेव चैवमुपन्यास: प्रश्नश्च – अस्मिन्प्रकरणे येयं प्रेते विचिकित्सा मनुष्ये। इत्यारभ्यासमाप्ते: परमपुरुषतदुपासनोपासकानां त्रयाणामेवैवं ज्ञेयत्वेनोपन्यास: प्रश्नश्च दृश्यते, न प्रधानादेस्तान्त्रिकस्यापि। अतश्च न प्रधानमिह ज्ञेयत्वेनोक्तम्॥६॥
११६। महद्वच्च – यथा बुद्धेरात्मा महान्पर इत्यात्मशब्दसामानाधिकरण्यान्महच्छब्देन न तान्त्रिकं महत्तत्त्वं गृह्यते, एवमव्यक्तशब्देनापि न तान्त्रिकं प्रधानम्॥७॥ इति आनुमानिकाधिकरणम्॥१॥
१–४–२
११७। चमसवदविशेषात् – श्वेताश्वतरे अजामेकां लोहितशुक्लकृष्णां बह्वी: प्रजास्सृजमानां सरूपा:, अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य: इत्यत्र किमजाशब्देन तन्त्रसिद्धा प्रकृतिरभिधीयते, उत ब्रह्मात्मिकेति संशय:। तन्त्रसिद्धेति पूर्व: पक्ष:, अजामेकामित्यस्या अकार्यत्वप्रतीते:, बह्वीनां प्रजानां स्वातन्त्र्येण कारणत्वश्रवणाच्च। राद्धान्तस्तु – न तन्त्रसिद्धाया: प्रकृतेरत्र ग्रहणम्, जननविरहश्रवणमात्रेण तन्त्रसिद्धाया: प्रकृते: प्रतीति-नियमाभावात्। न हि यौगिकानां शब्दानामर्थप्रकरणादिभिर्विशेष्यव्यवस्थापकैर्विना विशेषे वृत्तिनियमसंभव:; न चास्यास्स्वातन्त्र्येण सृष्टिहेतुत्वमिह प्रतीतम्, अपि तु सृष्टिहेतुत्वमात्रम्; तद्ब्रह्मात्मिकायाश्च न विरुद्धम्। अत्र तु ब्रह्मात्मिकाया एव शाखान्तरसिद्धाया: एतत्सरूप-मन्त्रोदिताया: प्रत्यभिज्ञानात्सैवेति निश्चीयते। सूत्रार्थस्तु – नायमजाशब्दस्तन्त्रसिद्धप्रधानविषय:; कुत: चमसवदविशेषात्; यथा – अर्वाग्बिलश्चमस इति मन्त्रे चमससाधनत्वयोगेन प्रवृत्तस्य चमसशब्दस्य शिरसि प्रवृत्तौ। यथेदं तच्छिर एष ह्यर्वाग्बिलश्चमस: इति वाक्यशेषे विशेषो दृश्यते; तथा । अजामेकामित्यजाशब्दस्य तन्त्रसिद्धप्रधाने वृत्तौ विशेषाभावान्न तद्ग्रहणं न्याय्यम्॥८॥
अस्ति तु ब्रह्मात्मिकाया एव ग्रहणे विशेष इत्याह –
११८। ज्योतिरुपक्रमा तु तथा ह्यधीयत एके – ज्योति: – ब्रह्म यस्या: उपक्रम: – कारणं सा ज्योतिरुपक्रमा। तु शब्दोऽवधारणे। ब्रह्मकारणिकैवैषाऽजा। तथा ह्यधीयत एके – यथा रूपोऽयमजाया: प्रतिपादको मन्त्र:; तथा रूपमेव मन्त्रं ब्रह्मात्मिकाया: तस्या: प्रतिपादकमधीयत एके शाखिन:। अणोरणीयान्महतो महीयान् इत्यादिना ब्रह्म प्रतिपाद्य, सप्त प्राणा: प्रभवन्ति तस्मात्सप्तार्चिषस्समिध: सप्तजिह्वा:। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहितास्सप्तसप्त। अतस्समुद्रा गिरयश्च सर्व इत्यादिना ब्रह्मण उत्पन्नत्वेन ब्रह्मात्मकतया सर्वानुसन्धानविधानसमये। अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् इति प्रतिपाद्यमाना ब्रह्मात्मिकैवेति तत्प्रत्यभिज्ञानादिहाप्यजा ब्रह्मात्मिकैवेति निश्चीयते॥९॥
अजात्वं ज्चोतिरुपक्रमात्वं च कथमुपपद्यते इत्यत आह –
११९। कल्पनोपदेशाच्च मध्वादिवदविरोध: – कल्पना – सृष्टि:, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इत्यादिदर्शनात्। अस्मान्मायी सृजते विश्वमेतत् इति हि सृष्टिरिहोपदिश्यते। प्रलयवेलायामेषा प्रकृति: परमपुरुषाश्रया कारणावस्थाऽतिसूक्ष्मावयवा शक्तिरूपेणावतिष्ठते; तदवस्थाभिप्रायेणास्या अजात्वम्। सृष्टिवेलायां पुनस्तच्छरीराद्ब्रह्मण: स्थूलावस्था जायते; तदवस्था ज्योतिरुपक्रमेति न कश्चिद्विरोध:। मध्वादिवत् – यथा आदित्यस्यैकस्यैव कार्यावस्थायाम्। असौ वा आदित्यो देवमधु इति वस्वादिभोग्यरसाधारतया मधुत्वं, तस्यैव । अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता इत्यादिना नामरूपप्रहाणेन कारणावस्थायां सूक्ष्मस्यैकस्यैवावस्थानं न विरुध्यते, तद्वत्॥१०॥ इति चमसाधिकरणम् ॥ २ ॥
१–४–३
१२०। न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च – वाजसनेयके – यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित:। तमेवमन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् इत्यत्र किं साङ्ख्योक्तानि पञ्चविंशतितत्त्वानि प्रतिपाद्यन्ते, उत नेति संशय:। तान्येवेति पूर्व: पक्ष:। पञ्च पञ्चजना इति हि पञ्चसङ्ख्याविशिष्टा: पञ्चजना पञ्चविंशतिस्संपद्यन्ते। कथम्? पञ्चजना इति समाहारविषयोऽयं समास:; पञ्चपूल्य इतिवत्। पञ्चभिर्जनैरारब्धस्समूह: पञ्चजन: – पञ्चजनीत्यर्थ:। लिङ्गव्यत्यय: छान्दस:। पञ्चजना इति बहुवचनात्समूहबहुत्वं चावगम्यते। ते च कतीत्यपेक्षायां पञ्च पञ्चजना इति पञ्चशब्दविशेषिता: पञ्चजनसमूहा इति पञ्चविंशतिस्तत्त्वानि भवन्ति। मोक्षाधिकारात्तान्त्रिकाण्येवेति निश्चीयन्ते। एवं निश्चिते सति तमेवमन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् इति पञ्चविंशकमात्मानं ब्रह्मभूतं विद्वानमृतो भवतीति। राद्धान्तस्तु – यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठित:। इति यच्छब्दनिर्दिष्टब्रह्माधारत्वात् तदाधेयानां तत्त्वानां ब्रह्मात्मकत्वमवगम्यते। यच्छब्दनिर्दिष्टं च तमेवमन्य आत्मानम् (इति तच्छब्देन परामृश्य, ब्रह्मामृतोऽमृतम्) इति निर्देशात् ब्रह्मेति निश्चीयते। अतो न तान्त्रिकप्रसङ्ग:। सूत्रार्थस्तु – पञ्चपञ्चजना इत्यत्र पञ्चविंशतिसङ्ख्योपसङ्ग्रहादपि न तान्त्रिकाणीमानि तत्त्वानि, यस्मिन्निति यच्छब्दनिर्दिष्टब्रह्माधारतया तान्त्रिकेभ्यो नानाभावात् – एषां तत्त्वानां पृथग्भावादित्यर्थ:। अतिरेकाच्च – तान्त्रिकेभ्यस्तत्त्वातिरेकप्रतीतेश्च; यस्मिन्निति निर्दिष्टमतिरिक्तमाकाशश्च। न सङ्ख्योपसङ्ग्रहादपीत्यपिशब्देन सङ्ख्योपसङ्ग्रहो न संभवतीत्याह, आकाशस्य पृथङ्निर्देशात्। अत: पञ्चजना: इति न समाहारविषय:, अपि तु दिक्सङ्ख्ये संज्ञायाम् इति संज्ञाविषय:; पञ्चजनसंज्ञिता: केचित्, ते च पञ्चैवेति। सप्त सप्तर्षय इतिवत्॥११॥
१२१। प्राणादयो वाक्यशेषात् – पञ्चजनसंज्ञिता: पञ्च पदार्था: प्राणादय इति वाक्यशेषादवगम्यते। प्राणस्य प्राणमुत चक्षुषश्चक्षु: श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः इति। ब्रह्मात्मकानीन्द्रियाणि पञ्चपञ्चजना इति निर्दिष्टानि। जननाच्च जना:॥१२॥
काण्वपाठेऽन्नवर्जितानां चतुर्णां निर्देशात् पञ्चजनसंज्ञितानीन्द्रियाणीति कथं ज्ञायत इत्यत्राह –
१२२। ज्योतिषैकेषामसत्यन्ने – एकेषां – काण्वानां वाक्यशेषे असत्यन्नशब्दे वाक्योपक्रमगतेन तं देवा ज्योतिषां ज्योतिरिति ज्योतिश्शब्देन पञ्चजना: इन्द्रियाणीति विज्ञायन्ते। कथम्? ज्योतिषां ज्योतिषि ब्रह्मणि निर्दिष्टे प्रकाशकानां प्रकाशकं ब्रह्मेति प्रतीयते। के ते प्रकाशका इत्यपेक्षायां। पञ्च पञ्च जना:। इत्यनिर्ज्ञातविशेषा: पञ्चसंख्यासंख्याता: प्रकाशकानि पञ्चेन्द्रियाणीति अवगम्यते। अत: यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठित: इतीन्द्रियाणि भूतानि च ब्रह्मणि प्रतिष्ठितानीति न तान्त्रिकतत्त्वगन्ध:॥१३॥ इति संख्योपसंग्रहाधिकरणम् ॥ ३ ॥
१–४–४
१२३। – कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्ते: – जगत्कारणवादीनि वेदान्तवाक्यानि किं प्रधानकारणतावादैकान्तानि, उत ब्रह्मकारणतावादैकान्तानीति संशय:। प्रधानकारणतावादै-कान्तानीति पूर्व: पक्ष:, सदेव सोम्येदमग्र आसीत् इति क्वचित्सत्पूर्विका सृष्टिराम्नायते; अन्यत्र असदेवेदेमग्र आसीत् – असद्वा इदमग्र आसीत्, तथा तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत इति। अव्याकृतं हि प्रधानम्। अत: प्रधानकारणतावादनिश्चयात्तदेकान्तान्येव। राद्धान्तस्तु – सत्यं ज्ञानमनन्तं ब्रह्म इत्युपक्रम्य तस्माद्वा एतस्मादात्मन आकाशस्संभूत: तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत इत्यादिषु सर्वज्ञस्य परस्य ब्रह्मण: कारणत्वप्रतिपादनात्तस्यैव ब्रह्मण: कारणावस्थायां नामरूपविभागसंबन्धितया सद्भावाभावादसदव्याकृतादिशब्देन व्यपदेश इति ब्रह्मकारणतावादैकान्तान्येव। सूत्रार्थस्तु – आकाशादिपदचिह्नितेषु तस्माद्वा एतस्मादात्मन आकाशस्संभूत: इत्यादिषु सर्वज्ञस्य परस्य ब्रह्मण: कारणत्वप्रतिपादनात्, सर्वेषु सृष्टिवाक्येषु यथाव्यपदिष्टस्यैव कारणत्वेनोक्ते: ब्रह्मकारणतावादैकान्तानि। यथा व्यपदिष्टम् – सार्वज्ञ्यादि-युक्ततया अस्माभिर्व्यपदिष्टम्॥१४॥
तथा सति। असद्वा इदमग्र आसीत् इति किं ब्रवीतीत्यत आह-
१२४। समाकर्षात् – सोऽकामयत बहुस्यां प्रजायेयेति इति बहुभवनसङ्कल्पपूर्वकं जगत्सृजतो ब्रह्मणस्सर्वज्ञस्य । असद्वा इदमग्र आसीत् इत्यत्र समाकर्षात्कारणावस्थायां नामरूपसंबन्धित्वाभावेन असदिति ब्रवीति। एवं तद्धेदं तर्ह्यव्याकृतमासीत् इत्यादिषु । स एष इहानुप्रविष्ट आनखाग्रेभ्य: पश्यत्यचक्षु: इत्यादि पूर्वापरपर्यालोचनया तत्र तत्र सर्वज्ञस्य समाकर्षो द्रष्टव्य:॥१५॥ इति कारणत्वाधिकरणम्॥ ४ ॥
१–४–५
१२५। जगद्वाचित्वात् – कौषीतकिनां ब्रह्म ते ब्रवाणि इत्युपक्रम्य, यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्य: इत्यत्र वेदितव्यतयोपदिष्ट: साङ्ख्यतन्त्रसिद्ध: पुरुष:, उत परमात्मेति संशय:। पुरुष एव प्रकृतिवियुक्त इति पूर्व: पक्ष: – यस्य वैतत्कर्म इति कर्मशब्दस्य क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् कृत्स्नं जगद्यस्य कार्यम्, स परमपुरुष एव वेदितव्यतयोपदिष्टो भवतीति। सूत्रमपि व्याख्यातम्॥१६॥
१२६। जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् – एवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते। इत्यादि भोक्तृत्वरूपजीवलिङ्गात्। अथास्मिन्प्राण एवैकधा भवति इति मुख्यप्राणलिङ्गाच्च नायं परमात्मेति चेत्; तस्य परिहार: प्रतर्दनविद्यायामेव व्याख्यात:। पूर्वापरप्रकरणपर्यालोचनया परमात्मपरमिदं वाक्यमिति निश्चिते सत्यन्यलिङ्गानि तदनुगुणतया नेतव्यानीत्यर्थ:। ननु – तौ ह सुप्तं पुरुष(मीयतु)माजग्मतु: इति प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनादिना शरीरेन्द्रियप्राणाद्यतिरिक्त- जीवात्मसद्भावप्रतिपादनपरमिदं वाक्यमित्यवगम्यत इत्यत उत्तरं पठति॥१७॥
१२७। अन्यार्थं तु जैमिनि: प्रश्नव्याख्यानाभ्यामपि चैवमेके – तुशब्दश्शङ्कानिवृत्त्यर्थ:। जीवसङ्कीर्तनमन्यार्थं – जीवातिरिक्तब्रह्मसद्भावप्रतिबोधनार्थमिति प्रश्नप्रतिवचनाभ्यामवगम्यते। प्रश्नस्तावज्जीवप्रतिपादनानन्तरं क्वैष एतद्बालाके पुरुषोऽशयिष्ट इत्यादिक: सुषुप्तजीवाश्रय-विषयतया परमात्मपर इति निश्चित:। प्रतिवचनमपि अथास्मिन्प्राण एवैकधा भवति इत्यादिकं परमात्मविषयमेव। सुप्तपुरुषाश्रयतया हि प्राणशब्दनिर्दिष्ट: परमात्मैव। सता सोम्य तदा संपन्नो भवति इत्यादिभ्य:। जैमिनिग्रहणमुक्तस्यार्थस्य पूज्यत्वाय। अपि चैवमेके – एके वाजसनेयिन: इदमेव बालाक्यजातशत्रुसंवादगतं प्रश्नप्रतिवचनरूपं वाक्यं परमात्मविषयं स्पष्टमधीयते। क्वैष एतत् इत्यादि य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेत इत्येतदन्तम्॥१८॥ इति जगद्वाचित्वाधिकरणम् ॥ ५ ॥
१–४–६
१२८। वाक्यान्वयात् – बृहदारण्यके मैत्रेयीब्राह्मणे न वा अरे पत्यु: कामाय पति: प्रियो भवत्यात्मनस्तु कामाय इत्यारभ्य आत्मा वा अरे द्रष्टव्य इति प्रतिपाद्यते। श्रोतव्यो मन्तव्यो निदिध्यासितव्य: इत्यादौ द्रष्टव्यतया निर्दिष्ट: पुरुष: तन्त्रसिद्ध:, उत परमात्मेति संशय:। तन्त्रसिद्ध: पञ्चविंशक: एवेति पूर्व: पक्ष:। पतिजायापुत्रवित्तमित्रपश्वादिप्रियसंबन्ध्यात्मा न परमात्मा भवितुमर्हाति। स एव हि आत्मा वा अरे द्रष्टव्य इति प्रतिपाद्यते। राद्धान्तस्तु – न पत्यादीनां कामाय पत्यादय: प्रिया भवन्ति, आत्मनस्तु कामाय इत्युक्त्त्वा, आत्मा वा अरे द्रष्टव्य: इति निर्दिष्ट आत्मा जीवातिरिक्तस्सत्यसङ्कल्पस्सर्वज्ञ: परमात्मैव। यत्सङ्कल्पायत्तं पत्यादीनां स्वसंबन्धिन: प्रति प्रियत्वम्, स हि सत्यसंकल्प: परमात्मा। आत्मज्ञानेन सर्वज्ञानादयोऽपि वक्ष्यमाणा: परमात्मन्येव संभवन्ति।
सूत्रार्थस्तु – वाक्यस्य कृत्स्नस्य परमात्मन्येवान्वयाद्द्रष्टव्यतया निर्दिष्ट आत्मा परमात्मैव। अमृतत्वस्य तु नाशाऽस्ति वित्तेन आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्। इदं सर्वं यदयमात्मा। तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेद:। येनेदं सर्व विजानाति तं केन विजानीयात्॥ इति हि कृत्स्नस्य वाक्यस्य परमात्मन्यन्वयो दृश्यते॥१९॥
एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यतीति जीवलिङ्गस्य मतान्तरेण निर्वाहमाह-
१२९। प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्य: – एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये जीवस्य परमात्मकार्यतया परमात्मनोऽनन्यो जीव इति जीवशब्देन परमात्मनोऽभिधानम् इत्याश्मरथ्य-मतम्॥२०॥
१३०। उत्क्रमिष्यत एवं भावादित्यौडुलोमि: – परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति शरीरादुत्क्रमिष्यत: अस्य जीवस्य परमात्मभावाज्जीवशब्देन परमात्मनोऽभिधानमित्यौडुलोमि: आचार्यो मेने॥२१॥
१३१। अवस्थितेरिति काशकृत्स्न: – य आत्मनि तिष्ठन् इत्यादिभिर्जीवात्मन्यन्तरात्मतया परमात्मनोऽवस्थिते: जीवात्मशब्दस्य परमात्मनि पर्यवसानाज्जीवात्मशब्देन परमात्मनः अभिधानमिति काशकृत्स्न आचार्यो मन्यते। इदमेव सूत्रकाराभिमतमित्यवगम्यते, त्रयाणामन्योन्य-विरोधात्, इत: परमवचनाच्च॥२२॥ इति वाक्यान्वयाधिकरणम् ॥ ८ ॥
१–४–७
१३२। प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् – परं ब्रह्म किं जगतो निमित्तकारणमात्रम्, उतोपादानकारणमपीति संशय:। निमित्तकारणमात्रमिति पूर्व: पक्ष:, मृत्कुलालादौ निमित्तोपादानयोः भेददर्शनात्; अस्मान्मायी सृजते विश्वमेतत् इत्यादिभिर्भेदप्रतिपादनाद्ब्रह्मणोऽविकारत्व-श्रुतिविरोधाच्च। राद्धान्तस्तु – येनाश्रुतं श्रुतम् इति ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञानान्यथानुपपत्त्या यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयम् इति मृत्तत्कार्यदृष्टान्तेन तदुपपादनाच्च जगदुपादानकारणमपि ब्रह्मैवेति विज्ञायते। प्रमाणान्तरावसितसकलवस्तु-विलक्षणस्य शास्त्रैकसमधिगम्यस्य परस्य ब्रह्मणस्सर्वज्ञस्य सर्वशक्ते: कार्यकारणोभयावस्थायां अपि स्वशरीरभूतचिदचित्प्रकारतयाऽवस्थितस्यैकस्यैव निमित्तत्वमुपादानत्वं चाविरुद्धम्।
शरीरभूताचिद्वस्तुगतो विकार इति कार्यावस्थावस्थितस्यापि शरीरिण: परमात्मनः अविकारित्वं सिद्धमेव। चिदचिद्वस्तुशरीरस्य ब्रह्मण एवोपादानत्वेऽपि ब्रह्मण्यपुरुषार्थ-विकारास्पर्शप्रदर्शनाय हि अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो माययासन्निरुद्ध इति व्यपदेश:। प्रतिज्ञादृष्टान्तानुपरोधात् उपादानं च ब्रह्मैवेति सूत्रार्थ:॥२३॥
१३३। अभिध्योपदेशाच्च – सोऽकामयत बहु स्यां, तदैक्षत बहु स्यां प्रजायेय इति स्रष्टुर्ब्रह्मणस्स्वस्यैव जगदाकारेण बहुभवनचिन्तनोपदेशाच्च जगदुपादानं निमित्तं च ब्रह्मैवेति निश्चीयते॥२४॥
१३४। साक्षाच्चोभयाम्नानात् – किंस्विद्वनं क उ स वृक्ष आसीत् इत्यादिना जगदुपादाननिमित्तादौ पृष्टे ब्रह्म वनं ब्रह्म स वृक्ष आसीत्। ब्रह्माध्यतिष्ठत् इत्युपादानं निमित्तं चोभयं ब्रह्मैवेति हि साक्षादाम्नायते;, अतश्चोभयं ब्रह्म॥२५॥
१३५। आत्मकृते: – तदात्मानं स्वयमकुरुत इति स्रष्टुरात्मन एव जगदाकारेण कृतिरुपदिश्यते। अतश्चोभयं ब्रह्मैव। नामरूपभावाभावाभ्यामेकस्य कर्मकर्तृभावो न विरुद्ध:॥२६॥
यद्यात्मानमेव ब्रह्म जगदाकारं करोति, तर्हि ब्रह्मणोऽपहतपाप्मत्वादिकमनवधिकातिशय- आनन्दस्वरूपत्वं सर्वज्ञत्वमित्यादि सर्वं विरुध्यते, अज्ञत्वासुखित्वकर्मवश्यत्वादिविपरीतरूपत्वात् जगत इत्यत उत्तरं पठति –
१३६। परिणामात् – अज्ञब्रह्मविवर्तवादे हि तद्भवत्येव। अज्ञानस्य तत्कार्यरूपानन्तापुरुषार्थस्य च वेदान्तजन्यज्ञाननिवर्त्यस्य ब्रह्मण्येवान्वयात्, तदा शास्त्रस्य भ्रान्तजल्पितत्वापाताच्च। अविभक्तनामरूपसूक्ष्मचिदचिद्वस्तुशरीरकस्य ब्रह्मणो विभक्तनामरूपचिदचिद्वस्तुशरीरत्वेन परिणामो हि वेदान्तेषूपदिश्यते। तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत इत्येवमादिभि:, अपुरुषार्थाश्च विकाराश्शरीरभूतचिदचिद्वस्तुगता:। कारणावस्थायां कार्यावस्थायां चात्मभूतं ब्रह्मापहत-पाप्मत्वादिगुणकमेव। स्थूलसूक्ष्मावस्थस्य कृत्स्नस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वं, ब्रह्मणश्च तदात्मत्वं, य: पृथिव्यां तिष्ठन् यस्य पृथिवी शरीरम् इत्यारभ्य यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव इत्येवमादिश्रुतिशतसमधिगतम्। अतस्सर्वमनवद्यम्॥२७॥
१३७। योनिश्च हि गीयते – यद्भूतयोनिं परिपश्यन्ति धीरा:, कर्तारमीशं पुरुषं ब्रह्मयोनिम् इत्यादिषु सर्वस्य भूतजातस्य परमपुरुष: योनित्वेन गीयते। हि शब्दो हेतौ, यस्माद्योनिरिति गीयते, तस्माच्चोपादानमपि ब्रह्म। योनिशब्दश्चोपादानकारणपर्यय:॥२८॥ इति प्रकृत्यधिकरणम् ॥७॥
१–४–८
१३८। एतेन सर्वे व्याख्याता व्याख्याता: – यतो वा इमानि इत्यादिषूदाहृतेषु वाक्येषु जन्माद्यस्य यत इत्यादिनोक्तन्यायकलापेन सर्वे वेदान्ता: ब्रह्मपरा व्याख्याता:। पदाभ्यासोऽध्याय- परिसमाप्तिद्योतनार्थ:॥२९॥ इति सर्वव्याख्यानाधिकरणम् ॥ ८ ॥
इति श्री भगवद्रामानुजविरचिते श्रीवेदान्तदीपे
प्रथमस्याध्यायस्य चतुर्थ: पाद: । समाप्तश्चाध्याय:।