सिद्धित्रये संवित्सिद्धिः

श्रीमते रामानुजाय नमः

परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते,

सिद्धित्रये संवित्सिद्धिः

( अद्वितीयश्रुत्यर्थविचारः )

3.1   एकमेवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः ।

ब्रह्मणोऽन्यस्य सद्भावं ननु तत्प्रतिषेधति ।।

3.2  अत्र ब्रूमोऽद्वितीयोक्तौ समासः को विवक्षितः ।

किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ।।

( परमते अत्र तत्पुरुषायोगः )

3.3   पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते ।

पदार्थस्तत्र तद्ब्रह्म ततोऽन्यत्सदृशं तु वा ।।

3.4    तद्विरुद्धमथो वा स्यात्रिष्वप्यन्यन्न बाधते ।

अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ।।

3.5    विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा ।

ब्रह्म प्राप्नोति यस्मात्तत् द्वितीयेन विरुध्यते ।।

3.6   अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः ।

द्वितीयेन तथा स्पृष्ट्वा स्वस्थास्तिष्ठन्त्यबाधिताः ।।

3.7   ननु नञ् ब्रह्मणोऽन्यस्य सर्वस्यैव निषेधकम् ।

द्वितीयग्रहणं यस्मात्सर्वस्यैवोपलक्षणम् ।।

3.8   नैवं निषेधो न ह्यस्माद्वितीयस्यावगम्यते ।

ततोऽन्यत्तद्विरुद्धं वा सदृशं वाऽत्र वक्ति सः ।।

3.9   द्वितीयं यस्य नैवास्ति तद्ब्रह्मेति विवक्षिते ।

सत्यादिलक्षणोक्तीनामपलक्षणता भवेत् ।।

3.10  अद्वितीये द्वितीयार्थनास्तितामात्रगोचरे ।

स्वनिष्ठत्वान्नञर्थस्य न स्याद्ब्रह्मपदान्वयः ।।

3.11  द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् ।

विशेषणे वा तद्ब्रह्म तृतीयं प्रथमं तु वा ।।

( बहुव्रीह्ययोगः )

3.12  प्रसक्तं पूर्ववत्सर्वं बहुर्वीहौ समस्यति ।

ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्र्त्रये ।।

3.13  ब्रह्म प्रत्यद्वितीयत्वात्स्वस्थास्तिष्ठन्त्यबाधिताः ।

किञ्च तत्र बहुव्रीहौ समासे संश्रिते सति ।।

3.14   वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः ।

सत्यार्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ।।

3.15   द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् ।

असत्त्वान्न ह्यसद्ब्रह्म भवेन्नापि विशेषणम् ।।

3.16   तस्मात्प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः ।

स्वप्रमाणबलात्सिद्धः श्रुत्या चाप्यनुमोदितः ।।

( सिद्धान्ते अद्वितीयश्रुत्यर्थः )

3.17   तेनाद्वितीयं ब्रह्मेति श्रुतेरर्थोऽयमुच्यते ।

द्वितीयगणनायोग्यो नासीदस्ति भविष्यति ।।

3.18   समो वाऽभ्यधिको वाऽस्य यो द्वितीयस्तुगण्यते ।

यतोऽस्य विभवव्यूहकलामात्रमिदं जगत् ।।

3.19   द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् ।

यथा चोलनृपः सम्राडद्वितीयोऽद्य भूतले ।।

3.20    इति तत्तुल्यनृपतिनिवारणपरं वचः ।

न तु तद्भृत्यतत्पुत्रकलत्रादिनिषेधकम् ।।

3.21    तथा सुरासुरनरब्रह्मब्रह्माण्डकोटयः ।

क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः ।।

3.22    ज्ञानादिषाङ्गुण्यनिधेरचिन्त्यविभवस्य ताः ।

विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः ।।

3.23     कः खल्वङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्यया ।

गणयन् गणयेदूर्मिफेनबुद्बुदविप्रुषः ।।

3.24      यथैक एव सविता न द्वितीयो नभःस्थले ।

इत्युक्तया न हि सावित्रा निषिध्यन्तेऽत्र रश्मयः ।।

3.25    यथा प्रधानसङ्ख्येयसङ्ख्यायां नैव गण्यते ।

सङ्ख्या पृथक्सती तत्र सङ्ख्येयान्यपदार्थवत् ।।

( सिद्धान्ते श्रुत्यन्तरोपष्टंभः)

3.26    तथा, पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।

इति ब्रुवन् जगत्सर्वमित्थम्भावे न्यवेशयत् ।।

3.27    तथा, एतावानस्य महिमा ततो ज्यायस्तरो हि सः ।

यत्रान्यन्न विजानाति स भूमोदरमन्तरम् | |

3.28    कुरुतेऽस्य भयं व्यक्तमित्यादिश्रुतयः पराः ।

मेरोरिवाणुर्यस्येदं ब्रह्माण्डमखिलं जगत् । |

3.29     इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ।

वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम् । |

3.30       विकारजातं, कूटस्थं मूलकारणमेव सत् ।

अनन्यत्कारणात्कार्यं पावकाद्विस्फुलिङ्गवत् । |

3.31       मृत्तिकालोहबीजादिनानादृष्टान्तविस्तरैः ।

नाशकद्दग्धुमनलस्तृणं मज्जयितुं जलम् । |

3.32       न वायुश्चलितुं शक्तः तच्छक्तयाप्यायनादृते ।

एकप्रधानविज्ञानाद्विज्ञातमखिलं भवेत् । |

3.33        इत्यादिवेदवचनतन्मूलाप्तागमैरपि ।

ब्रह्मात्मनाऽऽत्मलाभोऽयं प्रपञ्चश्चिदचिन्मयः ।  |

( प्रपञ्चनिशेधायोगः )

3.34        इति प्रमीयते ब्राह्मी विभूतिर्न निषिध्यते ।

तन्निषेधे समस्तस्य मिथ्यात्वाल्लोकवेदयोः ।  |

3.35        व्यवहारास्तु लुप्येरन् तथा स्याद्ब्रह्मधीरपि ।

व्यावहारिकसत्यत्वान्मृषात्वेऽप्यविरुद्धता । |

3.36        प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् ।

अतश्चोपनिषज्जातब्रह्माद्वैतधितधिया जगत् । |

3.37        न बाध्यते विभूतित्वाद्ब्रह्मणश्चेत्यवस्थितम् ।

ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् । |

3.38       असत्त्वे वा कथं तस्मिन्नस्तीति प्रत्ययो भवेत् ।

सदसत्त्वं तथैकस्य विरुद्धत्वादसम्भवि । |

3.39         सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसङ्गमे ।

तयोरन्यतरार्थस्य निश्चयाभावहेतुतः | ।

3.40         सदसत्त्वं प्रपञ्चस्य जैनास्तु प्रतिजानते |

सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् । |

3.41        सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास्तु प्रतिपेदिरे ।

सदसत्प्रत्यय प्राप्तविरुद्धद्वन्द्वसङ्कटे । |

3.42        विरोधपरिहारार्थं सत्त्वासत्वांशभङ्गतः ।

सदसद्भ्यामनिर्वाच्यं प्रपञ्चं केचिदूचिरे ।।

3.43       सत्त्वासत्त्वे विभागेन देशकालादिभेदतः ।

घटादेरिति मन्वाना व्यवस्थामपरे जगुः ।|

3.44       तदेवं वादिसम्मर्दात् संशये समुपस्थिते ।

निर्णयः क्रियते तत्र मीमांसकमतेन तु ।।

3.45     घटस्वरूपे नास्तित्वमस्तित्वं यद्यबूबुधत् ।

स्यादेव युगपत्सत्त्वमसत्त्वं च घटादिषु ।।

3.46     इदानीमिदमत्रास्ति नास्तीत्येवंविधा यतः ।

देशकालदशाभेदादस्तिनास्तीति नो धियः ।।

3.47    अतो देशादिभेदेन सदसत्त्वं घटादिषु ।

व्यवस्थितं निरस्तत्वा (स्या) द्वादस्येह न सम्भवः ।।

3.48      ननु देशादिसम्बन्धः सत एवोपपद्यते ।

न देशकालसम्बन्धादसतः सत्त्वमिष्यते ।।

3.49     संबन्धो द्व्याश्रयस्तस्मात्सतः सत्त्वं सदा भवेत् ।

असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ।।

3.50      आद्यन्तवान् प्रपञ्चोऽतः सत्कक्ष्यान्तर्निवेक्ष्यते ।

उक्तं च – आदावन्ते च यन्नास्ति नास्ति मध्येऽपि तत्तथा | ।

3.51     अतो निश्चितसद्भावः सदा सन्नभ्युपेयताम् ।

असतः सर्वदाऽसत्त्वं जन्ययोगात् खपुष्पवत् ।

असत्त्वे न विशेषोऽस्ति प्रागत्यन्तासतोरिह ।।

( तत्त्वमसिवाक्यार्थविचारः )

3.52    श्वेतकेतुमुपादाय तत्त्वमित्यपि यच्छ्रुतम् ।

षष्ठप्रपाठके तस्य कुतो मुख्यार्थसम्भवः ।।

3.53    कार्पण्यशोकदुःखार्तश्चेतनस्त्वंपदोदितः ।

सर्वज्ञस्सत्यसङ्कल्पो निस्सीमसुखसागरः । |

3.54    तत्पदार्थस्तयोरैक्यं तेजस्तिमिरवत्कथम् ।

त्वमर्थस्थे तटस्थे वा ….. ( तदेर्थस्थे  च भेदके ) ।

गुणे तत्त्वंपदश्रुत्योरैकार्थ्ये दूरवारितम् ।।

3.55   अज्ञत्वसर्ववेदित्वदुःखित्वसुखितादिके ।

विशेषणे वा चिद्धातोरथवाऽप्युपलक्षणे । |

3.56   विरुद्धगुणसङ्कान्तेर्भेदः स्यात् त्वंतदर्थयोः ।

वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता । |

3.57   सोऽयं गौरितिवत्तत्त्वंपदयोरित्यपेशलम् ।

देशकालदशाभेदादेकस्मिन्नपि धर्मिणि । |

3.58    विरुद्धद्वन्द्वसङ्कान्तेः सोऽयं गौरिति युज्यते ।

स्वप्रकाशस्य चिद्धातोर्विरुद्धद्वन्द्वसङ्गतौ । |

  1. 59 न व्यवस्थापकं किञ्चिद्देशकालदशादिके ।

निर्धूतनिखिलद्वन्द्वस्वप्रकाशे चिदात्मनि । |

3.60      द्वैतानर्थभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् ।

एतेन सत्यकामत्वजगत्कारणतादयः । |

3.61      मा ( योपाधौ ) परेऽध्यस्ताः शोकमोहदयः पुनः ।

अविद्योपाधिके जीवे विनाशेनेति यन्मतम्  |।

3.62     क्षुद्रब्रह्मविदामेतन्मतं प्रागेव दूषितम् ।

चित्स्वरूपे विशिष्टे वा मायाऽविद्याद्युपाधयः  |।

3.63     पूर्वस्मिन् सर्वसाङ्कर्यं परजीवाविभागतः ।

उत्तरस्मिन्नपि तथा विशिष्टमपि चिद्यदि । |

3.64     चित्स्वरूपं हि निर्भेदं मायाऽविद्याद्युपाधिभिः ।

विभिन्नमिव विभ्रान्तं विशिष्टं च ।।

3.65     तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् ।

न हि दण्डिशिरश्छेदाद्देवदत्तो न हिंसितः ।।

3.66     अचिदंशव्यपोहेन चिदेकपरिशेषता ।

अतस्तत्त्वमसीत्यादेरर्थ इत्यप्यसुन्दरम् ।।

3.67     अब्रह्मानात्मताभावे प्रत्यक् चित् परिशिष्यते ।

तत्त्वंपदद्वयं जीवपरतादात्म्यगोचरम् । |

3.68     तन्मुख्यवृत्ति तादात्म्यमपि वस्तुद्वयाश्रयम् ।

भेदाभेदविकल्पस्तु यस्त्वया परिचोदितः  |।

3.69     अभेदाभेदिनोऽसत्वे बन्धे सति निरर्थकः ।

अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः । |

3.70      भेदः परस्परानात्म्यं भावानामेवमेतयोः ।

स्वरूपमभ्युपेत्यैव भेदाभेद विकल्पयोः ||

3.71     तेन वाग्वाधा विरोधेन निगृह्यसे |

भिन्नाभिन्नत्वसम्बन्धसदसत्त्वविकल्पनम् । |

3.72     प्रत्यक्षानुभवापास्तं केवलं कण्ठशोषणम् ।

नीले नीलमतिर्यादृगुत्पले नीलधीर्हि सा । |

3.73     नीलमुत्पलमेवेदमिति साक्षाच्चकास्ति नः ।

यथा विदितसंयोगसम्बन्धेऽप्यक्षगोचरे । |

3.74    भेदाभेदादिदुस्तर्कविकल्पा  धानविभ्रमः ।

तद्वत्तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके । |

3.75    श्रुतिदण्डेन दुस्तर्कविकल्पभ्रमवारणम् ।

निर्दोषाऽपौरुषेयी च श्रुतिरत्यर्थमादरात् । |

3.76    असकृत्तत्त्वमित्याह तादात्म्यं ब्रह्मजीवयोः ।

ब्रह्मानन्दह्रदान्तःस्थो मुक्तात्मा सुखमेधते । |

3.77    फले च फलिनोऽभावान्मोक्षस्यापुरुषार्थता ।

एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ।।

( एकस्यास्संविदः प्रपन्चोपादानत्वे  अनुपपत्तिः )

3.78     किञ्च प्रपञ्चरूपेण का नु संविद्विवर्तते ।

न तावद्घटधीस्तस्यामसत्यामपि दर्शनात् ।।

3.79     न हि तस्यामजातायां नष्टायां वाऽखिलं जगत् ।

नास्तीति शक्यते वक्तुमुक्तौ प्रत्यबाधनात् ।

नाप्यन्यसंवित् तन्नाशेऽप्यन्येषामुपलम्भनात् । |

3.80     ननु संविदभिन्नैका न तस्यामस्ति भेदधीः ।

घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ।।

3.81    घटधीः पटसंवित्तिसमये नावभाति चेत् ।

नैवं, घटो हि नाभाति सा स्फुरत्येव तु स्फुटम् ।।

3.82    घटव्यावृत्तसंवित्तिरथ न स्फुरतीति चेत् ।

तद्व्यावृत्तिपदेनापि किं सैवोक्ताऽथ वेतरत् । |

3.83     सैव चेद्भासतेऽन्यच्चेन्न ब्रूमस्तस्य भासनम् ।

किञ्चास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः । |

3.84     ऋते विषयनानात्वान्नानात्वावग्रहभ्रमः ।

न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लैङ्गिकः । |

3.85     घटादिवेद्यभेदोऽपि केवलं भ्रमलक्षणः ।

यदा, तदा तदायत्तो धीभेदावग्रहोदयः  |

कुतः, कुतस्तरां तस्य परमार्थत्वसम्भवः ।।

( पूर्वपक्षे संविन्नित्यत्वम् )

3.86    किञ्च स्वयंप्रकाशस्य स्वतो वा परतोऽपि वा ।

प्रागभावादिसिद्धिः स्यात् , स्वतस्तावन्न युज्यते ।।

3.87    स्वस्मिन् सति विरुद्धत्वादभावस्यानवस्थितेः ।

स्वनिमित्तप्रकाशस्य स्वस्याभावेऽप्यसम्भवात् ।

अनन्यगोचरत्वेन चितो न परतोऽपि च ।।

 

( तत्र संविन्निर्धर्मकत्वम् )

3.88    किञ्च वेद्यस्य भेदादेर्न चिद्धर्मत्वसम्भवः ।

रूपादिवत् , अतः संविदद्वितीया स्वयंप्रभा ।।

3.89   अतस्तद्भेदमश्रित्य यद्विकल्पादिजल्पितम् ।

तदविद्याविलासोऽयमिति ब्रह्मविदो विदुः ।।

 

( उक्तपूर्वपक्षखण्डनविस्तरः ; सम्विद्भेदसमर्थनम् )

3.90    हन्त ब्रह्मोपदेशोऽयं श्रद्दधानेषु शोभते ।

वयमश्रद्दधानाः स्मो ये युक्तिं प्रार्थयामहे ।।

3.91    प्रतिप्रमातृविषयं परस्परविलक्षणाः ।

अपरोक्षं प्रकाशन्ते सुखदुखादिवद्धियः ।|

3.92       सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः ।

न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च सम्मतः ।।

 

( नित्यविभुसंविदैक्यपक्षे अनुपपत्तिः )

3.93       यदि सर्वगता नित्या संविदेवा(का )भ्युपेयते ।

ततः सर्वं सदा भायात् , न वा किञ्चित्कदाचन ।।

3.94        तदानीं न हि वेद्यस्य सन्निधीतरकारिता ।

व्यवस्था घटते, वित्तेर्व्योमवद्वैभवाश्रयात् ।।

3.95        नापि कारणभेदेन, नित्यायास्तदभावतः ।

न च स्वरूपनानात्वात् , तदेकत्वपरिग्रहात् ।।

3.96        ततश्च बधिरान्धादेः शब्दादिग्रहणं भवेत् ।

गुरुशिष्यादिभेदश्च निर्निमित्तः प्रसज्यते ।।

 

( संविद्भिन्नसर्वापलापेन  शङ्का तत्खण्डनञ्च )

3.97         ननु नः संविदो भिन्नं सर्वं नाम न किञ्चन ।

अतः सर्वं सदा भायादित्यकाण्डेऽनुयुज्यते ।।

3.98        इदमाख्याहि भोः किं नु नीलादिर्न प्रकाशते ।

प्रकाशमानो नीलादिः संविदो वा न भिद्यते ।।

3.99       आदौ प्रतीतिसुभगो निर्वाहो लोकवेदयोः ।

यतः पदपदार्थादि न किञ्चिदवभासते ।।

3.100     द्वितीये संविदोऽद्वैतं व्याहन्येत समीहितम् ।

यद्ययं विविधाकारप्रपञ्चः संविदात्मकः ।

साऽपि संवित्तदात्मेति यतो नाना प्रसज्यते ।।

3.101      नचाविद्याविलासत्वाद्भेदाभेदानिरूपणा ।

सा हि न्यायानलस्पृष्टा जातुषाभरणायते ।।

 

( तत्र अविद्येत्यत्र  नञर्थविचारः )

3.102     तथाहि यद्यविद्येयं विद्याभावात्मिकेष्यते ।

निरुपाख्यस्वभावत्वात्सा न किञ्चिन्नियच्छति ।।

3.103     अर्थान्तरमविद्या चेत्साध्वी भेदानिरूपणा ।

अर्थानर्थान्तरत्वादिविकल्पोऽस्या न युज्यते ।

विद्यातोऽर्थान्तरं चासाविति सुव्याहृतं वचः ।।

3.104     अथार्थान्तरभावोऽपि तस्यास्ते भ्रान्तिकल्पितः ।

हन्तैवं सत्यविद्यैव विद्या स्यात्परमार्थतः ।।

3.105     किञ्च शुद्धाऽजडा संवित् , अविद्येयं तु नेदृशी ।

तत्केन हेतुना सेयमन्यैव न निरूप्यते ।।

 

( अविद्या पदार्थगतविद्या स्वरूपशोधनं )

3.106    अपि चेयमविद्या ते यदभावादिरूपिणी ।

सा विद्या किं नु संवित्तिर्वेद्यं वा वेदिताऽथवा ।

वेद्यत्वे वेदितृत्वे च नास्यास्ताभ्यां निवर्तनम् ।|

3.107     न हि ज्ञानादृतेऽज्ञानमन्यतस्ते निवर्तते ।

संविदेवेति चेत्तस्या ननु भावादसम्भवः ।।

3.108      किञ्चेयं तद्विरुद्धा वा, न तस्याः क्वापि सम्भवः ।

यतोऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ।।

3.109       अभावोऽन्यो विरुद्धो वा संविदोऽपि यदीष्यते ।

तदानीं संविदद्वैतप्रतिज्ञां दूरतस्त्यज ।।

 

( अविद्याया आश्रयानुपपत्तिः )

3.110       किञ्चासौ कस्य ? जीवस्य, को जीवो ? यस्य सेति चेत् ।

नन्वेवमसमाधानमन्योन्याश्रवणं भवेत् ।।

3.111       न ते जीवादविद्या स्यात् , न च जीवस्या विना ।

न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेरयोगतः ।।

( जीवाविद्यानिरासानन्तरं ब्रह्माविद्यानिरासः )

3.112          ब्रह्मणश्चेन्न सर्वज्ञं कथं तत् बंभ्रमीति ते ।

अविद्याकृतदेहात्मप्रत्ययाधीनता न ते । |

3.113          ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ।

भेदावभासगर्भत्वादथ सर्वज्ञता मृषा । |

3.114         तत एवामृषा कस्मान्न स्याच्छब्दान्तरादिवत् ।

यथा शब्दान्तराभ्याससङ्ख्याद्याः शास्त्रभेदकाः । |

3.115        भेदावभासगर्भाश्च यथार्थाः, तादृशी न किम् ।

सर्वज्ञे नित्यमुक्तेऽपि यद्यज्ञानस्य सम्भवः । |

3.116        तेजसीव तमस्तस्मान्न निवर्तेत केनचित् ।

सर्वज्ञत्वादिवचनप्रामाण्यं व्यावहारिकं ||

3.117        तात्त्विकं तु प्रमाणत्वमद्वैतवचसामिति ।

नियामकं न पश्यामो निर्बन्धात्तावकादृते ।।

3.118       आश्रयप्रतियोगित्वे परस्परविरोधिनी ।

कथं वैकरसं ब्रह्म सदिति प्रतिपद्यते ।।

3.119      प्रत्यक्त्वेनाश्रयो ब्रह्मरूपेण प्रतियोगि चेत् ।

रूपभेदः कुतस्त्योऽयं यद्यविद्याप्रसादजः ।

ननु सापि तदायत्तेत्यन्योन्याश्रयणं पुनः ।।

( अविद्याया वस्तुत्वं )

3.120    अवस्तुत्वादविद्यायाः (नैतत् तद्दूषणं यदि) ।

वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ।।

3.121     ससा…..उ( स्वसाध्यस्य  सिद्धव    ) त्कारात् दोषोऽन्योन्यसमाश्रयः ।

न वस्तुत्वादवस्तुत्वादित्यतो नेदमुत्तरम् ।।

( अवस्तुत्वासिद्धिवचनं )

3.122     समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते ।

प्रतिप्रसूतं व्यस्तेन पुनस्तदिति वस्तुता ।।

( अविद्याया जीवस्य चैकत्वनानात्वविकल्पः )

3.123     किञ्च प्रपञ्चनिर्वाहजननी येयमाश्रिता ।

अविद्या सा किमेकैव नैका वा तदिदं वद ।

तदाश्रयश्च संसारी तथैको नैक एव वा ।।

( अविद्यैकत्वदूषणं )

3.124    सा चेदेका, ततस्सैका शुकस्य ब्रह्मविद्यया ।

पूर्वमेव निरस्तेति व्यर्थस्ते मुक्तये श्रमः ।।

( शुकादिमुक्तिमिथ्यात्वेन एकाविद्यापक्षसमर्थनम् )

3.125     स्यान्मतं नैव ते सन्ति वामदेवशुकादयः ।

यद्विद्यया निरस्तत्वान्नाद्याविद्येति चोद्यते ।।

3.126     मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया ।

दृश्यत्वान्मामकस्वप्नदृश्यभेदप्रपञ्चवत् ।।

3.127     यत्पुनर्ब्रह्मविद्यातस्तेषां मुक्तिरभूदिति ।

वाक्यं तत्स्वाप्नमुक्त्युक्तियुक्ता प्रत्यूहतामिति ।।

( तत्खण्डनं )

3.128     नन्वीदृशानुमानेन स्वाविद्यापरिकल्पितम् ।

प्रपञ्चं साधयत्यन्यः कथं प्रत्युच्यते त्वया ।।

3.129     त्वदविद्यानिमित्तत्वे यो हेतुस्ते विवक्षितः ।

स एव हेतुस्तस्यापि भवेत्सर्वज्ञसिद्धिवत् ।।

3.130    इत्यन्योन्यविरुद्धोक्तिव्याहते भवतां मते ।

मुखमस्तीति यत्किञ्चित्प्रलपन्निव लक्ष्यसे ।

यथा च स्वाप्नमुक्त्युक्तिसदृशी तद्विमुक्तिगीः । |

3.131    तथैव भवतोऽपीति व्यर्थो मोक्षाय ते श्रमः ।

यथा तेषामभूतैव पुरस्तादात्मविद्यया ।|

3.132   मुक्तिर्भूतोच्यते तद्वत्परस्तादात्मविद्यया ।

अभाविन्येव सा मिथ्या भाविनीत्यपदिश्यताम् । |

3.133   सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ।

ननु नेदमनिष्टं मे यन्मुक्तिर्न भविष्यति ।

आत्मनो नित्यमुक्तत्वान्नित्यसिद्धैव सा यतः ।।

3.134    तदिदं शान्तिकर्मादौ वेतालावाहनं भवेत् ।

येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ।।

( नित्यसिद्धमुक्त्यभिव्यक्तये यत्न इति शंका )

3.135    अविद्याप्रतिबद्धत्वादथ सा नित्यसत्यपि ।

असतीवेति तद्व्यक्तिर्विद्याफलमुपेयते ।।

3.136    हस्तस्थमेव हेमादि विस्मृतं मृग्यते यथा ।

यथा तदेव हस्तस्थमवगम्योपशाम्यति ।।

3.137   तथैव नित्य     मुक्तात्मस्वरूपानवबोधतः ।

संसारिणस्तथाभावो व्यज्यते ब्रह्मविद्यया ।।

( अभिव्यक्तिं विकल्प्य तत्परिहारः )

3.138    हन्त केयमभिव्यक्तिर्या विद्याफलमिष्यते ।

स्वप्रकाशस्य चिद्धातोर्या स्वरूपपदे स्थिता ।।

3.139   संवित् किं सैव किं वाऽहं ब्रह्मास्मीतीति कीदृशी ।

यदि स्वरूपसंवित् सा, नित्यैवेति न तत्फलम् ।।

3.140   अथ ब्रह्माहमस्मीति संवित्तिर्व्यक्तिरिष्यते ।

ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ।।

3.141   किञ्च सा तत्त्वमस्यादिवाक्यजन्या भवन्मते ।

उत्पत्तिमत्यनित्येति मुक्तस्यापि भयं भवेत् ।।

( अविद्यायाः ब्रह्मधीप्रतिबन्धकत्वायोगः )

3.142     अपि च व्यवहारज्ञाः सति पुष्कलकारणे ।

कार्यं न जायते येन तमाहुः प्रतिबन्धकम् ।।

इह किं तद्यदुत्पत्तुमुपक्रान्तं स्वहेतुतः ।

3.143      अविद्याप्रतिबद्धत्वादुत्पत्तिं न प्रपद्यते ।।

न मुक्तिर्नित्यसिद्धत्वात् , न ब्रह्मास्मीतिधीरपि ।

3.144      न हि ब्रह्माहमस्मीति संवित्पुष्कलकारणम् ।

संसारिणस्तदास्तीति कथं सा प्रतिबध्यते ।।

3.145      यतः सा कारणाभावादिदानीं नोपजायते ।

न पुनः प्रतिबद्धत्वादस्थाने तेन तद्वचः ।।

( जीवैकत्वपक्षस्य पुनर्विशिष्य दूषणम् )

3.146     किञ्चैको जीव इत्येतद्वस्तुस्थित्या न युज्यते ।

अविद्यातत्समाश्लेषजीवत्वादी मृषा हि ते ।।

3.147      प्रातिभासिकमेकत्वं प्रतिभासपराहतम् ।

यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ।।

3.148     आसंसारसमुच्छेदं व्यवहाराश्च तत्कृताः ।

अबाधिताः प्रतीयन्ते स्वप्नवृत्तविलक्षणाः ।।

3.149     तेन यौक्तिकमेकत्वमपि युक्तिपराहतम् ।

प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः ।|

3.150     तत्तत्स्वात्मवदन्येपि देहिनोऽशक्यनिह्नवाः ।

यथाऽनुमेयाद्वह्न्यादेरनुमाना विलक्षणाः । |

3.151     प्रत्यक्षं ते  तथाऽन्येभ्यो जीवेभ्यो न पृथक् कथम् ।

न चेञ्चेष्टाविशेषेण परो बोद्धाऽनुमीयते । |

3.152     व्यवहारोऽवलुप्येत सर्वो लौकिकवैदिकः ।

न चौपाधिकभेदेन मेयमातृविभागधीः ।

3.153     स्वशरीरेऽपि तत्प्रप्तेः शिरःपाण्यादिभेदतः ।

त(य)था तत्र शिरःपाणिपादादौ वेदनोदये ।|

3.154     अनुसन्धानमेकत्वे, तथा सर्वत्र ते भवेत् ।

प्रायणान्नरकक्लेशात् प्रसूतिव्यसनादपि ।|

3.155       चिरातिवृत्ताः प्राग् जन्मभोगा न स्मृतिगोचराः ।

युगपज्जायमानेषु ( मिथोह्यस्मरनत्स्थितः ) ||

3.156       श्रयासङ्करस्तत्र कथमैकार्थ्यविभ्रमः ।

न च प्रातिस्विकाविद्याकल्पितस्वस्वदृश्यकैः । |

3.157       जीवैरनेकैरप्येषा लोकयात्रोपपद्यते ।

परवार्ताऽनभिज्ञास्ते स्वस्वस्वप्नैकदर्शिनः ।

कथं प्रवर्तयेयुस्तां सङ्गाद्येकनिबन्धनाम् । |

 

( संविदः सधर्मकत्वादप्यद्वितीयत्वायोगः )

3.158        किञ्च स्वयंप्रकाशत्वविभुत्वैकत्वनित्यताः ।

त्वदभ्युपेता बाधेरन् संविदस्तेऽद्वितीयताम् ।

संविदेव न ते धर्माः, सिद्धायामपि संविदि । |

3.159        विवाददर्शनात्तेषु ; तद्रूपाणां च भेदतः ।

न च ते भ्रान्तिसिद्धास्ते येनाद्वैताविरोधिनः । |

3.160        तत्त्वा आवेदकवेदान्तवाक्यसिद्धा हि ते गुणाः ।

आनन्दस्वप्रकाशत्वनित्यत्वमहिमाद्यथ । |

3.161         ब्रह्मस्वरूपमेवेष्टं, तत्रापीदं विविच्यताम् ।

ब्रह्मेति यावन्निर्दिष्टं तन्मात्रं किं सुखादयः । |

3.162         अथवा तस्य ते, यद्वा त एव ब्रह्मसंज्ञिनः ।

आद्ये तत्तत्पदाम्नानवैयर्थ्यं वेदलोकयोः । |

3.163         पूर्वोक्तनीत्याभेदश्च, जगज्जन्मादिकारणम् ।

अभ्युपेत्यैव हि ब्रह्म विवादास्तेषु वादिनाम् । |

3.164     द्वितीये सैव तैरेव ब्रह्मणः सद्वितीयता ।

तृतीये ब्रह्म भिद्येत तन्मात्रत्वात्पदे पदे । |

3.165     तत्समूहोऽथवा ब्रह्म तरुवृन्दवनादिवत् ।

प्रकर्षश्च प्रकाशश्च भिन्नावेवार्कवर्तिनौ ।

तेन न क्वापि वाक्यार्थो विभागोऽस्ति निदर्शनम् ।।

( स्वयंप्रकाशत्वादेर्व्यावृत्तिरूपत्वेपि दोषः )

3.166    जाड्यदुःखाद्यपोहेन यद्येकत्रैव वर्तिता ।

ज्ञानानन्दादिशब्दानां न सतस्सद्वितीयता ।।

3.167     अपोहाः किं न सन्त्येव, सन्तो वा, नोभयेऽपि वा ।

सत्त्वे सत्सद्वितीयं स्यात् जडाद्यामकतेतरे (ता परे) ।।

3.168     सदसद्व्यतिरेकोक्तिः पूर्वमेव पराकृता ।

तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ।।

3.169     किञ्चापोह्यजडत्वादिविरुद्धार्थासमर्पणे ।

नैव तत्तदपोह्येत तदेकार्थैः पदैरिव ।।

3.170      प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः ।

सैवाभाव इतीहापि सद्भिस्ते सद्वितीयता ।।

 

( प्रपञ्चस्यापि सदसद्व्यतिरेकित्वायोगः )

3.172       भूतभौतिकभेदानां सदसद्व्यतिरेकिता ।

कुतोऽवसीयते किं नु प्रत्यक्षादेरुता आगमात् ।।

3.173        प्रत्यक्षादीनि मानानि स्वस्वमर्थं यथायथम् ।

व्यवच्छिन्दन्ति जायन्त इति या (ता) वत् स्वसाक्षिकम् ।।

3.174         यथाऽग्रतः स्थिते नीले नीलिमान्यकथा न, धीः ।

एकाकारा , न हि तथा स्फटिके धवले मतिः ।।

3.175         क्षीरे मधुरधीर्यादृक् नैव निभ्बकषायधीः ।

व्यावहाराश्च नियताः सर्वे लौकिकवैदिकाः ।।

3.176       सत्यं प्रतीतिरस्त्यस्या मूलं नास्तीति चेन्न तत् ।

सा चेदस्ति तया मूलं कल्प्यतां कार्यभूतया ।

क्लृप्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः ।|

 

 

 

( प्रत्यक्षस्य व्यवच्छेदकत्वायोगखण्डनं )

3.177        यौगपद्यक्रमायोगाद्व्यवच्छेदविधानयोः ।

ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ।

भेदेतरेतराभावविवेकाग्रहणेन सः ।।

3.178       स्वरूपमेव भावानां प्रत्यक्षेण परिस्फुरत् ।

भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ।।

3.179       यथा तन्मात्रधीर्नानानास्तिव्याहारसाधनी ।

ह्रस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ।।

3.180      एवं व्यवस्थितानेकप्रकाराकरवत्तया ।

प्रत्यक्षस्य प्रपञ्चस्य तद्भावोऽशक्यनिह्नवः ।।

3.181      आगमः कार्यनिष्ठत्वादीदृशेऽर्थे न तु प्रमा ।

प्रामाण्येऽप्यन्वयायोग्यपदार्थत्वान्न बोधकः ।।

3.182       नासत् प्रतीतेः , बाधाच्च न सदित्यपि यन्न तत् ।

प्रतीतेरेव सत् किं न , बाधान्नासत् कुतो जगत्  ।

तस्मादविद्ययैवेयमविद्या भवताऽऽश्रिता ।।

 

( मिथ्यात्वमिथ्यात्वविचारेण जगत्सत्यत्वस्थापनम् )

3.183       किञ्च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः ।

मिथ्या वा परमार्थो वा नाद्यः कल्पोऽयमञ्जसा ।

तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् । |

3.185        पारमार्थ्यैऽपि तेनैव तवाद्वैतं विहन्यते ।

सर्वाण्येव प्रमाणानि स्वं स्वमर्थं यथोदितम् ।|

3.186             असतोऽर्थान्तरेभ्यश्च व्यवच्छिन्दन्ति भान्ति नः ।

तथाहीह घटोऽस्तीति येयं धीरुपजायते ।|

3.187            सा तदा तस्य नाभावं पटत्वं वाऽनुमन्यते ।

नन्वस्तीति यदुक्तं किं तन्मात्रं घट इत्यपि ।

3.188           अर्थान्तरं वा , तन्मात्रे सदद्वैतं प्रसज्यते ।

अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ।।

3.189           यद्येवमस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् ।

घटवत्सदसद्भ्यामनिर्वाच्यं तवा आपतेत् ।।

3.190           आनन्दसत्यज्ञानादिनिर्देशौरेव वैदिकैः ।

ब्रह्मणोऽप्यतथाभावस्त्वयैवैवं समर्थितः ।।

3.191           सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते ।

यद्यथाकिञ्चिदुच्येत तत्सर्वस्य तथा भवेत् ।।

3.192           तस्मादस्तीति संवित्तिर्जायमाना घटादिषु ।

तत्तत्पदार्थसंस्थानपारमार्थ्यावबोधिनी ।।

3.193            सजातीयविजातीयव्यवच्छेदनिबन्धनैः ।

स्त्रै स्त्रैर्व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ।|

3.194            सा सत्ता न स्वतन्त्त्राऽन्या तत्राद्वैतकथा कथम् ।

न च नानाविधाकारप्रतीतिः शक्यनिह्नवा ।|

 

( धर्मनिषेधेपि सधर्मकतया सद्वितीयत्वम् )

3.195            न वेद्यं वित्तिधर्मः स्यादिति यत्प्रागुदीरितम् ।

तेनापि साधितं किञ्चित् संविदोऽस्ति न वा त्वया ।|

3.196            अस्ति चेत् पक्षपातः स्यात् न चेत्ते विफलः श्रमः ।

अतःस्वरसविस्पष्टदृष्टभेदास्तु संविदः।|

3.197           यथारथादिभिर्वाह्यै (यथावस्थायिभिर्बाह्यै) र्नैक्यं याति घटादिभिः ।

सहोपलम्भनियमो न खल्वैकैकसंविदा ।

नचेदस्ति ससामान्यं सर्वं संवेदनास्पदम् ।।

( सहोपलम्भनियमेन ग्राह्यग्राहकापलापः पूर्वपक्षिणः )

3.198             सहोपलम्भनियमान्नान्योऽर्थः संविदो भवेत् ।

यदेतदपराधीनस्वप्रकाशं तदेव हि ।

स्वयभ्प्रकाशताशब्दमिति वृद्धाः प्रचक्षते ।।

3.199            यस्मिन्नभासमाने हि यो नामार्थो न भासते ।

नासावर्थान्तरस्त(रं त) स्मान्मिथ्येन्दुरिव चन्द्रतः ।।

3.200            अभासमाने विज्ञाने न चात्मार्थावभासनम् ।

इति संविद्विवर्तत्वं प्रपञ्चः स्फुटमञ्चति ।।

 

( तत्खण्डनम् )

3.201            मैवं परिभवः प्रत्यक्षेण बलीयसा |

संरक्ष्यमाण भेदास्ते  नानुमानानुवर्तिनः ||

3.202           तथा हीदमहं वेद्मीत्यन्योन्यानात्मना स्फुटम् ।

त्रयं साक्षाच्चाकास्तीति सर्वेषामात्मसाक्षिकम् ।।

3.203           प्रत्यक्षप्रतिपश्रं च नानुमानं प्रवर्तते ।

न हि वह्नेरनुष्णत्वं द्रव्यत्वादनुमीयते ।।

3.204           किञ्च हेतुर्विरुद्धोऽयं सहभावो द्वयोर्यतः ।

तवा हि नत् हि संवित्तिः स्वात्मना सह भासते ।।

3.205          नीलापद्युप्लवापेतस्वच्छचिन्मात्रसन्ततिः ।

स्वापादौ भासते , नैवमर्थः संवेदनात् पृथक् ।|

3.206         तेन संवेदनं सत्यं संवेद्योऽर्थस्त्वसन्निति ।

तदेतदपरामृष्टस्व वाग्बाधस्य जल्पितम् ।|

3.207         सहोपलम्भनियमो येनैवं सति हीयते ।

यस्मादृते यदाभाति भाति य(त) स्मादृतेऽपि तत् ।

घटादृतेऽपि निर्भातः पटादिव घटः स्वयम् ।|

एतावानेव संवित्सिद्धिभाग उपलभ्यते इति |

श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीमद्भगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये संवित्सिद्धिः

—————-

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.