[highlight_content]

37 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः

सुग्रीवादिभिः सहमन्त्रयमाणंश्रीरामंप्रति विभीषणेन लङ्कामेत्यरावणवृत्तान्ता -वगमेनपुनरागतनिजामात्यनिवेदितरावणकृतङ्कारक्षणसंविधानप्रकारनिवेदनम् ॥ १ ॥ रामेण लङ्कायाः प्रागादिद्वारत्रये क्रमेणयुद्धाय नीलाङ्गदहनुमन्नियोजनपूर्वकं स्वेनरावणाधिष्ठितो -त्तरभागेलक्ष्मणेनसहावस्थान निर्धारणेन सेनयासहलङ्काभियानम् ॥ २ ॥

नरवानरराजौ तौ स च वायुसुतः कपिः ।
जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः
।। १ ।।

अङ्गदो वालिपुत्रश्च सौमित्रिः शलभः कपिः ।
सुषेणः सहदायादो मैन्दो द्विविद एव च
।। २ ।।

गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा ।
अमित्रविषयं प्राप्ताः समवेताः समर्थयन्
।। ३ ।।

अथ रामस्य सेनागुप्तिविधानं सप्तत्रिंशे – नरवानरेत्यादिश्लोकत्रयमेकान्वयं ॥ सहदायादः सबान्धवः । दायादौ सुतबान्धवौ इत्यमरः । इदं विशेषणं सर्वत्र यथार्हमन्वेति । अमित्रविषयं शत्रुदेशं । समर्थयन् अमन्त्रयन् ।। १ – ३ ॥

 

इयं सा लक्ष्यते लङ्का पुरी रावणपालिता ।
सासुरोरगगन्धर्वैरमरैरपि दुर्जया
।। ४ ।।

अथविचारप्रकारमेवाह – इयमित्यादिना ॥ सा हनुमता पूर्वमुक्ता ॥ ४ ॥

 

कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये ।
नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः
।। ५ ।।

कार्यसिद्धिं विजयसिद्धिं । पुरस्कृत्य प्रधानीकृत्य । विनिर्णये निमित्ते मन्त्रयध्वं । विजयसाधककार्यनिर्णयाय मन्त्र: प्रवर्त्यतामित्यर्थः ॥ ५ ॥

 

तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् ।
वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः
।। ६ ।।

अग्राम्यपदवत् संस्कृतपदवत् सर्वेषां स्फुटप्रतिपत्तये स्वदेशभाषापदरहितमुक्तवा -नित्यर्थः ॥ ६ ॥

 

अनलः शरभश्चैव सम्पातिः प्रघसस्तथा ।
गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः
।। ७ ।।

भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् ।
विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः
।। ८ ।।

संविधानं यथाहुस्ते रावणस्य दुरात्मनः ।
राम तद्ब्रुवतः सर्वं यथा
तत्त्वेन मे शृणु ।। ९ ।।

पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति ।
दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ
।। १० ।।

अनल इत्यादिश्लोकत्रयं । विधानं नगररक्षणसंविधानं । ते दुरात्मनो रावणस्य यत्संविधानमाहुः तद्यथातत्त्वेन याथार्थ्येन । ब्रुवतः मे मत्तः । शृणु ॥ ७ – १० ॥

 

इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः ।
प
ट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ।

नानाप्रहरणैः शूरैरावृतो रावणात्मजः ।। ११ ।।

पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः । बहुभी राक्षसैः प्रधानराक्षसैर्वृतः । नानाप्रहरणैः शूरैरावृतः । रावणात्मजः इन्द्रजित्पश्चिमद्वारं आसाद्य तिष्ठतीत्यनुकृष्यते ॥ ११ ॥


राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः
।

युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः ।
उत्तरं नगरद्वारं रावणः स्वयमास्थितः
।। १२ ।।

असंविग्नः अकम्पितहृदयः । राक्षसैः प्रधानभूतैः ॥ १२ ॥

 

विरूपाक्षस्तु महता शूलखड्गधनुष्मता ।
बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः
।। १३ ।।

बलेन सेनया । राक्षसैः मुख्यैः ॥ १३ ॥

 

एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते ।
मामकाः सचिवाः सर्वे
पुनः शीघ्रमिहागताः ।। १४ ।।

गुल्मान् सेनाः । गुल्मो रुक्स्तंबसेनासु इत्यमरः ॥ १४ ॥

 

गजानां च सहस्रं च रथानामयुतं पुरे ।
हयानामयुते द्वे च साग्रकोटी
श्च रक्षसाम् ।। १५ ।।

विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः ।
इष्टा राक्षसराजस्य नित्यमेते निशाचराः
।। १६ ।।

गजानां गजयोधिनां । रथानां हयानामित्यत्राप्येवं द्रष्टव्यं । हयानां साग्रकोटि: द्वे अयुते चेत्यन्वयः । एते एतावन्तः । यद्वा गजानामित्यादिशब्दाः गजादिपराः । एवमुत्तरोत्तराधिक -सङ्ख्योच्यते । हयानां द्वे अयुते । रक्षसां साग्रकोटि: पूर्णा कोटि: । एते रावणस्येष्टा अन्तरङ्गाः । स्वसेविन इत्यर्थः । आततायिनः क्रूरा इत्यर्थः ॥ १५ – १६ ।।

 

एकैकस्यात्र युद्धार्थे राक्षसस्य विशांपते ।
परिवारः सहस्राणां सहस्रमुपतिष्ठते
।। १७ ।।

अत्र राक्षसेषु । एकैकस्य राक्षसस्य । सहस्राणां सहस्रं दशलक्षसङ्ख्याविशिष्टः परिवारः । इदानीं । युद्धार्थे युद्धनिमित्तं । उपतिष्ठत इत्यन्वयः ॥ १७ ॥

 

एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः ।

एवमुक्त्वा महाबाहु राक्षसांस्तानदर्शयत् ।

लङ्कायाः सचिवैः सर्वा रामाय प्रत्यवेदयत् ।। १८ ।।

एतामिति सार्धश्लोकः ॥ तान् मन्त्रिभूतान् । दर्शनानन्तरं सचिवैः प्रयोज्यकर्तृभिः । लङ्कायां सर्वां प्रवृत्तिमित्यनुषज्यते । रामाय प्रत्यवेदयत् । सचिवैरपि तं वृत्तान्तमावेदयदित्यर्थः ॥ १८ ॥


रामं कमलपत्राक्षमिदमुत्तरमब्रवीत्
।

रावणावरजः श्रीमान्रामप्रियचिकीर्षया ।। १९ ।।

राममित्यादिश्लोकत्रयं ॥ उत्तरं अनन्तरवक्तव्यं ॥ १९ ॥

 

कुबेरं तु यदा राम रावणः प्रत्ययुध्यत ।
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः
।। २० ।।

दिग्विजयकालिकबलादाधुनिकबलमधिकमिति कथयितुं पूर्वबलं परिगणयति- कुबेरमिति । निर्यान्ति निर्ययुः ॥ २० ॥

 

पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् ।
सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः
।। २१ ।।

पराक्रमेण पराभिभवसामर्थ्येन । वीर्येण युद्धे स्वयमविकृतत्वेन । तेजसा प्रतापेन । सत्त्वगौरवात् धैर्यातिशयेनेत्यर्थः । दर्पेण च । रावणस्य अत्र ये सदृशास्तादृशा राक्षसा इति पूर्वेणान्वयः ॥ २१ ॥

 

अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये ।
समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे
।। २२ ।।

स्वामिसन्निधौ शत्रुबलवर्णनमयुक्तमित्याशङ्क्य परिहरति — अत्रेति ॥ अत्र बलवर्णने सति । मन्युः क्रोधः । न कर्तव्यः । रोषये शत्रुनिरसनाय रोषमुत्पादये । न भीषये शत्रुबलवर्णनेन न भीतिमुत्पादये । रोषोत्पादनस्य फलमाह – समर्थोहीति ॥ २२ ॥

 

तद्भवांश्चतुरङ्गेण बलेन महता वृतः ।
व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्
।। २३ ।।

तत् राक्षसबलस्य व्यूढत्वात् । महता बलेन वृतो भवानपि । चतुरङ्गेण रावणसेनावच्चतुरवयवेन । व्यूह्य विभज्य । निर्मथिष्यसि । मध्यमपुरुषत्वमार्षं । चतुरङ्गकार्यकरत्वाच्चतुरङ्गत्वमित्यन्ये ॥ २३ ॥

 

रावणावरजे वाक्यमेवं ब्रुवति राघवः ।
शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत्
।। २४ ।।

प्रतिघातार्थं प्रतिक्रियार्थं ॥ २४ ।।

 

पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः ।
प्रहस्तप्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः
।। २५ ।।

अङ्गदो वालिपुत्रस्तु बलेन महता वृतः ।
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ
।। २६ ।।

पूर्वद्वारेस्थित्वेति शेषः ॥ २५ – २६ ॥

 

हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः ।
प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः
।। २७ ।।

अप्रमेयात्मेति मायाविन इन्द्रजितोयमेवार्ह इति भावः ।। २७ ।।

 

दैत्यदानवसङ्घानामृषीणां च महात्मनाम् ।
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः
।। २८ ।।

परिक्रामति यः सर्वाँल्लोकान्सन्तापयन्प्रजाः ।
तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः
।। २९ ।।

उत्तरं नगरद्वारमहं सौमित्रिणा सह ।
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः
।। ३० ।।

स्वस्यचोत्तरद्वारनिरोधहेतुमाह – दैत्यदानवेत्यादिश्लोकत्रयं ॥ विप्रकारप्रियः प्रियविप्रकार: । वा प्रियस्य इति पूर्वनिपातः । विप्रकारः पीडा । क्षुद्रः क्षुद्रबुद्धिः । प्रजा: संतापयन् लोकान् परिक्रामतीत्यन्वयः । तस्याहमिति लोके यत्तच्छब्दाध्याहारेणाहंशब्दद्वयनि- र्वाहः । योहं धृतः निश्चितः । सोहं प्रवेक्ष्यामीत्यन्वयः । स्वयमेव अद्वारेण । यद्वा तस्याहमित्यर्धान्तमेकं वाक्यं । उत्तरमित्यादि भिन्नं वाक्यं ॥ २८- ३० ।।

 

वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् ।
राक्षसेन्द्रानुजश्चैव गु
ल्मो भवतु मध्यमः ।। ३१ ।।

गुल्मो भवतु मध्यमः । मध्यमसेना भव- त्वित्यर्थः । बलवद्भ्यां रावणेन्द्रजिद्भ्यामधिष्ठितयोरुत्तरपश्चिमयोः मध्यमगुल्मो भवत्वित्यर्थः ॥ ३१ ॥

 

न चैव मानुषं रूपं कार्यं हरिभिराहवे ।
एषा भवतु संज्ञा
नो युद्धेऽस्मिन्वानरे बले ।। ३२ ।।

वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति ।। ३३ ।।

संज्ञा संकेतः । अस्य प्रयोजनमाह-वानरा इति । नः अस्माकं । वानरा एवास्मिन् स्वजने चिह्नं भविष्यतीति । अस्माकं वानरत्वमेवात्मीयत्वज्ञापकंभवि- ष्यतीत्यर्थः । यदि वानराअपि कामरूपधारणेन युद्ध्येयुः । राक्षसानामपि तादृशत्वादात्मपरविवेको न स्यात् । वानरत्वंतु जघन्यतया न ते भजिष्यन्तीति भावः । इदानीं मानुषरूपपरिग्रह प्रतिषेधसामर्थ्यादितःपूर्वं मानुषरूपं परिगृह्य स्थिता इति गम्यते ॥ ३२-३३ ॥


वयं तु मानुषेणैव सप्त योत्स्यामहे परान्
।

अहमेष सह भ्रात्रा लक्ष्मणेन महौजसा ।
आत्मना पञ्चमश्चायं सखा मम विभीषणः
।। ३४ ।।

मानुषेण मनुष्यसंबन्धिना । रूपेणेति शेषः । विभीषणादीनामपि मानुषरूपसंस्थान -सादृश्यादेवमुच्यते ॥ ३४ ॥

 

स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् ।
सुवेलारोहणे बुद्धि
श्चकार मतिमान्मतिम् ।

रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ।। ३५ ।।

ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा ।
प्रहृष्टरूपोऽभिजगाम लङ्कां
कृत्वा मतिं सोऽरिवधे महात्मा ।। ३६ ।।

स राम इत्यादिसार्घश्लोक एकान्वयः ॥ कृत्यसिद्ध्यर्थं कार्यसिद्ध्यर्थं । सुवेलारोहणे विषये । बुद्धिः बुद्धिमान् । मतुब्लोप आर्षः । मतिं इच्छां । सुवेलारोहणे बुद्धिं चकार मतिमान्मतिमिति च पाठः । सुवेलारोहणबुद्धिमेव मतिं चकार । नान्यामित्यर्थः । आरोहणेच्छाहेतुमाह- रमणीयतरमिति । सौन्दर्यावलोकनमेव तदारोहणहेतुः । नतु लङ्काप्राप्तिः । अतएव लङ्कोपरोधायावरोहणं वक्ष्यति — ततस्त्विति ॥ पृथिवीं सुवेलकटकभूमिं । महात्मा महाबुद्धिः । प्रह्रष्टरूप: अतिशयेन प्रहृष्टः । प्रशंसायां रूपप् । लङ्कां लङ्कैकदेशसुवेलं । महात्मा महाभृतिरिति द्वितीयमहात्मशब्दार्थः । अभिजगाम । आरोहणायेति । भावः ॥ ३५ – ३६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या- ख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.