आदिपर्वम् अध्यायः 197-224

श्रीमहाभारतम् ||१ आदिपर्वम् || 197-अध्यायः धृतराष्ट्र उवाच|| भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः | हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ||१|| यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः | तथैव धर्मतः सर्वे मम पुत्रा न संशयः ||२|| यथैव मम पुत्राणामिदं राज्यं विधीयते | तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ||३|| क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् | तया च देवरूपिण्या […]

आदिपर्वम् अध्यायः 170-196

श्रीमहाभारतम् ||१ आदिपर्वम् || 170-अध्यायः और्व उवाच|| उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा | सर्वलोकविनाशाय न सा मे वितथा भवेत् ||१|| वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे | अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ||२|| यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति | नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ||३|| अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता | स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ||४|| […]

आदिपर्वम् अध्यायः 145-169

श्रीमहाभारतम् ||१ आदिपर्वम् || 145-अध्यायः ब्राह्मण्युवाच|| न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् | न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ||१|| अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः | अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ||२|| भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते | व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ||३|| एतद्धि परमं नार्याः कार्यं लोके सनातनम् | प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ||४|| […]

आदिपर्वम् अध्यायः 122-144

श्रीमहाभारतम् ||१ आदिपर्वम् || 122-अध्यायः वैशम्पायन उवाच|| अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने | अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ||१|| द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः | अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ||२|| ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने | तेन तत्र प्रदीपः स दीप्यमानो निवापितः ||३|| भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत | हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ||४|| तदभ्यासकृतं मत्वा रात्रावभ्यस्त […]

आदिपर्वम् अध्यायः 102-121

श्रीमहाभारतम् ||१ आदिपर्वम् || 102-अध्यायः भीष्म उवाच|| गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् | अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ||१|| रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः | नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ||२|| मया च सत्यवत्या च कृष्णेन च महात्मना | समवस्थापितं भूयो युष्मासु कुलतन्तुषु ||३|| वर्धते तदिदं पुत्र कुलं सागरवद्यथा | तथा मया विधातव्यं त्वया चैव विशेषतः ||४|| श्रूयते यादवी कन्या अनुरूपा […]

आदिपर्वम् अध्यायः 87-101

श्रीमहाभारतम् ||१ आदिपर्वम् || 087-अध्यायः वसुमना उवाच|| पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र | यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||१|| ययातिरुवाच|| यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च | लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ||२|| वसुमना उवाच|| तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु […]

आदिपर्वम् अध्यायः 69-86

श्रीमहाभारतम् ||१ आदिपर्वम् || 069-अध्यायः शकुन्तलोवाच|| राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि | आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ||१|| मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् | ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ||२|| क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् | आवयोरन्तरं पश्य मेरुसर्षपयोरिव ||३|| महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च | भवनान्यनुसंयामि प्रभावं पश्य मे नृप ||४|| सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ | निदर्शनार्थं न […]

आदिपर्वम् अध्यायः 56-68

श्रीमहाभारतम् ||१ आदिपर्वम् || 056-अध्यायः जनमेजय उवाच|| कथितं वै समासेन त्वया सर्वं द्विजोत्तम | महाभारतमाख्यानं कुरूणां चरितं महत् ||१|| कथां त्वनघ चित्रार्थामिमां कथयति त्वयि | विस्तरश्रवणे जातं कौतूहलमतीव मे ||२|| स भवान्विस्तरेणेमां पुनराख्यातुमर्हति | न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||३|| न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः | अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ||४|| किमर्थं […]

आदिपर्वम् अध्यायः 31-55

श्रीमहाभारतम् ||१ आदिपर्वम् || 031-अध्यायः शौनक उवाच|| भुजङ्गमानां शापस्य मात्रा चैव सुतेन च | विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ||१|| वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा | नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ||२|| पन्नगानां तु नामानि न कीर्तयसि सूतज | प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ||३|| सूत उवाच|| बहुत्वान्नामधेयानि भुजगानां तपोधन | न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु […]

आदिपर्वम् अध्यायः 05-30

श्रीमहाभारतम् ||१ आदिपर्वम् || 005-अध्यायः शौनक उवाच|| पुराणमखिलं तात पिता तेऽधीतवान्पुरा | कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ||१|| पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् | कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ||२|| तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् | कथयस्व कथामेतां कल्याः स्म श्रवणे तव ||३|| सूत उवाच|| यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः | वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ||४|| यदधीतं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.