आदिपर्वम् अध्यायः 145-169

श्रीमहाभारतम्

|| आदिपर्वम् ||

145-अध्यायः

ब्राह्मण्युवाच||

न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् |

न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ||१||

अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः |

अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ||२||

भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते |

व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ||३||

एतद्धि परमं नार्याः कार्यं लोके सनातनम् |

प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ||४||

तच्च तत्र कृतं कर्म तवापीह सुखावहम् |

भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ||५||

एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव |

अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ||६||

यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि |

कन्या चैव कुमारश्च कृताहमनृणा त्वया ||७||

समर्थः पोषणे चासि सुतयो रक्षणे तथा |

न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ||८||

मम हि त्वद्विहीनायाः सर्वकामा न आपदः |

कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ||९||

कथं हि विधवानाथा बालपुत्रा विना त्वया |

मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ||१०||

अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् |

अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ||११||

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः |

प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ||१२||

साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः |

स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ||१३||

कथं तव कुलस्यैकामिमां बालामसंस्कृताम् |

पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ||१४||

कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् |

अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ||१५||

इमामपि च ते बालामनाथां परिभूय माम् |

अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ||१६||

तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् |

प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ||१७||

सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः |

अनर्हवशमापन्नामिमां चापि सुतां तव ||१८||

अवज्ञाता च लोकस्य तथात्मानमजानती |

अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ||१९||

तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ |

विनश्येतां न संदेहो मत्स्याविव जलक्षये ||२०||

त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् |

त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ||२१||

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः |

न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ||२२||

परित्यक्तः सुतश्चायं दुहितेयं तथा मया |

बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ||२३||

यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा |

विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ||२४||

तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् |

इष्टं चैव हितं चैव तव चैव कुलस्य च ||२५||

इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः |

आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ||२६||

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन |

न समं सर्वमेवेति बुधानामेष निश्चयः ||२७||

स कुरुष्व मया कार्यं तारयात्मानमात्मना |

अनुजानीहि मामार्य सुतौ मे परिरक्ष च ||२८||

अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये |

धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ||२९||

निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः |

अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ||३०||

भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया |

त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ||३१||

जातपुत्रा च वृद्धा च प्रियकामा च ते सदा |

समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ||३२||

उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् |

ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ||३३||

न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् |

स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ||३४||

एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् |

आत्मानं तारय मया कुलं चेमौ च दारकौ ||३५||

वैशम्पायन उवाच||

एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत |

मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ||३६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

146-अध्यायः

वैशम्पायन उवाच||

तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् |

भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ||१||

किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् |

ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् ||२||

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः |

त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ||३||

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति |

तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ||४||

इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् |

सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ||५||

आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः |

तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ||६||

भ्राता च मम बालोऽयं गते लोकममुं त्वयि |

अचिरेणैव कालेन विनश्येत न संशयः ||७||

तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे |

पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ||८||

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् |

दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ||९||

त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः |

सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ||१०||

आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल |

स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ||११||

अनाथा कृपणा बाला यत्रक्वचनगामिनी |

भविष्यामि त्वया तात विहीना कृपणा बत ||१२||

अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् |

फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ||१३||

अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम |

पीडिताहं भविष्यामि तदवेक्षस्व मामपि ||१४||

तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम |

आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ||१५||

अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् |

त्वया दत्तेन तोयेन भविष्यति हितं च मे ||१६||

किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि |

याचमानाः परादन्नं परिधावेमहि श्ववत् ||१७||

त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे |

अमृते वसती लोके भविष्यामि सुखान्विता ||१८||

एवं बहुविधं तस्या निशम्य परिदेवितम् |

पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ||१९||

ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः |

उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ||२०||

मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् |

प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ||२१||

ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् |

अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ||२२||

तथापि तेषां दुःखेन परीतानां निशम्य तत् |

बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ||२३||

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् |

गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ||२४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

147-अध्यायः

कुन्त्युवाच||

कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः |

विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ||१||

ब्राह्मण उवाच||

उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने |

न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ||२||

समीपे नगरस्यास्य बको वसति राक्षसः |

ईशो जनपदस्यास्य पुरस्य च महाबलः ||३||

पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः |

रक्षत्यसुरराण्नित्यमिमं जनपदं बली ||४||

नगरं चैव देशं च रक्षोबलसमन्वितः |

तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ||५||

वेतनं तस्य विहितं शालिवाहस्य भोजनम् |

महिषौ पुरुषश्चैको यस्तदादाय गच्छति ||६||

एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् |

स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ||७||

तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् |

सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ||८||

वेत्रकीयगृहे राजा नायं नयमिहास्थितः |

अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ||९||

एतदर्हा वयं नूनं वसामो दुर्बलस्य ये |

विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ||१०||

ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः |

गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ||११||

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् |

त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ||१२||

विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् |

त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ||१३||

सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः |

भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ||१४||

न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् |

सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन ||१५||

गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ||१५||

सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् |

सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ||१६||

ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ||१६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

148-अध्यायः

कुन्त्युवाच||

न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन |

उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ||१||

एकस्तव सुतो बालः कन्या चैका तपस्विनी |

न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ||२||

मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति |

त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ||३||

ब्राह्मण उवाच||

नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन |

ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ||४||

न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते |

यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ||५||

आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये |

ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ||६||

ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते |

अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ||७||

न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे |

परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ||८||

अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया |

निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ||९||

आगतस्य गृहे त्यागस्तथैव शरणार्थिनः |

याचमानस्य च वधो नृशंसं परमं मतम् ||१०||

कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन |

इति पूर्वे महात्मान आपद्धर्मविदो विदुः ||११||

श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् |

ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ||१२||

कुन्त्युवाच||

ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा |

न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ||१३||

न चासौ राक्षसः शक्तो मम पुत्रविनाशने |

वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ||१४||

राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् |

मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ||१५||

समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः |

बलवन्तो महाकाया निहताश्चाप्यनेकशः ||१६||

न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन |

विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ||१७||

गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम |

न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ||१८||

वैशम्पायन उवाच||

एवमुक्तस्तु पृथया स विप्रो भार्यया सह |

हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ||१९||

ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् |

तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ||२०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

149-अध्यायः

वैशम्पायन उवाच||

करिष्य इति भीमेन प्रतिज्ञाते तु भारत |

आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ||१||

आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः |

रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ||२||

किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः |

भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ||३||

कुन्त्युवाच||

ममैव वचनादेष करिष्यति परन्तपः |

ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ||४||

युधिष्ठिर उवाच||

किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् |

परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ||५||

कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि |

लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ||६||

यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे |

राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ||७||

यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः |

न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ||८||

यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् |

अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ||९||

यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् |

इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ||१०||

तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया |

कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ||११||

कुन्त्युवाच||

युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् |

न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ||१२||

इह विप्रस्य भवने वयं पुत्र सुखोषिताः |

तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ||१३||

एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ||१३||

दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् |

हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ||१४||

बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् |

येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ||१५||

वृकोदरबलो नान्यो न भूतो न भविष्यति |

योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ||१६||

जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ |

शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ||१७||

तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव |

प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ||१८||

नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् |

बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ||१९||

अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः |

प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ||२०||

यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् |

क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ||२१||

क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् |

विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ||२२||

वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि |

स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ||२३||

शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् |

प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ||२४||

एवं स भगवान्व्यासः पुरा कौरवनन्दन |

प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ||२५||

युधिष्ठिर उवाच||

उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् |

आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ||२६||

ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ||२६||

यथा त्विदं न विन्देयुर्नरा नगरवासिनः |

तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ||२७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

150-अध्यायः

वैशम्पायन उवाच||

ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः |

भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ||१||

आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली |

आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ||२||

ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः |

आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ||३||

महाकायो महावेगो दारयन्निव मेदिनीम् |

त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ||४||

भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः |

विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ||५||

कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् |

पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ||६||

भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत |

राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ||७||

ततः स भैरवं कृत्वा समुद्यम्य करावुभौ |

अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ||८||

तथापि परिभूयैनं नेक्षमाणो वृकोदरः |

राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ||९||

अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः |

जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ||१०||

तथा बलवता भीमः पाणिभ्यां भृशमाहतः |

नैवावलोकयामास राक्षसं भुङ्क्त एव सः ||११||

ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः |

ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ||१२||

ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः |

वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ||१३||

क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् |

सव्येन पाणिना भीमः प्रहसन्निव भारत ||१४||

ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली |

प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ||१५||

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् |

घोररूपं महाराज बकपाण्डवयोर्महत् ||१६||

नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् |

भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ||१७||

भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः |

विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ||१८||

स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् |

समयुज्यत तीव्रेण श्रमेण पुरुषादकः ||१९||

तयोर्वेगेन महता पृथिवी समकम्पत |

पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ||२०||

हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ |

निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ||२१||

ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव |

बाहुना परिजग्राह दक्षिणेन शिरोधराम् ||२२||

सव्येन च कटीदेशे गृह्य वाससि पाण्डवः |

तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ||२३||

ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते |

भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ||२४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

151-अध्यायः

वैशम्पायन उवाच||

तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः |

निष्पपात गृहाद्राजन्सहैव परिचारिभिः ||१||

तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः |

सान्त्वयामास बलवान्समये च न्यवेशयत् ||२||

न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् |

हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ||३||

तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत |

एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ||४||

ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत |

नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ||५||

ततो भिमस्तमादाय गतासुं पुरुषादकम् |

द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ||६||

ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् |

आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ||७||

ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु |

ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ||८||

तमद्रिकूटसदृशं विनिकीर्णं भयावहम् |

एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ||९||

ततः सहस्रशो राजन्नरा नगरवासिनः |

तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ||१०||

ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् |

दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ||११||

ततः प्रगणयामासुः कस्य वारोऽद्य भोजने |

ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ||१२||

एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् |

उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ||१३||

आज्ञापितं मामशने रुदन्तं सह बन्धुभिः |

ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ||१४||

परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च |

अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ||१५||

प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने |

मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ||१६||

स तदन्नमुपादाय गतो बकवनं प्रति |

तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ||१७||

ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः |

वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ||१८||

ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति |

तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ||१९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

152-अध्यायः-चैत्ररथपर्व

जनमेजय उवाच||

ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् |

अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ||१||

वैशम्पायन उवाच||

तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् |

अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ||२||

ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः |

प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ||३||

स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा |

ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ||४||

ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः |

उपासां चक्रिरे विप्रं कथयानं कथास्तदा ||५||

कथयामास देशान्स तीर्थानि विविधानि च |

राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ||६||

स तत्राकथयद्विप्रः कथान्ते जनमेजय |

पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ||७||

धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः |

अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ||८||

तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः |

विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ||९||

कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् |

वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ||१०||

कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत |

कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ||११||

एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः |

कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ||१२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

153-अध्यायः

ब्राह्मण उवाच||

गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः |

भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ||१||

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् |

ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ||२||

तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा |

अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ||३||

तस्यां संसक्तमनसः कौमारब्रह्मचारिणः |

हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ||४||

ततः समभवद्द्रोणः कुमारस्तस्य धीमतः |

अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ||५||

भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः |

तस्यापि द्रुपदो नाम तदा समभवत्सुतः ||६||

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः |

चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ||७||

ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् |

द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ||८||

वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् |

आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ||९||

राम उवाच||

शरीरमात्रमेवाद्य मयेदमवशेषितम् |

अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ||१०||

द्रोण उवाच||

अस्त्राणि चैव सर्वाणि तेषां संहारमेव च |

प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ||११||

ब्राह्मण उवाच||

तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः |

प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ||१२||

सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् |

ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ||१३||

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् |

अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ||१४||

द्रुपद उवाच||

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा |

नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ||१५||

ब्राह्मण उवाच||

स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् |

जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ||१६||

तस्मै पौत्रान्समादाय वसूनि विविधानि च |

प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ||१७||

द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् |

समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ||१८||

आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते |

कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ||१९||

यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः |

ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ||२०||

पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः |

तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ||२१||

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि |

द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ||२२||

द्रोण उवाच||

प्रार्थयामि त्वया सख्यं पुनरेव नराधिप |

अराजा किल नो राज्ञः सखा भवितुमर्हति ||२३||

अतः प्रयतितं राज्ये यज्ञसेन मया तव |

राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ||२४||

ब्राह्मण उवाच||

असत्कारः स सुमहान्मुहूर्तमपि तस्य तु |

न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

154-अध्यायः

ब्राह्मण उवाच||

अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् |

अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ||१||

पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः |

नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ||२||

जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् |

निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ||३||

प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च |

क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ||४||

प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ||४||

अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् |

ब्राह्मणावसथं पुण्यमाससाद महीपतिः ||५||

तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः |

तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ||६||

याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः |

संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ||७||

तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ |

स तावामन्त्रयामास सर्वकामैरतन्द्रितः ||८||

बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे |

प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ||९||

पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः |

अर्हयित्वा यथान्यायमुपयाजमुवाच सः ||१०||

येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे |

उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ||११||

यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् |

सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ||१२||

इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह |

आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ||१३||

ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः |

उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ||१४||

ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे |

अपरिज्ञातशौचायां भूमौ निपतितं फलम् ||१५||

तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् |

विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ||१६||

दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः |

विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ||१७||

संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः |

भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ||१८||

कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ||१८||

तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा |

तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ||१९||

जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् |

उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ||२०||

अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ||२०||

अयुतानि ददान्यष्टौ गवां याजय मां विभो |

द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ||२१||

स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः |

तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ||२२||

क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः |

कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ||२३||

द्रोणस्य शरजालानि प्राणिदेहहराणि च |

षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ||२४||

स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् |

प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ||२५||

क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः |

तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ||२६||

ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः |

समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ||२७||

ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ||२७||

सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् |

द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ||२८||

द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् |

तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ||२९||

तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् |

गुर्वर्थ इति चाकाममुपयाजमचोदयत् ||३०||

याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ||३०||

ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः |

आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ||३१||

स च पुत्रो महावीर्यो महातेजा महाबलः |

इष्यते यद्विधो राजन्भविता ते तथाविधः ||३२||

भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः |

आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ||३३||

याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा |

प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ||३४||

देव्युवाच||

अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च |

सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ||३५||

याज उवाच||

याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् |

कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ||३६||

ब्राह्मण उवाच||

एवमुक्ते तु याजेन हुते हविषि संस्कृते |

उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ||३७||

ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् |

बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ||३८||

सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा |

ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ||३९||

भयापहो राजपुत्रः पाञ्चालानां यशस्करः |

राज्ञः शोकापहो जात एष द्रोणवधाय वै ||४०||

इत्युवाच महद्भूतमदृश्यं खेचरं तदा ||४०||

कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता |

सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ||४१||

श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा |

मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ||४२||

नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति |

या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ||४३||

तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी |

सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ||४४||

सुरकार्यमियं काले करिष्यति सुमध्यमा |

अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ||४५||

तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् |

न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ||४६||

तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी |

न वै मदन्यां जननीं जानीयातामिमाविति ||४७||

तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया |

तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ||४८||

धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि |

धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ||४९||

कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः |

तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ||५०||

धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् |

उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ||५१||

अमोक्षणीयं दैवं हि भावि मत्वा महामतिः |

तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ||५२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

155-अध्यायः

वैशम्पायन उवाच||

एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् |

सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ||१||

ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः |

युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ||२||

चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने |

रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ||३||

यानीह रमणीयानि वनान्युपवनानि च |

सर्वाणि तानि दृष्टानि पुनः पुनररिंदम ||४||

पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा |

भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ||५||

ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे |

अपूर्वदर्शनं तात रमणीयं भविष्यति ||६||

सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन |

यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ||७||

एकत्र चिरवासो हि क्षमो न च मतो मम |

ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ||८||

युधिष्ठिर उवाच||

भवत्या यन्मतं कार्यं तदस्माकं परं हितम् |

अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ||९||

वैशम्पायन उवाच||

ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा |

उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ||१०||

तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह |

प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ||११||

श्रीमहाभारतम्

|| आदिपर्वम् ||

156-अध्यायः

वैशम्पायन उवाच||

वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु |

आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ||१||

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः |

प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ||२||

समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् |

प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ||३||

अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः |

अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ||४||

अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः |

विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ||५||

आसीत्तपोवने काचिदृषेः कन्या महात्मनः |

विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ||६||

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत |

नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ||७||

तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः |

तोषयामास तपसा सा किलोग्रेण शङ्करम् ||८||

तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् |

वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ||९||

अथेश्वरमुवाचेदमात्मनः सा वचो हितम् |

पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ||१०||

तामथ प्रत्युवाचेदमीशानो वदतां वरः |

पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ||११||

प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् |

पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ||१२||

पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः |

देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ||१३||

द्रुपदस्य कुले जाता कन्या सा देवरूपिणी |

निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ||१४||

पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः |

सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ||१५||

एवमुक्त्वा महाभागः पाण्डवानां पितामहः |

पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ||१६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

157-अध्यायः

वैशम्पायन उवाच||

ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः |

समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः ||१||

ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् |

आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ||२||

उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः |

प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ||३||

तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः |

ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ||४||

शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् |

तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ||५||

स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् |

विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ||६||

सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या |

अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ||७||

विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् |

शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ||८||

लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् |

उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ||९||

ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः |

गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ||१०||

आरात्तिष्ठत मा मह्यं समीपमुपसर्पत |

कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ||११||

अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् |

अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ||१२||

अङ्गारपर्णमिति च ख्यतं वनमिदं मम |

अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ||१३||

न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः |

इदं समुपसर्पन्ति तत्किं समुपसर्पथ ||१४||

अर्जुन उवाच||

समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते |

रात्रावहनि सन्धौ च कस्य कॢप्तः परिग्रहः ||१५||

वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः |

अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ||१६||

पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता |

गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ||१७||

इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः |

देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ||१८||

तथा पितृन्वैतरणी दुस्तरा पापकर्मभिः |

गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ||१९||

असम्बाधा देवनदी स्वर्गसम्पादनी शुभा |

कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ||२०||

अनिवार्यमसम्बाधं तव वाचा कथं वयम् |

न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ||२१||

वैशम्पायन उवाच||

अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् |

मुमोच सायकान्दीप्तानहीनाशीविषानिव ||२२||

उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् |

व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः ||२३||

अर्जुन उवाच||

बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते |

अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ||२४||

मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये |

तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ||२५||

पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः |

भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ||२६||

भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम |

स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ||२७||

वैशम्पायन उवाच||

इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह |

प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ||२८||

विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् |

अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ||२९||

शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः |

भ्रातृन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ||३०||

युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी |

नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ||३१||

गन्धर्व्युवाच||

त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे |

गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ||३२||

युधिष्ठिर उवाच||

युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् |

को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ||३३||

अर्जुन उवाच||

अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः |

प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ||३४||

गन्धर्व उवाच||

जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् |

न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ||३५||

साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् |

गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ||३६||

अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः |

सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ||३७||

सम्भृता चैव विद्येयं तपसेह पुरा मया |

निवेदयिष्ये तामद्य प्राणदाया महात्मने ||३८||

संस्तम्भितं हि तरसा जितं शरणमागतम् |

योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ||३९||

चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः |

ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ||४०||

सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति |

आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ||४१||

यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन |

तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ||४२||

समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् |

अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ||४३||

विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः |

अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ||४४||

गन्धर्वजानामश्वानामहं पुरुषसत्तम |

भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ||४५||

देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः |

क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ||४६||

पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे |

दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ||४७||

ततो भागीकृतो देवैर्वज्रभाग उपास्यते |

लोके यत्साधनं किञ्चित्सा वै वज्रतनुः स्मृता ||४८||

वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् |

वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ||४९||

वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः |

रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ||५०||

कामवर्णाः कामजवाः कामतः समुपस्थिताः |

इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ||५१||

अर्जुन उवाच||

यदि प्रीतेन वा दत्तं संशये जीवितस्य वा |

विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ||५२||

गन्धर्व उवाच||

संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते |

जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ||५३||

त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् |

तथैव सख्यं बीभत्सो चिराय भरतर्षभ ||५४||

अर्जुन उवाच||

त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ |

सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ||५५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

158-अध्यायः

अर्जुन उवाच||

कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः |

यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ||१||

गन्धर्व उवाच||

अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः |

यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ||२||

यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः |

विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ||३||

नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् |

गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ||४||

स्वयं चापि मया दृष्टश्चरता सागराम्बराम् |

इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ||५||

वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन |

विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ||६||

धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा |

पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ||७||

पितृनेतानहं पार्थ देवमानुषसत्तमान् ||७||

दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः |

भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ||८||

उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् |

जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ||९||

स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति |

धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ||१०||

नक्तं च बलमस्माकं भूय एवाभिवर्धते |

यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ||११||

सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन |

येन तेनेह विधिना कीर्त्यमानं निबोध मे ||१२||

ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि |

यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ||१३||

यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप |

नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ||१४||

यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे |

जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ||१५||

तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् |

तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ||१६||

वेदे षडङ्गे निरताः शुचयः सत्यवादिनः |

धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ||१७||

जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् |

यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ||१८||

लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् |

पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ||१९||

पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः |

प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ||२०||

न हि केवलशौर्येण तापत्याभिजनेन च |

जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ||२१||

तस्मादेवं विजानीहि कुरूणां वंशवर्धन |

ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ||२२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

159-अध्यायः

तापस्योपाख्यानम्

अर्जुन उवाच||

तापत्य इति यद्वाक्यमुक्तवानसि मामिह |

तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ||१||

तपती नाम का चैषा तापत्या यत्कृते वयम् |

कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ||२||

वैशम्पायन उवाच||

एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् |

विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ||३||

गन्धर्व उवाच||

हन्त ते कथयिष्यामि कथामेतां मनोरमाम् |

यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ||४||

उक्तवानस्मि येन त्वां तापत्य इति यद्वचः |

तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ||५||

य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा |

एतस्य तपती नाम बभूवासदृशी सुता ||६||

विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो |

विश्रुता त्रिषु लोकेषु तपती तपसा युता ||७||

न देवी नासुरी चैव न यक्षी न च राक्षसी |

नाप्सरा न च गन्धर्वी तथारूपेण काचन ||८||

सुविभक्तानवद्याङ्गी स्वसितायतलोचना |

स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ||९||

न तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत |

भर्तारं सविता मेने रूपशीलकुलश्रुतैः ||१०||

सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् |

नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् ||११||

अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली |

सूर्यमाराधयामास नृपः संवरणः सदा ||१२||

अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः |

नियमैरुपवासैश्च तपोभिर्विविधैरपि ||१३||

शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः |

अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ||१४||

ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि |

तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ||१५||

दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् |

नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ||१६||

यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा |

तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ||१७||

यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः |

तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ||१८||

स सोममति कान्तत्वादादित्यमति तेजसा |

बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ||१९||

एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव |

तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ||२०||

स कदाचिदथो राजा श्रीमानुरुयशा भुवि |

चचार मृगयां पार्थ पर्वतोपवने किल ||२१||

चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः |

ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ||२२||

स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः |

ददर्शासदृशीं लोके कन्यामायतलोचनाम् ||२३||

स एक एकामासाद्य कन्यां तामरिमर्दनः |

तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ||२४||

स हि तां तर्कयामास रूपतो नृपतिः श्रियम् |

पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ||२५||

गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना |

स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ||२६||

अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः |

अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ||२७||

जन्मप्रभृति यत्किञ्चिद्दृष्टवान्स महीपतिः |

रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ||२८||

तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा |

न चचाल ततो देशाद्बुबुधे न च किञ्चन ||२९||

अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् |

लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ||३०||

एवं स तर्कयामास रूपद्रविणसम्पदा |

कन्यामसदृशीं लोके नृपः संवरणस्तदा ||३१||

तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः |

जगाम मनसा चिन्तां काममार्गणपीडितः ||३२||

दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना |

अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ||३३||

कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि |

कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ||३४||

त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता |

विभूषणमिवैतेषां भूषणानामभीप्सितम् ||३५||

न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् |

न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ||३६||

या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः |

न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ||३७||

एवं तां स महीपालो बभाषे न तु सा तदा |

कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किञ्चन ||३८||

ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा |

सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ||३९||

तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा |

वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ||४०||

अपश्यमानः स तु तां बहु तत्र विलप्य च |

निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ||४१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

160-अध्यायः

गन्धर्व उवाच||

अथ तस्यामदृश्यायां नृपतिः काममोहितः |

पातनः शत्रुसङ्घानां पपात धरणीतले ||१||

तस्मिन्निपतिते भूमावथ सा चारुहासिनी |

पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ||२||

अथाबभाषे कल्याणी वाचा मधुरया नृपम् |

तं कुरूणां कुलकरं कामाभिहतचेतसम् ||३||

उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम |

मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ||४||

एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा |

ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ||५||

अथ तामसितापाङ्गीमाबभाषे नराधिपः |

मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ||६||

साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि |

भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ||७||

त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः |

कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ||८||

ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना |

सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ||९||

त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि |

चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ||१०||

न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना |

तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ||११||

भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि |

त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ||१२||

गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि |

विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ||१३||

तपत्युवाच||

नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् |

मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ||१४||

यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर |

दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ||१५||

न चाहमीशा देहस्य तस्मान्नृपतिसत्तम |

समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ||१६||

का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् |

कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ||१७||

तस्मादेवङ्गते काले याचस्व पितरं मम |

आदित्यं प्रणिपातेन तपसा नियमेन च ||१८||

स चेत्कामयते दातुं तव मामरिमर्दन |

भविष्याम्यथ ते राजन्सततं वशवर्तिनी ||१९||

अहं हि तपती नाम सावित्र्यवरजा सुता |

अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ||२०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

161-अध्यायः

गन्धर्व उवाच||

एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता |

स तु राजा पुनर्भूमौ तत्रैव निपपात ह ||१||

अमात्यः सानुयात्रस्तु तं ददर्श महावने |

क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ||२||

तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ |

बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना ||३||

त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः |

तं समुत्थापयामास नृपतिं काममोहितम् ||४||

भूतलाद्भूमिपालेशं पितेव पतितं सुतम् |

प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ||५||

अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः |

उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् ||६||

मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ||६||

क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् |

पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ||७||

वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् |

अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ||८||

ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः |

सर्वं विसर्जयामास तमेकं सचिवं विना ||९||

ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् |

स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ||१०||

ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः |

आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ||११||

जगाम मनसा चैव वसिष्ठमृषिसत्तमम् |

पुरोहितममित्रघ्नस्तदा संवरणो नृपः ||१२||

नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे |

अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ||१३||

स विदित्वैव नृपतिं तपत्या हृतमानसम् |

दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ||१४||

तथा तु नियतात्मानं स तं नृपतिसत्तमम् |

आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ||१५||

स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः |

ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ||१६||

सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः |

वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ||१७||

तमुवाच महातेजा विवस्वान्मुनिसत्तमम् |

महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ||१८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

162-अध्यायः

वसिष्ठ उवाच||

यैषा ते तपती नाम सावित्र्यवरजा सुता |

तां त्वां संवरणस्यार्थे वरयामि विभावसो ||१||

स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः |

युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ||२||

गन्धर्व उवाच||

इत्युक्तः सविता तेन ददानीत्येव निश्चितः |

प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ||३||

वरः संवरणो राज्ञां त्वमृषीणां वरो मुने |

तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ||४||

ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् |

ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ||५||

प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ||५||

वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह |

यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ||६||

स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना |

दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ||७||

वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ||७||

कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते |

आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ||८||

तपसाराध्य वरदं देवं गोपतिमीश्वरम् |

लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ||९||

ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते |

जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ||१०||

वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे |

सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ||११||

ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च |

आदिदेश महीपालस्तमेव सचिवं तदा ||१२||

नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे |

सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ||१३||

ततो द्वादश वर्षाणि काननेषु जलेषु च |

रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ||१४||

तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः |

न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ||१५||

तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः |

अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ||१६||

ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः |

अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ||१७||

तं च पार्थिवशार्दूलमानयामास तत्पुरम् |

तपत्या सहितं राजन्नुषितं द्वादशीः समाः ||१८||

ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा |

तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ||१९||

ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा |

तेन पार्थिवमुख्येन भावितं भावितात्मना ||२०||

ततो द्वादश वर्षाणि पुनरीजे नराधिपः |

पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ||२१||

एवमासीन्महाभागा तपती नाम पौर्विकी |

तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ||२२||

तस्यां सञ्जनयामास कुरुं संवरणो नृपः |

तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ||२३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

163-अध्यायः

वासिष्ठोपाख्यानम्

वैशम्पायन उवाच||

स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ |

अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ||१||

उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः |

जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ||२||

वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् |

एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ||३||

य एष गन्धर्वपते पूर्वेषां नः पुरोहितः |

आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ||४||

गन्धर्व उवाच||

तपसा निर्जितौ शश्वदजेयावमरैरपि |

कामक्रोधावुभौ यस्य चरणौ संववाहतुः ||५||

यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः |

विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ||६||

पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः |

विश्वामित्रविनाशाय न मेने कर्म दारुणम् ||७||

मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् |

कृतान्तं नातिचक्राम वेलामिव महोदधिः ||८||

यं प्राप्य विजितात्मानं महात्मानं नराधिपाः |

इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ||९||

पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् |

ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ||१०||

स हि तान्याजयामास सर्वान्नृपतिसत्तमान् |

ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ||११||

तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः |

ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ||१२||

क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता |

पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ||१३||

महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् |

तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ||१४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

164-अध्यायः

अर्जुन उवाच||

किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः |

वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ||१||

गन्धर्व उवाच||

इदं वासिष्ठमाख्यानं पुराणं परिचक्षते |

पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ||२||

कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ |

गाधीति विश्रुतो लोके सत्यधर्मपरायणः ||३||

तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः |

विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ||४||

स चचार सहामात्यो मृगयां गहने वने |

मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ||५||

व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः |

आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ||६||

तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः |

विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ||७||

पाद्यार्घ्याचमनीयेन स्वागतेन च भारत |

तथैव प्रतिजग्राह वन्येन हविषा तथा ||८||

तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः |

उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ||९||

ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च |

षड्रसं चामृतरसं रसायनमनुत्तमम् ||१०||

भोजनीयानि पेयानि भक्ष्याणि विविधानि च |

लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ||११||

तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः |

सामात्यः सबलश्चैव तुतोष स भृशं नृपः ||१२||

षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् |

मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ||१३||

सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् |

पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ||१४||

अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् |

अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ||१५||

अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः |

नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ||१६||

वसिष्ठ उवाच||

देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी |

अदेया नन्दिनीयं मे राज्येनापि तवानघ ||१७||

विश्वामित्र उवाच||

क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः |

ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ||१८||

अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् |

स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ||१९||

वसिष्ठ उवाच||

बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः |

यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ||२०||

गन्धर्व उवाच||

एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव |

हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ||२१||

कशादण्डप्रतिहता काल्यमाना ततस्ततः |

हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ||२२||

आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी |

भृशं च ताड्यमानापि न जगामाश्रमात्ततः ||२३||

वसिष्ठ उवाच||

शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः |

बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ||२४||

गन्धर्व उवाच||

सा तु तेषां बलान्नन्दी बलानां भरतर्षभ |

विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ||२५||

गौरुवाच||

पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् |

विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ||२६||

गन्धर्व उवाच||

एवं तस्यां तदा पर्थ धर्षितायां महामुनिः |

न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ||२७||

वसिष्ठ उवाच||

क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् |

क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ||२८||

गौरुवाच||

किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे |

अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ||२९||

वसिष्ठ उवाच||

न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते |

दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ||३०||

गन्धर्व उवाच||

स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी |

ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ||३१||

क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना |

विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ||३२||

कशाग्रदण्डाभिहता काल्यमाना ततस्ततः |

क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ||३३||

आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ |

अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ||३४||

असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् |

मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ||३५||

पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा |

तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ||३६||

तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा |

नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ||३७||

अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ||३७||

एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः |

अस्त्रवर्षेण महता काल्यमानं बलं ततः ||३८||

प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ||३८||

न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा |

विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ||३९||

विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् |

क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ||४०||

दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा |

विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ||४१||

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् |

बलाबलं विनिश्चित्य तप एव परं बलम् ||४२||

स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् |

भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ||४३||

स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा |

तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ||४४||

अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ||४४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

165-अध्यायः

गन्धर्व उवाच||

कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह |

इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ||१||

स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् |

मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ||२||

स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् |

तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ||३||

अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् |

शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ||४||

ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ||४||

अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् |

तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ||५||

ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः |

नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ||६||

अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः |

जघान कशया मोहात्तदा राक्षसवन्मुनिम् ||७||

कशाप्रहाराभिहतस्ततः स मुनिसत्तमः |

तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ||८||

हंसि राक्षसवद्यस्माद्राजापसद तापसम् |

तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ||९||

मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् |

गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ||१०||

ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः |

वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ||११||

तयोर्विवदतोरेवं समीपमुपचक्रमे |

ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ||१२||

ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः |

ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ||१३||

अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत |

तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ||१४||

स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः |

जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ||१५||

तस्य भावं विदित्वा स नृपतेः कुरुनन्दन |

विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ||१६||

स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया |

राक्षसः किङ्करो नाम विवेश नृपतिं तदा ||१७||

रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा |

विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ||१८||

ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना |

बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ||१९||

ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः |

ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ||२०||

तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा |

आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ||२१||

निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् |

इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ||२२||

अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् |

सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ||२३||

ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् |

उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ||२४||

गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते |

अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ||२५||

एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् |

निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ||२६||

राजा तु रक्षसाविष्टः सूदमाह गतव्यथः |

अप्येनं नरमांसेन भोजयेति पुनः पुनः ||२७||

तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् |

गत्वा जहार त्वरितो नरमांसमपेतभीः ||२८||

स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै |

तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ||२९||

स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः |

अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ||३०||

यस्मादभोज्यमन्नं मे ददाति स नराधिपः |

तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ||३१||

सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा |

उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ||३२||

द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् |

रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा ||३३||

ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः |

उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ||३४||

यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि |

तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ||३५||

एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः |

शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ||३६||

शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः |

वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ||३७||

स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः |

भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ||३८||

वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् |

धारयामास तं शोकं महाद्रिरिव मेदिनीम् ||३९||

चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः |

न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ||४०||

स मेरुकूटादात्मानं मुमोच भगवानृषिः |

शिरस्तस्य शिलायां च तूलराशाविवापतत् ||४१||

न ममार च पातेन स यदा तेन पाण्डव |

तदाग्निमिद्ध्वा भगवान्संविवेश महावने ||४२||

तं तदा सुसमिद्धोऽपि न ददाह हुताशनः |

दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ||४३||

स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः |

बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ||४४||

स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः |

जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ||४५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

166-अध्यायः

गन्धर्व उवाच||

ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः |

निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ||१||

सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा |

वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ||२||

अथ चिन्तां समापेदे पुनः पौरवनन्दन |

अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ||३||

ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः |

तस्या जले महानद्या निममज्ज सुदुःखितः ||४||

अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन |

समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ||५||

उत्ततार ततः पाशैर्विमुक्तः स महानृषिः |

विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ||६||

शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत |

सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ||७||

ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा |

चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ||८||

सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा |

शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ||९||

ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना |

मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ||१०||

वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् |

अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् ||११||

पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् ||११||

अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् |

अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ||१२||

शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ||१२||

वसिष्ठ उवाच||

पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः |

पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ||१३||

अदृश्यन्त्युवाच||

अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते |

समा द्वादश तस्येह वेदानभ्यसतो मुने ||१४||

गन्धर्व उवाच||

एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः |

अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ||१५||

ततः प्रतिनिवृत्तः स तया वध्वा सहानघ |

कल्माषपादमासीनं ददर्श विजने वने ||१६||

स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत |

आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ||१७||

अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः |

भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ||१८||

असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः |

प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ||१९||

तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन |

त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ||२०||

त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् |

रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

167-अध्यायः

वसिष्ठ उवाच||

मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथञ्चन |

नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ||१||

राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि |

स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ||२||

गन्धर्व उवाच||

तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः |

वारयामास तेजस्वी हुङ्करेणैव भारत ||३||

मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा |

मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ||४||

स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा |

ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ||५||

रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् |

तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः ||६||

प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः |

उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ||७||

सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम |

अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ||८||

वसिष्ठ उवाच||

वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् |

ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ||९||

राजोवाच||

नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् |

त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ||१०||

इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम |

तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ||११||

अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि |

शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ||१२||

गन्धर्व उवाच||

ददानीत्येव तं तत्र राजानं प्रत्युवाच ह |

वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ||१३||

ततः प्रतिययौ काले वसिष्ठसहितोऽनघ |

ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ||१४||

तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा |

विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ||१५||

अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् |

विवेश सहितस्तेन वसिष्ठेन महात्मना ||१६||

ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः |

पुष्येण सहितं काले दिवाकरमिवोदितम् ||१७||

स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः |

अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ||१८||

संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् |

मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ||१९||

तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन |

अशोभत तदा तेन शक्रेणेवामरावती ||२०||

ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् |

तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ||२१||

ऋतावथ महर्षिः स सम्बभूव तया सह |

देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ||२२||

अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः |

राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ||२३||

दीर्घकालधृतं गर्भं सुषाव न तु तं यदा |

साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ||२४||

द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ |

अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

168-अध्यायः

और्वोपाख्यानम्

गन्धर्व उवाच||

आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत |

शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ||१||

जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः |

पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ||२||

परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा |

गर्भस्थेन ततो लोके पराशर इति स्मृतः ||३||

अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा |

जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ||४||

स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत |

मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ||५||

तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः |

अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ||६||

मा तात तात तातेति न ते तातो महामुनिः |

रक्षसा भक्षितस्तात तव तातो वनान्तरे ||७||

मन्यसे यं तु तातेति नैष तातस्तवानघ |

आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ||८||

स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः |

सर्वलोकविनाशाय मतिं चक्रे महामनाः ||९||

तं तथा निश्चितात्मानं महात्मानं महातपाः |

वसिष्ठो वारयामास हेतुना येन तच्छृणु ||१०||

वसिष्ठ उवाच||

कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ |

याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ||११||

स तानग्रभुजस्तात धान्येन च धनेन च |

सोमान्ते तर्पयामास विपुलेन विशां पतिः ||१२||

तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन |

बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ||१३||

ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह |

याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ||१४||

भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् |

ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ||१५||

भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् |

क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ||१६||

ततो महीतलं तात क्षत्रियेण यदृच्छया |

खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ||१७||

तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ||१७||

अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् |

निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ||१८||

आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् ||१८||

तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा |

भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ||१९||

तासामन्यतमा गर्भं भयाद्दाधार तैजसम् |

ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ||२०||

ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ||२०||

अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह |

मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ||२१||

ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ||२१||

ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः |

ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ||२२||

ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः |

ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ||२३||

भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् |

उपारम्य च गच्छेम सहिताः पापकर्मणः ||२४||

सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि |

पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

169-अध्यायः

ब्राह्मण्युवाच||

नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता |

अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ||१||

तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना |

स्मरता निहतान्बन्धूनादत्तानि न संशयः ||२||

गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः |

तदायमूरुणा गर्भो मया वर्षशतं धृतः ||३||

षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि |

विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ||४||

सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति |

तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ||५||

तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् |

अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ||६||

गन्धर्व उवाच||

एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् |

ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ||७||

अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः |

स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ||८||

चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः |

भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ||९||

स चक्रे तात लोकानां विनाशाय महामनाः |

सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ||१०||

इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः |

सर्वलोकविनाशाय तपसा महतैधितः ||११||

तापयामास लोकान्स सदेवासुरमानुषान् |

तपसोग्रेण महता नन्दयिष्यन्पितामहान् ||१२||

ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् |

पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ||१३||

और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक |

प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ||१४||

नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः |

वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ||१५||

आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् |

तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ||१६||

निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि |

वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ||१७||

किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ||१७||

यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः |

तदास्माभिरयं दृष्ट उपायस्तात संमतः ||१८||

आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् |

ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ||१९||

न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि |

नियच्छेदं मनः पापात्सर्वलोकपराभवात् ||२०||

न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक |

दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ||२१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.