101 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोत्तरशततमः सर्गः भरतेन युधाजितासह गन्धर्वदेशगमनेनतद्धननपूर्वकं तक्षशिलापुष्कलावताख्यनगरयोः क्रमेणतक्षपुष्कलयोरभिषेककरणेनरामसमीपमेत्य गन्धर्ववधनिवेदनम् ॥ १ ॥ श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्ग्यसहितं परां प्रीतिनुपागमत् ॥ १ ॥ स निर्ययौ जनौघेन महता केकयाधिपः । त्वरमाणोभिचक्राम गन्धर्वान्कामरूपिणः ॥ २ ॥ सेनापतिं प्राप्तं युद्धसन्नाहं श्रुत्वा ॥ १-२ ॥   भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ […]

100 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शततमः सर्गः कदाचनयुधाजिच्चोदनयागार्ग्यमहर्षिणा राममेत्य सिंधुनद्या उभयकूलस्थितगन्धर्व -देशस्य स्ववशीकरणचोदनरूपतत्संदेशनिवेदनं ॥ १ ॥ रामाज्ञया स्वपुत्रसहितेनभरतेन सेनयासह युधाजित्समीपगमनम् ॥ २ ॥ कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः । स्वगुरुं प्रेषयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥ १ ॥ दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥ २ ॥ कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् । रामाय प्रददौ राजा शुभान्याभरणानि च ॥ […]

99 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनशततमः सर्गः प्रभाते रामचोदनयाकुशलवाभ्यांसभायांब्रह्मर्ष्यादिपुरतउत्तरकथागानम् ॥ १ ॥ सीताऽदर्शन विषण्णेनरामेण सर्वपार्थिवविसर्जनेन विप्रेभ्योवित्तवितरणेनच यज्ञसमापनपूर्वकं पुत्रद्वयेनसहायोध्याप्रवेशः ॥ २ ॥ श्रीरामे काञ्चनमय्याजानकीप्रतिकृत्याऽश्वमेधादिभि -र्यजनपूर्वकं धर्मेणराज्यंप्रशासतिसतिदुर्भिक्षादीनांदूरतोपसरणम् ॥ ३ ॥ चिरकालात्परंराममान्ना -दिषु कालधर्मंगतेषु तेन तदुद्देशेनब्राह्मणेभ्योद्रव्यादिवितरणम् ॥ ४ ॥ रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ॥ १ ॥ ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं […]

98 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टनवतितमः सर्गः सीतायारसातल प्रवेशानन्तरंदूयमानमानसेनरामेण चिरंरोदनपूर्वकंभूदेवींप्रतिसक्रोधं -सीतायाः पुनरानयनाभावेतस्याभस्मीकरणप्रतिज्ञानम् ॥ १ ॥ चतुर्मुखेनरामंपतितस्यविष्णुत्व स्मारणपूर्वकंसीतायाः सुखेननागलोकगमननिवेदनपूर्वकं पुनः स्वर्गेतत्संगमस्यभविष्यत्व -कथनम् ॥ २ ॥ चतुर्मुखेनसभामध्येरामंप्रति एतत्काव्यस्यकाव्योत्तमत्वस्य वाल्मीकिकृतत्वस्य च निवेदनेन लक्ष्मणादिवर्जंतेनैवोत्तरकथाश्रवणचोदनपूर्वकंदेवैः सहत्रिदिवगमनम् ॥ ३ ॥ ततोरामेणवाल्मीकिंप्रतिपरेद्युरुत्तरकथाप्रवर्तनचोदन पूर्वकंजनविसर्जनेनकुशलवाभ्यांसह -पर्णशालाप्रवेशः ॥ ४ ॥ रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः । चुक्रुशुः साधुसाध्वीति मुनयो रामसन्निधौ ॥ १ ॥ दण्डकाष्ठमवष्टभ्य बाष्पव्याक्कुलितेक्षणः । अवाक्छिरा […]

97 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तनवतितमः सर्गः वाल्मीकिना सीतायाः शुद्धत्वंबोधितेनरामेण तंप्रति पूर्वमेवशपथकरणेन तच्छुद्धत्व -ज्ञातवतापिस्वेन लोकापवादभयात्तत्परित्यागनिवेदनेन क्षमापणं ॥ १ ॥ तथा तंप्रति कुशलवयोः स्वपुत्रत्वाङ्गीकरणपूर्वकं लोकसमक्षंशुद्धिप्रसिद्धौ स्वस्य सीतायां प्रीतिजनननिवेदनम् ॥ २ ॥ श्रीरामभावविज्ञानेन सीताशपथदर्शनार्थं चतुर्मुखपुरस्करणेन समागतेष्विन्द्वादिषु तान्प्रति रामेण जनापवादपरिहारेसत्येव वैदेह्यांस्वस्य प्रीतिसमुदयनिवेदनम् ॥ ३ ॥ ततः प्रादुर्भूतेन दिव्यगन्धवतावायु नाऽऽह्लादितानांसवर्जनानांपुरत: सीतया त्रिवारं रामादन्यस्यमनसाप्यचिन्तने भूमि देव्यास्वस्य विवरवितरणरूपशपथकरणम् ॥ ४ ॥ ततो […]

96 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षण्णवतितमः सर्गः परेद्युः प्रभाते रामाह्वापनेन सभांप्रविष्टेचातुर्वर्ण्ये सीतयासह समागतेन वाल्मीकिना रामंप्रति शपथकरणेन सीताया निर्दोषत्वोद्धोषपूर्वकं कुशलवयोः सीतारामसुतत्वोत्कीर्तनेनसह सीतायाः शपथकरणेऽभ्यनुज्ञानप्रार्थनम् ॥ १ ॥ तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । ऋषीन्त्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ २ ॥ पुलस्त्योपि तथा शक्तिर्भार्गवश्चैव वामनः । मार्कण्डेयश्च दीर्घायुमौद्गल्यथ […]

95 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चनवतितमः सर्गः बहुकालं सभामध्ये कुशलवगीतरामायणं श्रुतवतारामेण रामायणवचनादेव कुशलवयोः सीतासुतत्वविज्ञानम् ॥ १ ॥ तथा प्रत्ययोत्पादनेन लोकापवादापनोदनपूर्वकं निजशुद्धिप्रख्यापनाय शपथकरणे सीताभावावगमाय वाल्मीकिंप्रति दूतप्रेषणम् ॥ २ ॥ दूतमुखाच्छपथकरणे सीताङ्गीकरणश्रवणहृष्टेनरामेण सकलसभास्तारान्प्रति परेद्यु: प्रभाते प्रवर्तिष्यमाणसीताशपथदर्शनप्रार्थनापूर्वकं तेषां विसर्जनम् ॥ ३ ॥ रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवै: सह वानरैः ॥ १ ॥ तस्मिन्गीते तु […]

94 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्नवतितमः सर्गः प्रभातेनिर्वर्तिताह्निकाभ्यांकुशलवाभ्यां यज्ञवाटमेत्यमधुरतरस्वरेण श्रीरामायणगानोप -क्रमः ॥ १ ॥ तदाकर्णनहृष्टेनरामेण यागावसानेसभायांसकलकलाकुशलनिखिलजनमेलन -पूर्वकं कुशलवगीयमानरामायणश्रवणम् ॥ २ ॥ गानावसानेकुशलवाभ्यां रामचोदनयातंप्रति आत्मनोर्वाल्मीकिशिष्यत्वनिवेदनपूर्वकं रामायणस्यतत्प्रणीतत्वनिवेदनेनसह तस्यमुनेर्यज्ञवाट निकटसंनिधानस्यचनिवेदनम् ॥ ३ ॥ तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ॥ १ ॥ हुतहुताशनौ कृतसमिदाधानौ ॥ १ ॥   तां स शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् । अपूर्वां […]

93 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिनवतितमःसर्गः रामाश्वमेधदर्शनाय कुशलवादिशिष्यगणेन सह समागतवतावाल्मीकिना ऋषिवाटनिक -टेपर्णशालानिर्मापणेनतत्रवासः ॥ १ ॥ तथा कुशलवौप्रति परेद्युः प्रभाते यज्ञवाटनिकटादिषु -श्रीरामायणगानचोदनपूर्वकं रामेणप्रश्ने आत्मनोर्वाल्मीकिशिष्यत्वकीर्तननियोजनम् ॥ २ ॥ वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ १ ॥ तथाभूते प्रागुक्तप्रकारं प्रवृत्ते ।। १ ।।   स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजान्छुभान् ॥ २ […]

92 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमःसर्गः रामेणाश्वस्यक्षोणीप्रदक्षिणीकरणायलक्ष्मणप्रेरणपूर्वकमश्वमेधकरणारंभः ॥ १ ॥ तत्सर्वमखिलेनाशु संस्थाप्य भरताग्रजः । हयं लक्षणसंपन्नं कृष्णसारं मुमोच ह ॥ १ ॥ कृष्णसारं कृष्णप्रधानं । प्रायशः कृष्णवर्णमित्यर्थः । कृष्णशारमिति च पाठः ॥ १ ॥   ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। २ ।। यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रहर्षमतुलं लेभे श्रीमानिति वचोऽब्रवीत् ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.