91 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकनवतितमः सर्गः रामेण लक्ष्मणमुखाद्वसिष्ठाद्याह्वानेन तैःसहाश्वमेधकरणनिर्धारणपूर्वकं लक्ष्मणंप्रति यज्ञशाला निर्मापणसुग्रीवविभीषणाद्यानयनयागीयसामग्रीसंपादनादिचोदना ॥ १ ॥ एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः । लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥ भ्रातृभ्यामिति चतुर्थी ॥ १ ॥   वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् । द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। २ ।। द्विजांश्च सर्वप्रवरानिति गुरुवैषम्यमार्षं । अश्वमेधपुरस्कृतानिति । अश्वमेधप्रयोगकुशलानित्यर्थः ॥ २ ॥   एतान्त्सर्वान्त्समानीय […]

90 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवतितमः सर्गः इलेराजनि पुनःपर्यायेणपुरुषस्तंगते बुधेन संवर्तादिपरमर्षिसमाह्वानपूर्वकं तैःसहमन्त्रणे तत्रकर्दमेनाश्वमेधेनपशुपतितोषणनिर्धारणम् ॥ १ ॥ अश्वमेधतुष्टेनपशुपतिना इलायसार्वकालिक -पुंस्त्वप्राप्तिवरदानम् ॥ २ ॥ एवंरामेण भरतलक्ष्मणौप्रत्यश्वमेधमहिमानुवर्णनम् ॥ ३ ॥ तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥ तस्येति । पुरूरवस इत्यर्थः ॥ १ ॥   इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं […]

89 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोननवतितमः सर्गः बुधेन परिजनापगमानन्तरमेकाकिन्याइलायाः कलत्रीकरणेन तयासहविहरणम् ॥ १ ॥ मासान्तरेपुनः पुरुषभूतेनविस्मृतस्त्रीभावेनचइलेन बुधंप्रति निजनगरगमनायाभ्यनुज्ञानयाचनम् ॥ २ ॥ बुधेनतंप्रति ससान्त्वनमावत्सरान्तंतत्रैववासविधानम् ॥ ३ ॥ बुधाद्गर्भंधृतवत्याइलया पर्यायप्राप्तेनवमेमासि पुरूरवोनामकपुरुरवोनामकपुत्रप्रसवेन तस्यबुधहस्तएवप्रत्यर्पणम् ॥ ४ ॥ श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा । आश्रर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ १ ॥ अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै […]

88 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः स्त्रीभूतैर्निजपरिजनैस्सहवनान्तरेविहरमाणायाइलायाअवलोकनेन क्षुभितमनसातत्रसर -सितपस्यताविधुसुतेनबुधेन तत्परिचरीणांकिंपुरुषनारीकरणपूर्वकं शैलतटप्रेषणम् ॥ १ ॥ तां कथामिलसंबन्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥ तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥ प्राञ्जली इति द्विवचनं । तस्य भावस्येति । स्त्रीपुंसभावस्येत्यर्थः ॥ २ ॥   […]

87 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः रामेणलक्ष्मणंप्रति स्वस्याप्यश्वमेधमहिमाऽवगत्यवगमनाय इलोपाख्यानकथनारंभः ॥ १ ॥ मृगयार्थंवनंगतेनइलनाम्ना राज्ञा पार्वतीपरितोषणाय सर्वानुचरैः सहनारीभूय विहरतोहरस्य विहारवनगमनम् ॥ २ ॥ तत्प्रभावात्परिजनैस्सहस्त्रीभूतेनतेनराज्ञा तपस्तोषितपार्वतीप्रसादा -त्पर्यायेणैकैकस्मिन्मासे स्त्रीत्वस्य पुनरेकैकस्मिन्मासे पुंस्त्वस्यचाधिगमः ॥ ३ ॥ तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ १ ॥ एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण । वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ २ […]

86 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडशीतितमःसर्गः ब्रह्महत्यापीडितेइन्द्रेदिगन्तंगते संक्षुभितेचसकललोके देवैरिन्द्रान्वेषणपूर्वकं तेनाश्वमेधयाजनम् ॥ १ ॥ तेनेन्द्रंत्यक्तवत्याब्रह्महत्यया देवान्प्रति स्वस्यस्थानकल्पनमार्थने देवैस्तस्यानद्यादिस्थानचतुष्टयकल्पनम् ॥ २ ॥ एवं लक्ष्मणेन रामंप्रत्यश्वमेधमहिमोक्तिः ॥ ३ ॥ तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ १ ।। कथाशेषं वक्तुमिति शेषः ॥ १ ॥   ततो हते महावीर्ये वृत्रे देवभयंकरे । ब्रह्महत्यावृतः शक्रः संज्ञां लेभे […]

85 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः विष्णुनादेवान्प्रति इन्द्रेतद्वज्रेचैकैकांशेनस्वप्रवेशनप्रतिज्ञानपूर्वकमिन्द्रंप्रति वृत्रवध -विधानम् ॥ १ ॥ वृत्रतपोवनंगतेषु देवेषु तदीयदुस्सहतेजोसहिष्णुतयाचिन्तांगतेषु इन्द्रेण वज्रेणवृत्रशिरश्छेदनम् ॥ २ ॥ ततोब्रह्महत्यानुद्रतेनेन्द्रेण पलायनम् ॥ ३ ॥ ब्रह्महत्याग्रस्तेन्द्र मोक्षणाय देवैर्विष्णुप्रार्थने तेनदेवान्प्रति तन्मोचनायेन्द्रेणाश्वमेधयाजनचोदना ॥ ४ ॥ लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः । वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः । भूय एव कथां दिव्यां कथयामास सुव्रतः […]

84 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः लक्ष्मणेन रामंप्रत्यश्वमेधस्यसर्वार्थसाधकत्वोक्त्त्या तन्त्ररुच्युत्पादनाय वृत्रवधाख्यान -प्रस्तावः ॥ १ ॥ चिरंधर्मेणराज्यंकृतव तावृत्रेण राज्येपुत्राभिषेचनपूर्वकंवनेतपश्चरणम् ॥ २ ॥ तत्तपश्चरणसंत्रस्तेनेन्द्रेण श्रीविष्णुमेय वृत्रवधप्रार्थना ॥ ३ ॥ तथोक्तवति रामे तु भरते च महात्मनि । लक्ष्मणोथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥ अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ २ ॥ रोचतामित्यादि । अनुष्ठातुमिति […]

83 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमःसर्गः रामेण भरतलक्ष्मणौप्रति राजसूयचिकीर्षानिवेदनम् ॥ १ ॥ भरतेन तंत्रति तस्यसर्वराज -पराजयपूर्वकत्वोक्त्त्यापृथ्वीविनाशहेतुत्वकथनेन तत्करणस्यानौचित्यकथनम् ॥ २ ॥ रामेण तंप्रति तद्वचनप्रशंसनपूर्वकं राजसूयनिवर्तनोक्तिः ॥ ३ ॥ तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः । द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥ दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ २ ॥ कृतं मया […]

82 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्यशीतितमः सर्गः शंबुकशुद्रवधानन्तरंरात्रावगस्त्याश्रमेस्थितवतारामेण प्रभातेतदभिवादनपूर्वकं पुष्पका -रोहणेनपुनरयोध्यांप्रत्यागमनम् ॥ १॥ ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् । उपाक्रमत्सरः पुण्यमप्सरोगण सेवितम् ॥ १ ॥ तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् । आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ २ ॥ तस्यागस्त्यो बहुगुणं कन्दमूलं तेथौषधिम् । शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥ स भुक्तवान्नर श्रेष्ठस्तदन्नममृतोपमम् । प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.