श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः
रावणस्य पूर्वपूर्वस्मिन्शिरसिछिन्नेछिन्नेपि पुनः पुनः शिरोन्तरप्ररोहेसति मातलिसमु -द्बोधितेन रामेण ब्रह्मास्त्रेण रावणहृदयविभेदनम् ॥ १ ॥ रावणेहते हर्षादिन्द्रादिभी रामरथोपरिपुष्पवर्षणम् ॥ २ ॥ सुग्रीव विभीषणादिभिर्हर्षाच्छ्रीरामाभिपूजनम् ॥ ३ ॥
अथ संस्मारयामास राघवं मातलिस्तदा ।
अजानन्निव किं वीर त्वमेनमनुवर्तते ॥ १ ॥
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।
विनाशकालः कथितो यः सुरैः सोद्य वर्तते ॥ २ ॥
अथ रावणवधः – अथ संस्मारयामासेत्यादिश्लोकद्वयमेकान्वयं ॥ अजानन्निव ब्रह्मास्त्रमजानन्निव एनं रावणं अनुवर्तसे अस्त्रस्य प्रत्यास्त्रप्रयोगमात्रं करोषि । विनाशकाल: मानुषेण वध इत्युक्तः कालः ॥ १-२ ॥
ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।
जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् ॥ ३ ॥
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।
ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ॥ ४ ॥
ततः संस्मारित इत्याद्येकादश श्लोका एकान्वयाः ॥ ३–४ ॥
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।
दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ॥ ५ ॥
प्रथमं पूर्वं दण्डकारण्ये । ब्रह्मदत्तमित्येतद्विवृणोति – ब्रह्मणेत्यादिना ॥ ५ ॥
यस्य वाजेषु पवनः फले पावकभास्करौ ।
शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ६ ॥
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।
तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥ ७ ॥
सधूममिव कालानिं दीप्तमाशीविषं यथा ।
परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥ ८ ॥
यस्य वाजेष्विति । पवनादीनामधिदेवतात्वेनावस्थानं । फले शल्ये । तेजसा सारांशेन कृतं ॥ ६-८ ॥
द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।
नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ ९ ॥
द्वाराणां रिपुगोपुराणां । नानारुधिरेति वध्यासुरभेदात् । मेदः मांसविशेषः ॥ ९ ॥
वज्रसारं महानादं नानासमितिदारणम् ।
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥ १० ॥
कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् ।
नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ॥ ११ ॥
वज्रसारं वज्रतुल्यदार्ढ्यं । नानासमितिदारणं कपटयुद्धस्यापि निवर्तकं । सर्ववित्रासनत्वे हेतुः—भीममिति । दीप्तं श्वसन्तमिति भेदादुपमानभेदः ।। १० – ११ ॥
नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।
वाजितं विविधैर्वाजैश्वारुचित्रैर्गरुत्मतः ॥ १२ ॥
बला: गृध्र विशेषाः । रक्षसां पिशाचसहचारिणां । यमरूपं यमतुल्यं यथा भवति तथा भयावहमिति वित्रासनाद्भेदः । गरुत्मतः वाजैः पत्रैः । वाजितं संजातपत्रं । गरुडपत्रकृतपत्रमित्यर्थः ॥ १२ ॥
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।
द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥ १३ ॥
लोकानां मध्ये उत्तमेषु प्रहर्षकरमात्मन इत्यन्तस्य जग्राहेत्यनेन संबन्धः ।। १३ ।।
अभिमन्त्र्य ततो रामस्तं महेषु महाबलः ।
वेदप्रोक्तेन विधिना संदधे कार्मुके बली ॥ १४ ॥
तस्मिन्संघीयमाने तु राघवेण शरोत्तमे ।
सर्वभूतानि वित्रेसुश्चचाल च वसुंधरा ॥ १५ ॥
ततः ग्रहणानन्तरं तं इषं संदधे ॥ १४-१५ ॥
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम् ।
चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥ १६ ॥
रावणाय चिक्षेपेत्यन्वयः ॥ १६ ॥
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।
कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥ १७ ॥
स विसृष्टो महावेगः शरीरान्तकरः शरः ।
बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥
रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।
रावणस्य हरन्प्राणान्विवेश धरणीतलम् ॥ १९ ॥
वज्रिबाहुविसर्जितो वज्र इवेत्यन्वयः ॥ १७–१९ ॥
स शरो रावणं हत्वा रुधिराद्रकृतच्छविः ।
कृतकर्मा निभृतवत्स्वतूणीं पुनरागमत् ।। २० ।।
निभृतवत् विनीतवत् ॥ २० ॥
तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् ।
निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥ २१ ॥
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः ।
पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥ २२ ॥
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।
हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः ॥ २३ ॥
प्राणैः सह जीवितात् प्राणधारणयत्नात् भ्रश्यमानस्य तस्य हस्तात् संसायकं कार्मुकं पपात ॥ २१ – २३ ॥
नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः ।
[ दशग्रीववधं दृष्ट्वा सर्वलोकप्रियं प्रियम् ॥ २४ ॥]
नर्दन्तश्चेत्यर्धमेकं वाक्यं ।। २४ ।।
दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात् ।।
गंताश्रयत्वात् करुणैर्वाष्पप्रस्रवणैर्मुखैः ॥ २५ ॥
दशग्रीवेत्यादिसार्धश्लोक एकान्वयः ॥ मुखैः उपलक्षिताः । राक्षसा इति शेषः ॥ २५ ॥
ततो विनेदुः संहृष्टा बानरा जितकाशिनः ।
वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ २६ ॥
अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः ।
दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ॥ २७ ॥
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।
किरन्ती राघवरथं दुरवापा मैनोरमा ॥ २८ ॥
तद्वधं तं वधं ॥ २६-२८ ॥
राघवस्तवसंयुक्ता गगनेऽपि च शुश्रुवे ।
साधुसाध्विति वागम्या दैवतानां महात्मनाम् ॥ २९ ॥
राघवस्तवसंयुक्ता वागित्यन्वयः ॥ २९ ॥
आविवेश महाहर्षो देवानां चारणैः सह ।
रावणे निहते रौद्रे सर्वलोकभयंकरे ॥ ३० ॥
चारणैः सह चारणैः सहितान् देवानित्यर्थः ॥ ३० ॥
ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।
चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ॥ ३१ ॥
तत इति । सुग्रीववद्युवराजत्वेन प्रत्युपकारायाङ्गदेनापि रावणवधस्य काङ्क्षितत्वात्सकामत्वं ॥ ३१ ॥
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत् ।
मही चकम्पे न हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ ३२ ॥
प्रशमं प्रसादं । मरुद्गणाः देवगणाः । मही न चकम्पे महीकम्पाभावस्य शुभसूचकत्वादित्याहुः । रावणवधपर्यन्तं सकम्पा स्थिता मही तद्धानन्तरं निष्कम्पाऽभवदिति चाहुः । ववौ सुखमिति शेषः ॥ ३२ ॥
ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा ।
समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिना ह्यपूजयन् ॥ ३३ ॥
स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रैणे रराज ।
रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥ ३४ ॥
सुहृद्विशेषाः जाम्बवदादयः । हिशब्दः पादपूरणे । विजयेन हृष्टा इत्यन्वयः । विधिना क्रमेण ॥ ३३-३४ ।। फाल्गुनामावास्यायां रावणवधः । यद्वा चैत्रशुद्धप्रतिपदि शिष्टामावास्यायां प्रातःकाले रावणवधः । पूर्वं सर्वरात्रमवर्ततेत्युक्तेः ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः ॥ १११ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकादशोत्तरशततमः सर्गः ॥ १११ ॥