श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः
रावणाज्ञया ससैन्येनवज्रदंष्ट्रेण रणायाङ्गदाधिष्ठितदक्षिणद्वारगमनम् ॥ १ ॥ अङ्गदवज्रदंष्ट्रयो राक्षसवानरसेनाभ्यां सैन्ययोः परस्परंच युद्धम् ॥ २ ॥
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।
क्रोधेन महताऽऽविष्टो निश्वसन्नुरगो यथा ॥ १ ॥
दीर्घसृष्णं विनिश्वस्य क्रोधेन कलुषीकृतः ।
अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ॥ २ ॥
अथ वज्रदंष्ट्रयुद्धं त्रिपञ्चाशे – धूम्राक्षमित्यादि ।। आविष्टः अभूदिति शेषः ।। १-२ ।।
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।
जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥ ३ ॥
गच्छ त्वं वीर निर्याहीति ॥ इतो गच्छ पुरान्निर्याहीत्यर्थः ॥ ३ ।।
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः ।
निर्जगाम बलैः सार्धं बहुभिः परिवारितः ॥ ४ ॥
बहुभिः बलाध्यक्षैरिति शेषः ।। ४ ।।
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः ।
पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ॥ ५ ॥
ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।
तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ॥ ६ ॥
पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।
रथं प्रदक्षिणं कृत्वा समारोहच्चभूपतिः ॥
रथैरित्यस्य संयुक्त इत्यनेनान्वयः । समलंकृत: चन्दनकुसुमादिभिरलङ्कृतः । तनुत्राणि कवचतलत्रकण्ठत्रशिरस्त्राणानि । संरुध्य संबध्य धृत्वेत्यर्थः ॥ ५- ७ ॥
यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।
भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ॥ ८ ॥
खङ्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।
पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥
विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ॥ ९ ॥
यष्टिभिरित्यादिसार्धश्लोकद्वयं ।। ८–९ ॥
गजा मदोत्कटाः शूराश्चलन्त इव प्वताः ।
ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ॥ १० ॥
गजा इति । अत्र निर्यान्तीत्यनुषज्यते । गजानेव विशिनष्टि-ते युद्धेत्यादिना । तोमराङ्कुशपाणिमिः यन्तृभिः । रूढाः आरूढा इत्यर्थः ।। १० ।।
अन्ये लक्षणसंयुक्ताः शूरा रूढा महावलाः ।
[ अश्वाः परिपतन्तिस्स राक्षसैथ प्रचोदिताः ॥११॥]
तद्राक्षसबलं घोरं विप्रस्थितमशोभत ।
प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ १२ ॥
निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।
तेषां निष्क्रममाणानामशुभं समजायत ॥ १३ ॥
अन्ये लक्षणसंयुक्ता इति ॥ अत्रापि गजा निर्यान्तीत्यनुषङ्गः ॥ ११-१३ ।।
आकाशाद्विधनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ १४ ॥
व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।
समापतन्तो योधास्तु प्रास्खलन्भयमोहिताः ॥ १५ ॥
विधनात् घनशून्यात् ॥ १४-१५ ।।
एतानौत्पातिकान्दृष्ट्वा वज्रदंष्ट्रो महाबलः ।
धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ।। १६ ।।
औत्पातिकान् अशुभसूचकान् ॥ १६ ॥
तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः ।
प्रणेदुः सुमहानादान्पूरयंश्च दिशो दश ॥ १७ ॥
पूरयन् अपूरयंश्चेत्यर्थः । केचित्तु पूरयन् पूरयन्त इत्यर्थः, वचनव्यत्यय आर्ष इत्याहुः ।। १७ ।।
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।
घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ॥ १८ ॥
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।
रुधिरोक्षितसर्वाङ्गा न्यपतञ्जगतीतले ॥ १९ ॥
केचिदन्योन्यमासाद्य शूराः परिघपाणयः ।
चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ॥ २० ॥
द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः ।
श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥ २१ ॥
रथनेमिस्वनस्तंत्र धनुषश्चापि निस्स्वनः ।
शङ्खमेरी मृदङ्गानां बभूव तुमुलः स्वनः ॥ २२ ॥
तुमुलं रणसङ्कुलं । तुमुलं रणसङ्कुले इत्यमरः ।। १८-२२ ॥
केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ॥ २३ ॥
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ।
जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः।
शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ २४ ॥
वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन्हरीन् ।
चचार लोकसंहारे पाशहस्त इवान्तकः ॥ २५ ॥
अस्त्राणि संसृज्य सर्वाण्यस्त्राणि प्रयुज्य । तदनन्तरमस्त्राभावात् बाहुयुद्धमकुर्वतेत्यर्थः ॥ २३ – २५ ॥
बलवन्तोस्त्रविदुषो नानामहरणा रणे ।
जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः ॥ २६ ॥
अस्त्रविदुषः अस्त्रविद्वांसः । प्रथमार्थे द्वितीया ॥ २६ ॥
निघ्नतो राक्षसान्दृष्ट्वा सर्वान्वालिसुतो रणे ।
क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ २७ ॥
तान्राक्षसगणान्सर्वान्वृक्षमुद्यम्य वीर्यवान् ।
अङ्गदः क्रोधताम्राक्षः सिंह: क्षुद्रमृगानिव ॥
चकार कदनं घोरं शक्रतुल्यपराक्रमः ॥ २८ ॥
अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ।
विभिन्नशिरस: पेतुर्विकृत्ता इव पादपाः ॥ २९ ॥
रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ।
रुधिरेण च संछन्ना भूमिर्भयकरी तदा ॥ ३० ॥
निघ्नत इत्यादिश्लोकद्वयमेकान्वयं ॥ संवर्तके प्रलयकाले । तान्राक्षसगणानित्यत्र निजघानेति विपरिणामः ॥ २७-३० ॥
हारकेयूरवस्त्रैश्च शेस्त्रैश्च समलङ्कृता ।
भूमिर्भाति रणे तत्र शारदीव यथा निशा ॥ ३१ ॥
अङ्गदस्य च वेगेन तद्राक्षसबलं महत् ।
प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ ३२ ॥
शारदीव यथा निशेत्यत्र इव शब्दयथाशब्दावेकार्थकौ अपिचेतिवत् । इवशब्द: पादपूरण इत्येके ॥ ३१ – ३२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ।।