श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विनवतितमः सर्गः
इन्द्रजिद्विजयहृष्टेनलक्ष्मणेन विभीषणादिभिः सह रामसमीपमेत्य तच्चरणयोः प्रणामः ॥ १॥ विभीषणमुखाल्लक्ष्मणकृतेन्द्रजिद्वधश्रवणहृष्टेनरामेण लक्ष्मणस्यनिजाङ्कारोपणेन -परिष्वङ्गपूर्वकं प्रशंसनम् ॥ २ ॥ रामप्रेरणयासुषेणेनेन्द्रजिद्बाणविशकलीकृतानांल -क्ष्मणादीनां समुचितचिकित्सयाविशल्यीकरणम् ॥ ३ ॥
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः ।
बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥ १ ॥
अथ लक्ष्मणश्लाघनं– रुधिरक्लिन्नगात्रेत्यादि ॥ १ ॥
ततः स जाम्बवन्तं च हनुमन्तं च वीर्यवान् ।
सन्निहत्य महातेजास्तांश्च सर्वान्वनौकसः ॥ २ ॥
आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ ।
विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥ ३ ॥
तत इत्यादिश्लोकद्वयमेकान्वयं ॥ सन्निहत्य संघीभूय । अवष्टभ्य युद्धपारवश्यादवलम्ब्य ॥ २-३ ॥
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च ।
तस्थौ भ्रातृसंमीपस्थ इन्द्रस्येव बृहस्पतिः ॥ ४ ॥
इन्द्रस्येव बृहस्पतिरिति पारतनेत्र्यमात्रे साम्यं ॥ ४ ॥
निष्टनन्निव चागम्य राघवाय महात्मने ।
आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥ ५ ॥
निष्टनन् अव्यक्ताक्षरंवदन्नित्यर्थः । इवशब्दो वाक्यालंकारे । आयासस्याभिनयनमात्रेणा -लीकत्वद्योतनाय वा ॥ ५ ॥
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना ।
न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥ ६ ॥
रामसन्निधौ संकोचवता लक्ष्मणेनाविशेषेणेन्द्रजिद्वधकथनाद्विभीषणः स्पष्टतयाह-रावणेरिति ॥ यद्वा लक्ष्मणेन सूचनयोक्तावपि हर्षप्रकर्षेण विभीषणः पुनराह – रावणेरिति ॥ ६ ॥
श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् ।
प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह ॥ ७ ॥
महावीर्यो राम इत्यन्वयः ॥ ७ ॥
साधु लक्ष्मण तुष्टोसि कर्मणा सुकृतं कृतम् ।
रावणेर्हि विनाशेन जितमित्युपधारय ॥ ८ ॥
सुकृतं कृतं सुकर्तव्यं कृतं । कर्मणा युद्धकर्मणा ॥ ८ ॥
स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम् ।
लज्जमानं बलात्स्नेहादङ्कमारोप्य वीर्यवान् ॥ ९ ॥
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् ।
भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत ॥ १० ॥
स तमित्यादिश्लोकद्वयमेकान्वयं ॥ आरोग्य आरोपणायाकृष्य । अवपीडितं शल्यपीडितं । गाढं यथा भवति तथेति वा । क्रियाभेदात्तमिति द्विरुक्तिः ॥ ९-१० ॥
शल्यसंपीडितं शस्तं निश्श्वसन्तं तु लक्ष्मणम् ।
रामस्तु दुःखसंतप्तस्तदा निश्श्वसितो भृशम् ॥ ११ ॥
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् ।
उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ॥ १२ ॥
शल्यसंपीडितमित्यादिश्लोकद्वयमेकान्वयं ॥ शस्तं प्रहृतं । निश्वसितः स्वयंकृतनिश्वासः । त्वरन् संस्पृश्य । त्वरा च प्रहारव्यथापनयनायेति भावः ।। ११-१२ ॥
कृतं परमकल्याणं कर्म दुष्करकर्मणा ।
अद्य मन्ये हते पुत्रे रावणं निहतं युधि ।
अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ॥ १३ ॥
कृतमित्यादिसार्धश्लोकः ॥ दुष्करकर्मणा त्वयेति शेषः ।। १३ ।।
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे ।
छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः ॥ १४ ॥
व्यपाश्रयः आलम्बनं ।। १४ ।।
विभीषणहनुमद्भ्यां कृतं कर्म महद्रणे ।
अहोरात्रैस्त्रिभिर्वीरः कथंचिद्विनिपातितः ॥ १५ ॥
अहोरात्रैस्त्रिभिरिति । एकादशीद्वादशीत्रयोदशीभिरित्यर्थ: ॥ १५ ॥
निरमित्रः कृतोस्म्यद्य निर्यास्यति हि रावणः ।
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ।। १६ ।।
तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् ।
बलेनावृत्य महता निहनिष्यामि दुर्जयम् ॥ १७ ॥
निरमित्र इत्यादि श्लोकद्वयमेकान्वयं ॥ १६-१७ ॥
त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ।
न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे ॥ १८ ॥
नाथेन याचमानेन । नाथृयाच्ञायां इत्यस्मात्पचाद्यच् ॥ १८ ॥
स भ्रातरमाश्वास्य परिष्वज्य च राघवः ।
रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् ॥ १९ ॥
समाभाष्य आमन्त्र्य ॥ १९ ॥
सशल्योयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः ।
यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ॥ २० ॥
समुपाचर चिकित्सां कुरु ।। २० ।।
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ।
ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् ॥ २१ ॥
ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा ।
तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ॥ २२ ॥
विशल्य इति श्लोकद्वयमेकान्वयं ॥ ऋक्षवानरसैन्यानामिति निर्धारणे षष्ठी ॥ २१ – २२ ॥
एवमुक्तस्तु रामेण महात्मा हरियूथपः ।
लक्ष्मणाय ददौ नस्तः सुपेणः परमौषधिम् ॥ २३ ॥
नस्तः नासिकायां ॥ २३ ॥
स तस्या गन्धमाघ्राय विशल्यः समपद्यत ।
तथा निर्वेदनश्चैव संरूढव्रण एव च ॥ २४ ॥
विभीषणमुखानां च सुहृदां राघवाज्ञया ।
सर्ववानरमुख्यानां चिकित्सां स तदाऽकरोत् ॥ २५ ॥
ततः प्रकृतिमापनो हृतशल्यो गतव्यथः ।
सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ॥ २६ ॥
निर्वेदनः वेदनारहितः ॥ २४-२६ ॥
तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान् ।
अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे ॥ २७ ॥
अपूजयत्कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा ।
हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ॥ २८ ॥
मुदा युक्तमिति शेषः । मुदा युक्तं सौमित्रिमवेक्ष्य इति जहर्षिर इति संबन्धः । जहर्षिर इत्यत्र गुण आर्ष: ॥ २७ – २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥
इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने द्विनवतितमः सर्गः ॥ ९२ ॥