श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः
सीतयारामंप्रति स्वचारित्रशुद्धिप्रतिज्ञापूर्वकं लक्ष्मणप्रत्यग्निप्रवेशनिर्धारणो क्त्याऽग्निकुण्डनिर्माण चोदना ॥ १ ॥ ततोरामेङ्गिताभिज्ञलक्ष्मणनिर्मिताग्निकुण्डे सशपथंप्रवेशः ॥ २ ॥
एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।
राघवेण सरोषेण भृशं प्रव्यथिताऽभवत् ॥ १ ॥
अथ सीताग्निप्रवेशः – एवमुक्त्वा त्विति ॥ १ ॥
सा तदश्रुतपूर्वं हि जने महति मैथिली ।
श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताऽभवत् ॥ २ ॥
जने महति महाजनमध्ये लज्जया व्रीडिता । अतिनम्रमुखी बभूवेत्यर्थः ॥ २ ॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।
वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ ३ ॥
ततो बाप्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।
शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥ ४ ॥
गात्राणि प्रविशन्ती संकुचन्तीत्यर्थः ॥ ३–४ ॥
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।
रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ ५ ॥
असदृशं त्वया वक्तुं मया श्रोतुं चायोग्यं । रूक्षं परुषं । अतएव श्रोत्रदारुणं श्रवणकटु ॥ ५ ॥
न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि ।
प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ॥ ६ ॥
चारित्रेण ममेति शेषः । ते तुभ्यं । श्लाघह्रुङ्स्थाशपां – इति संप्रदानत्वं । सुकृतेन शपमाना त्वां शापं ज्ञापयामीत्यर्थः ॥ ६ ॥
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।
परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥ ७ ॥
स्त्रीमात्रसाधारण्येन नाहं द्रष्टव्येत्याह- पृथक्स्त्रीणामिति ।। पृथक्स्त्रीणां प्राकृतस्त्रीणां । प्रचारेण आचारेण हेतुना । सर्वामपि स्त्रीजातिं तथात्वेन शङ्कसे । अहं ते त्वया । यदि परीक्षिता ज्ञातस्वभावा तर्हिमां शङ्कां त्यज ।। ७ ।।
यद्यहं गात्रसंस्पर्शं गताऽस्मि विवशा प्रभो ।
कामकारो न मे तत्र दैवं तत्रापराध्यति ॥ ८ ॥
त्वयि ज्ञातस्वभावायामपि रावणाङ्गस्पर्शलक्षणो दोषस्त्यागहेतुरित्याशङ्क्याह- यद्यमित्यादि । यद्यपि अहं विवशा सती गात्रसंस्पर्शं गतास्मि तथापि तत्र मे कामकार: स्वेच्छाचरणं । नास्ति । तर्हि कस्यात्रापराध इत्यत्राह – दैवं तत्रेति ॥ ८ ॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।
पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ ९ ॥
मदधीनं परैर्ग्रहीतुमशक्यं । यद्धृदयं तत्तु तस्मिन्काले त्वयि वर्तते अवर्तत । पराधीनेषु परैर्ग्रहीतुं शक्येषु गात्रेषु विषये । अनीश्वरा अस्वतन्त्रा । अहं किं करिष्यामि किं कुर्यां ।। ९ ।।
सह संवृद्धभावाच्च संसर्गेण च मानद ।
यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ।। १० ।।
स्वभावपरिज्ञानहेतुभूतसहसंवर्धनसंसर्गावपि प्रत्ययं यदि नोत्पाद्यतः तर्हि न किमपि ते प्रत्ययमुत्पादयितुं शक्नुयादित्याशयेनाह- सह संवृद्धेति ॥ सह संवृद्धभावात् स्वभावपरिज्ञानहेतुना सह संवर्धनेन संसर्गेण संश्लेषेण च यद्यहं ते न विज्ञाता । ततः मत्स्वभावाज्ञानेन शाश्वतं अत्यर्थं । हतास्मि ॥ १० ॥
प्रेषितस्ते यदा वीरो हनुमानवलोककः ।
लङ्कास्थाऽहं त्वया वीर किं तदा न विसर्जिता ॥ ११ ॥
अवलोककः अवलोकितुं । अन्वेष्टुमिति यावत् । तुमुन्ण्लौ क्रियायां क्रियार्थायां इति ण्वुल्प्रत्ययः ॥ ११ ॥
प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् ।
त्वया संत्यक्तया वीर व्यक्तं स्याज्जीवितं मया ॥ १२ ॥
तदात्वे को विशेष इत्यत आह – प्रत्यक्षमिति ॥ १२ ॥
न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् ।
सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।। १३ ।।
स्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।
लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ १४ ॥
एवं कृते न केवलं ममैव व्यथाभावः तव त्वत्सुहृदां च जयार्थप्रयासोपि न स्यादित्याह – न वृथेति ॥ जीवितं संशये न्यस्य कृतोयं श्रम इत्यर्थः ॥ १३-१४ ॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।
मम वृत्तं च वृत्तज्ञ बहु तेन पुरस्कृतम् ।। १५ ।।
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ।। १६ ।।
एवं ब्रुवाणा रुदती बाप्पगद्गदभाषिणी ।
अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ १७ ॥
अपदेशेन जनकात् जनकमपदिश्येत्यर्थः ॥ १५-१७ ।।
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।
मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥ १८ ॥
मिथ्योपघातः मिथ्यापवादः ॥ १८ ॥
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।
या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ।। १९ ।।
गुणैरप्रीतस्य विद्यमानैः पातिव्रत्यादिगुणैरपि अप्रीतस्य भर्तुस्त्यक्ताया मे या गन्तुं क्षमा गतिः प्रत्ययजननार्थं या योग्या गतिः । तं हव्यवाहनं प्रवेक्ष्य इति योजना ॥ १९ ॥
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।
अमर्षवशमापन्नो राघवाननमैक्षत ॥ २० ॥
अमर्षवशं दैन्यवशं ॥ २० ॥
स विज्ञाय ततश्छन्दं रामस्याकासूरचितम् ।
चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ २१ ॥
[ न हि रामं तदा कश्चित्कालान्तकयमोपमम् ।
अनुनेतुमथो वक्तुं द्रष्टुं वाऽप्यशकत्सुहृत् ॥ २२ ॥ ]
आकार: भ्रूसंज्ञादिः । मते सिद्धान्ते । स्थित इति शेषः ॥ २१-२२ ।।
अघोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।
उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ २३ ॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ २४ ॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २५ ॥
अधोमुखमिति पतिव्रतायाः कथं निर्व्याजं प्रत्ययं पश्यामीति लज्जया मुखदर्शने दाक्षिण्यं भविष्यतीति बुद्ध्या चावनतमुखं । शनैः रामानुभवेन मन्दं यथा तथा ॥ २३-२५ ॥
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २६ ॥
कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।
राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ २७ ॥
यथा शुद्धचारित्रामेव मामन्यायेन दुष्टां जानाति । तथा चेत् अदुष्टां दुष्टेति जानाति चेत् । पावकः पातु । रामस्य मयि दोषज्ञानं यथार्थं चेत्पात्वित्यर्थः ॥ २६-२७ ॥
आदित्यो भगवान्वायुर्दिशश्चन्द्रस्तथैव च ।
अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा ॥
यथाऽन्येपि विजानन्ति तथा चारित्रसंयुताम् ॥ २८ ॥
आदित्य इत्यादिसार्धश्लोक एकान्वयः ॥ आदित्यादयोन्ये च यथा मां चारित्रसंयुतां विजानन्ति तथा मां पातु पावक इति संबन्धः ॥ २८ ॥
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।
विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ॥ २९ ॥
जनः स सुमहांस्स्रस्तो बालवृद्धसमाकुलः ।
ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ॥ ३० ॥
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ।
पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ॥ ३१ ॥
परिक्रम्य प्रदक्षिणीकृत्य । निःसङ्गेन शरीरे निरभिलाषेण । अन्तरालना मनसा । उपलक्षणे तृतीया ॥ २९-३१ ॥
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ।
सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ॥ ३२ ॥
आज्याहुतीमिवेत्यादिदृष्टान्तेन देव्याः परमपावनत्वं द्योत्यते ॥ ३२ ॥
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।
पतन्तीं संस्कृत मन्त्रैर्वसोर्धारामिवाध्वरे ॥ ३३ ॥
वसोर्धारां संततां घृतधारां । अनेनाग्न्युज्जृम्भणं गम्यते ।। ३३ ।।
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ।
शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ॥ ३४ ॥
देवाः स्वर्गवासिनः । गन्धंर्वा भूलोकवासिनः । दानवाः पातालवासिनः । सकलभोगार्हरूपवत्याः सीतायाः अनलप्रवेशस्थानत्वान्निरयपतनानर्हस्वर्गीयदेवतादृष्टान्तः ॥ ३४ ॥
तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः ।
रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥ ३५ ॥
अद्भुतोपमः अद्भुततुल्यः । रावणागमनमारभ्य एतावत्पर्यन्तं सीतायाः परमभागवतभूतलक्ष्मणापचारफलमुपपादितं । वस्तुतः सीताया रावणागमनकाले अग्नौ प्रविष्टत्वात्तस्याः पुनर्गमनार्थं मायासीताया रावणगृहीताया अग्नौ प्रवेश इत्यप्याहुः ॥ ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥