श्रीमद्रामायणे वाल्मीकी आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमः सर्गः
देवान्तकादिवधश्रवणेनविषीदतिदशानने तंप्रतीन्द्रजिता रामादिवधप्रतिज्ञानेनसमा -श्वासनपूर्वकं रथारोहणेनरणायनिर्याणम् ॥ १ ॥ तथा रणाङ्गणेहुतवहेहवनपूर्वकं रथारोहणेना -न्तरिक्षेऽन्तर्हितेनसता नानाप्रहरणगणैः कपिकुलशकलीकरणपूर्वकं ब्रह्मास्त्रप्रयोगेण सकलवानरवाहिन्यासहरामलक्ष्मणयोर्मोहप्रापणम् ॥ २ ॥
ततो हतान्राक्षसपुङ्गवांस्तान्देवान्त कादित्रिशिरोतिकायान् ।
रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ॥ १ ॥
अथ ब्रह्मास्त्रबन्धस्त्रिसप्ततितमे – ततो हतानित्यादि ॥ १ ॥
ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः ।
पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २ ॥
पूर्वं कुम्भकर्णादिवधः सामान्येन श्रुतः संप्रत्याप्तैः सविशेषं श्रुत इत्याह – तत इति । पूर्वोक्तसर्वानुवादो वा ॥ २ ॥
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे संपरिपुप्लुवानम् ।
रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ॥ ३ ॥
संपरिपुप्लुवानं । लट: शानजादेशः ॥ ३ ॥
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ।
[ तद्बाणनिर्भिन्नविकीर्णदेहा: प्राणैर्विमुक्ताः समरे पतन्ति । ]
नेन्द्रारिबाणाभिहतो हि कश्चित्प्राणान्समर्थः समरेऽभिपातुम् ॥ ४ ॥
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम् ।
गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ॥ ५ ॥
यत्र यदा । इन्द्रारिः इन्द्रजित् ।। ४-५ ।।
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् ।
अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ॥ ६ ॥
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः ।
द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥ ७ ॥
पौरुषदैवयुक्तां पुरुषबलदैवबलयुक्तां । सन्तर्पयिष्यामि पूरयिष्यामि ६-७ ।।
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्वः ।
समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥ ८ ॥
खरश्रेष्ठसमाधियुक्तं खरश्रेष्ठसंबन्धयुक्तं । खरश्रेष्ठैः समाधिना समाधानेन च युक्तमिति वा ॥ ८ ॥
तमास्थाय महातेजा रथं हरिरथोपमम् ।
जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥ ९ ॥
हरिरथः सूर्यरथः । यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु इत्यमरः । युद्धमिति । कर्तव्यमिति शेषः ॥ ९ ॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः ।
संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥ १० ॥
गजस्कन्धगताः केचित्केचित्प्रवरवाजजिभिः ।
[ व्याघ्रवृश्चिकमाजीरैः खरोष्ट्रैश्च भुजङ्गमैः ॥ ११ ॥
वराहश्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः ।
शशहंसमयूरैश्च राक्षसा भीमविक्रमाः ] ॥ १२ ॥
प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधरः ।
[ भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधः ] ॥ १३ ॥
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निस्वनैः ।
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥ १४ ॥
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः ।
रराज प्रतिपूर्णेन नभचन्द्रमसा यथा ॥ १५ ॥
तं प्रस्थितमित्यादिश्लोकद्वयमेकान्वयं ॥ १०-१५ ।।
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः ।
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ १६ ॥
[ स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् ।
राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् ] ॥ १७ ॥
त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः ।
किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम् ।
तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णान्महाशिषः ] ॥ १८ ॥
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ।
रराजाप्रतिवीरेण द्यौरिवार्केण भास्वता ॥ १९ ॥
हैमैः हेमदण्डैः । हेमविभूषितैः हेमशलाकायुक्तैः ॥ १६–१९ ॥
स संप्राप्य महातेजा युद्धभूमिमरिन्दमः ।
स्थापयामास रक्षांसि रथं प्रति समन्ततः ॥ २० ॥
रथं प्रति रथसिद्धिमुद्दिश्य ॥ २० ॥
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ।
जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ॥ २१ ॥
विधिवत् क्रमवत् ॥ २१ ॥
स हविर्लाजसंस्कारैर्माल्यगन्ध पुरस्कृतैः ।
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ॥ २२ ॥
हविर्लाजसंस्कारैः संस्कृतहविर्लाजैः ॥ २२ ॥
शस्त्राणि शरपत्राणि समिधोथ विभीतकाः ।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ २३ ॥
शस्त्राणि आयुधानि । शरपत्राणि काशपत्रस्थानीयानि । तानि परिस्तरणान्यासन्नित्यर्थ: । शरमयं बर्हिस्तृणातीत्यभिचारे काशश्चोदितः । अत्र त्वभिचारविशेषे तत्स्थाने शस्त्राणि कृतानीति बोध्यं । विभीतकाः कलिद्रुमविकाराः । वैभीतक इध्मः इति श्रुतेः । वासांसि स्वधार्याणि । यद्वा शस्त्राणि तोमरादीनि शरपत्राणि च । बर्हींष्यासन्निति शेषः । शरपत्रै: सतोमरैरित्यनुवादात् । कार्ष्णायसं स्रुवं । कृतमिति शेषः ॥ २३ ॥
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ २४ ॥
तत्र युद्धभूमौ । आस्तीर्य परिस्तीर्य ॥ २४ ॥
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ २५ ॥
सकृत्समिद्धस्य एकदा समिद्भिर्ज्वलितस्य । लिङ्गानि उक्तसकृत्समिद्धत्वविधूम -त्वमहार्चिष्ट्वानि । विजयं यान्यदर्शयन् । पूर्वमिति शेषः ॥ २५ ॥
प्रदक्षिणावर्तशिखस्तप्तकाश्चनभूषणः ।
हविस्तत्प्रतिजग्राह पावकः स्वयमास्थितः ॥ २६ ॥
प्रदक्षिणेति । प्रदक्षिण आवर्तो भ्रमिर्यासां ताः शिखा यस्येति विग्रहः । स्वयमास्थितः स्वयमास्थावान् । स्वयमुत्थित इति पाठे पुरुषरूपेणोत्थित इत्यर्थः ॥ २६ ॥
सोस्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा ।
धनुषात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ॥ २७ ॥
आहारयामास आजुहाव । अभ्यमन्त्रयत् अभिमन्त्रितवान् ।। २७ ।।
तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके ।
सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभस्स्थलम् ॥ २८ ॥
वितत्रास चचाल ॥ २८ ॥
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः ।
सचापबाणासिरथाश्वसूतः खेऽन्तर्दधेत्मानमचिन्त्यरूपः ॥ २९ ॥
ततो हयरथाकीर्णं पताकाध्वजशोभितम् ।
निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ।
[ अशोभत बलं घोरं किङ्किणीशतनादितम् ॥ ३० ॥
शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः ।
तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे ॥ ३१ ॥
आत्मानं अन्तर्दधे अन्तर्धापयामास । अन्तर्भावितव्यथोयं । खेऽन्तर्दघेत्मानमित्यत्र आर्षं पूर्वरूपत्वं । अचिन्त्यरूप: अचिन्त्यमन्त्रशक्तिः ॥ २९ – ३१ ॥
रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान् ।
हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥ ३२ ॥
रावणिस्त्विति ॥ उवाचेति शेषः ॥ ३२ ॥
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः ।
अभ्यवर्षस्ततो घोरान्वानराञ्शरवृष्टिभिः ॥ ३३ ॥
ततः तस्माद्रावणिवचनात् । द्वितीयस्ततःशब्दः पश्चाच्छब्दार्थः ॥ ३३ ॥
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि ।
रक्षोभिः संवृतः सङ्ख्ये वानरान्विचकर्त ह ॥ ३४ ॥
नालीक: विशालाग्रशरः । रक्षोभिः संवृतः रक्षोगणमध्यत उपरिस्थित इत्यर्थः । अन्यथा खेन्तर्दध इति पूर्वोक्तं विरुध्येत । विचकर्त हिंसितवान् ॥ ३४ ॥
ते वध्यमानाः समरे वानराः पादपायुधाः ।
अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ॥ ३५ ॥
इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः ।
वानराणां शरीराणि व्यधमद्रावणात्मजः ॥ ३६ ॥
शरेणैकेन च हरीन्नव पञ्च च सप्त च ।
चिच्छेद समरे क्रुद्धो राक्षसान्संप्रहर्षयन् ॥ ३७ ॥
स शरैः सूर्यसंकाशैः शातकुम्भविभूषितैः ।
वानरान्समरे वीरः प्रममाथ सुदुर्जयः ॥ ३८ ॥
रावणिं रावणिमुक्तायुधागमनप्रदेशं ।। ३५ – ३८ ॥
ते भिन्नगात्राः समरे वानराः शरपीडिताः ।
पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ॥ ३९ ॥
तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः ।
अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः ॥ ४० ॥
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः ।
व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥ ४१ ॥
मथितसंकल्पा: नाशितमनोरथाः ॥ ३९–४१ ॥
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः ।
नर्दन्तस्तेऽभिवृत्तास्तु समरे सशिलायुधाः ॥ ४२ ॥
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः ।
अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ॥ ४३ ॥
व्यक्तजीविता: त्यक्तजीवितेच्छाः । अभिवृत्ताः अभिमुखं प्रवृत्ताः । तुरवधारणे ॥ ४२ – ४३ ॥
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।
व्यपोहत महातेजा रावणिः समितिञ्जयः ॥ ४४ ॥
ततः पावकसंकाशैः शरैराशीविषोपमैः ।
वानराणामनीकानि बिभेद समरे प्रभुः ॥ ४५ ॥
व्यपोहत वारयामास ॥ ४४–४५ ॥
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम् ।
विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥ ४६ ॥
सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः ।
पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ॥ ४७ ॥
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च ।
सुग्रीवमृषभं चैव सोङ्गदं द्विविदं तथा ॥
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ॥ ४८ ॥
अष्टादशेत्यादिसार्धश्लोकत्रयमेकान्वयं ॥ दत्तवरैः वरदत्तैः ॥ ४६ – ४८ ॥
अन्यानपि तदा मुख्यान्वानरान्बहुभिः शरैः ।
अर्दयामास संक्रुद्धः कालाग्निरिव मूर्च्छितः ॥ ४९ ॥
स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ।
वानराणामनीकानि निर्ममन्थ महारणे ॥ ५० ॥
अन्यानिति ॥ मूर्च्छितः प्रवृद्धः ॥ ४९-५० ॥
आकुलां वानरीं सेनां शरजालेन मोहिताम् ।
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ॥ ५१ ॥
परया प्रीत्या हृष्टः उद्धतः ॥ ५१ ॥
पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ।
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम् ॥
ममर्द वानरानीकमिन्द्रजित्वरितो बली ॥ ५२ ॥
पुनरेवेत्यादिसार्धश्लोकमेकं वाक्यं ॥ खङ्गादीनि शस्त्राणि । अत्र द्वितीयबलिशब्दो वरदानबलवत्तावाचकः । प्रथमो वीर्यवत्तावाचकः ॥ ५२ ॥
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु ।
अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाऽम्बु ॥ ५३ ॥
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः ।
रणे निपेतुर्हरयोद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥ ५४ ॥
स्वसैन्यं स्वसैन्योपरिभागं ॥ ५३–५४ ॥
ते केवलं संददृशुः शिताग्रान्बाणान्रणे वानरवाहिनीषु ।
मायानिगूढं तु सुरेन्द्रशत्रुं ने चावृतं राक्षसमभ्यपश्यन् ॥ ५५ ॥
ततः स रक्षोधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताग्रैः ।
प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ॥ ५६ ॥
स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि ।
सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ।
[ गदाश्च शक्तीः परिघं शतघ्नीर्ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ] ॥ ५७ ॥
मायानिगूढं अतएव आवृतं अप्रकाशं ।। ५५-५७ ॥
ततो ज्वलनसंकाशैः शरैर्वानरयूथपाः ।
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥ ५८ ॥
तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् ।
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥ ५९ ॥
ततो ज्वलनेत्यादिश्लोकद्वयमेकान्वयं ॥ शरैः तीक्ष्णैरित्यर्थः ।। ५८-५९ ।।
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः ।
शेरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ।। ६० ।।
विविशुरन्योन्यं अन्योन्योपर्यालम्बनार्थं पेतुरित्यर्थः ॥ ६० ॥
हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम् ।
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ ६१ ॥
हनुमन्तमित्यादिचतु:-श्लोक्येकान्वया ॥ ६१ ।।
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ ।
केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥ ६२ ॥
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् ।
पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥ ६३ ॥
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः ।
विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः ॥ ६४ ॥
केसरिमित्यार्षं ॥ ६२ – ६४ ॥
स वै गदाभिर्हरियूथमुख्यान्निर्भिद्य बाणैस्तपनीयपुङ्खैः ।
ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥ ६५ ॥
गदाभिरित्येतत् पूर्वोक्तप्रासादीनामुपलक्षणं ॥ ६५ ॥
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य ।
समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ॥ ६६ ॥
बाणवर्षैः बाणनिरन्तरपातैः । अभिवर्ष्यमाणः अभितः पात्यमानः स रामः । तान् बाणवर्षान् । धारानिपातानिव लघूनचिन्त्य । बाणवर्षं तृणीकृत्येत्यर्थः । अत्र हेतुमाह – परमेति । अत्यन्ताश्चर्यकरधैर्य समृद्धिः सन् लक्ष्मणं समीक्षमाणः स्वस्वभावावलम्ब नेन ब्रह्मास्त्रप्रतिक्रियां कर्तुमुद्युक्तमिङ्गितैरभिवीक्षमाणः सन्नित्युवाच ॥ ६६ ॥
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ।
निपातयित्वा हरिसैन्यमुग्रमस्माञ्शरैरर्दयति प्रसक्तः ॥ ६७ ॥
असौ ब्रह्मास्त्रं ब्रह्मास्त्रमत्रं । आश्रित्य । प्रहरन्निति शेषः ।। ६७ ।।
स्वयम्भुवा दत्तवरो महात्मा खमास्थितोन्तर्हितभीमकायः ।
कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ ६८ ॥
नष्टदेह: अदृष्टदेहः । तत्र हेतुः –अन्तर्हितभीमकाय इति ॥ ६८ ॥
मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च योस्य ।
बाणावपातांस्त्वमिहाद्य धीमन्मया सहाव्यग्रमनाः सहस्व ॥ ६९ ।।
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः ।
एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ॥ ७० ॥
तर्हि तत्र प्रतिक्रिया कर्तव्येत्यत्राह – मन्य इति ।। स्वयम्भूः अचिन्त्यः अचिन्त्यप्रभाव इति मन्ये । तत्र हेतुमाह — यस्येति । एतदस्त्रं यस्य यद्देवताकं । यः अस्यास्त्रस्य प्रभवः उत्पत्तिकारणं । सोचिन्त्यः । तर्ह्यावाभ्यां किं कर्तव्यमित्यत्राह – बाणेति । धीमन् आपत्सु न चलितव्यमिति ज्ञानिन् ॥ ६९-७० ॥
आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ गतरोषहर्षौ ।
ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ॥ ७१ ॥
गतरोषहर्षौ मूर्च्छिताविति यावत् । अमरारिवासं लङ्कां । रणाग्रलक्ष्मीं विजयलक्ष्मीं । अग्रपदेन रणमूललक्ष्मीर्न ग्रहीतुं शक्येत्युच्यते । एतेन मूलघात: कर्तुं न शक्यत इत्युच्यते ॥ ७१ ॥
ततस्तु ताविन्द्रजिदस्रजालैर्बभूवतुस्तत्र तथा विशस्तौ ।
स चापि तौ तत्र विदर्शयित्वा ननाद हर्षायुधि राक्षसेन्द्रः ॥ ७२ ॥
स तत्तदा वानरसैन्यमेवं रामं च सङ्ख्ये सह लक्ष्मणेन ।
विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ॥ ७३ ॥
[ संस्तूयमानः स तु यातुधानैः पित्रे च सर्वं हृषितोऽभ्युवाच ॥ ] ७४ ॥
विशस्तौ पीडितौ । तौ पतितौ विदर्शयित्वा दृष्ट्वा ननाद ॥ ७२-७४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकी आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥