श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः
भ्रातृनिधनरुष्टे अतिकायेसेनामध्यप्रविष्टे तस्मिन्कुंभकर्णत्वभ्रमेण वानरेषुभयाद्विद्रव -माणेषु रामेण तद्रथायुधादिवर्णनपूर्वकं विभीषणंप्रति तत्स्वरूपप्रश्नः ॥ १ ॥ विभीषणेनरामंप्रति विस्तरेणतत्पराक्रमादिनिवेदनम् ॥ २ ॥ अतिकायेनरामंप्रति गर्वोक्त्यायुद्धप्रार्थने लक्ष्मणेन तत्प्रतिरोधनम् ॥ ३ ॥ ततस्तयोर्वीरवादपुरस्सरंसमारंभः ॥ ४ ॥ लक्ष्मणेनास्त्रप्रत्यस्त्रप्रयोग -पूर्वकं निशिततरशरगणप्रयोगेपि ब्रह्मवरादभेद्यकवचएवसत्यतिकाये अन्तरिक्षेऽन्तर्हितवायु -वचनाद्ब्रह्मास्त्रेण तच्छिरश्छेदनम् ॥ ५ ॥
स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् ।
भ्रातृश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १ ॥
पितृव्यौ चापि संदृश्य समरे संन्निषूदितौ ।
युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ॥ २ ॥
चुकोप च महातेजा ब्रह्मदत्तवरो युधि ।
अतिकायोद्रिसंकाशो देवदानवदर्पहा ॥ ३ ॥
स भास्करसहस्रस्य संघातमिव भास्वरम् ।
रथमा स्थाय शक्रारिरभिदुद्राव वानरान् ॥ ४ ॥
स्वबलमित्यादि । भ्रातरौ अन्योन्यं भ्रातरौ ॥ १-४ ॥
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः ।
नाम विश्रावयामास ननाद च महास्वनम् ॥ ५ ॥
तेन सिंहप्रणादेन नामविश्रावणेन च ।
ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६ ॥
मृष्टकुण्डलः शुद्धकुण्डलः ॥ ५-६ ।।
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयम्मुत्थितः ।
भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥ ७ ॥
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे ।
भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ॥ ८ ॥
तेऽतिकायं समासाद्य वानरा मूढचेतसः ।
शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ ९ ॥
ततोतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् ।
ददर्श धन्विनं दूरागर्जन्तं कालमेघवत् ॥ १० ॥
स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये ।
वानरान्सान्त्वयित्वाऽथ विभीषणमुवाच ह ॥ ११ ॥
माहात्म्यं महत्वं । उत्थित इत्यनन्तरमितिकरणं द्रष्टव्यं ।। ७-११ ।।
कोसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः ।
युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ १२ ॥
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः ।
अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ १३ ॥
हरिलोचनः सिंहदृष्टिः ॥ १२-१३ ॥
कालजिह्वाप्रकाशाभिर्य एषोतिविराजते ।
आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ १४
धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः ।
शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ॥ १५ ॥
क एष रक्षःशार्दूलो रणभूमिं विराजयन् ।
अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ॥ १६ ॥
रथशक्तीभिः रथस्थिताभिः शक्तिभिः ।। १४ – १६ ॥
ध्वज शृङ्गप्रतिष्ठेन राहुणाभिविराजते ।
सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ॥ १७ ॥
ध्वजशृङ्गप्रतिष्ठेनेति ॥ अनेन राहुध्वजोयमित्युक्तं ॥ १७ ॥
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् ।
शतक्रतुधनुःप्रख्यं धनुश्वास्य विराजते ॥ १८ ॥
त्रिणतं त्रिषुआद्यन्तयोर्मध्ये च नतं । मेघनिदं मेघतुल्यज्यास्वनं । हेमपृष्ठं हेमलिप्तपार्श्वमित्यर्थः । धनु: रथस्थेभ्य: अन्यत् करधृतमिदं ॥ १८ ॥
सध्वजः सपताकश्च सानुकर्षो महारथः ।
चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ।। १९ ।।
ध्वजः असाधारणकेतनं । पताका साधारणी । अनुकर्ष: रथाध:- स्थदारु । चतुःसादिसमायुक्त: चतुःसारथियुक्तः ॥ १९ ॥
विंशतिर्दश चाष्टौ च तूण्योस्य रथमास्थिताः ।
कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ २० ॥
कार्मुकाणि धनुर्भेदा इति न पौनरुत्यं ॥ २० ॥
द्वौ च खड्नौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ ।
चतुर्हस्तत्सेरुयुतौ व्यक्तहस्तदशायतौ ॥ २१ ॥
पार्श्वशोभितौ पार्श्वाभ्यां शोभितौ । चतुर्हस्तत्सरुयुतौ चतुर्हस्तप्रमाणत्सरुयुक्तौ । त्सरुः खङ्गादिमुष्टौ स्यात् इत्यमरः । व्यक्तहस्तदशायतौ व्यक्तौ च तौ हस्तदशायतौ चेति तथा ॥ २१ ॥
रक्तकण्ठगुणो धीरो महापर्वतसन्निभः ।
कालः कालमहावक्रो मेघस्थ इव भास्करः ॥ २२ ॥
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते ।
शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ २३ ॥
कुण्डलाभ्यां तु यस्यैतद्भाति वक्रं शुभेक्षणम् ।
पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ॥ २४ ॥
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् ।
यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥२५॥
स पृष्टो राजपुत्रेण रामेणामिततेजसा ।
आचचक्षे महातेजा राघवाय विभीषणः ॥ २६ ॥
दशग्रीवो महातेजा राजा वैश्रवणानुजः ।
भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥ २७ ॥
रक्तकण्ठगुण: रक्तकण्ठमाल्यः । कालमहावक्र: कालस्येव महावक्रं यस्य स तथोक्तः । काल इव महाव्र इति वा ॥ २२–२७ ॥
तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे ।
वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥ २८ ॥
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे ।
भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥ २९ ॥
यस्य बाहू समाश्रित्य लङ्का वसति निर्भया ।
तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ ३० ॥
एतेनाराधितो ब्रह्मा तपसा भावितात्मना ।
अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ ३१ ॥
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयंभुवा ।
एतच्च कवचं दिव्यं रथश्चैषोर्कभास्वरः ॥ ३२ ॥
एतेन शतशो देवा दानवाश्च पराजिताः ।
रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ॥ ३३ ॥
तस्येत्यादिश्लोकद्वयं ॥ नये युक्तौ । मन्त्रे विचारे २८-३३
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः ।
पाशः सलिलराजस्य रणे प्रतिहतस्तथा ॥ ३४ ॥
एषोतिकायो बलवान्राक्षसानामथर्षभः ।
रावणस्य सुतो धीमान्देवदानवदर्पहा ॥ ३५ ॥
वज्रमित्यादिश्लोकद्वयं ॥ विष्टम्भितं निश्चलीकृतं । राक्षसानामथर्षभ इत्यत्राथशब्दः कात्स्न्र्ये ॥ ३४-३५ ॥
तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव ।
पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ ३६ ॥
ततोतिकायो बलवान्प्रविश्य हरिवाहिनीम् ।
विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ ३७ ॥
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् ।
अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥ ३८ ॥
पुरा नयति नेष्यतीत्यर्थः ।। ३६-३८ ।।
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च ।
पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् ॥ ३९ ॥
तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः ।
अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ ४० ॥
समभिद्रवन् । आगमशासनस्यानित्यत्वादडभावः ॥ ३९-४० ॥
तांश्चैव सर्वान्स हरीञ्शरैः सर्वायसैर्बली ।
विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥ ४१ ॥
तेऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः ।
न शेकुरतिकायस्य प्रतिकर्तु महारणे ॥ ४२ ॥
अभिमुखः स्थित इति शेषः ॥ ४१-४२ ।।
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः ।
मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥ ४३ ॥
हरिः सिंहः ॥ ४३ ॥
स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कंचित् ।
उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ ४४ ॥
कलापी तूणीरवान् । कलापो भूषणे बर्हे तूणीरे संहतावपि इत्यमरः । सगर्वितं सगर्वं ॥ ४४ ॥
रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामि ।
यश्वास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ॥ ४५ ॥
व्यवसाय: उत्साहः ॥ ४५ ॥
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता ।
अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ ४६ ॥
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् ।
पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ ४७ ॥
स्मयित्वा अनादृत्य । ष्मिङ् अनादरे इति धातुः ॥ ४६-४७ ॥
पूरयन्स महीं शैलानाकाशं सागरं दिशः ।
ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् ॥ ४८ ॥
त्रासयन् अभूदिति शेषः ॥ ४८ ॥
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा ।
विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ ४९ ॥
अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् ।
आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ ५० ॥
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः ।
गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ ५१ ॥
न हि मद्बासहुसृष्टानामस्त्राणां हिमवानपि ।
सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ ५२ ॥
प्रतिभयं । भयंकरं प्रतिभयं इत्यमरः । ४९-५२ ।।
सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि ।
न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मङ्गतः ॥ ५३ ॥
निबोधयितुं ज्वलयितुं । मा जहि मा हिंसीः । हन्तेर्ज: इति जादेशः । मद्गतः मां प्राप्तः ॥ ५३ ॥
अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि ।
तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥ ५४ ॥
प्रतिष्टब्धः प्रतिमुखं स्थितः ॥ ५४ ॥
पश्य मे निशितान्बाणानरिदर्पनिषूदनान् ।
ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ॥ ५५ ॥
एष ते सर्पसंकाशो बाणः पास्यति शोणितम् ।
मृगराज इव क्रुद्धो नागराजस्य शोणितम् ।
इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे ॥ ५६ ॥
श्रुत्वाऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः ।
स संचुकोपातिवलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ।। ५७ ।।
ईश्वरायुधं त्रिशूलं ।। ५५ -५७ ।।
न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति ।
मयि स्थिते धन्विनि बाणपाणौ निदर्शय स्वात्मबलं दुरात्मन् ॥ ५८ ।।
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ।
पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ ५९ ॥
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः ।
शरैर्वा यदि वाऽप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ ६० ॥
कत्थनात् आत्मश्लाघनात् । सत्पुरुषाः शूरपुरुषाः ।। ५८- ६० ॥
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ।
मारुतः कालसंपक्वं वृन्तात्तालफलं यथा ॥ ६१ ॥
वृन्तात् प्रसवबन्धनात् । वृन्तं प्रसवबन्धनं इत्यमरः ॥ ६१ ॥
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः ।
पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ।। ६२ ।
बालोऽयमिति विज्ञाय न माऽवज्ञातुमर्हसि ॥ ६३ ॥
बाणशल्यान्तरोत्थितमिति । बाणशल्यान्तराणि बाणशल्यकृतान्यन्तराणि ॥ ६२ – ६३ ॥
बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ।
बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिभिः क्रमैः ॥ ६४ ॥
लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ।
अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६५ ॥
ततो विद्याधरा भूता देवा दैत्या महर्षयः ।
गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमन् ॥ ६६ ॥
मृत्युं जानीहि । मामिति शेषः ॥ ६४–६६ ॥
ततोतिकायः कुपितश्चापमारोप्य सायकम् ।
लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम् ॥ ६७ ॥
तमापतन्तं निशितं शरमाशीविषोपमम् ।
अर्धचन्द्रेण चिच्छेदं लक्ष्मणः परवीरहा ॥ ६८ ॥
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् ।
अतिकायो भृशं क्रुद्धः पञ्च बाणान्समाददे ॥ ६९ ॥
ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः ।
तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः ॥ ७० ॥
[ पञ्चभिः पञ्च चिच्छेद पावकार्कसमप्रभैः ॥ ]
स ताञ्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा ।
आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ ७१ ॥
तमादाय धनुःश्रेष्ठे योजयामास लक्ष्मणः ।
विचकर्ष च वेगेन विससर्ज च वीर्यवान् ॥ ७२ ॥
सायकं चापमारोप्य बाणं धनुषि संधायेत्यर्थः । संक्षिपन्निव बाणवेगेनान्तरावस्थितमाकाशं प्रसन्निवेत्यर्थः ॥ ६७–७२ ॥
पूर्णायतविसृष्टेन शरेण नतपर्वणा ।
ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ ७३ ॥
पूर्णायतेन पूर्णाकृष्टेन । विसृष्टेन क्षिप्तेन । नतपर्वणा निलीनपर्वणा । ऋजुनेति यावत् ॥ ७३ ॥
स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः ।
ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ ७४ ॥
अक्तः लिप्तः ॥ ७४ ।।
राक्षसः प्रचकम्पे च लक्ष्मणेषुप्रपीडितः ।
रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ ७५ ॥
त्रिपुरगोपुरं त्रिपुरद्वारं ॥ ७५ ॥
चिन्तयामास चाश्वास्य विमृश्य च महाबलः ।
साधु बाणनिपातेन श्लाघनीयोसि मे रिपुः ॥ ७६ ॥
विधायैवं विनम्यास्यं नियम्य च भुजावुभौ ।
स रथोपस्थमास्थाय रथे च प्रचचार ह ॥ ७७ ॥
चिन्तयामासेत्यादिश्लोकद्वयमेकान्वयं ॥ विमृश्य करणीयं निर्धार्य । बाणनिपातेन मे साधु श्लाघनीयो रिपुरसीति । एवं लक्ष्मणं विधाय अभिधाय । आस्यं विनम्य भुजौ नियम्य वशे स्थापयित्वा । रथोपस्थमास्थाय रथेन प्रचचार हेति संबन्धः ॥ ७६-७७ ।।
एकं त्रीन्पश्च सप्तेति सायकान्राक्षसर्षभः ।
आददे संदधे चापि विचकर्षोत्ससर्ज च ॥ ७८ ॥
ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः ।
हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ ७९ ॥
ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्राघवानुजः ।
असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ ८० ॥
ताञ्शरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजः ।
चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ ८१ ॥
स संधाय महातेजास्तं बाणं सहसोत्सृजत् ।
ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ८२ ॥
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ।
सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ ८३ ॥
इति उक्तप्रकारेण ॥ ७८-८३ ।।
स चकार तदाऽऽत्मानं विशल्यं सहसा विभुः ।
जग्राह च शरं तीक्ष्णमस्त्रेणापि च संदधे ।। ८४ ।।
अस्त्रेण अस्त्रमन्त्रेण । संधे योजयामास ॥ ८४ ॥
आग्नेयेन तदाऽऽस्त्रेण योजयामास सायकम् ।
स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ ८५ ॥
आग्नेयेनेत्यादि । पूर्वोक् तस्यैव विवरणं ॥ ८५ ॥
अतिकायोपि तेजस्वी सौरमस्त्रं समादधे ।
तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥ ८६ ।।
समाधे अनुसंधे ॥ ८६ ॥
तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम् ।
अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ८७ ॥
आग्नेयेनाभिसंयुक्तं दृष्ट्वा वाणं निशाचरः ।
उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ।। ८८ ।।
तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः ।
तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ ॥ ८९ ॥
आहितं संहितं ॥ ८७-८९ ॥
तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले ।
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ ।
[ तावुभौ दीप्यमानौ स नभ्राजेते महीतले ] ॥ ९० ॥
ततोतिकायः संक्रुर्द्धस्त्वस्त्रमैषीकमुत्सृजत् ।
तत्प्रचिच्छेद सौमित्रिरस्त्रेणैन्द्रेण वीर्यवान् ॥ ९१ ॥
ऐषीकं निहतं दृष्ट्वा रुषितो रावणात्मजः ।
याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ।। ९२ ॥
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः ।
वायव्येन तदस्त्रेण निजघान स लक्ष्मणः ॥ ९३ ॥
अथैनं शरधाराभिर्धाराभिरिव तोयदः ।
अभ्यवर्षत्सुसंक्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ९४ ॥
तेऽतिकायं समासाद्य कवचे वज्रभूषिते ।
भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ ९५ ॥
तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा ।
अभ्यवर्षन्महेषूणां सहस्रेण महायशाः ॥ ९६ ॥
स वृष्यमाणो बाणौघैरतिकायो महाबलः ।
अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे ॥ ९७ ॥
[ शंरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् ।
स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ॥
मुहूर्तमात्रं निस्संज्ञो ह्यभवच्छत्रुतापनः ॥ ९८ ॥
ततः संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः ।
निजघान हयान्संख्ये सारथिं च महाबलः ।। ९९ ।।
ध्वजस्योन्मथनं कृत्वा शरवर्षैररिंदमः ।
असंभ्रान्तः स सौमित्रिस्ताञ्शरानभिलक्षितान् ।
मुमोच लक्ष्मणो बाणान्वधार्थं तस्य रक्षसः ] ॥ १०० ।।
न शशाक रुजं कर्तुं युधि तस्य शरोत्तमः ॥ १०१ ॥
अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ।
ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः ।। १०२ ।।
ब्राह्मेणास्त्रेण भिन्ध्येनमेष बध्यो हि नान्यथा ।
अवध्य एष ह्यन्येषास्मत्राणां कवची बली ॥ १०३ ॥
भस्मकृतौ भस्मतया कृतौ ।। ९०–१०३ ।।
ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः ।
समाददे बाणममोघवेगं तद्बाह्ममस्रं सहसा नियोज्य ।। १०४ ।।
ब्राह्ममस्रं ब्रह्मास्त्रमन्त्रं । नियोज्य जपित्वेति यावत् ॥ १०४ ।।
तस्मिन्महास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिवाग्रे ।
दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास चचाल चोर्वी ॥ १०५ ॥
दिशश्चेत्यादौ तत्रसुरिति विपरिणम्यानुषज्यते ॥ १०५ ॥
तं ब्रह्मणोस्त्रेण नियोज्य चापे शरं सुपुंखं यमदूतकल्पम् ।
सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ।। १०६ ।।
तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम् ।
सुवर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ।। १०७ ।।
तं प्रेक्षमाणः सहसाऽतिकायो जघान बाणैर्निशितैरनेकैः ।
स सायकस्तस्य सुपर्णवेगस्तदाऽऽतिकायस्य जगाम पार्श्वम् ।। १०८ ।।
नियोज्य जपित्वा । तस्य यमदूतकल्पमित्यन्वयः ॥ १०६-१०८ ।।
तमागतं प्रेक्ष्य तदाऽऽतिकायो बाणं प्रदीप्तान्तककालकल्पम् ।
जघान शक्त्यृष्टिगदाकुठारैः शूलैहुलैश्चात्य विपन्नचेताः ।। १०९ ॥
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः ।
प्रगृह्य तस्यैव किरीटजुष्टं ततोतिकायस्य शिरो जहार ।। ११० ।।
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् ।
पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ १११ ॥
तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम् ।
बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ ११२ ॥
हुलैः द्विफलपत्राग्रायुधविशेषैः । हुलं द्विफलपत्राग्रं इति वैजयन्ती ॥ १०९ – ११२ ।।
ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः ।
विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥ ११३ ॥
विस्वरैः विस्वररूपैः ॥ ११३ ।।
ततस्ते त्वरितं याता निरपेक्षा निशाचराः ।
पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ ११४ ॥
निरपेक्षाः युद्धानपेक्षाः ॥ ११४ ।।
प्रहर्षयुक्ता बहवस्तु वानराः प्रबुद्धपद्मप्रतिमाननास्तदा ।
अपूजयँलक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ ११५ ॥
[ अतिबलमतिकायमअकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः ।
त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम ] ॥ ११६ ॥
प्रबुद्धेत्यत्र प्रसन्नत्वे तात्पर्यं । इष्टस्य जयस्य भागः प्राप्तिः सोऽस्यास्तीतीष्टभागी तं ॥ ११५ – ११६ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ ७१ ।।