श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनाशीतितमः सर्गः
राममकराक्षयोर्वीरवादपुरस्सरंसमरारंभः ॥ १ ॥ रामेणमकराक्षक्षपणम् ॥ २ ॥
निर्गतं मकराक्षं ते दृष्ट्वा वानरयूथपाः ।
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ १ ॥
ततः प्रवृत्तं सुमहत्तद्युद्धं रोमहर्षणम् ।
निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥ २ ॥
वृक्षशूलनिपातैश्च शिलापरिघपातनैः ।
अन्योन्यं मर्दयन्ति स्स तदा कपिनिशाचराः ॥ ३ ॥
अथ मकराक्षवध एकोनाशीतौ – निर्गतमिति ॥ १–३ ।।
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः ।
पट्टिशैर्भिन्दिपालैश्च बाणपातैः समन्ततः ।। ४ ।।
पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा ।
कदनं कपिवीराणां चक्रुस्ते रजनीचराः ॥ ५॥
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः ।
संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥ ६ ॥
शक्तीत्यादिश्लोकद्वयमेकान्वयं ॥ निखातैः आयुधविशेषैः । निर्घातैरिति पाठे अशनिभिरित्यर्थः । केचिन्निशाचराः शक्तिखङ्गादिभिः अपरे रजनीचराः पाशमुद्गरादिभिश्च कदनं चक्रुरिति योजना ॥ ४ – ६ ॥
तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वलीमुखान् ।
नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ॥ ७ ॥
विद्रवत्सु तदा तेषु वानरेषु समन्ततः ।
रामस्तान्वारयामास शरवर्षेण राक्षसान् ॥ ८ ॥
वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः ।
क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ॥ ९ ॥
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते ।
त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः ॥ १० ॥
राक्षसा जितकाशिन इति भिन्नं वाक्यं । जितं जयः तेन काशन्त इति तथोक्ता जितकाशिनः । बभूवुरिति शेषः । अन्यथा द्वितीयराक्षसपदवैयर्थ्यं स्यात् ।। ७-१० ॥
यत्तदा दण्डकारण्ये पितरं हतवान्मम ।
मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषोभिवर्धते ॥ ११ ॥
स्वकर्मस्थं वधकर्मस्थं । यथा पिता हतस्तथा वध्यमित्यर्थः । यद्वा क्षात्रधर्मकर्मानुतिष्ठन्तमित्यर्थः । स्वकर्मस्थमिति सुतरामकृत्यनिरतमिति वार्थः ॥ ११ ॥
दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव ।
यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने ॥ १२ ॥
दिष्ट्याऽसि दर्शनं राम मम त्वं प्राप्तवानिह ।
काङ्क्षितोसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥ १३ ॥
अद्य मद्बाणवेगेन प्रेतराङ्विषयं गतः ।
ये त्वया निहता वीराः सह तैश्च समेष्यसि ॥ १४ ॥
बहुनाऽत्र किमुक्तेन शृणु राम वचो मम ।
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥ १५ ॥
तस्मिन्काले महावने यद्यस्मान्न दृष्टोसि तस्मान्ममाङ्गानि दह्यन्ते । तदानीमेव दृष्टश्चेत्प्रतीकारेण तापः शाम्येदित्यर्थः ॥ १२-१५ ।। ॥
अस्त्रैर्वा गदया वाऽपि बाहुभ्यां वा महाहवे ।
अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ॥ १६ ॥
महाहवे निमित्ते । येन वा अन्येनायुधेनाभ्यस्तं तेनैव युधि वर्ततां । भवानिति शेषः ॥ १६ ॥
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः ।
अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ।। १७ ।।
उत्तरोत्तरवादिनं । बहुप्रलापिनमित्यर्थः ॥ १७ ॥
कत्थसे किं वृथा रक्षो बहून्यसहशानि तु ।
न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥ १८ ॥
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः ।
त्रिशिरा दूषणश्चैव दण्डके निहता मया ॥ १९ ॥
युद्धेन विना प्रहारेण विना ॥ १८-१९ ।।
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः ।
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ॥ २० ॥
[रुधिरार्द्रमुखा हृष्टा रक्तपक्षाण्डजाश्च ये ।
खे गता वसुधायां च भ्रमिष्यन्ति समन्ततः] ॥ २१ ॥
राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः ।
बाणौघानमुचत्तस्मै राघवाय रणाजिरे ॥ २२ ॥
ताञ्शराशरवर्षेण रामश्चिच्छेद नैकधा ।
निपेतुर्भुवि ते च्छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ २३ ॥
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा ।
रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च ॥ २४ ॥
स्वाशिताः सुष्ठु आशितवन्तः ॥ २०-२४ ॥
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा ।
धनुर्मुक्तः खनोत्कृष्टः श्रूयते च रणाजिरे ॥ २५ ॥
देवदानवगन्धर्वाः किन्नराश्च महोरगाः ।
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ २६ ॥
ज्यातलयोः शब्दः ज्यातलयो: संघर्षजः शब्दः । स्वनोत्कृष्टः स्वनेषूत्कृष्टः ॥ २५–२६ ॥
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम् ।
कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ॥ २७ ॥
राममुक्तांस्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे ।
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥२८॥
बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा ।
संछन्ना वसुधा चैव समन्तान्न प्रकाशते ॥ २९ ॥
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः ।
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ॥ ३० ॥
विद्धं वेधनं । वर्धते अवर्धत । कृतप्रतिकृतान्योन्यं कृतस्य प्रतिकृतं ययोस्तौ तादृशावन्योन्यं यस्मिन्युद्धकर्मणि तत्तथोक्तं । कुरुतां अकुरुतां । युद्धमिति शेषः ॥ २७ – ३० ॥
भित्वा शरै रथं रामो रथाश्वान्समपातयत् ।
विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः ॥ ३१ ॥
वसुधां तिष्ठत् वसुधायामतिष्ठत् ॥ ३१ ॥
तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना ।
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥ ३२ ॥
[ दुरवापं महच्छूलं रुद्रदत्तं भयंकरम् ।
जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम् ।
यं दृष्ट्वा देवताः सर्वा भयार्ता विद्रुता दिशः ] ॥ ३३ ॥
विभ्राम्य तु महच्छूलं प्रज्वलतं निशाचरः ।
स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे ॥ ३४ ॥
तमापतन्तं ज्वलितं खरपुत्रकराच्युतम् ।
बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ॥ ३५ ॥
स च्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः ।
व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ॥ ३६ ॥
वसुधां वसुधायां ॥ ३२-३६ ॥
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
साधु साध्विति भूतानि व्याहरन्ति नभोगता ॥ ३७ ॥
तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः ।
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३८ ॥
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः ।
पावकास्त्रं ततो रामः सन्दधे तु शरासने ॥ ३९ ॥
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे ।
संछिन्नहृदयं तत्र पपात च ममार च ॥ ४० ॥
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् ।
लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ॥ ४१ ॥
तच्छूलमिति । नभोगता नभोगतानि । सुपां सुलुक् — इत्यादिना आकारादेशः ।। ३७ –४१ ॥
दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम् ।
ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ॥ ४२ ॥
गिरिमिव वज्रहतं यथेति । द्वे अप्यव्ययपदे संभूयैकार्थमेवाचक्षाते । पक्षद्वयेपि मकराक्षवधेन दशममहः समाप्तं ॥ ४२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनाशीतितमः सर्गः ॥ ७९ ॥