श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशः सर्गः
तीर्णार्णवेनरामेण लक्ष्मणंप्रति घोरतरसमरसूचकोत्पातप्रदर्शन पूर्वकमुत्साहेन सेनयाविभीषण सुग्रीवादिभिस्सहलङ्कांप्रति प्रस्थानम् ॥ १ ॥
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।सौमित्रं सम्परिष्वज्य इदं वचनमब्रवीत् ॥ १ ॥
एवं रामो नलसेतुना तीर्णमहार्णवो महासमरसूचकान्महोत्पातान्दृष्ट्वा चिरप्रार्थिताभीष्टसिद्धिर्भविष्यतीति सन्तुष्टो दृष्टानि निमित्तानि निमित्तज्ञाय लक्ष्मणाय दर्शयति — निमित्तानीति निमित्तज्ञत्वे लक्ष्मणादप्याधिक्यं दर्शयितुं लक्ष्मणपूर्वज इत्युक्तं । संपरिष्वङ्गश्चिरप्रार्थितसमरस्यासन्नत्वात् । निमित्तापेक्षणस्यावश्यकत्वमुक्तं कामन्दके – निमित्तान्येव शंसन्ति शुभाशुभफलोदयम् । तस्मादेतानि शास्त्रज्ञो राजा समुपलक्षयेत् इति ॥ १ ॥
परिगृह्योदकं शीतं वनानि फलवन्ति च ।बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ २॥
शीतमुदकं शीतोदकवत्प्रदेशं । वनानि जलसमीपस्थानि । परिगृह्य वासार्थं स्वीकृत्य । व्यूह्य गरुडरूपेण सन्निवेश्य । तथा व्यक्तीभविष्यति ॥ २ ॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् ।प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ ३ ॥
लोकक्षयकरं । क्षुद्रजनक्षयकरं । विशिष्य प्रवीराणां निबर्हणं विनाशकं । भयमिति युद्धमुच्यते ॥ ३ ॥
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः ॥ ४ ॥
भयदर्शने लिङ्गान्याह-वाता इत्यादि महीरुहा: पतन्ति अकस्मादितिभावः । अत्रात्यन्तानिष्टकरो भूकम्प: संध्याकालिक इतिज्ञेयं । तथोक्तं वसिष्टेन – यामत्रयाच्च भूकम्पो द्विजातीनामरिष्टदः । अरिष्टदः क्षितीशानां संध्ययोरुभयोरपि इति ॥ ४ ॥
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः ।क्रूराः क्रूरं प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥ ५ ॥
क्रव्यादसंकाशा: वृकवर्णाः श्येनादिसंस्थाना इति वा । परुषाः दुर्दर्शा: । रूक्षा इति यावत् परुषस्वना: श्रुतिकटुस्वनाः । अतएव क्रूराः भयंकरा: । मिश्रं उदकमिति शेषः । क्रूरमिति क्रियाविशेषणं । अत्र मिहिर: – दिव्युल्कापतनं चैव दिवा नक्षत्रदर्शनम् । दिवाऽशनिस्तथा काष्ठतृणरक्तप्रवर्षणं ॥ ५ ॥
रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥ ६ ॥
रक्तचन्दनं कुङ्कुमं । रक्तचन्दनतुल्यमेघवतीत्यर्थः । परमदारुणा भवतीति शेषः । अग्निमण्डलं अग्निपिण्डः ॥ ६ ॥
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥ ७ ॥
दीनाः दीनाकृतयः । जनयन्तः सूचयन्तः ॥ ७ ॥ रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः ।। ८ ।।
रजन्यामिति अर्धमेकं वाक्यं । अप्रकाशः निष्प्रभः । संतापयति । शीतस्य संतापकरणं ह्युत्पात इति भावः ॥ ८ ॥
कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ।ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ।। ९ ॥
कृष्णा रक्तांश्चाशव: पर्यन्ते यस्य सः तथोक्तः । सर्वान्ते कृष्णमण्डल: तदनन्तरं रक्तमण्डल इत्यर्थः । सुलोहितः मध्ये । अत्यन्तरक्तवर्ण: । लोकक्षये प्रलये उदितः परिवेष इव स्थितः । रूक्षः क्रूरः । अप्रशस्तः अप्रसिद्धः । इतः पूर्वमदृष्ट इत्यर्थः । परिवेष: दृश्यत इति शेषः । अत्र वर्णत्रयकथनेन मण्डलत्रयकथनात्सायंकालिकत्वाच्च परिवेषस्य नृपक्षयकरत्वं सूच्यते । तथाहकाश्यप: द्विमण्डलश्चमूपघ्नो नृपन्नो यस्त्रिमण्डलः इति । दिनकरपरिवेषः पूर्वयामे तु पीडा दिनकरपरिवेषो वृष्टियुद्धं द्वितीये । दिनकरपरिवेषं क्षेममाहुस्तृतीये दिनकरपरिवेषः सर्वनाशञ्चतुर्थे इति ॥ ९ ॥
आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ।। १० ।।
नीलं लक्ष्म छिद्ररूपं । तदाह वराह:- अपर्वणि तथा राहुग्रहणं चन्द्रसूर्ययोः । चन्द्रार्कमण्डलच्छिद्रं दृष्ट्वा जनपक्षयः इति ॥ यद्वा नीलं लक्ष्म चन्द्र इव कलको दृश्यते । एतदेवौत्पातिकं नैल्यमधिकृत्य यदादित्यस्य रोहितं रूपमित्यारभ्य यत् कृष्णं तदन्नस्येत्युच्यते ॥ १० ॥
रजसा महता चापि नक्षत्राणि हतानि च ।युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ।। ११ ।।
रजसा मालिन्येन । युगान्तं प्रलयं ॥ ११ ॥
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ।। १२ ॥
नीचैः दुर्बलै: । अधिकबलानां दुर्बलै: परिभवोऽप्युत्पात इति । शिवाः गोमायवः । स्त्रियां शिवा भूरिमायगोमायुः इत्यमरः । नादान् नदन्ति नादान्कुर्वन्तीत्यर्थः ॥ १२ ॥
शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥ १३ ॥
उक्तोत्पातफलमाह – शैलैरिति ॥ मांसशोणितकर्दमा मांसशोणितरूपकर्दमवती ॥ १३ ॥
क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम् ।अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ १४ ॥
क्षिप्रं सत्वरं । जवेन वेगेन ॥ १४ ॥
इत्येवमुक्त्वा धर्मात्मा धन्वी संग्रामधर्षणः ।प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥ १५ ॥
पुरतः प्रतस्थ इति उत्साहातिशयोक्तिः । विभुः समर्थः ॥ १५ ॥
सविभीषणसुग्रीवास्ततस्ते वानरर्षभाः ।प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषतां वधे ॥ १६ ॥
निश्चिताः निश्चयवन्तः । अत्र प्रस्थानं शीतोदकफलवद्वनपरिग्रहार्थं परिगृह्योदकमित्यादिना प्रथमं तस्य कर्तव्यतया अभिहितत्वात् ॥ १६ ॥
राघवस्य प्रियार्थम् तु धृतानां वीर्यशालिनाम् ।हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥ १७ ।।
धृतानां धैर्यवतां । कर्मचेष्टाभिः युद्धकर्मादिविषयचेष्टाभि: लाङ्गलोत्थापनादिभिः । तुतोषेत्यनेन इदं दुर्गप्रदेशं दृष्ट्वा वानरा निरुत्साहा भवेयुरिति पूर्वं राममनसि स्थितमित्यवगम्यते ॥ १७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशः सर्गः ।। २३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥